तत्वसङ्ख्यानम्
[[लेखकः :|]]

श्रीः
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु
दशप्रकरणेषु
षष्ठं तत्व सङ्ख्यानम्
श्रीजयतीर्थभिक्षुविरचितया टीकया समलङ्कृतम्
<मङ्गालाचरणम्>
टीका
लक्ष्मीपतेः पदाम्भोजयुगं नत्वा गुरोरपि।
करिष्ये तत्वसङ्ख्यानव्याख्यानं नातिविस्तरम् ।। 1 ।।
ग्रन्थादौ देवतागुरुनतिरूपमङ्गलमाचरंश्चिकीर्षितं प्रतिजानीते।। %लक्ष्मीपतेरिति% षष एतेन सकलवाङ्मनसदेवताया देव्या अपि भगवदुपसर्जनतया नतिरुक्ता भवति। विशिष्टविषयक्रियाया विशेषणेऽपि `दण्डिनमानय' इत्यादावन्वयदर्शनात्। विद्यारम्भसमये देवतावन्दनवद्गुरुवन्दनस्यापि कर्तव्यत्वादाह।। %गुरोरपीति% ।। गुरोरपि पदाम्भोजयुगं नत्वेत्यन्वयः। शिष्यमनस्समाधानायाह।। % नातविस्तरमित% ।। न विद्यते अतिविस्तरो यस्मिन् तद्व्याख्यानं करिष्य इत्यन्वयः। `प्रथने वावशब्दे' इति सूत्रे शब्दविषयविस्तृतिविवक्षायां स्तॄधातोर्घञ् न भवति, `ऋदोरप्' इति अप्‌प्रत्यय एव भवतीत्यक्त्या शब्दबाहुल्यहीनं अर्थबाहुल्योपेतमिति भावः।
%अथ महामहोपाध्यायकाशीतिम्मण्णा चार्यविरचिता तत्वसङ्ख्यानटीकाविवरणटिप्पणी प्रारभ्यते%
जन्माद्यस्य यतः शास्त्रगम्यमन्वयतः पृथक्।
परमं ब्रह्म विष्ण्वाख्यमधिकं तदुपास्महे ।। 1 ।।
तत्वसङ्ख्यानं व्याचिख्यासुः श्रीमज्जयतीर्थमुनिः मङ्गलाचरणपुरःसरं प्रतिजानीते।। %लक्ष्मीपतेरिति% ।। अत्र सकलवाङ्मनसदेवतायाः श्रियोऽपि नतत्वलाभाय परमात्मनश्च नम्यत्वप्रयोजकविशिष्टत्वादिसूचनाय लक्ष्मीपतित्वेन तदुत्कीर्तनं। तस्य च पपीत्या निराकारत्वशङ्कानिरासाय पदाम्भोजग्रहणं। अस्य च गुरोरित्यनेनापि
</मङ्गालचरणम्>

<मङ्गलाचरणम्>
(का.टी) सम्बन्धार्थं लक्ष्मीपतेरिति व्यासः। एवं च पदपदस्य नित्यसापेक्षत्वात्समासः। %अम्भोजपदे%न पदयोः स्वात्मालेरादरातिशयः सूचितः। युगग्रहणं च तन्नतेर्ज्ञानान्दादिविशिष्टफलकत्वज्ञापनार्थं। यथोक्तं बृहद्भाष्ये
%स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमच्यते।
सुक्तिदानेन तद्दानात्सुवरस्य पदद्वयं।। इति।%
यद्यप्यत्र %पदाम्भोजे% इत्यपि सम्यक् तथापि %गुरो%रिति समुदायैकवचनान्तेन तदन्वयानुपपत्तिः। द्वयोः पादयोः श्रीमदाचार्यादिबहुगुरुसम्बन्धित्वाभावात्। अतः समुदायैकवचनानतयुगपदोपादानं। देवतानतिसमनन्तरं गुरूनपि नमति।। %गुरोरपीति%।। पदाम्भोजयुगं नत्वा। तत्त्वानि सङ्ख्यायन्ते अत्रेति %तत्वसङ्ख्यानाख्यस्य प्रकरणस्य व्याख्यानं% विशिष्टार्थप्रकाशकग्रन्थं। %करिष्ये इत्यनेन% नमनव्याख्यानयोरङ्गाङ्गिभावः सूचितः।
न्वाचार्यवचनस्यातिबह्वर्थतया यावदर्थव्याख्याने मन्दानुपादेयत्वं, किञ्चिदर्थव्याख्याने च प्रेक्षावदुपेक्षणीयत्वं स्यादिति। अतो %नातिविस्तर%मिति व्याख्यानविशेषणं। विस्तरशब्दस्य शब्दविस्तृत्यर्थतया तद्राहित्यकथनादर्थविस्तारोऽस्तीति सूच्यते। तथा चैतद्ग्रन्थस्य यथायोग्यमर्थावबोधकत्वाच्छब्दबाहुल्याभावाच्च सर्वोपादेयत्वोपपत्तिरिति भावः। %नातिविस्तर%मित्येतत्क्रियाविशेषणमित्यप्याहुः। अत्र गुरुदेवताप्रीतिविशेषविषयत्वरूपक्रियाफलस्यात्मगामित्वात् स्वस्यातिदयालुतया परप्रयोजनमप्यात्मगामीव मन्यमानत्वाच्च करिष्य इत्यात्मनेपदप्रयोग इति ज्ञातव्यं।
</मङ्गालचरणम्>

<ग्रन्थारम्भणीयत्वप्रयोजकविषयादिसमर्थनम्>
(टी.)
`मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेन अवश्यमवगन्तव्यः' इति सकलसच्छास्त्राणामविप्रतिपन्नोऽर्थः। इदं च अवान्तरानेकभेदभिन्नस्य जगतो विज्ञानमपेक्षत इति जगदपि तथा अवगन्तव्यं। तदिदं प्रधानाङ्गभूतं तत्वद्वयं शास्त्रे विक्षिप्य प्रतिपादितं शिष्यहिततया सङ्गृह्य (1)प्रतिपाद-यितुं प्रकरणमिदमारभते भगवानाचार्यः।
(F.N){1. का. टे. निरूपयितुं.}
</ग्रन्थारम्भणीयत्वप्रयोजकविषयादिसमर्थनम्>

<ग्रन्थारम्भणीयत्वप्रयोजकविषयादिसमर्थनम्>
(रा.टी)
ननु स्वव्याख्येयतत्वसङ्ख्यानस्य फलाभावात् प्रेक्षावदनुपादेयत्वमिति शङ्कावारणाय प्रयोजनमाह ।। %मुमुक्षुणेति ।। जगदुदयादिनिमित्तत्वेनेति ।।% चेतनाचेतनात्मक विश्वोत्पत्तिस्थितिलयादिकर्तृ%त्वेनेत्यर्थः।% `नान्यः पन्था अयनाय विद्यते' इत्यादिना मुक्तेरुपायान्तरस्य निषेधात् %अवश्यं इत्युक्तं% `तमेवं विद्वानमृतः' इत्यादौ %एवं% `तस्माद्विराळजायत' इत्यादिनोक्तजगज्जन्मादिकर्तृत्वादिप्रकारेण %विद्वानेवामृतः%
%सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान्।
मोक्षं च विष्णुतश्चैव ज्ञात्वा मुक्तिर्न चान्यथा।।%
इत्यादिवचनप्रसिद्धिद्योतनाय अवगन्तव्यः खल्वित्युक्तं %।। सकलसच्छास्त्राणामिति ।।%
%ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकं।
मूलरामायणं चैव शास्त्रमित्यभिधीयते।।%
इत्युक्तऋगादिशास्त्राणामुक्तरूपपरमात्मज्ञानद्वारा प्राणिनां मुक्त्यर्थ प्रवृत्तत्वस्य
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते।
इत्यादौ श्रवणात् %अविप्रतिपन्नोऽर्थः% इत्युक्तं।
अस्त्वेबं, ततः किं? इति। अत आह।। %इदं चेति% ।। उक्तरूपेण परमात्मज्ञानं चेत्यर्थः। परमात्मना क्रियमाणा जगतो जन्मादयो व्यापारा बहवः। तत्र चेतनेषु योग्यानां ज्ञानभक्त्यादिदानं, ज्ञानादिमतां मोक्षदानं, मुक्तानां सौख्यदानं, अयोग्यानां मिथ्याज्ञानद्वेषादिदानं, तद्योग्यमुक्तिदानं, दुःखभयादिदानं, मिश्राणां सुखदुःखाद्युभयदानं, जडेषु भावकार्यपदार्थानां वृद्धिक्षयादिदानं, अभावेषु प्रागभावस्य नाशदानं, ध्वंसस्य जन्मदानं, त्रैकालिकाभावस्य शश्वदेकप्रकारतादानमित्यादयः। चेतनाचेतनभावाभावाद्यवान्तरभेदोपेतनानाचेतनादिसमुदायरूपजगतो ज्ञानं विना `जगदुदयादिकर्ता हरिः' इति ज्ञानासम्भवात् %अवान्तरानेके%त्याद्युक्तं ।। %तथेति% ।। अवान्तरानेकभेदभिन्नत्वेनेत्यर्थः। भगवदवतारकपिलादिकृतसाङ्ख्यतत्वविवेकपञ्चरात्रादिशास्त्रादेव अस्तु तज्ज्ञानमित्यतो वा, स्वोत्प्रेक्षितममूलमिदं तत्वसङ्ख्यानं किमर्थमुच्यते? इत्यतो वा, विषयादिमत्त्वप्रदर्शनाय वा आह ।। %तदिदमिति% ।। एतेनास्य शास्त्रविषयादिनैव विषयादिमत्ता सिद्धेत्युक्तं भवति। परापरतत्वे प्रधानाङ्गभावेन विषयः। तज्ज्ञानद्वारा मुक्तिः फलं। यथायोगं सम्बन्ध इति।
</ग्रन्थारम्भणीयत्वप्रयोजकविषयादिसमर्थनम्>

<ग्रन्थारम्भणीयत्वप्रयोजकविषयादिसमर्थनम्>
(का.टि)
नन्विदं प्रकरणमनारम्भणीयं विषयाद्यभावात्। न च तत्वान्येव विषयः तेषां शास्त्रनिर्णीतत्वात्। अनिर्णीतस्य च विषयत्वात्। अत एवास्य न प्रयोजनादिकमपि। तथा च नेदं व्याख्येयमित्याशङ्कां परिजिहीर्षुरेतत्प्रकरणस्य विषयादिमत्वं तावत्समर्थयते।। मुमुक्षु%णेत्यादिना आचार्य इत्यन्तेन% ।। मुमुक्षुणेत्युपलक्षणं। शमादिमतेत्यपि ग्राह्यं। मोक्षस्य मुख्यप्रयोजनत्वलाभाय ममुक्षुग्रहणं। खलुशब्दः प्रसिद्ध्यर्थः। जगतो भावाभावाद्यनेकविधपरतन्त्रप्रपञ्चस्य। यथासम्भवसुन्पत्तिस्थतिलयनियमनादिनिमित्तत्वेन। न तु तदुपादानत्वेन। %अवश्यमवगन्तव्य%तद्विज्ञानमेव मोक्षहेतुः, न तु कर्मादीति यावत्. अस्यार्थस्य दुःशास्त्रविप्रतिपन्नत्वात् %सदि%ति। %इदं च उक्तप्रका%रेण परमात्मावगमनं च। अवान्तरानेकभावाभावप्रभेदैर्गृहीतभेदस्य जगतोऽवधारणमपेक्षत इत्यर्थः। यद्यपि सामान्यतो जगदुदयादिनिमित्तत्वज्ञाने नावान्तरज्ञानापेक्षा। तथापि सर्वेषामेकविधोत्पात्याद्यभावाद्वक्ष्यमाणरीत्या यथाः सम्भवमुद्भवादिनिमित्तत्वेन विशिष्यैव हरेरवगन्तव्यत्वात् जगदपि अवान्तरानेकभेदवत्त्वेनावश्यमवगन्तव्यं। %तदिदं% उक्तप्रकारेणावगन्तव्यं निरूप्यत्वेन बुद्धिसंनिहितं च तत्वद्वयं। वेदतन्मीमांसादौ विक्षिप्य निरूपितं, शिष्येष्टत्वेनैकीकृत्य निरूपयितुं शिष्याणामपेक्षितं। उक्तविधतत्वगोचरैकाकारज्ञानमुत्पादयितुमिति यावत्। न्वेवमर्थैक्याभावादेकप्रकरणत्वानुपपत्तिरतः %प्रधानाङ्गभूत%मित्युक्तं। प्रधानभूतार्थस्यैकत्वादेकप्रकरणत्वमिति भावः। प्राधान्यं च अन्यजिज्ञासानधीनजिज्ञासाविषयत्वं साक्षान्मुख्यप्रयोजनसाधनत्वं वा। तदङ्गत्वं च तज्जिज्ञासाधी नजिज्ञासाविषयत्वं तद्‌द्वारा मुख्यप्रयोजनहेतुत्वं वा। अपरतत्वं हि साक्षान्मोक्षहेतुपरतत्वजिज्ञासया जिज्ञास्यते न पातत्वमन्यजिज्ञासयेति तयोरङ्गप्रधानभावः। %भगवानित्या%चार्यस्यैवैतादृशप्रकरणनिर्माणशक्तिरस्तीति सूचयति।
अयमाशयः, न तावन्निर्विषयमिदं प्रकरणं। शास्त्रे विक्षिप्य प्रतिपादितयावदर्थधारणासमर्थानां तत्र तत्राज्ञानसंशयादिसम्भवेन तान् प्रति तत्वानां विषयत्वोपपत्तेः। नापि निष्प्रयोजनं मोक्षसाधनशास्त्राधीनपरतत्वावधारणस्य अनायासेन सम्पादनरूपप्रयोजनवत्वात्। अत एवाधिकार्यादिसम्भवादारम्भणीयं। ततश्च गहनार्थत्वाद्व्याख्येयं। यद्यपि तत्वविवेके विक्षिप्तसङ्ग्रहः कृतस्तथापि अस्य तद्व्याख्यानरपत्वान्न वैयर्थ्यं। यथा परतन्त्र इत्यादेः %अस्वतनत्रं% इत्यादि व्याख्यानमिति
</ग्रन्थारम्भणीयत्वप्रयोजकविषयादिसमर्थनम्>

<ग्रन्थादौ मङ्गलाचरणाभावशङ्का तन्निरासश्च>
(टी.)
%ननु प्रकरणादौ मङ्गलं कमपि कस्मान्नानुष्ठितं? न तावत्तदफलमेव प्रेक्षावद्भिरनुष्ठितत्वात्। नापि प्रारिप्प्तितपरिसमाप्यादिव्यतिरिक्तफलं नियमेन प्रारम्भे अनुष्ठितत्वात्। उच्यते, अनुष्ठितमेव भगवता मङ्गलं। मानसादेरपि तस्य सम्भवात्। तच्च परमास्तिकत्वादनुमीयते। यच्चायं स्वातन्त्र्यादिविशिष्टस्य विष्णोरादित एव सङ्कीर्तनं करोति किं ततोऽन्यन्मङ्गलं नाम? अन्यपरमपि तत् भक्त्या अनुष्ठितं स्वभावात् सम्पादयत्येवाखिलमङ्गलानीति।%
</ग्रन्थादौ मङ्गालाचरणाभावशङ्का तन्निरासश्च>

<ग्रन्थादौ मङ्गलाचरणाभावशङ्का तन्निरासश्च>
(रा.टी.)
नैष्फल्यादिना अननुष्ठानमिति भ्रान्तिं शङ्काव्याजेन निरस्यन्न्यूनतादोषं परिहरति।। %नन्वित्यादिना% ।। प्रकरणस्यादावित्यर्थः। प्रेक्षावद्भिः व्यासजैमिनिप्रभृतिभिः। `अथातो ब्रह्मजिज्ञासा' इत्यादाविति भावः ।। %परिसमाप्त्यादीति% ।। प्रचय आदिशब्दार्थः। मङ्गलमनुष्ठितमेवेत्येतदयुक्तं प्रकरणादौ मङ्गलानुष्ठानस्य ग्रन्थे निवेशनाभावादित्यत आह ।। %मानसादेरिति% ।। हरिस्मृतिनमउक्तिदण्डवत्प्रणामादेरित्यर्थः। परबुद्धेरप्रत्यक्षत्वादाह।। %तच्चेति% ।। मानसाद्नुष्ठानमित्यर्थः। किं च मङ्गलानुष्ठानसाधकं ग्रन्थे निवेशनमप्यस्तीत्याह ।। %यच्चेति% ।। किञ्चेति चार्थः। यत् करोतीत्यन्वयः। आदिपदेन भगवत्त्वग्रहः। एतेन शिष्यशिक्षार्थं निबन्धनस्याप्यावश्यकत्वान्न्यूनतेत्यपास्तं। ननु विभागेनोद्दिश्य विशिष्य निर्देशपरमिदं कथं मङ्गलार्थं स्यात्? इति। अत आह।। %अन्यपरमपीति%।।

(का.टी)
नमस्कारादिनिबन्धनमेव मङ्गलमिति मन्वानः शङ्कते ।। %गन्विति ।। मङ्गलाचरणं% आचारप्राप्तमङ्गलं।। %कस्मान्नानुष्ठितमिति% ।। तस्याफलत्वाद्यभिमानं विना न कस्मादपीत्यर्थः। ननु वस्तुतोऽफलत्वात् अप्रकृतफलत्वाद्वा तदननुष्ठानं किं न स्यात् इत्याशङ्क्य आद्यं निराचष्टे ।। %न तावदिति% ।। अनुष्ठितत्वमात्रस्य चैत्य वन्दनादावनैकान्त्यात् प्रेक्षावद्भिरिति। अभ्रान्तैरित्यर्थः। अभ्रान्तत्वं च मङ्गलानुष्ठातॄणां महर्षीणामागमसिद्धं। द्वितीयं निराकरोति।। %नापीति ।। समाप्त्यादिव्यतिरिक्तफलं% समाप्तिप्रचयव्यतिरिक्तमात्रफलकं समाप्त्याद्यफलकमिति यावत्। तेन तत्तदन्योभयफलकस्यानुष्ठानसम्भवेऽपि नासङ्गतिः। अनुष्ठीयमानत्वमात्रस्य भोजनादौ व्यभिचरितत्वात् %आरम्भ% इति। अवान्तरारम्भव्यावृत्ये ग्रन्थारम्भलाभार्थः प्रशब्दः। करचेष्टादौ व्यभिचारवारणाय %नियमे%नेति। चैत्यवन्दनादेरपि कैश्चिन्नियमेनानुष्ठानात् प्रेक्षावद्भिरित्यनुवर्तनीयं। तथा च`मङ्गलं' न समाप्त्याद्यफलकं प्रेक्षावत्कर्तृकग्रन्थारम्भनियतानुष्ठानविषयत्वात् व्यतिरेकेण यादादिवत् इत्युक्तं भवति।
यद्वा समाप्त्याद्युद्देशेन प्रेक्षावदनुष्ठितत्वस्य हेतुत्वे तात्पर्यं। अत्र च `यत् यदुद्देशेन प्रेक्षावदनुष्ठितं तत् तदफलकं न भवति' इति सामान्यव्याप्तौ स्वर्गफलयागादिकं दृष्टान्तः। एवं चात्र मह्गलाननुष्ठानेन प्रामाणिकार्थानङ्गीकारमूलकत्वात् शिष्टाचारविरुद्धत्वात् प्रचयानर्हत्वाच्चैतत्प्रकरणस्य व्याख्यानमयुक्तं। न च मङ्गलाभावे समाप्त्यनुपपत्तिः कारणान्तरेणापि समाप्तिसम्भवादिति शङ्काभिप्रायः।
%किचित्तु%, मङ्गलस्य समाप्तिहेतुतया तदभावेनासमाप्तत्वादव्याख्येयमेतत्प्रकरणमित्याशयेन शङ्कते ।। %नन्विति% ।। मङ्गलस्य समाप्तिहेतुत्वे किं मानं? इति चेत्, `मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वात्' इति परिशेषानुमानमेवेत्यभिप्रेत्य तत्र विशेष्यविशेषणासिद्धी परिहरति ।। %न तावदिति% ।। न च `नियमेन प्रारम्भे अनुष्ठीयमानत्वात्' इत्यनेन समाप्तिफलकत्वसाधनसम्भवात्परिशेषवैयर्थ्यमिति वाच्यं। समाप्त्यादिव्यतिरिक्तोद्देशेनाननुष्ठीयमानत्वस्यैव तत्र विवक्षितत्वात् तस्य च सुखादिसाधारणस्य समाप्तिफलकत्वासाधकत्वेन परिशेषसार्थक्यात्। अत एव दर्शपूर्णमासारम्भे अनुष्ठीयमानारम्भणीयेष्ट्यादौ न व्यभिचार इति व्याचक्षते।
प्रकरणादौ मङ्गलाननुष्ठानस्यैवासिद्धत्वादव्याख्येयत्वसङ्कनमनुपपन्नमिति भावेन समाधत्ते ।। %उच्यत इति% ।। इति चेत् अनुष्ठितमेव मङ्गलमित्युच्यत इत्यव्याहारेणान्वयः। तर्हि उपलभ्येतेत्यत आह ।। %मानसादेरपीति% ।। स्यादेवं, यदि नमस्कारादिनिबन्धनमेव मङ्गलं स्यात्। न त्वेवं। भगवदुत्कर्षविषयीकारिज्ञानकर्मशब्दात्मकतया तस्य त्रैविध्यात्। प्रकृते च अस्मदादिप्रत्यक्षायोग्यज्ञानादिरूपमङ्गलसत्वान्नोक्तदोष इति भावः। अत्र मानसस्यैव मुख्यत्वानमुखतो ग्रहणं।
ननु तस्य सत्वे किं मानं? अत आह ।। %तच्चेति% ।। मानसादिरूपं चेत्यर्थः।। %परमास्तिकत्वात्% सकलसिद्धान्ताभ्युपगन्तृत्वात्। तच्च %बलित्थेत्या%गमसिद्धमिति भावः। ननु `आचार्यः कृतमङ्गलः परमास्तिकत्वात्' इत्यनुमानं सिद्धसाधनं। ग्रन्थान्तरे कृतमङ्गलत्वात्। एतद्‌ग्रन्थादौ कृतमङ्गलत्वसाधने मन्वादौ व्यभिचारः। एतद्‌ग्रन्थकृत्त्वेसतीति हेतुविशेषणे सपक्षाभावो विशेष्यवैयर्थ्यं चेति चेन्न। `यो यद्‌ग्रन्थकृत्त्वे सति परमास्तिकः स तदादौ कृतमङ्गलः' इति सामान्यव्याप्तौ मन्वादिस्मृतिकर्तुः सपक्षत्वात्। नास्तिकादौ व्यभिचारवारकतया विशेष्यसार्थक्याच्च।
`एतद्‌ग्रन्थो मङ्गलाचरणपुरःसरः परमास्तिककर्तृकत्वात् ग्रन्थान्तरवत्' इत्यनुमाने तात्पर्यमित्यप्याहुः। एवं च परिशेषान्मानसादिरूपमेव मङ्गलं सिद्ध्यतीत्यभिप्रायः।
ननु ग्रन्थादौ मङ्गलनिबन्धनस्य शिष्यशिक्षार्थत्वेन शिष्टाचारप्राप्तत्वात्तद्विरोध इति। अत आह ।। %यच्चेति% ।। निबन्धनस्यैव मङ्गलत्वमभ्युपेत्याह यच्चेतीत्येके। निबन्धनाभावेन मङ्गलाभावानुमाने हेत्वसिद्धिरित्याह यच्चेतीत्यन्ये। यस्त्वाचार्यस्य परमास्तिकत्वे विप्रतिपन्नस्तं प्रत्यप्याह यच्चेतीत्यप्याहुः। अयं आचार्यः। स्वातन्त्र्यात्र्यादीत्यादिना स्वतनत्रमित्येकवचनार्थस्यसजातीयद्वितीयराहित्यरूपैकत्वस्य, अस्वातनत्र्यघटकपरत्वस्य च परिग्रहः। %आदितः% आदावेव। अन्यथा तत्वं द्विविधं स्वतन्त्रमस्वतन्त्रञ्च %इत्यवक्ष्यदिति% भावः।
तत्वत्वमादिपदग्राह्यमित्यन्ये। भगवत्वं तथेत्यप्याहुः. अत्र च %आदितः% इत्यस्यादिमश्लोक इत्यर्थो बोध्यः।
ननु तत्वविभागादिपरस्यास्य कथमनन्तरायपरिसमाप्त्यादिसाधकत्वं? अन्यथा चार्वाकोच्चरितेश्वरादिशब्दस्यापि तथात्वापत्तेरिति। अत आह ।। %अन्यपरमपीति% ।। अन्योद्देशय्कमपि। %तत्% सङ्कीर्तनं। %भक्त्ये%ति चार्वाकादिनिरासः। आचार्यस्य प्रमाणान्तरात्, आदित एव सङ्कीर्तनाच्च भक्तिरवसीयत इति भावः। %स्वभावात्% सामर्थ्यात्। %मङ्गलानि% निर्विघ्नपरिसमाप्त्यादिमङ्गलफलानि ।। %सम्पादयतीति% ।। भक्तिपूर्वकभगवत्कीर्तिनस्यैव मङ्गलत्वात् अन्यपरत्वाविशेषितस्य च समाप्त्यादिसाधनत्वादिति भावः। अनेन मङ्गलस्य पृथगनिबन्धनमन्यपरस्यापि तस्य समाप्त्यादिहेतुत्वज्ञापनायेत्युक्तं भवति। इतिशब्दः प्रकृतशङ्कानिराससमाप्त्यर्थः।
</ग्रन्थादौ मङ्गालाचरणाभावशङ्का तन्निरासश्च>

<तत्वसामान्योद्देशविभागौ तत्वसामान्यलक्षणं च>
(टी.)
%तत्र तावत् तत्वं सामान्यतो विभागेनोद्दिशति%
%स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते।%
%तत्वमनारोपितं। प्मितिविषय इति यावत्। तेन `तस्य भावस्तत्त्वं' इत्यादिखण्डनानवकाशः।%
</तत्वसामान्योद्देशविभागौ तत्वसामान्यलक्षणं च>

<तत्वसामान्योद्देशविभागौ तत्वसामान्यलक्षणं च>
(रा.टी)
।। %तत्रेति% ।। मुमुक्षुणा अङ्गाङ्गिभावेन ज्ञातव्यतया तत्वद्वये अवर्श्यं वाच्ये सतीति वा, शास्त्रविषयादिना विषयादिमत्त्वे सिद्धे सतीति वा, समङ्गलत्वेन प्रकरणस्यारम्भणीयत्वे सिद्धे सतीति वा, सामान्यविशेषविभागोद्देशादिषु मध्य इति वा अर्थः। विशेषविभागादिः पश्चादिति तावच्छब्दः। %तत्वं द्विविध%मिति सामान्यतो विभागः। %स्वतन्त्रमस्वतन्त्रं चे%ति सामान्यत उद्देश इति विवेकः। विभागेनेति हेतौ तृतीया। ननु किं तत्वपदेन विवश्रितं? तस्य भावस्तत्वमिति चेत् तच्छब्दार्थानिरुक्तिः। तच्छब्दपरामर्शविषयस्य प्रकृतस्य कस्यचिदभावात्। भावपदोक्तधर्मस्यैव प्राप्त्या धर्मिणो.़प्राप्तिश्चेति। अत आह ।। %तत्वमनारोपितमिति% ।। एवं तर्हि कूर्मरोमादेः प्रधानस्याप्रसिद्ध्या क्वाप्यारोपाभावेन तदपि तत्वमिति प्रसज्येतेति। अत उक्तं %प्रमितिविषय इति यावदि%ति। साक्षात्प्रमितिविषय इति वा, विधिप्रमितिविषय इति वा अस्यार्थो ध्येयः। `कूर्मरोमादि नास्ति' इतिनिषेधप्रतीतिविषयत्वेऽपि `कूर्मरोम अस्ति' इति वाक्याभासजन्यविधिप्रत्ययविषयत्वेऽपि वा न दोषो भवति ।। %इत्या दीति% ।। इत्यादिविकल्पपूर्वकखण्डनानवकाश इत्यर्थः।
</तत्वसामान्योद्देशविभागौ तत्वसामान्यलक्षणं च>

<तत्वसामान्योद्देशविभागौ तत्वसामान्यलक्षणं च>
(का.टी.)
।। %तत्रेति% ।। तत्वे प्रतिपादनीये सतीत्यर्थः। यद्वा कर्तव्यत्वेन बुद्धिस्थानामुद्देशलक्षणविभागपरीक्षाणांमध्य इत्यर्थः। अथ वा तत्रेति निमित्तसप्तमी। तथा च विशेषतो जगदवगमार्थमित्यर्थः। समान्यतो ज्ञाते विशेषजिज्ञासोदयादिति भावः। विभागसहितोद्देशस्य चतुर्थपादेऽपि सत्त्वात्पुनरुक्तिरित्यत उक्तं ।। %सामान्य इति% ।। उत्तरत्र तु विशेषत एवोद्देशादिरिति भावः। तदपैक्षयैव तावच्छब्दः। तेन सामान्योद्देशविभागादेर्विशेषोद्देशविभागाद्यङ्गत्वात्प्राथम्यं युक्तमिति सूचितं। अत्र तत्वमित्युद्देशः। द्विविधमिति विभागः। %स्वतन्त्रमस्वतन्त्रञ्चे%ति द्वैविध्यप्रदर्शनं. यद्यप्युद्देशेनैव लक्षणं, %इष्यते% इत्यनेन परीक्षा च लभ्यत एव तथाप्युद्देशविभागयोरिव लक्षणपरीक्षयोः साक्षादलाभादुभयोरेव ग्रहणं।
ननु तत्वसामान्यलक्षणमनभिधाय तद्विभजनमसङ्गतं। लक्षणेन वस्तुनिर्धारणानन्तरमेव विभागाकाङ्क्षोदयादिति चेन्न। उद्देशेनैव लक्षणस्य लब्धत्वादित्याशयेनाह ।। %तत्वमिति% ।। आरोपो भ्रमः। तदविषयत्वमनारोपितत्वं।

अनारोपितत्वलक्षणस्यासम्भवशङ्का तन्निरासश्च
न्वेवमसम्भवः। `सर्वं मिथ्या' इत्यादिभ्रमविषयत्वस्य सर्वत्रैव सत्त्वात्। न च `भ्रमाप्रकारत्वमनारोपि तत्वं'। `ब्रह्म सर्वं' इत्यादिभ्रमे तादात्म्येन सर्वस्यैव प्रकारत्वात्। न च शुक्तौ रजतस्येव ब्रह्मणि सर्वस्यासत एवारोप्यत्वान्न दोष इति वाच्यं। `असदेव रजतं प्रत्यभात्' इतिवत् `असदेव सर्वं प्रत्यभात्' इत्यप्रतीतेः आरोप्यस्यासत्त्वनियमाभावात्। अत एव %सुधाया%मुक्तं, %यत्रारोप्यमधिष्ठानसंनिहितं तत्र तत्तादात्म्यमात्रमसत्% इति। मैवं, सत्त्वारोपाविषयत्वस्य विवक्षितत्वात्। सत्त्ववति सत्त्वारोपासम्भवान्नोक्तदोषः। न चोक्तभ्रमस्य सर्वतादात्म्ये सत्त्वारोपरूपत्वादुक्तदोषतावदवस्थ्यमिति वाच्यं। सत्त्वारोपत्वविशिष्टाविषयत्वस्य विवक्षितत्वात्। यत्र यस्यारोपस्तस्यैव तदारोपत्वविशिष्टविषयत्वात्।
नन्वेवमपि कूर्मरोमादावतिव्याप्तिः। तत्र रोममात्रस्यारोपितत्वेऽपि विशिष्टस्यानारोपितत्वात्। न च विशिष्टस्यापि `कूर्मरोमास्ति' इत्यारोपविषयत्वान्नातिव्याप्तिरिति वाच्यं। `कूर्मरोम नास्ति' इत्यसत्त्वेन प्रतीयमानस्या नारोपितत्वादिति चेन्न। प्रतीतौ सत्यामनारोपितत्वस्य विवक्षितत्वात्। न च प्रतीतिविषयत्वामात्रं सम्यक्। तज्जनकसंनिकर्षादिमत्त्वरूपतद्विषयत्वस्यासद्व्यावृत्तत्वादिति वाच्यं। उल्लेख्यत्वरूपविषयत्वस्यैव विवक्षितत्वेन शुक्तिरजतादावतिव्याप्तेः। न चैवं कूर्मरोमादावतिव्याप्तिः। सत्त्वेनोल्लेख्यत्वस्य विवक्षितत्वात्। एवं च सत्त्वारोपानुल्लेख्यत्वे सति सत्त्वेनोल्लेख्यत्वं तत्त्वलक्षणमिति निष्कर्षः। न च सत्तवारोपानुल्लेख्यत्वे सति (2)सत्त्वेनोल्लेख्यत्व विशिष्टकूर्मरोमादावतिव्याप्तिः। विशिष्टस्य सत्त्वेन प्रतीतावनारोपितत्वासम्भवात्। अनारोपितत्वे च सत्त्वेनोल्लेख्यत्वासम्भवात्।
(F.N){2. सत्वेनोल्लेख्यत्वस्य इति पाठेन भाव्यमिति भाति.}
नन्वेवं %तत्वविवेकविरोधः।% तत्र प्रमेयत्वस्यैव तत्वसामान्यलक्षणत्वावगमात्। न च तल्लक्षणान्तरमिति वाच्यं। तस्यैव लघुत्वेनोपादेयत्वात् अस्य तदनुसारित्वानुपपत्तेश्च। मैवं, तल्लक्षणाधिगमार्थमेतल्लक्षणप्रणयनात्। अत एवास्य तत्रैव तात्पर्यमित्याह ।। %प्रमितिविषय इति ।। यावत्% पर्ववसितार्थः। प्रतीतौ सत्यामनारोपितत्वस्य प्रमितिविषयत्वव्याप्यतया तेन तल्लाभादिति भावः।
यद्यपि कूर्मरोमादावसत्त्वप्रमितिविषयत्वमस्ति तथापि सत्त्वप्रकारकप्रमितिविषयत्वस्य विवक्षणान्नातिव्याप्तिः। न च कूर्मरोमाभावोऽस्तीत्यादिप्रमितिविषयत्वमादायातिव्याप्तिरिति शङ्क्यम्। सत्वप्रकारकत्वविशिष्टप्रमितिविषयत्वस्य विवक्षितत्वात्। तादृशस्य कूर्मरोमाद्यभाव एव सत्त्वात्। यद्यपि सत्त्वं लक्षणमित्यपि सुवचं तथापि तदुपपादकत्वादस्योक्तिः। न चैवं प्रमासम्बन्धात्पूर्वमव्याप्तिः। ईश्वरप्रमासम्बन्धस्य सर्वदैव सत्त्वात्। एवं चैतद्दोषवारणार्थं अत्यन्ताभावाप्रतियोगित्वरूपप्रमाविषयत्वयोग्यत्वविवक्षणं प्राचां तज्जनकसंनिकर्षादिमत्त्वरूपतद्विषयत्वविवक्षया। तदुल्लेख्यत्वविवक्षायामुकरीत्या दोषानवकाशादित्यवधेयं।
एवं च तत्वाशब्दव्याख्यानेन %तत्वानुभूतिः प्रमेत्युदयनो%क्तलक्षणए खण्डनकारोक्तदूषणस्य प्रकृते नावकाश इत्याह।। %तेनेति% ।। `तस्य भावस्तत्त्वं। प्रकृतं च तच्छब्दार्थः। न चात्र प्रकृतं किञ्चिदस्ति" इत्यादिरूपं यत्खण्डनं तदनवकाश इत्यर्थः। अस्माभिस्तत्वशब्दस्य यौगिकार्थत्यागेन रूढ्यर्थाङ्गीकारादिति भावः।
तस्य भावस्तत्त्वं। आदिना, स चासौत्त्वं चेति विग्रहान्तरपरिग्रहः। तस्य यत्खण्डनं "प्रथमे स्वातन्त्र्यादि कमेव तत्त्वं स्यान्न तु स्वतन्त्रं। द्वितीये तत्त्वंपदार्थयोरीशजीवयोरभेदापत्तिः" इत्यादिकं, तदनवकाशो रूढ्यर्थाङ्गीकारात् इत्यपि व्याचक्षते।
</तत्वसामान्योद्देशविभागौ तत्वसामान्यलक्षणं च>

<शुक्तिरजतादौ तत्वलक्षणस्य खण्डनोक्तातिव्याप्तिशङ्का तत्परिहारश्च>
(टी)
%ननु (3)शुक्तिरजतादिकं कथं न तत्वं? न हि धर्मी वा रजतत्वं वा न प्रमेयं। नापि तयोः सम्बन्धः। शुक्तिव्यक्तौ रजतत्वस्य स नास्तीति चेन्मा भूत्। न हि गृहं देवदत्तो नास्तीत्येतावता न प्रमेय इति। स्यादिदमारोपितस्यान्यत्र सत्तामभ्युपगच्छतां दूषणं। अत्यनतासदेव रजतं दोषवशाच्छुक्तिकायामारोप्यत इति वादे तु नायं दोषः।%
</शुक्तिरजतादौ तत्वलक्षणस्य खण्डनोक्तातिव्याप्तिशङ्का तत्परिहारश्च>

<शुक्तिरजतादौ तत्वलक्षणस्य खण्डनोक्तातिव्याप्तिशङ्का तत्परिहारश्च>
(रा.टी.)
न्यायमतावष्टम्भेन खण्डनकृदुक्तखण्डनं शङ्कित्वा सिद्धान्तदिशोत्तरमाह ।। %नन्वित्यादिना नायं दोष इत्यन्तेन ।। धर्मी वेति% ।। रजतं वेत्यर्थः। पट्टणादौ रजतस्य तत्र रजतत्वस्य चानुभवात् तस्यैव सत्यरजतस्यान्यत्रारोपादिति भावः। प्रमेयं प्रमाविषय इत्यर्थः। तादात्म्यारोपामिप्रायेण धर्मी वेति, संसर्गारोपाभिप्रायेण रजतत्वं वेत्युक्तं ।। %तयोरिति% ।। रजतरजतत्वयोस्सम्बन्धस्तादात्म्यरूपः संसर्गरूपो वा प्रमेय इत्यनुषङ्गः। सत्यरजते तस्य प्रमीयमाणत्वात् तस्यैव च शुक्तौ प्रतीत्यभ्युपगमादिति भावः। शङ्कते।। %शुक्तीति ।। स इति ।।% सम्बन्ध इत्यर्थः। %।। नायं दोष इति ।।% आरोपितस्य प्रमेयत्वप्रसङ्गदोषो नेत्यर्थः।
</शुक्तिरजतादौ तत्वलक्षणस्य खण्डनोक्तातिव्याप्तिशङ्का तत्परिहारश्च>

<शुक्तिरजतादौ तत्वलक्षणस्य खण्डनोक्तातिव्याप्तिशङ्का तत्परिहारश्च>
(का. टी.)
रूढिपक्षे %खण्डनकारो%क्तरीत्या दूषणमाशङ्कते।। %नन्विति ।। शुक्तिरजतं% शुक्तौ `इदं रजतं' इति प्रतीयमानं। तद्धि विशेष्यविशेषणसम्बन्धरूपं प्रत्येकं प्रमेयमेवेत्याह ।। %न हीति ।। तयोः% शुक्तिरजतत्वयो र्भासमानः सम्बन्धः समवायो न प्रमेय इत्यपि नेत्यर्थः। देशकालान्तरे विद्यमानस्यैवारोप्यत्वेन भ्रमविषयस्यापि तत्वत्वात् तत्वानुभूतित्वरूपप्रमालक्षणस्य भ्रम इव प्रमेयत्वरूपतत्वलक्षणस्य भ्रमविषयेऽतिव्याप्तिः। तस्यापि लक्ष्यत्वे प्रशब्दवैयर्थ्यं। न च भ्रमविषयस्य प्रत्येकं प्रमेयत्वेऽपि विशिष्टस्यातथात्वात्तद्वारकतया तत्सार्थक्यमिति वाच्यं। विशिष्टस्य विशेष्यविशेषणसम्बन्धानतिरिक्तत्वादिति भावः। ननु शुक्तिरजतत्वयोः प्रमेयत्वेऽपि तदुभयसम्बन्धस्य न तथात्वं शुक्तौ रजतत्वसम्बन्धाभावात्। तथा च तद्वारकतयैव प्रशब्दसार्थक्यमित्याशङ्क्य निषेधति %।। शुक्तिव्यक्ताविति ।। मु भूदिति ।।% अन्यत्र सत एव रजतत्वसम्बन्धस्य शुक्तिव्यक्तौ भानेन देवदत्तादिवत्प मेयत्वोपपत्तेरिति भावः। समाधत्ते %।। स्यादिदमिति ।। इदं% शुक्तिरजतादेस्तत्वत्वोपपादनं। सत्तां सत्तानियमं %अभ्युपगच्छतां% तार्किकाणां मत एव दूषणं, उक्तातिव्याप्तिसम्पादकत्वात्। न तु सिद्धान्ते। आरोपितरजतादावतिव्याप्तिवारकतया प्रशब्दसार्थक्यादिति भावः।
नन्वसतः कथं प्रतीतिः संनिकर्षाभावात्। न च कथमन्यत्र सतोऽपि प्रतीतिः? संयोगादिसंनिकर्षाभावादिति वाच्यं। ज्ञानलक्षणसंनिकर्षस्वीकारात्। असतश्च पूर्वमनुपस्थितत्वेन तदयोगादित्याशङ्क्योक्तम् %।। दोषवशादिति ।।% अयं भावः, अपूर्वसंनिकर्षकल्पनापेक्षया रजतसादृश्यादिदोषसहकृतशुक्तिसंनिकर्षस्यैव रजतावभासकत्वं युक्तं न च आरोपितस्यान्यत्र सत्त्वमपि कल्प्यं मानाभावात्। न चासत्त्वेऽपि किं मानमिति वाच्यं। `असदेव रजतं प्रत्यभात्' इत्यनुभवस्यैव मानत्वात्। न च असत् इत्यस्य तत्र असत् इत्यर्थः। मानाभावात्। किं चोपस्थितमनुपस्थितं वा रजतमारोप्यं। नाद्यः, आरोपितस्योपस्थितरजतवैलक्षण्यानुभवात्। नान्त्यः, अनुपस्थितस्य संनिकर्षाभावेन भानायोगात्। किञ्च विनिगमकाभावेन बहूनां भ्रमविषयत्वकल्पनादसतस्तद्विषयत्वकल्पनमेव लघीयः। न चासतस्तज्ज्ञानजनकसंनिकर्षाश्रयत्वलक्षणविषयत्वायोगः। तदभावेऽप्युल्लेख्यत्वरूपविषयत्वोपपत्तेरिति। एवं च प्रशब्दाभावे भ्रमविषयविशिष्टेऽप्यतिव्याप्तिर्बोध्या। सिद्धान्ते विशिष्टस्याप्यतिरिक्तत्कात्। अत एव %तत्वविवेकटीकायां "उल्लिखितं विशिष्टमतत्वमेव"% इत्युक्तमिति दिक्।
</शुक्तिरजतादौ तत्वलक्षणस्य खण्डनोक्तातिव्याप्तिशङ्का तत्परिहारश्च>

<तत्वसामान्यलक्षणस्य खण्डनोक्तातिव्याप्तिनिरासः>
(टी.)
%एतेन भाविपाकरागः कुम्भः श्यामतादशायां रक्तपित्तिना रक्ततयोपलभ्यमानस्तत्वं स्यादित्यपि परास्तं। भाविनः प्रमेयत्वेऽपि पूर्वस्यातथात्वात्।%
</तत्वसामान्यलक्षणस्य खण्डनोक्तातिव्याप्तिनिरासः>

<तत्वसामान्यलक्षणस्य खण्डनक्तातिव्याप्तिनिरासः>
(रा.टि.)
अन्यदपि %खण्डनोक्तं% निराह ।। %एतेनेतिं% ।। अत्यन्तासत एव भ्रान्तौ भानाभ्युपगमेनेत्यर्थः ।। %तत्वं स्यादिति% ।। तत्र रागसम्बन्धस्य सत्त्वादिति भावः। ।। %अतथात्वादिति% ।। अत्यन्तासत्त्वेन तस्य प्रमाविषयत्वाभावादिति भावः। धर्मी घटोप्यप्रमेयः किं? इति। अत आह ।। %धर्मिण इति% ।।
</तत्वसामान्यलक्षणस्य खण्डनक्तातिव्याप्तिनिरासः>

<तत्वसामान्यलक्षणस्य खण्डनक्तातिव्याप्तिनिरासः>
(का. टी.)
यूत्तक्तातिव्याप्तिवारणाय `यत् यथाभूतं प्रतीतं तत् तथाभूतं तत्वं' इति विवक्षणीयं। न च `इदं रजतं' इति प्रतीताविदन्त्वेन भातस्येदन्त्ववत्वादतिव्याप्तिरिति शङ्क्यम्। `येन रूपेण यत् प्रतीयते तद्रूपविशिष्टं तत् तेन रूपेण प्रमेयं' इत्यङ्गीकारात्। शुक्तेरिदन्त्वेन प्रमेयत्वेऽपि रजतत्वेनाप्रमेयत्वादित्याशङ्क्य खण्डनकृतोक्तं "रक्तपित्तवता रक्तत्वेन प्रतीश्यामघटोऽपि तत्वं स्यात्। तस्योत्तरकाले रक्तत्ववत्वात्। न च प्रतीतिकाले यद्यथाभूतमिति विवक्षितं। `भाविरागोऽयं' इति प्रतीतोप्यतत्वं स्यादिति" तदपि निरस्तमित्याह।। %एतेनेति% ।। अत्यन्तासत एवारोप्यस्याङ्गीकारेणेत्यर्थः। कथमेतावतेवोक्तनिरासा इति। अत आह ।। %भाविन इति% ।। अयं भावः, किमस्मन्मते कुम्भस्य तत्वत्वमापाद्यते? किं वा रक्तवस्य? अनत्येऽपि किं भाविनः? उत पूर्वप्रतीतस्य? आद्ययोरिष्टापत्तिः। अन्त्यस्य चात्यन्तासत्वादापादकाभाव इति।
</तत्वसामान्यलक्षणस्य खण्‍नक्तातिव्याप्तिनिरासः>

<मूलव्याख्यानपुरस्सरं स्वतन्त्रास्वतन्त्रतत्वलक्षणकथनम्>
(टी.)
%तद्‌द्विविधं स्वतनत्रमस्वतनत्रं चेति, इति इतिशब्दाध्याहारेण योज्यं। अन्यथा स्वतन्त्रमस्वतन्त्रं च तत्वं प्रत्येके द्विविधमिति प्रतीतिः स्यात्. स्वरूपप्रमितिप्रवृत्तिलक्षणसत्तात्रैविध्ये परानपेक्षं स्वतन्त्रं। परापेक्षमस्वतन्त्रं।%
</मूलव्याख्यानपुरस्सरं स्वतन्त्रास्वतनत्रतत्वलक्षणकथनम्>

<मूलव्याख्यानपुरस्सरं स्वतन्त्रास्वतन्त्रतत्वलक्षणकथनम्>
(रा. टी.)
केचित्खरूपमेव धर्मिणस्सत्तामाहुः। अन्ये प्रमितिं। अपरे प्रवृत्तिं। अतो मतत्रयानुरोधेनाह।। %स्वरूपेत्यादि% ।।
</मूलव्याख्यानपुरस्सरं स्वतन्त्रास्वतनत्रतत्वलक्षणकथनम्>

<मूलव्याख्यानपुरस्सरं स्वतन्त्रास्वतन्त्रतत्वलक्षणकथनम्>
(का. टी.)
इदानीं मूलं योजयति।। %तदितिं ।। तत्% तत्वं। %अन्यथा% इतिशब्दानध्याहारे। स्वतन्त्र द्वैविध्यं च प्रमाणबाधितमिति भावः। स्वतन्त्रास्वतन्त्रयोरपि उद्देशलब्धं लक्षणमाह।। %स्वरूपेति% ।। स्वरूपमनागन्तुकं रूपं। प्रमितिः प्रमायोग्यत्वं अबाधितधर्म इति यावत्। प्रवृत्तिः कार्यजननशक्तिः। एतल्लक्षणत्रिविधसत्तासु स्वाधीनत्वं स्वतन्त्रत्वमित्युक्तौ रमादिष्वतिव्याप्ति। अतः स्वमात्राधीनत्वं विवक्षणीयं। तच्च न स्वान्यानधीनत्वे सति स्वाधीनत्वं। विशेष्यवैयर्थ्यादिति भावेनोक्तं ।। %परानपेक्षमिति% ।। स्वस्य स्वाधीनत्वादसम्भववारणाय परशब्दः। न च स्वरूपेत्यादिकं व्यर्थं। परानधीनस्वरूपत्वादेरेव विवक्षितत्वेन यथासंनिवेशेनावैयर्थ्यात्। न च प्रमित्यादिकं व्यर्थं। परानधीनप्रमितित्वादेः पृथग्लक्षणत्वात्। सत्तात्रैविध्योक्तिस्तु स्वरूपादित्रयस्य सत्ताव्यवहारविषयत्वज्ञापनार्था। न चैवं सामान्यतः परानधीनसत्ताकत्वमेव लक्षणमस्त्विति वार्च्यं। एकमते स्वरूपादित्रये सत्ताव्यवहाराभावेन विशेषलक्षण एव पर्यवसानात्। यथोक्तं %सुथायां। केचिन्मन्यन्ते, वस्तुनः स्वरूपमेव सत्वमिति। अपरे प्रमाणयोग्यत्वमिति। अन्ये तु पुनरर्थक्रियाकारित्वमिति। तदिदं त्रयं प्रकृत्यादीनां भगवदधीनमिति।% अत एव %यत्स्वशत्तादौ परानपेक्षमिति तत्वविवेकटीकायामादि%पदेन प्रवृत्त्यादिकमुपात्तं। वस्तुतः परानधीनत्वमेव स्वतन्त्रत्वं। तद्वैपरीत्यमस्वतन्त्रत्वं। स्वरूपेत्यादिकं तु तदुपपादनमित्यवधेयं।
केचत्तु स्वनिष्पत्तिस्वप्रमितिस्वप्रवृत्त्यन्यतमेषु परानपेक्षं स्वतन्त्रं। तद्विपरीतमस्वतन्त्रं। स्वप्रमितिपदेन च स्ववृत्तियावद्धर्मप्रकारकयथार्थज्ञां विवक्षितं। अतः स्वतन्त्रस्य पराधीनप्रमितिविषयत्वेऽपि न दोष इति व्याचक्षते।
%यत् स्वसत्तादौ स्वाधीनं, न तु परापेक्षं तत् स्वतन्त्रं इति तत्वविवेकटीकायां% यथाश्रुतं स्वाधीनत्वमपि तल्लक्षणं। विशेषबलात्स्वस्य स्वाधीनतानिर्वाहात्. विशेषे विप्रतिपद्यमां प्रति परानपेक्षत्वं विवक्षितमिति %व्यासतीर्थचरणैरु%क्तं। तत्राद्ये रमादावतिव्याप्तिवारणाय मुख्यतः स्वाधीनत्वं विवक्षणीयं। तच्च परानधीनस्वनिष्ठनियामकताकत्वं। रमादीनां च स्वनिष्ठनियामकत्वस्य पराधीनत्वान्नातिव्याप्तिः। द्वितीये च परशब्दः स्पष्टार्थ एवेत्याशयः।
</मूलव्याख्यानपुरस्सरं स्वतन्त्रास्वतनत्रतत्वलक्षणकथनम्>

<सामान्यतस्तत्वसद्भावसमर्थनम्>
(टी.)
%तदुपपादनायोक्तं इष्यते इति। प्रमाणिकैरिति शेषः। थथा हि, यदि तत्वमेव नास्तीति ब्रूयात्तदा प्रत्यक्षादिविरोधः। (4)सा भ्रान्तिरिति चेन्न। बाधकाभावात्। न च निरधिष्ठाना भ्रान्तिरस्ति। नापि निरवधिको बाधः। `नास्त्येव तत्वं' इत्यस्यार्थस्य प्रमितत्वाप्रमितत्वयोर्व्याघातश्च।%
(F.N){4. का. टि. भ्रान्तिः सेति चेन्न.}
</सामान्यतस्तत्वसद्भावसमर्थनम्>

<सामान्यतस्तत्वसद्भावसमर्थनम्>
(रा. टि.)
%।। तदुपपादनायेति ।।% स्वातनत्र्यपारतन्त्रभेदेन तत्वद्वैविध्योपपादनायेत्यर्थः।। %सा भ्रान्तिरिति% ।। विधेयापेक्षया स्त्रीलिङ्गोक्तिः। घटस्सन् पटस्सन् इत्यादिप्रत्यक्षादिरित्यर्थः। भ्रान्तिबाधावङ्गीकुर्वाणेनापि आरोपाधिष्ठानत्वेन (5)इदमेवं नेति बाधावधित्वेन वा शुक्तिरजतादाविदं रजतं नेदं रजतमित्यादाविव किञ्चित्तत्वमभ्युपेयं। अन्यथा तावुभौ न स्यातामिति भावेनाह ।। %न चेति ।। इत्यस्यार्थस्येति ।।% तत्वाभावरूपार्थस्य प्रमितत्वे स एव तत्वमिति तत्वाभावोक्तिर्व्याहता। अप्रमितत्वे अभावरूपतत्वमेव नास्तीति तत्वाभावोक्तिर्व्याहतेत्यर्थः।
</सामान्यतस्तत्वसद्भावसमर्थनम्>

<सामान्यतस्तत्वसद्भावसमर्थनम्>
(का. टि.)
न्यूनताभङ्गाय परीक्षार्थत्वेन %इष्यते% इति मूलमवतारयति।। %तदुपपादनायेति% ।। उक्तार्थस्यवोपपन्नत्वज्ञापनायेत्यर्थः। इष्यते अङ्गीक्रियते %प्रामाणिकै%रित्यन्येषामप्रामाणिकत्वलाभात्परपक्ष तिक्षेपपूर्वकस्व पक्षस्थापनरूपपरीक्षालाभ इति भावः। तत्प्रकारं दशयति।। %तथा हीत्यादिना% ।। उक्तार्थस्यानुपपन्नत्वं किं तत्वस्यैवाभावात्? भावो वा तत्वस्यैकत्वात्? अनेकत्वेऽपि वा सर्वस्वातन्त्र्यात्? किं वा सर्वास्वातन्त्र्यात्? तत्राद्यं दूषयति।। %यदीती।। प्रत्यक्षादिविरोधः% घटादिविषयकप्रत्यक्षादिप्रतीतेः प्रमात्वानुपपत्तिः। विषयाभवादिति भावः। अत्रेष्टापत्तिमाशङ्कते ।। %भ्रान्तिरिति ।। बाधकाभावादिति% ।। प्रमात्मबाधकस्य विषयासत्वप्रत्ययस्याभावादित्यर्थः। तथा च भ्रान्तित्वे साधकाभाव इति भावः।
ननु मा भूदस्मदादीनां बाधकप्रत्ययः। बुद्धादीनां त्वस्त्येव। स एव भ्रान्तित्वसाधको भविषय्तीत्याशङ्क्य भ्रान्तिबाधकयोर्बाधकं चाह।। %न चेति% ।। यत्रारोपस्तदधिष्ठानं। यत्र बाधः सोऽवधिः। तदविनाभूतौ भ्रान्तिबाधौ। `इत्थं' इत्येव भ्रान्तेः `नत्थं' इत्येव बाधस्य चादर्शनात्। किन्तु? `इदमित्थं' `नेदमित्थं' इत्येवेत्यधिष्ठानावधिभूततत्वाभावे भ्रान्तिबाधानुपपत्तिरिति भावः। न चैवं `नरशृङ्गमस्ति' `नास्ति' इत्यादिभ्रमबाधानुपपत्तिः। अपरोक्षभ्रमस्थल एव तथाङ्गीकारात्। एवं च विश्वविषयकभ्रान्तिबाधाङ्गीकर्त्रापि अधिष्ठानावधिभूततत्वमङ्गीकार्यमेवेति हृदयं। ननु `नास्त्येव तत्वं' इति निरवधिकबाधो बुद्धैरङ्गीक्रियते। अन्यथा सर्वासत्वप्रतिपादनानुपपत्तेः। ततश्च घटादिप्रत्ययस्य निरधिष्ठानकस्यैव भ्रमत्वमपीत्याशङ्क्याह %।। नास्त्येवेति ।।% आद्यतादृशबाधविषयस्य तत्वाभावस्य, द्वितीये तत्प्रतियोगिनो घटादेरेव तत्वत्वसिद्ध्यापत्त्या तत्वसामान्यनिषेधे व्याघात इत्यर्थः। भावाभावयोरेकस्याप्रमितत्वे अन्यस्य प्रमितत्वं न्यायप्राप्तमिति भावः। न च सर्वासत्त्ववादिभिस्तादृशन्यायानभ्युपगमान्न दोष इति वाच्यां तत्वसामान्यनिषेधे प्रमाणक्तौ तद्विषयतत्वसिद्धेरावश्यकत्वात्। तदनुक्तौ वादित्वाभावेन जडवदुपेक्ष्यत्वात् सर्वासवत्तदिप्रतिपादनं त्वाग्रहादिमूलमेवेति ध्येयं।
</सामान्यतस्तत्वसद्भावसमर्थनम्>

तत्वैकत्ववादनिरासः
(टी.) %यदि चैकमेव तत्वं तदा भेदोपलम्भविरोधः? तद्भ्रान्तितायां च बाधकं वाच्यं। तच्चा न्यत्र निरस्तं।%

<सर्वस्वातन्त्र्यवादनिरासः>
सर्वस्वातन्त्र्यवादनिरासः
%यदि वा परतन्त्रमेव तत्वं भवेत्तदा अनवस्थितेरसम्भवाच्च न कस्यापि सत्तादिकं स्यात्। आगमविरोधश्च।%
</सर्वस्वातन्त्र्यवादनिरासः>

<सर्वस्वातन्त्र्यवादनिरासः>
(रा.टि.)
नन्वस्तु नाम तत्वं। तच्च ब्रह्मरूपं शून्यरूपं वा स्वरसभङ्गुरं विज्ञानरूपं वा एकमेव। न द्विविध मिति। अत आह।। %यदि चेति ।। भेदोपलम्भेति ।।% `नाहं चैत्रः, अपि तु मैत्रः' इत्यादिरूपेण जीवानामन्योन्यं जडाच्च, जडानामन्योन्यं च भेदोपलम्भविरोध इत्यर्थः।। %तच्चान्यत्रेति% ।। दृश्यत्वाद्यनुमानादिरूपबाधकं। `वैधर्म्याच्च न स्वप्नादिवत्' इत्यादिसूत्रभाष्यादौ तत्वनिर्णयादिप्रकरणेषु च निरस्तमित्यर्थः ।। %पारतन्त्र्यादीति ।।% आरब्धकार्यप्रतिहत्या अनभिलषितानिष्टप्राप्त्या च पारतन्त्र्यानुभवात्। आदिपदेन हिताकरणाहितरणकृत्स्नप्रसक्त्यादिग्रहः %।। नित्यसुस्वादीति ।।%
%यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत्।%
इत्युक्तेरिति भावः। आदिपदेन दुःखनिवृत्तिः %।। अनवस्थितेरिति ।।% पराधीनत्वाविशेषात् अस्यायं नियामकः तस्यान्यः तस्याप्यपरः इत्यपर्यवसितानन्तव्यक्तिपरम्परापत्त्या पूर्वपूर्वनियमनासिद्ध्योत्तरोत्तरनियमनासिद्धेर्मूलक्षयकरानवस्थादोषादित्यर्थः। अभ्युपेत्येदमुदितं। वस्तुतस्तु परतनत्रत्वाविशेषादन्येनान्यस्य नियमनमेवासम्भवीत्याह %।। असम्भवादिति ।।% एकेनान्यस्य नियमनासम्भवान्न कस्यापि सत्ता प्रतीतिः प्रवृत्तिश्च स्यादित्यर्थः। तदाह सूत्रकारः %`अनवस्थितेरसम्भवाच्च नेतरः'% इति ।। %आगमेति% ।। `पृथिवीमन्तरो यमयति' `आत्मानमन्तरो यमयति' इत्याद्यागमविरोध इत्यर्थः।
%सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः।%
इत्युक्तेरिति भावः।
</सर्वस्वातन्त्र्यवादनिरासः>

<सर्वस्वातनत्र्यवादनिरासः>
(का. टि.)
दवितीयं दूषयति ।। %यदि चेति% ।। ननु घटपटादिभेदप्रतीतिर्भ्रान्तिरेव अधिष्ठानतत्वाभ्युपगमेनो-क्तदोषाभवादिति। अत आह ।। %तद्भ्रान्तितायामिति% ।। भेदप्रतीतेर्भ्रान्तितायामङ्गीक्रियमाणायां तत्प्रमात्वे बाधकं वाच्यं, अनय्थाधिष्ठानज्ञानस्यापि भ्रान्तित्वापातात्। तच्च, भेदो मिथ्या भेदत्वाच्चन्द्रभेदवत्' इत्याद्यनुमानरूपपमुपजीव्यप्रत्यक्षादिविरोधादप्रमाणं %अन्यत्र% तत्वोद्योतादौ %निरस्त%मित्यर्थः। तृतूयं दूषयति ।। %यदि वेति% ।। पारतन्त्र्यादीत्यादिना दुःखादेर्नित्यसुखादीत्यादिना तदभावादेः परिग्रहः। स्वतन्त्रस्येष्टानिष्टप्राप्तिपरिहारावश्यकत्वात्। न च कथमचेतनस्य घटादेः सुखादिप्रसङ्ग इति वाच्यं। स्वातन्त्र्यादेव चैतन्यस्यापि प्राप्तेः। सुखादेरपि स्वातन्त्र्येण कारणानपेक्षत्वाच्च। न चैवं सुखादेरन्येनानापाद्यत्वात्कथं तत्प्रसङ्ग इति वाच्यं। ईश्वरवन्नित्यव्यक्तसुखरूपत्वादेरापाद्यत्वात्। चतुर्थं दूषयति ।। %यदि वेति ।। अनवस्थितेगिति ।।% यस्य यदधीनत्वं तस्य तदन्याधीनत्वमित्यव्यनस्थितेः, विनिगमकाभावेन मिथो नियामकत्वासम्भवाच्च, नियामकसिद्ध्या न कस्यापि सत्ताप्रवृत्यादिकं स्यादित्यर्थः। न च सिद्धान्तेऽप्येष दोषः। सर्वनियामकेश्वरशक्तेरेव विनिगामकत्वादिति भावः %।। आगमविरोधश्चेति ।।% `सर्वस्याधिपतिः सर्वस्येशानः' इत्याद्यागमविरोध इत्यर्थः।
</सर्वस्वातनत्र्यवादनिरासः>

<मूलोक्ततत्वविभागपरीक्षा>
(टी.)
%यद्यपि भावाभावतया वा चेतनाचेतनत्वेन वा नित्यानित्यतया वा अस्य द्वैविध्यं शक्यते वक्तुं। तथाप्यस्य वैयर्थ्यादयमेव विभागो न्याय्यः। परतन्त्रप्रमेयं स्वतन्त्रप्रमेयायत्ततया विदितं हि निश्श्रेयसाय भवति। तथा च प्रकरणान्ते वक्ष्यति। अन्यथा गङ्गावालुकपरिगणनवदिदं तत्वसङ्ख्यानमपार्थकं स्यात्। अतः स्वतन्त्रास्वतन्त्रभेदाद्‌द्विविधं तत्वमिति।%
</मूलोक्ततत्वविभागपरीक्षा>

<मूलोक्ततत्वविभागरीक्षा>
(री. टि.)
एवं च तत्वपदेन द्विविधपदेन स्वतनत्रास्वतन्त्रपदाभ्यां व्यावर्तितं पक्षचतुष्टयं इष्यते इतिपदसूचितयुक्तिभिर्निरस्येदानीमेवं विभागमाक्षिप्य समाधत्ते ।। %यद्यपीत्यादिना स्वतन्त्रतत्वस्येत्यतः प्राक्तनेन ग्रन्थेन ।। अस्येति ।।% तत्वस्येत्यर्थः। न्याय्यतां व्यनस्ति %।।परतन्त्रेत्यादिना%। कुत एतत्? इति। अत आह।। %तथा चेति5 ।। उक्तप्रकारेण वक्ष्यति च %सृष्टिः स्थितिश्चे%त्यादिना सर्वस्येशायत्तत्वमित्यर्थः। `तादृशज्ञानं निश्रेयसहेतुः' इति तत्रानुक्तावपि तदुक्तिवैयर्थ्यान्यथानुपपत्त्या तल्लभ्यत इति भावः। परतन्त्रेत्यादिस्वोक्तार्थे स्वयं युक्तिं चाह ।। %अन्यथेति% ।। एवं विभागाकरण इति वा, पराधीनतया जगतो ज्ञातव्यत्वाभाव इति वा, तथा ज्ञानस्य निःश्रेयसहेतुत्वाभाव इति वा अर्थः ।। %अत इति% ।। स्वातन्त्र्यादिभेदेन विभागस्योक्तदिशा न्याय्यत्वादित्यर्थः। इति शब्दः %स्वतन्त्रमवस्वतन्त्रं% चेत्यनेनोक्तविभागसमर्थनपरिसमाप्तौ वर्तते।
</मूलोक्ततत्वविभागरीक्षा>

<मूलोक्ततत्वविभागरीक्षा>
(का. टि.)
स्यादेतत्, प्रकारान्तरेणापि त्वविभागसम्भवात्स्वातनत्र्यास्वातन्त्र्याभ्यामेव तद्विबागे किं नियामकमित्याशङ्क्याह ।। %यद्यपीति ।। अस्य% भावाभावत्वादिना विभागस्य। %वैयर्थ्यात्% मोक्षानुपयोगित्वात्। स्वातन्त्र्यादिना विभाग एव कथं मोक्षोपयोगीति। अत आह %।। परतन्त्रेति ।। निःश्रेयसाय% मोक्षाय। विभागान्तरे च प्रपञ्चस्य पारतन्त्र्यालाभादिति भावः। एतच्च %आचार्यैः% सूचितमित्याह।। %तथा चेति ।।% स्वतन्त्रास्वतन्त्रविवेकस्य मोक्षोपयोगित्वाभिप्रायेणैवेत्यर्थः। अन्यथा %सृष्टिः स्थितिश्चेत्या%दिना सर्वस्य विष्ण्वधीनत्वोक्तेर्वैयर्थ्यात्,
%य एतत्परतन्त्रं तु सर्वमेव हरेः सदा।
वशमित्येव जानाति संसारान्मुच्यते हि सः% ।।
इति तत्वविवेकान्ते स्पष्टमुक्तत्वेन तदनतिभिन्नार्थकेऽप्यत्र तदभिप्रायस्यावश्यकत्वाच्चेति भावः। ननु स्वतन्त्रास्वतन्त्रविवेकबद्धावाभावादिविवेकोऽपि मोक्षोपयोगी। अन्यथा %भावाभावौ द्विधेतरत्% इत्यादेर्वैयर्थ्यापत्तेरति। अत आह।। %अन्यथेति% ।। स्वातन्त्र्यादिना अविभज्य भावत्वादिनैव विभागेऽपार्थकं स्यात्। स्वातन्त्र्यादिविवेकस्यैव मोक्षमुख्योपायतायास्तत्वविवेकादिसिद्धतया तदभावे तदङ्गभूतभावत्वादिविवेकस्य वैयर्थ्यादिति भावः। तथापीत्यादिनोक्तमुपसंहरति।। %अत इति% ।। अक्तरीत्या तत्वद्वैविध्यस्यैव प्रामाणिकत्वात्प्रयोजनबत्वाच्चेत्यर्थः। इतीत्यनन्तरं विभागो युक्त इति शेषः।
</मूलोक्ततत्वविभागरीक्षा>

<स्वतन्त्रतत्वस्यादौ निर्देशे लक्षणाथने च बीजकथनम्>
(टी.)
%स्वतन्त्रतत्वस्य प्राधान्यात्तदेवादावुद्दिष्टं। उद्देशेनैव लक्षणं च लब्धं।%
(5)अत एवादौ तन्निर्दिशति
%स्वतन्त्रो भगवान्विष्णुः..................।%
मूले भगवानिति पदस्य द्विविधमिति पदस्य च कृत्यकथनम्
%अत्र भगवानिति विष्णोः स्वातन्त्र्योपपादकं। अन्यदस्वतन्त्रमिति शेषः। अथ वा द्वे तत्वे इत्युक्ते स्वतन्त्रमिव परतन्त्रमेका व्यक्तिरेव प्रसज्येत। तथा च प्रमाणविरोधो वक्ष्यमाणविभागविरोधश्च। अतो द्विविधमित्युक्तं। (6)ततश्च स्वतन्त्रमप्यनेकविधं स्यादित्यत इदमुक्तं। अथ वा स्वतन्त्रा स्वतन्त्रभेदेन तत्वद्वैविध्यमङ्गीकुर्वाणा अपि साङ्ख्यादयः प्रधानादिकं स्वतन्त्रतत्वमातिष्ठन्ते। तन्निरासायेदमुदितमिति।%
(F.N){5. का. टि. तत एवादौ. 6. का. टि. ततश्च स्वतन्त्रमप्यनेकं स्यादित्यत इदमुक्तं-}
</स्वतन्त्रतत्वस्यादौ निर्देशे लक्षणाथने च बीजकथनम्>

<स्वतन्त्रतत्वस्यादौ निर्देशे लक्षणाथने च बीजकथनम्>
(रा. टि.)
स्वतन्त्रतत्वस्य प्रथमोद्देशे निमित्तमाह %।। स्वतन्त्रतत्वस्येति ।। उद्दिष्टमिति ।।% प्रथमवाक्ये। ननु उद्देशस्य लक्षणोक्त्यर्थत्वादुद्देशानन्तरं लक्षणानुक्तिरनुचितेति। अत आह %।। उद्देशेनैवेति ।। लक्षणं चेति ।।% स्वसत्तादौ परानपेक्षत्वरूपमित्यर्थः %।। अत्र भगवानितीति ।। स्वातन्त्र्योपपादकमिति ।।% तेन समग्रैश्वर्यादिषङूगुणवत्वस्य लाभादिति भावः। मूले अस्वतनत्रतत्वप्रदर्शकपदाभावादाह %।। अन्यदस्वतन्त्रमिति शेष इति ।।% `सङ्ख्याय विधार्थे धा' इत्युक्तस्य %द्विविधमि%ति धाप्रत्ययस्यार्थवत्त्वं वक्तुमाह %।। अथ वेति ।।% तत्रावान्तरभेदसूचकधाप्रत्ययाभावादिति भावः। %तथा चेति ।।% एकव्यक्तिप्रसक्तितश्च प्रत्यक्षादिप्रमाणविरोध इत्यर्थः %।। अत इति ।।% अवान्तरानेकभेदसूचनायेत्यर्थः %।। इत्युक्तमिति ।।% `अवान्तरानेकभेदोपेते द्वे तत्वे' इत्यर्थलाभाय धाप्रत्ययान्तपदं प्रयुकतमित्यर्थः। अस्त्वेवं। तथापि किं प्रकृते? इति। अत आह %।। ततश्चेति ।।% धाप्रत्ययान्तप्रयोगतश्चेत्यर्थः। परतन्त्रमिवेति योज्यं। %विष्णुरित्युक्तेर%र्थवत्त्वाय योजनान्तरमाह %।। अथ वेति ।। साङ्ख्यादय इति ।।% साङ्ख्यशैवहैरण्यगर्भप्रभृतयः। प्रधानादिकं प्रधानशिवहिरण्यगर्भस्कन्दसूर्यशक्त्यादिकमित्यर्थः। आतिष्ठन्ते अभ्यपगच्छन्ति।
</स्वतन्त्रतत्वस्यादौ निर्देशे लक्षणाथने च बीजकथनम्>

<स्वतन्त्रतत्वस्यादौ निर्देशे लक्षणाथने च बीजकथनम्>
(का. टि.)
नन्वस्वतन्त्रमेवादौ कुतो नोद्दिष्टं?। तज्ज्ञानस्यार्थतः स्वतन्त्रपदार्थधीहेतुत्वादिति। अत आह %।। स्वतन्त्रतत्वस्येति ।। प्राधान्यात्% उत्तमत्वात्। तज्ज्ञापनायेति यावत्। उद्दिष्टस्य लक्षणं कुतो नोक्तं? अत आह %।। उद्देशेनेति ।।% नामसङ्कीर्तनेनेत्यर्थः। इष्यते इत्युक्त्या परीक्षापि लब्धेति चार्थः %।। तत इति ।।% स्वतन्त्रस्य प्रथमोद्दिष्टत्वाल्लक्षणादेर्लब्धत्वाच्च तत्स्वरूपमात्रं दर्शयतीत्यर्थः। एतेन मूले %भगवानि%ति लक्षणोक्तेस्तन्निर्देशमात्रत्वं कुतः? इत्यपास्तं। उद्देशेनैव लक्षणस्य लब्धत्वेनानाकाङ्‌क्षितत्वात्। तर्हि भगवत्पदं व्यर्थमत आह %।। अत्रिते ।।% भगवत्वं समग्रैश्वर्यादिमत्वं। `विष्णुः स्वतन्त्रो भगवत्त्वात् व्यतिरेकेण जीववत्' इति प्रयोगो बोध्यः। न्यूनताभङ्गाय पूरयति %।। अन्यदिति ।।% यद्यप्येकस्य स्वातन्त्र्योक्तावन्यस्यास्वातन्त्र्यमर्थाल्लभ्यते तथापि प्रमाणप्रमेयेत्यादिवदेतद्विभागस्य सङ्कीर्णत्वशङ्कानिरासाय पूरणमावश्यकं। न च स्वातन्त्र्यास्वातन्त्र्ययोर्विरोधान्नैतच्छङ्कावकाश इति वाच्यं। राजाधीनत्वतदभावयोरिव कादाचित्कसमावेशस्य शङ्क्यत्वात्। पूरणमन्तरापि मूलं व्याख्यातुमाह %।। अथ वेति ।।% अत्र %द्विविध%मित्युक्त्या प्रसक्तस्वतन्त्रानोकत्वशङ्कापरिहाराय तदेकत्वाभिधानापेक्षया द्वैविध्यानुक्तिरेव लाघवाद्वरमित्याशङ्कामपनेतुं तदावश्यकत्वं तावदाह %।। द्वे इति ।। प्रसज्यत इति ।।% द्वित्वस्य व्यक्तिद्वयमात्रवृत्तित्वादिति भावः। ननु द्वे %तत्वे% इत्यपि न वक्तव्यं। इतिशब्दाध्याहारमन्तरेणैव %स्वतन्त्रमस्वतन्त्रं च तत्व%मित्यन्वयोपपत्तेः। न च `द्रव्यादयः सप्त पदार्थाः' इत्यादिवदुक्ताधिकतत्वव्यवच्छेदाय सङ्ख्यानिर्देशावश्यकतेति वाच्यं। स्वातन्त्र्यास्वातन्त्र्ययोर्भावाभावरूपत्वेन तदुभयानाश्रयत्वशङ्काऽयोगात्। मैवं, नित्यानित्यवत्तदुभयानाश्रयतत्वान्तरसम्भावनाभङ्गाय तदावश्यकत्वात् %।। प्रमाणविरोध इति ।।% परतन्त्रानेकत्वाग्राहकप्रत्यक्षादिविरोध इत्यर्थः। %द्विवि%धमित्युक्तौ च द्वित्वस्य विधापदार्थप्रकारान्वयान्नोक्तविरोध इति भावः। ततः किं प्रकृते? इति। अत आह %।। ततश्चेति ।। अनेकं स्यादिति ।। अनेक%मिति शङ्का स्यादित्यर्थः। %इदमुक्तं% स्वतन्त्रो भगवान्विष्णुरित्येतदुक्तं। अनेन च स्वतन्त्रस्यैकत्वलाभादनेकत्वशङ्कानिरास इति भावः। एतत्कल्पे च स्वतन्त्रमेकमेवेत्येव वक्तुमुचितमित्यपरितोषादाह %।। अथ वेति ।।% प्रधानं जडप्रकृतिः। शैवादयः शिवादिकमङ्गीकुरवनतीत्यादिशब्दार्थः %।। तन्निरासायेति ।।% भगवत्त्वाद्विष्णुरेव स्वतन्त्रो न प्रधानादिरभगवत्त्वात्। अन्यथा `न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप' इत्यादिश्रुतिविरोधः इत्यादिरीत्या परपक्षनिरासेन स्वपक्षस्थापनायेत्यर्थः। अत्र %मूलस्यानेकार्थत्वमभिप्रेतं। एवमन्यत्राप्यवधेयं।%
</स्वतन्त्रतत्वस्यादौ निर्देशे लक्षणाथने च बीजकथनम्>

<अस्वनन्त्रतत्वविभागः>
(टी.)
%द्विविधमित्युक्त्या परतनत्रतत्वमवान्तरभेदवदिति सूचितं। तत्कथं? इति। तत्राह ितरत्स्वतन्त्रात् अस्वतन्त्रतत्वं द्विधा। कथं भावोऽभावश्चेति। अभावप्रतीतिर्भावप्रतीत्यधीना नियमेनेति प्राधान्यात्प्रथमं भावस्योद्देशः। प्रथमप्रतीतावस्तीत्युपलभ्यते यः स भावः। यश्च प्रथमोपलब्धौ नास्तीति प्रतीयते सोऽभावः। कुत एतत्? स्वरूपेण हि भावाभावौ विधिनिषेधात्मानौ। रूपान्तरेण तु निषेध विधिरूपौ। तत्रापातजायां संविदि स्वरूपमेव भासते। द्वितीयादिप्रतीतौ रूपान्तरं। कार्यगम्यत्वात्सामग्रीभेदस्य। तथा च प्रतीतिः `अस्त्यत्र घटः, स न शुक्लः' इति। एव `नास्त्यत्र घटः, अस्ति घटाभावः' इति।%
</अस्वनन्त्रतत्वविभागः>

<अस्वनन्त्रतत्वविभागः>
(रा. टि.)
उत्तरवाक्यमवतारयति %।। इत्युक्त्येति ।।% विधार्थे विहितधाप्रत्ययान्तपदोक्त्येत्यर्थः। %तत्कथ%मिति प्रश्नः. %तत्र% एवं प्रश्ने सति परिहारमाहेत्यर्थः। हतिपदाध्याहारेणाह %।। भावोऽभावश्चेतीति ।।% भावस्य प्रथमोद्देशे निमित्तमाह %।। अभावप्रतीतिरिति ।। नियमेनेति ।।% प्रतियोगिज्ञानं विना अभावप्रतीतेः कदाप्यनुदयादिति भावः।
%.... .... .... .... .... ....प्रथमप्रतिपत्तिषु।
निषेधविधिरूपत्वं भावाभावत्वमत्र हि।।%
इति युकतिपादीयानुव्याख्यानानुरोधेनाह %।। प्रथमप्रतीताविति ।।% विषयिविषययोराधाराधेयभावो गौण इत्यभिप्रेत्य सप्तमीप्रयोगः %।। कुत एतदिति ।। एतत्% भावाभावव्यवस्थाकल्पनं। %कुतः% कुतो मानादित्यर्थः। घटादेर्भावस्यापि पटादिर्नेति निषेधधीविषयत्वादिति भावः. भावाभावधीरेव प्रमाणं। तथा प्रतीतौ च तत्तत्स्वरूपमेव नियामकमिति भावेनाहि %।। स्वरूपेणेति ।। विधीति ।।% अपरप्रतिक्षेपपरप्रतिक्षेपरूपावित्यर्थः। नन्वस्तु नाम भवाभावयोः स्वरूपेण विधिनिषेरूपता च। तथापि किं प्रकृते? इति। अत आह %।। तत्रेति ।।% नन्वापातजायां संविदि स्वरूपमेवावभासते। रूपान्तरं तु द्वितीयादिप्रतीतौ भसत इति कुतः? रूपद्वयप्रतीतिसामग्रीभेदे मानाभावादिति। अत आह %।। कार्यगम्यत्वादिति ।।% प्रतीतिरूपकार्यभेद एव तत्सामग्रीभेदे मानमिति भावः। पूर्वापरभावापन्नोक्तरूपद्विविधप्रतीतिरूपकार्यगम्यत्वाद्भावाभावप्रतीतिद्वयसामग्री भावस्यादौ विधिरूपप्रतीतिं जनयित्वा पश्चान्निषेधरूपप्रतीतिं जनयति। अभावप्रतीतिसामग्री तु भावप्रतीतिवैपरीत्येन अभावप्रतीतिं जनयतीत्येवं भावाभावप्रतीतिसामग्र्योर्भेदस्येति वा, भावस्यादौ विधिप्रतीतिसामग्री पश्चान्निषेधप्रतीतिसामग्रीत्यादिरूपेण सामग्रीभेदस्येति वा अर्थः। कार्यमेवासिद्धमिति। अत आह %।। तथा चेति ।।% उक्तरूपेणास्ति च प्रतीतिरित्यर्थः।
</अस्वनन्त्रतत्वविभागः>

<अस्वनन्त्रतत्वविभागः>
(का. टि.)
चतुर्थपादस्यानाकाङ्‌क्षितत्वं निवारयन्नाह %द्विविधमिति ।।% प्रकारस्यैव द्वित्वोक्त्या सूचितस्य प्रकार्यनेकत्वस्य स्वतन्त्रे अपवादे सति अस्वतन्त्र एव पर्यवसानादिति भावः। अपेक्षिताध्याहारेण मूलं योजयति %।। इतरदिति ।।% द्विवचनार्थद्वित्वपविवक्षितमिति भावेनाह %।। भावोऽभावश्चेति ।।% ननु पश्चान्निरूप्यमाणस्य भावस्य कथमादावुद्देशः? इति। अत आह %।। अभावप्रतीतिरिति ।।% अबावत्वेनाभावप्रतीतिरित्यर्थः। तेन वस्तुत्वादिना तत्प्रतीतेर्भावप्रतीत्यनधीनत्वेऽपि न क्षतिः। न चाभावपदजन्याभावप्रतीतौ व्यभिचारः. तस्याः पदशक्त्यादिरूपभावप्रतीत्यधीनत्वात्। अत्यन्ताभावप्रतीतेरपि अधिकरणादिप्रतीत्यधीनत्वात्। `अभावभिन्नो भावः' इति प्रतीतेरभावप्रतीत्यधीनत्वादभावस्यापि प्राथम्यापत्तिरतो %नियमेनेति%। यत्तु "भावत्वाज्ञानं विना भावभिन्नत्वरूपाभवत्वज्ञानासम्भवात्प्रथमं भावस्योद्देश इति" तन्न। वक्ष्यमाणाभावत्वस्य भावभिन्नत्वरूपत्वाभावादिति भावेनोक्तं %।। इति प्राधान्यादिति ।।% उक्तरूपप्राधान्यमेव पाथम्यनियामकमित्यर्थः। उद्देशक्रमेण भावाभावयोर्लक्षणमाह %।। प्रथमेति ।।% विधित्वेन प्रथमप्रतीतिविषयत्वं भावत्वं। निषेधत्वेन प्रथमप्रतीतिविषयत्वमभावत्वमित्यर्थः। विधित्वनिषेधा त्वे चाखण्डोपाधी। एतदभिप्रायेणैव %भावत्वादिकमखण्डोपाधिरिति विजयीन्द्रतीर्थश्रीमच्चरणैरुक्तं%। न तूक्तप्रतीतिविषयत्वरूपे। उक्तप्रतीतौ नियामकाभावप्रसङ्गात्। न चैवं तयोरेव भावाभावलक्षणत्वं। अभावभावयोरतिव्याप्तेः। द्वितीयादिप्रतीतावभावस्यापि विधित्वेन भाना%त्प्रथमेति%। प्रथमत्वं च प्रतीत्यनुत्तरत्वं। तेन द्वितीयादिप्रतीतेम्तृतीयादिप्रतीतितः प्राथम्येऽपि न क्षतिः. न चाभावप्रतीतेः प्रतियोग्यादिप्रतीत्युतरत्वनियमात्प्राथम्यायोगः। स्वविषयविषयकप्रतीत्यनुत्तरत्वस्यात्र विवक्षितत्वात्। न चान्योन्याभावेऽव्याप्तिः। तत्प्रतीतेस्तदभिन्नधर्मिप्रतीत्युत्तरत्वनियमादिति वाच्यं। भावस्वरूपाभावस्यालक्ष्यत्वात्। अभावस्वरूपे च धर्मिप्रतीतिमादायैव लक्षणसङ्गतेः. अत एव %यस्तु नास्तीति प्रतीयते सोऽभाव% इत्युक्तं। अन्यथा %यस्तु नेति प्रतीयते% इत्येवावक्ष्यत् %।। कुत एतदिति ।।% प्रथमप्रतीतावेकस्य विधित्वेनैव भानमन्यस्य निषेधत्वेनैवेत्येतत्कतः? इत्यर्थः। अत्र वस्तुस्वरूपवैचित्र्यमेव नियास्तद्विपरीत इत्यर्थः। भावस्य विधित्वनिषेधत्वे निर्विशेषसविशेषरूपे, अभावस्य तु तद्विपरीत इति यावत्। विशेषश्चात्र प्रथमप्रतीतिविषयत्वविरोधी ग्राह्यः। ततः किं?। अत आह %।। तत्रेति ।।% स्वरूपरूपान्तरयोर्मध्ये अक्षसन्निकर्षमात्राधीनायां प्रथमप्रतीतौ स्वरूपोपाधिनैव वस्तुभानं। न तु रूपान्तरोपाधिना। तद्भासकसामग्र्यभावादिति भावः। एवं च घटादिप्रतीतौ घटत्वादेर्भानमुपपद्यते। तस्य स्वरूपोपाधित्वात्। स्वरूपरूपून्तरभासकसामग्रीभेद एव कुतः? इति। अत आह %।। कार्येति ।।% कार्यवैचित्र्यगम्यत्वादित्यर्थः। अन्यथा कार्यवैचित्र्यानुपपत्तेः। स्वरूपप्रतीतिसहकृतसंनिकर्षादिकमेव रूपान्तरभासकसामग्रीति भावः। कार्यवैचित्र्यमेव दर्शयति %।। तथा चेति ।। नशुक्ल इति ।।% भेदस्य धर्मिस्वरूपत्वेऽपि निषेधत्वेन प्रतीतिः पश्चादेवेति भावः। यद्यप्येवं स्वरूपेण विधिनिषेधत्वयोरेव भावाभावलक्षणत्वसम्भवः तथापि तयोः प्रमितत्वसिद्धये प्रतीतिघटितलक्षणाभिधानमित्यवधेयं।
</अस्वनन्त्रतत्वविभागः>

<स्वतन्त्रतत्वस्य भावतत्वे अन्तर्भावसमर्थनम्>
(टी.)
ननु स्वतनत्रतत्वं भावोऽभावोऽन्यद्वा। नाद्यद्वितीयौ। भावाभावयोः परतन्त्राप्रभेदत्वात्। न तृतीयः व्याघातात्। मैवं, भावलक्षणाक्रान्तत्वात्। परतन्त्रं भावाभावतया द्विधैव न पुनरेकविधं। नापि त्रिविधमित्येवम्परो विभागः। न पुनः परतन्त्रमेव भावाभावात्मकमिति। यथा भावेषु स्वतन्त्रतत्वं प्रविशति तथा विभागः क्रियतामिति चेन्नैवं शङ्क्यं। तद्धि प्रधानतया सर्वविविक्तमेव वेदितव्यं। अन्यथा द्विविधं तत्वं भावोऽबावश्च। भावोऽपि द्विविधः नित्योऽनित्यश्च। नित्यो द्विविधः चेतनोऽचेतनश्च। चेतनोऽपि द्विविधः स्वतन्त्रोऽस्वतन्त्रश्चेतिकर्तव्यं। एवं सति न प्राधान्येन प्रतिपत्तिः स्यात्। भगवद्व्यतिरिक्तस्य सर्वस्याप्यस्वातन्त्र्यप्रतीतिर्न स्यात्। अस्मिन्पक्षे स्वतन्त्रस्य भावत्वं न विदितं स्यादिति सममेवेति चेन्न। पुरुषार्थोपयोगानुपयोगाभ्यां विशेषात्। अभावादीनां नित्यत्वाद्यनुक्तिश्च समैव। तस्माद्यथान्यासमेवास्तु।
</स्वतन्त्रतत्वस्य भावतत्वे अन्तर्भावसमर्थनम्>

<स्वतन्त्रतत्वस्य भावतत्वे अन्तर्भावसमर्थनम्>
(रा. टि.)
अस्वतन्त्रं भावाभावभेदाद्द्विविधमित्यङ्गीकारे स्वतनत्‌रं भावो न त्यादित्याशयेनाशङ्कते %।। नन्विति ।।% अन्यद्वा भावाभावाभ्यामन्यद्वेत्यर्थः. परतन्त्रप्रभेदत्वात् परतन्त्रविशेषत्वादित्यर्थः %।। व्याघातादिति ।।% भावो नेत्युक्ते अबाव इति प्राप्तं। पुनरभावो नेत्युक्ते व्याघातः। तथाऽभावो नेत्युक्ते भाव इति प्राप्तं। पुनर्भावो नेत्युक्ते व्याघात इत्यर्थः %।। भावलक्षणेति ।।% `अस्ति ब्रह्म' `नारायणो वा इदमग्र आसीत्' `ब्रह्म वा इदमग्र आसीत्' इत्यादिरूपेण प्रथमप्रतीतौ विधितया प्रतीयमानत्वरूपभावलक्षणोपेतत्वाद्भावत्वमेवेत्यर्थः। तर्हि %भावाभावौ द्विधेतरदित्यु%क्तुविरोध इति। अत आह %।। परतन्त्रमिति ।। इत्येवम्पर इति ।। इत्येवं % एतादृशो न्यूनाधिकसङ्ख्याव्यवच्छेदः परः उद्देश्यः यस्य स तथा तत्प्रयोजक इति यावत् %।। विभाग इति ।। भावाभावौ द्विधेतरत्% इत्यनेन उक्तविभाग इत्यर्थः। इतिशब्दान्तरं एवम्पर इत्यस्यानुषङ्गः। इत्येवं एतादृशोयं इतरव्यवच्छेदः तत्परो न भवतीत्यर्थः। शङ्कते %।। यथेति ।। तद्धीति ।।% स्वतन्त्रतत्वमित्यर्थः %।। अन्यथेति ।।% स्वतनत्रतत्वस्य भावत्वार्थकविभागकरणे तु %इति कर्तव्यमित्यन्वयः%। अस्त्वेवं तथापि का हानिः? इति। अत आह %।। एवमितीति ।।% भावत्ववन्नित्यत्वचेतनत्वयोरपि लाभायोक्तं नित्योऽनित्य इत्यादिविभागद्वयं %।। सर्वस्यापीति ।।% उक्तविभागे भगवदनय्चेतनमात्रस्यैवास्वातन्त्र्यप्रतीतेरिति भावः। %शङ्कते ।। अस्मिन्पक्ष इति ।।% मूलकृदुक्तविभागपक्ष इत्यर्थः %।। पुरुषार्थेति ।।% मूलकृदुक्तटीकाकृदुक्तविभागद्वयपक्षेऽपि कस्यचिदर्थस्याज्ञानसाम्येऽपि मूलकृदुक्तविभागपक्षः पुरुषार्थोपयोगी अवश्यज्ञातव्यः। प्राधान्यसर्वविभक्तत्वयोः स्वतन्त्रतत्वे ज्ञानोदयात्। टीकाकृत्प्रदर्शितविभागपक्षे तयोरज्ञानात् भावत्वज्ञानस्य च पुरुषार्थानुपयोगेन तजज्ञानेऽपि दोषाभावात्। मूलकृदुक्तविभागपक्षे तु पुरुषार्थोपयोगित्वविशेषभावादित्यर्थः। अथापि अनुपपत्तिरस्तीत्याशङ्क्याह %।। अभावादीनामिति ।।% अत्यन्ताभावध्वंसयोर्नित्यत्वं, प्रागभावस्यानित्यत्वं, त्रयाणामचेतनत्वं, पारतन्त्र्यं, अचेतेऽपि केषाञ्चिदनित्यत्वं, पारतन्त्र्यमित्यादिकमपि टीकाकृत्प्रदर्शितविभागे। मूलकृदुक्तविभागे विष्णोर्भावत्वमेव नोक्तं इति कस्यचिदनुक्तिरुभयत्र समैव। प्रत्युतात्र बहूनामनुक्तिः। तत्र भावत्वस्यानुक्तिरेवेत्यर्थः %।। तस्मादिति ।।% अनुक्त्योस्साम्यान्मूलोक्तविभागे विशेषसत्त्वाच्च मूलोक्तविभाग एवास्त्वित्यर्थः।
</स्वतन्त्रतत्वस्य भावतत्वे अन्तर्भावसमर्थनम्>

<स्वतन्त्रतत्वस्य भावतत्वे अन्तर्भावसमर्थनम्>
(का. टी.)
स्यादेतत्, भावाभावत्वाभ्यामस्वतन्त्रविभागो न युक्तः। शब्दतः सावधारणप्रतीतेरौत्सर्गिकतया %भावाभावौ द्विधेतरदि%त्यतः परतनत्रमेव भावाभावात्मकमित्यर्थलाभेन स्वतनत्रस्य भावत्वानुपपत्तेरिति भावेन शङ्कते %।। नन्विति ।। अन्यद्वा% अभिमतमिति शेषः। %परतन्त्रप्रभेदत्वात्% परतन्त्रविशेषत्वात्। भावत्वाभावत्वयो परतनत्‌रत्वव्याप्यत्वादिति यावत्। अन्यथोक्तावधारणानुपपत्तेरिति भावः। %व्याघातादिति ।।% भावभिन्नत्वाभावभिन्नत्वयोरभावभावमात्रवृत्तित्वेन तदुभयसामानाधिकरण्यस्य व्याहतत्वादित्यर्थः। न च शशशृङ्गादौ तदुभयसामानाधिकरण्यसम्भवः। आश्रयस्यैवासत्त्वेन तदनुपपत्तेः। अत्र स्वतन्त्रस्य नित्यानित्यत्वादिविकल्पनिरासोऽपि द्रष्टव्यः। अत्र यद्यपि स्वतन्त्रस्य भावत्वादित्येव वक्तव्यं तथाप्युक्तभावलक्षणवत्वेनैव भावत्वसिद्धेर्न विकल्पावकाश इति सूचनाय भावलक्षणाक्रान्तत्वादित्युक्तं। नन्वेवमुक्तविभागानुपपत्तिरित्यत आह %।। परतन्त्रमिति ।।% अयं भावः `शङ्खः पाण्डुरः' इत्यादाविव विशेषणांश एवावधारणप्रतीतिर्बाधकाभावात्। न तु `गौः सास्नाशृङ्गवती' इत्यादाविव विशेष्यांशेऽपि। स्वतन्त्रस्य भावत्वग्राहकप्रमाणबाधात्। न च विशेषणावधारणस्यायोगव्यवच्छेदरूपतया भावत्वादेश्चाभावादावयोगात्कथं तत्प्रतीतिरिति वाच्यं। प्रत्येकमयोगेऽपि द्वित्वोपलक्षितस्यायोगव्यवच्छिन्नत्वादिति। एवं नित्यत्वादिविभागस्यापि विशेषणांश एव सावधारणत्वात् स्वतन्त्रस्य नित्यत्वादिसिद्धिरपि द्रष्टव्या।
नन्वेवं तत्वं द्विविधं भावोऽभावश्च। भावोऽपि द्विविधः नित्योऽनित्यश्च। नित्यो द्विविधः चेतनोऽचेतनश्चेत्येव विभागो युक्तः। स्वतन्त्रस्य साक्षादेव भावत्वादिलाभात्। न च तस्य स्वातन्त्र्यालाभः स्वतन्त्रास्वतन्तरभेदेन चेतनविभागेनापि तल्लाभात्। अत एव पूर्वोक्तविभागवैयर्थ्यं स्वातन्त्र्यास्वातन्त्र्याभ्यामविभाग एव तद्दोषदानादित्याशयेन शङ्कते %।। यथेति ।। भावेषु% भावप्रभेदेषु भावत्वावान्तरविभाजकं स्वतन्त्रत्वं यथा भवतीति यावत्। उक्तरीत्या विभागे परापरतत्वयोरविशेषेण भावत्वादिप्रतीतिः स्यात्। सा च विफलेत्याशयेन समाधत्ते %।। नैवमिति ।। तत्% स्वतन्त्र्यतत्वं। %प्रधानतया% अनन्याधीनतया। %सर्वविविक्तं% सर्वतो विलक्षणधर्मवत्। प्रतिपत्तव्यमिति श्रुतिसिद्धमित्यर्थः। ततः किमित्यत आह %।। अन्यथेति ।।% स्वतन्त्रत्वस्य भावत्वावान्तरविभाजकत्वे। इति विभजनं कर्तव्यमिति सम्बन्धः। %प्राधान्येन प्रतीतिः अनन्याधीनभावत्वादिमत्वेन भगवत्प्रतीतिः। दोषान्तरं चाह %।। भगवद्व्यतिरिक्तस्येति ।।% अभावादेरस्वातन्त्र्यालाभादिति भावः। %अपि%शब्दः प्रतीतिरपीति योज्यः. अत्रैव प्रतिबन्धीमाशङ्कते %।। अस्मिन् पक्ष इति ।।% सिद्धान्तपक्ष इत्यर्थः। %सममेव% इति दूषणमिति शेषः। यद्यपि सिद्धान्ते स्वतन्त्रस्य भावत्वनित्यत्वचेतनत्वानां बहूनामलाभः। पूर्वपक्षे त्वचेतनेष्वस्वातन्त्र्यमात्रालाभ इति वाषम्यं। न चैकत्र बहुधर्मालाभस्य बहुष्वेकधर्मालाभस्य च साम्यमेवेति वाच्यं। तथा सत्यनन्ताचेतनानामस्वातन्त्र्यालाभस्यैव गरीयस्त्वापत्त्या पूर्वपक्षानुत्थितेः। तथापि सिद्धान्ते स्वतन्त्रत्वरूपैकविभाजकोपाध्यवच्छेदेन भावत्वादिधर्मत्रयालाभः। पूर्वपक्षे त अभावत्वानित्यत्वाचेतनत्वरूपविभाजकोपाधित्रयावच्छेदेनास्वातन्त्र्यरूपैकधर्मालाभ इत्येवं साम्यस्य विवक्षितत्वान्न दोषः. न च पूर्वपक्षे अनित्यस्याचेतनत्वालाभोऽधिक समीकरणादिति विभावनीयं %।। पुरुषार्थेति ।।% भगवदितरस्य सर्वस्याप्यस्वातन्त्र्यज्ञानं मोक्षोपयोगि. न तु भगवतः सर्वसाधारणभावत्वादिज्ञानमित्यर्थः। नन्वेवमभावस्य नित्यत्वाद्यलभो दोषः नित्यानित्यवस्तुविवेकस्यावश्यकत्वादिति। अत आह %।। अभावादीनामिति ।।% अभावस्य नित्यत्वाचेतनत्वाद्यनुक्तिर्मतद्वयेऽपि समैव। आदिपदाच्चेतनस्य नित्यत्वानुक्तिश्चाचेतनस्यानित्यत्वानुक्त्या समेत्यर्थः। तथा च प्रमाणान्तरादेव तदवगमः। उक्तविभागस्यान्ययोगव्यवच्छेदकत्वाभावादिति भावः। उपसंहरति %।। तस्यादिति ।।% अत्यन्तोपयोगित्वाद्यथोक्तविभाग एव युक्त इत्यर्थः।
</स्वतन्त्रतत्वस्य भावतत्वे अन्तर्भावसमर्थनम्>

<अस्वतन्त्रतत्वस्य भावाभावत्वाभ्यां विभागे विशेषकारणोक्तिः>
(टी.)
अथ अस्वतन्त्रं चेतनत्वादिनैव विभज्यतां। किं चेतनत्वादिना विभज्य भावाभावतया विभागः कर्तव्य उतायं न कर्तव्य एव। नाद्यः, विशेषाभावात्। अभावस्याचेतनत्वं एवं सति नोक्तं स्यादिति चेत्तथा सति चेतनस्य भावत्वमपि नोक्तं स्यादिति समं। तर्हि केन विशेषेणास्य प्राधान्यमिति चेत्। वादिविप्रतिपत्तिभावाभावाभ्यां विशेषात्। अत एव न द्वितीयोपीति।
</अस्वतन्त्रतत्वस्य भावाभावत्वाभ्यां विभागे विशेषकारणोक्तिः>

<अस्वतन्त्रतत्वस्य भावाभावत्वाभ्यां विभागे विशेषकारणोक्तिः>
(रा. टि.)
परतन्त्रस्य भावत्वादिना विभागे विशेषं विवक्षुराक्षिपति %।। अथेति ।।% अस्वतन्त्रं चेतनोऽचेतनश्चेति द्विविधं। अचेतनोऽपि भावोऽभावश्चेति द्वेधा। इत्यादिरूपेण विभज्यतां। किं भावत्वादिनेति भावः %।। विशेषेति ।।% पुरुषार्थोपयोगित्वादिविशेषस्याभावादित्यर्थः। विशेषमाशङ्क्य साम्यमाह %।। अभावस्येति ।। एवं सतीति ।।% भावत्वादिना विभागे कृते सतीत्यर्थः %।। अस्येति ।।% भावत्वादिना विभागस्येत्यर्थः %।। वादीति ।।% भावाभावत्वेऽस्ति विवादो न चेतनत्वादावतस्तन्निरासाय भावत्वादिविभागस्य प्राधान्यमित्यर्थः %।। अत एवेति ।।% (7)विवादाभावादेव कर्तव्यत्वपक्षो न युक्त इत्यर्थः।
(F.N){7. विवादभावादेव अकर्तव्यत्वपक्षो न युक्त इति पाठेन भाव्यमिति भाति.}
</अस्वतन्त्रतत्वस्य भावाभावत्वाभ्यां विभागे विशेषकारणोक्तिः>

<अस्वतन्त्रतत्वस्य भावाभावत्वाभ्यां विभागे विशेषकारणोक्तिः>
(का. टि.)
एवं तत्वविभागं समर्थ्य यथोक्तमस्वतन्त्रविभागं समर्थयितुमाक्षिपति %।। अथेति ।।% अस्वतन्त्रं द्विविधं चेतनमचेतनं चेत्येव विभज्यतामित्यर्थः। अन्यथा अभावस्याचेतनत्वालाभादित्यभिसन्धिः। अथास्वतन्त्रं नित्यत्वादिनैव विभज्यतामिति कुतो न शङ्कितमिति चेत् भावाभावतया नित्यादिविभागायोगात्। प्रागभावादेर्नित्यत्वाद्यभावादिति। समाधातं पृच्छति %।। किमिति ।। विशेषाभावादिति ।।% परोक्तविभागे लाघवरूपनियामकाभावादित्यर्थः। अभावस्याचेतनत्वलाभरूपनियामकमाशङ्कते %।। अभावस्येति ।। एवं सति% मूलोक्तविभागे सति। %तथा सति% अस्वतन्त्रं द्विविधं चेतनमचेतनं च। अचेतनं द्विविधं भावोऽभावश्चेति विबागे सतीत्यर्थः। मूलोक्तविभागेऽपि नियामकाभावमाशङ्कते %।। तर्हीति%। साम्ये सतीत्यर्थः। %प्रधान्य%मवश्यकर्तव्यत्वं %।। वादीति ।।% भावाभाविभाग एव विप्रतिपत्तेः सद्भावाद्विप्रतिपन्नस्य चाभ्यर्हितत्वेनादौ वक्तव्यत्वादुक्तविभागस्यैवावश्यकत्वमिति भावः। यद्यपि `मृदब्रवीत्' इत्यादिना चेतनाचेतनविभागेऽपि विप्रतिपत्तिर्वक्ष्यते तथापि सा न बहूनामित्याशयः। यद्वा मृदादिषु चेतनत्वरूपधर्मविषयविप्रतिपत्त्यपेक्षयाप्यभावरूपधर्मिविषयविप्रतिपत्तेः प्राधान्येनादौ निरस्यत्वमित्याशयः। यद्वा सर्वचेतनमतस्याभिमान्यधिकरणे विस्तरेण निरस्तत्वादद्यापि सा नास्त्येवेत्याशयः। अत एव तत्र प्रसिद्धप्रमाणसूचनाय मूले %मत% इत्युक्तमवगन्तव्यं %।। अत एवेति ।।% विप्रतिपत्तिसद्भावेनावश्यवक्तव्यत्वादेवेत्यर्थः।
</अस्वतन्त्रतत्वस्य भावाभावत्वाभ्यां विभागे विशेषकारणोक्तिः>

<प्राभाकरमतरीत्या अभावस्वरूपाक्षेपस्तत्खण्डनञ्च>
(टी.)
अभाव एव नास्तीति केचित्। तदसत्, नास्तीति प्रतीतेर्दुरपह्नवत्वात्। घटो नास्तीति प्रतीतिर्भूतलमात्रविषयेति चेत्। मात्रेति किं भूतलमेवोच्यते उतातिरिक्तं किञ्चित्। आद्ये घटवत्यपि प्रसङ्गः। अतिरिक्तोऽपि घटश्चेदुक्तो दोषः। भावान्तरं चेद्रूंपवति घटे गन्धो नास्तीति प्रतीतिप्रसङ्गः।
</प्राभाकरमतरीत्या अभावस्वरूपाक्षेपस्तत्खण्डनञ्च>

<प्राभाकरेण विपक्षे बाधकप्रदर्शनपुरःसरं स्वपक्षस्थापनं तन्निरासश्च>
(टी.)
ननु घटाबावो घटाभाववति भूतले सम्बद्ध्यते उत घटवति। नाद्यः, आत्माश्रयादिदोषप्रसङ्गात्। न द्वितीयः, विरोधात्। अतो वक्तव्यं भूतलमात्र इति। तदेवास्तु नास्तीति प्रतीतिविषय इति चेत्। प्रश्न एवायं विविच्यतां। यद्यभावसम्बन्धात्प्राक्कीदृशं भूतलमिति, यदि वा सम्बन्धसमये कीदृशमिति, यद्वा यद्यभावादिदं विविच्येत तदा कीदृशं नाम स्यादिति आद्ये सघटमित्येवोत्तरं। द्वितीये घटा भाववदिति। तृतीये यदि विवेको वस्तकृतः तदाऽभावस्य नष्टत्वाद्धटवदिति ।। यदि बुद्धिकृतस्तदा बुद्ध्यैव घटप्रसक्तिमदिति। अन्यथा एवं भावप्रतिक्षेपोऽपि स्यादित्यास्तां विस्तरः।
</प्राभाकरेण विपक्षे बाधकप्रदर्शनपुरःसरं स्वपक्षस्थापनं तन्निरासश्च>

<प्राभाकरेण विपक्षे बाधकप्रदर्शनपुरःसरं स्वपक्षस्थापनं तन्निरासश्च>
(रा. टि.)
विवादं प्रदर्शयन्निराह %।। अभाव इति ।।% केचित् %प्राभाकराः ।। भावान्तरमिति ।।% नास्तीतिधीविषय इति योज्यं %।। रूपवतीति ।।% रूपस्यैव तत्र भावान्तरत्वादिति भावः। अभाववादिनं प्रति बाधकोपन्यासमुखेन स्वोक्तपक्षं स्थापयति परवादी %।। नन्वित्यादिना ।। आत्माश्रयादीति ।।% अभावभेदाङ्गीकारे अन्योन्याश्रयादिरादिपदार्थः %।। इदमिति ।।% भूतलमित्यर्थः %।। अभावस्य नष्टत्वादिति ।।% तस्य घटसम्बन्धप्रागभावरूपत्वादिति भावः %।। भावप्रतिक्षेपोऽपीति ।।% `घटोऽपि किं घटवति भूतले सम्बद्ध्यते उत घटरहिते। नाद्यः, आत्माश्रयादिप्रसङ्गात्। नान्त्यः विरोधात्। अतो भूतलमात्र इति वक्तव्यं। स एव च घटादिप्रतीतिविषयोऽस्तु किं घटादिना' इत्यपि वक्तुं शक्यत्वादिति भावः।
</प्राभाकरेण विपक्षे बाधकप्रदर्शनपुरःसरं स्वपक्षस्थापनं तन्निरासश्च>

<प्राभाकरेण विपक्षे बाधकप्रदर्शनपुरःसरं स्वपक्षस्थापनं तन्निरासश्च>
(का. टि.)
तामेवं विप्रतिपत्तिं प्रदर्श्य निरस्यति %।। अभाव एवेति ।।% निषेधत्वेन प्रथमप्रतीतिविषयपदार्थ एव नास्ति, दूरे तस्य परतन्त्रप्रभेदत्वमित्यर्थः। अत्र किमभावः साधकाभावान्नोपेयते उत बाधकभावात् नाद्य इत्याह %।। नास्तीति ।।% बूतले घटो नास्तीत्यादिप्रतीतेरित्यर्थः। प्रतीतेर्भावविषयत्वान्नाभावसाधकत्वमित्याशङ्कते %।। घटो नास्तीति ।।% भूतलमात्रविषयेत्यस्याधाराधेयभावेनेत्यादिः। तेन प्रतियोगितया घटविषयत्वेऽपि न क्षतिः। तथा च भूतलादेः प्रथममस्तीत्युपलभ्यमानत्वान्नोक्ताभावत्वमिति भावः %।। उतातिरिक्तमिति ।।% मात्रशब्दस्याभावमात्रव्यवच्छेदकत्वेन तदतिरिक्तभावान्तरलाभादिति भावः।
%केचि%त्तु बूतलमात्रपदस्य भूतलपदपर्यायत्वं वा किंचिद्विशिष्टभूतलपरत्वं वेति विकल्पार्थं वर्णयन्ति %।। घटवत्यपीति ।।% घटविशिष्टभूतलेऽपि घटो नास्तीति प्रसङ्ग इत्यर्थः। अत्र घटसत्तादशायामपि भूतलस्वरूपाभावसत्त्वादिति भावः। ननु घटवति घटप्रतीतिरूपविरोधिसत्वान्न घटाभावप्रतीतिप्रसङ्गः. न च घटभूतलयोर्वस्तुनोर्विरोधाभावान्न तत्प्रतीत्योरपि विरोध इति वाच्यं। अस्ति नास्तीति प्रतीत्योर्विरोधस्यापह्नोतुमशक्यत्वादिति चेत्सत्यं। तथापि विरोधिप्रतीत्यसत्त्वदशायामुक्तप्रसङगो दुर्वारः। न च तदानीं घटसंनिकर्ष एव विरोधीति वाच्यं। घटाभावस्यापि संनिकृष्टत्वेन घटप्रतीतेरप्यनुपपत्तेः। घटवति दोषाधीनघटाभावप्रतीतेः प्रमात्वापत्तेश्च। द्वितीयपक्षे किं प्रतियोग्येवाभावत्वेन प्रतीयते उत तदतिरिक्तभावान्तरं। नाद्य इत्याह %।। अतिरिक्तोऽपीति ।। उक्तो दोषः% घटवति घटाभावप्रतीतिप्रसङ्गरूपः। द्वितीयं निराचष्टे %।। भावान्तरमिति ।।% धर्मिप्रतियोग्यतिरिक्तभाव इत्यर्थः %।। रूपवतीति ।।% रूपस्य धर्मिप्रतियोग्यतिरिक्तत्वेन गन्धाभावत्वादिति भावः। घटे गन्धस्यावश्यम्भावान्नेष्टापत्तिरिति ध्येय। अत्र यद्यपि घटवति घटातिरिक्तरूपादिसत्वेन घटो नास्तीति प्रतीतिप्रसङ्ग एव सम्भवति। न च प्रतियोगिजातीयभावन्तरस्याभावधीविषयत्वोपगमान्नायं प्रसङ्गः। रूपादेरद्रव्यस्य घटविजातीयत्वादिति वाच्यं। घटवति तदवयवकपालादेरेव सत्त्वात्। द्रव्यान्तरशून्ये घटाभावप्रतीत्यनुपपत्तेश्च। तथापि भावान्तरस्याभावरूपत्वे गन्धाभावस्य रूपादिस्वरूपत्वाच्चक्षुर्ग्राह्यत्वरूपदोषान्तरसूचनाय गन्धाभावानुधावनं। न च गन्धवति भूतले घटाभावप्रतीत्यापादनेऽपि घटाभावस्य घ्राणग्राह्यत्वप्रसङ्गसूचनं सम्भवतीति वाच्यं। तत्र चक्षुर्ग्राह्यरूपादेरेव घटाभावत्वोपगमेन निर्वाहादित्यवधेयं। बाधकसद्भावान्नाभावसिद्धिरिति द्वितीयपक्षमाशङ्कते %।। नन्विति ।। आत्माश्रयादीति ।।% स्वस्यैव स्वधर्मिघटकत्व आत्माश्रयः। यदि धर्मभूनाभावाद्धर्मिघटकाभावो भिन्नस्तदा तस्य धर्मभूताभावत्येव सम्बन्धो वाच्य इत्यन्योन्याश्रयः। तद्धर्मिघटकाभावस्य ततोऽप्यतिरिक्तत्वे तत्सम्बन्धस्यैव प्रथमाभाववति वाच्यत्वाच्चककं। तत्तद्धर्मिघटकाभावपरम्परास्वीकारे चानवस्थेत्यर्थः। ननु कथमातमाश्रयः स्वोत्पत्तेः स्वोत्पत्त्यनपेक्षत्वात्। न च यत्र यद्विशिष्टवृत्तित्वं तत्र तद्विशेषणवृत्तित्वमिति व्याप्तेः स्वस्य स्ववृत्तित्वापत्तिरूपोऽयमात्माश्रयइति वाच्यं। दण्डविशिष्टवृत्तिकुण्डले दण्डवृतित्वाभावेन व्यभिचारात्। न च यत्र यद्विशिष्टमात्रवृत्तित्वं तत्र तद्विशेषणवृत्तित्वमिति व्याप्तेः स्वस्य स्ववृत्तित्वापत्तिरूपोऽयमात्माश्रय इति वाच्यं। दण्डविशिष्टवृत्तिकुण्डले दण्डवृत्तित्वाभावेन व्यभिचारात्। न च यत्र यद्विशिष्टमात्रवृत्तित्वं तत्र तद्विशेषणवृत्तित्वमिति व्याप्तिः। वह्निविशिष्टमात्रवृत्तिधूमादौ पृथिवीत्वविशिष्टमात्रवृत्तिगन्धादौ च वह्निपृथिवीत्वादिवृत्तित्वाभावेन व्यभिचारात्। प्रमेयत्वादेरिव घटात्यन्ताभावादेरपि स्ववृत्तित्वस्य प्रामाणिकत्वेनादोषाच्च। यत्तु "अभावज्ञानस्य धर्मिज्ञानाधीनत्वेन ज्ञप्तावात्माश्रयः इति"। तन्। घटाभाववति घटो नास्तीति ज्ञनस्य घटाभावज्ञानादीनतायाः प्रामाणिकत्वात्। भूतले घटो नास्तीत्यादिज्ञानस्य च घटाभावज्ञानानपेक्षत्वात्। यत्तु "अतद्गुणसंविज्ञानबहुव्रीहिणा आत्माश्रयादिशब्देन अन्योन्याश्रयादिरेव विवक्षित इति" तदसत्। द्वयोः परस्परापेक्षाभावेन तदभावात्।
उच्यते। विशिष्टसम्बन्धस्य विशेष्यविशेषणसम्बन्धाधीनत्वात् घटाभावस्य घटाभावविशिष्टभूतलसम्बन्धो घटाभावभूतलसम्बन्धाधीनः। तथा च स्वनिष्ठतत्कालसम्बन्धस्य स्वनिष्ठतत्कालसम्बन्धाधीनत्व इव स्वनिष्ठतद्देशसम्बन्धस्य स्वनिष्ठतत्कालसम्बन्धाधीनत्व इव स्वनिष्ठतद्देशसम्बन्धस्य स्वनिष्ठतद्देशसम्बन्धाधीनत्वेऽप्यात्माश्रयो दुर्वार एव। घटाभावस्य भूतलसम्बन्धात्पूर्वं भूतलसम्बन्धासत्वेनेष्टापत्त्ययोगात्। न च विशिष्टसम्बन्धस्य विशेषणविशेष्यसम्बन्धात्पूर्वमसम्भवेपि केवलविशेष्यसम्बन्धसम्भवः। केवलभूतलादौ घटाभावस्य सम्बन्धानभ्युपगमेन विशिष्टसम्बन्धस्यैव वाच्यत्वादिति पूर्वपक्षाभिप्रायः।
तदित्यस्य तर्हीत्यादिः। भूतलमात्रमित्यर्थः। घटवति घटाभावधीप्रसङ्गस्य, नियामकान्तराभावेन तद्वारणस्य च पक्षद्वयेऽपि साम्यादतिरिक्ताभावकल्पने गौरवमेव बाधकमित्याशयः। नन्वित्यादिप्रश्नवाक्यस्य षोढा व्याख्यानं सम्भवति। घटाभावः स्वसम्बन्धात्पूर्वं स्वसम्भन्धसमये स्वसम्भन्धानन्तरं वा यद्धटाभाववत्तत्र सम्बद्ध्यते। किं वा स्वसम्बन्धात्पूर्वं स्वसम्बन्धसमये स्वसम्बन्धानन्तरं वा यद्घटाभाववत्तत्र सम्बद्ध्यते। किं वा स्वसम्बन्धात्पूर्वं स्वसम्बन्धसमये स्वसम्बन्धानन्तरं वा यद्घटवत्तत्र सम्बद्ध्यते इति। एतेषां च फलतस्मिधैव प्रश्नपर्यवसानमित्याशयेन यथाश्रुतप्रश्नार्थं तावद्विकल्प्योत्तरमाह %।। प्रश्न एवायमिति ।।% कीदृशं घटवद्धटाभाववद्वेत्यर्थः %।। सघटमिति ।।% घटतदभावयोः कालभेदेन विरोधाभावादिति भावः %।। घटाभाववदित्योवोत्तरमिति ।।% तावता स्वसम्बन्धाधीनत्वासिद्ध्या आत्माश्रयाद्यनवकाशादिति भावः। %विवेको% विभागः। %वस्तुकृतो% वास्तवः। %बुद्धिकृत% आरोपितः। सत्यपि घटाभावे तदसत्वभ्रम इति यावत् ।। बुद्ध्येति ।। घटाभावासत्वबुद्ध्या घटारोप विषय इत्यर्थः। अत्राभावपदेन घटसंसर्गाभावो यथासम्भवं ग्राह्यः. ननु न वयमुक्तरीत्या वस्तुस्वरूपं पृच्छामः। येनोक्तबाधकपरिहारः स्यात्। अपि तु घटाभाववत्वे किं नियामकमिति। घटाभाव एव चेत्कथमात्माश्रयादिर्न स्यादतस्तत्कालविशिष्टतद्देशस्यैव नियामकत्वं वाच्यं। तथा च तस्यैवाभावत्वसम्भवादतिरिक्ताभावकल्पने गौरवं दुर्वारमेवेत्यत आह %।। अन्यथेति ।।% एवमभावप्रतिक्षेपे तथैवाभावत्वसम्भवादतिरिक्ताभावकल्पने गौरवं दुर्वारमेवेत्यत आह %।। अन्यथेति ।।% एवमभावप्रतिक्षेपे तथैव भावस्य घटादेः प्रतिक्षेपः स्यादित्यर्थः। तथा हि, घटवत्वे घटवत्वस्यैव प्रयोजकतायामात्माश्रयादिप्रसङ्गाद्देशविशेषादेरेव नियामकता वाच्या। तथा च तस्यैव घटबुद्धिविषयत्वसम्भवादतिरिक्तघटकल्पने गौरवं। यदि च देशविशेषादेरननुगतत्वादनुगतेश्वरेच्छाविशेषस्यैव नियामकत्वं, तस्यचातीन्द्रियस्य घटादिबुद्धिविषयत्वायोगात् पृथक्‌प्रतीत्या च घटादिसिद्धिरित्युच्यते तदा तुल्यमभावेऽपि। तस्यापि प्राकूपध्वंससदात्वेन पृथक्‌प्रतीतेः। किं चासति सत्वाभावस्यासद्रपत्वासम्भवादनन्ताधिकरणानामभावत्वकल्पनापेक्षया लाघवाच्चातिरिक्ताभावसिद्धिरित्याशयेनोक्तं %।। इत्यास्तां विस्तर इति ।।%
<प्राभाकरेण विपक्षे बाधकप्रदर्शनपुरःसरं स्वपक्षस्थापनं तन्निरासश्च>

<अभवनिरूपणम्>
(टी.)
द्विधेत्युक्त्यभावाभावयोरवान्तरभेदोस्तीति सूचितं। तत्र भावनिरूपणादभावनिरूपणस्याल्पत्वात्सूचीकटाहन्यायेन पश्चादुद्दिष्टमप्यभावमादौ विभागेनोद्दिशति
प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते।
प्राक्त्वेन प्रध्वंसत्वेन सदात्वेनोपलक्षितोऽभावस्त्रिविध इष्यते प्रामाणिकैरिति शेषः।
प्रागभावप्रध्वंसाभावयोर्निरूपणम्
उत्तरैकावधिरभावः प्रागभावः। प्रतियोग्युत्पत्तेः प्रागेवाभावोस्ति। उत्पन्ने तु तस्मिन्नास्तीति कृत्वा। पूर्वैकावधिरभावः प्रध्वंसाभावः। प्रतियोगिप्रध्वंसान्तरमेवाभावो न तु प्रागस्तीति।
</अभवनिरूपणम्>

<अभवनिरूपणम्>
(रा. टि.)
%।। उपलक्षित इति ।।% स्वस्वरूपानुप्रविष्टैरेवेतरस्माद्व्यावर्तित इत्यर्थः. इत्थम्भूतलक्षणे तृतीयेति भावः। घटादिव्यावृत्त्यर्थं उत्तैरकेत्येकपदं। एवमग्रेपि। घटादेर्वक्ष्यमाणदिशा प्रध्वंसप्रागभावरूपत्वेपि उभयावधिमत्त्वात्. यद्वा अनित्यवस्तुस्वरूपात्मकान्योन्याभावस्य पूर्वोत्तरावधिमत्त्वात्तद्व्यावृत्त्यर्थमुत्तरैकेति पूर्वैकेति चैकपदं। %अनित्यवस्तुनिष्ठभेदा अनित्या इतिटीकोक्तेः%। घटादिसामग्र्यामनतिव्याप्तयेऽभावपदं। एवं प्रध्वंसलक्षणेपि विनाशसामग्र्युत्तरकालेनानतिव्याप्तये अभावपदं। कुत एतदित्यतस्तत्र प्राक्पदसूचितयुक्तिमाह %।। प्रतियोगीति ।।% न तु प्रागस्तीतीतिशब्दो हेत्वर्थः। एतेन मूले तृतीया हेतावित्यपि व्याख्यातं भवति।
</अभवनिरूपणम्>

<अभवनिरूपणम्>
(का. टि.)
उत्तरमूलमवतारयति %।। द्विधेति ।।% अन्यथा द्वावित्यवक्ष्यदिति भावः। सूचितमित्यनन्तरमतो भावाभावविभागो वक्तव्य इति पूरणीयं। तथापि क्रमोल्लङ्घनं कत इत्यत आह %।। तत्रेति ।।% भावाभावनिरूपणयोर्मध्य इत्यर्थः। यद्वा भावाभावयोर्मध्य इत्यर्थः। अभावमित्यनेन सम्बन्धः। अल्पस्य प्राथम्यनियामकत्वे युक्तिः %।। सूचीति ।।% द्वन्द्वात्परत्वप्रत्ययस्य प्रत्येकमभिसम्बन्ध इति भावेनाह %।। प्राक्त्वेनेति ।।% अत्र प्राक्त्वादेरभेदेन विधान्वयसम्भवेऽपि प्राक्त्वादिविशिष्टाभावत्वस्य प्रागभावादिलक्षणत्वलाभायोपलक्षित इत्यनेनाभावेऽन्वय उक्तः। न च प्राक्‌सदात्वयोः कालधर्मत्वात्कथमभावविशेषणत्वमिति वाच्यं। प्रागित्यादेः प्राक्तनादिपरत्वात्। नन्वेवं किञ्चिदपेक्षया प्राक्तनत्वस्य प्रध्वंसादिसाधारणत्वादतिव्याप्तिः। स्वप्रतियोगिप्राक्कालवृत्तित्वविवक्षायामपि प्रध्वंसादेः त्वात्मकत्वनिष्ठभेदप्रतियोगिभाविवस्तुप्राक्कालवृत्तित्वेनातिव्याप्तेः। स्वप्रतियोगिप्राक्कालमात्रवृत्तित्वविवक्षणे च प्रागभावस्यापि स्वात्मकस्वनिष्ठभेदप्रतियोगिभूतातीतवस्तूत्तरवृत्तित्वेनासम्भवात्। यत्किञ्चित्प्रतियोगिप्राक्कालमात्रवृत्तित्वविवक्षणे च गौरवमित्यतो निष्कृष्टलक्षणमाह %।। उत्तरैकावधिरिति ।।% उत्तरः काल एव अवधिर्यस्यासौ तथा। अवधित्वं च स्वाव्यवहितपूर्वोत्तरकालसाधारणः स्वनिरूपको धर्मविशेषः। न चैकपदावधिपदयोर्वैयर्थ्यं सोत्तरत्वे सति अभावत्वस्यैव सम्यक्त्वादिति वाच्यं। पूर्वावधिशून्यत्वे सति सावधिकाभावत्वरूपलक्षणान्तरलाभाय तदुपादानात्। प्रध्वंसवारणाय सत्यन्तनवेशः। अत्यन्ताभाववारणाय सावधित्वं। तावन्मात्रस्य घटादावतिव्याप्त्यभावेऽपि भावरूपाज्ञानादिवारणायाभावत्वमुपात्तं। न च पूर्वत्वस्य प्रागभावाधिकरणकालत्वरूपत्वादात्माश्रयः। एवमुत्तरत्वस्य ध्वंसाधिकरणकालत्वरूपत्वात् ध्वंसत्वस्य च पूर्वंत्वघटितत्वात् अन्योन्याश्रय इति काच्यां पूर्वत्वोत्तरत्वयोः कालगताखण्डोपाधिविशेषत्वात्। योक्त%माचार्यैः, स्वत एव काले विशेषाङ्गीकृतेश्चे%ति। एवं चोत्तरत्वनिरूपकाभावत्वं पूर्वत्वानिरूपकत्वे सति अवधित्वनिरूपकाभावत्वं वा प्रागभावत्वमिति निष्कर्षः। न च घटात्मके घटध्वंसप्रागभावे अव्याप्तिः। घटप्रागभावात्मके घटभेदेऽतिव्याप्तिश्चेति वाच्यं। आद्यस्यालक्ष्यत्वात् द्वितीयस्य च लक्ष्यत्वात्। न चातीतकालविशिष्टात्यन्ताभावेऽतिव्याप्तिः। विशेष्यस्य निरवधिकत्वेऽपि विशिष्टस्योत्तरैकावधित्वादिति वाच्यं। विशिष्टस्य पदार्थान्तरत्वेन भावत्वात्। अतीतकालविशिष्टात्यन्ताभावस्य वर्तमानकालविशिष्टात्यन्ताभावप्रागभावतया लक्ष्यत्वमेवेत्यप्याहुः। एतल्लक्षणस्य यथाश्रुतोद्देशलब्धलक्षणनिष्कृष्टार्थत्वं व्यञ्जयन् लक्ष्ये लक्षणसत्त्वमुपपादयति %।। प्रतियोगीति ।।% पूर्वेणान्वयः। एतेन %योऽभावो वस्तूत्पत्तेः प्रागेवास्ति स प्रागभावः% इति %तत्वविवेकटीका%विसंवादोऽपि निरस्तः। तस्य यथाश्रुतलक्षणत्वात्। अस्य च निष्कृष्टलक्षणत्वात्। एवमग्रेऽपि %।।पूर्वंकावधिरिति।।% सपूर्वाभावत्वमुत्तरावधिशून्यत्वे सति सावधिकाभावत्वं वा प्रध्वंसत्वमित्यर्थः। व्यावृत्त्यादिकमुक्तप्रायं %।। प्रध्वंसानन्तरमिति ।।% प्रध्वंससामग्र्युत्तरकालमित्यर्थः। प्रतियोग्युत्तरकालमिति यावत्।
</अभवनिरूपणम्>

<प्रागभावप्रध्वंसपरम्परया अनवस्थाशङ्का तन्निरासश्च>
(टी.)
नचैवं प्रागभावप्रध्वंसः प्रध्वंसप्रागभ्व इति प्रवाहौ प्रसज्येते। प्रतियोगिन एव प्रागभावप्रध्वंसत्वेन प्रध्वंसप्रागभावत्वेन चाङ्गीकृतत्वात्। तर्हि घटप्रध्वंसो नाम प्रागभावनिवृत्तेर्निवृत्तिरिति प्रागभावोन्मज्जनप्रसङ्ग इति चेन्न। घटवत् घटप्रध्वंसस्यापि तद्विरोधित्वात्।
</प्रागभावप्रध्वंसपरम्परया अनवस्थाशङ्का तन्निरासश्च>

<अत्यन्ताभावनिरूपणम्>
(टी.)
निरवधिकोऽभावः सदाभावः। सदाभावोस्तीति कृत्वा। अथात्यन्ताभाव इति प्रसिद्धसंज्ञातिक्रमेण सदाभाव इति संज्ञान्तरकरणं किमर्थं। लक्षणस्याप्युद्देशेनैव सूचनार्थं। यच्चान्यैरत्यन्ताभावस्वरूपमुक्तं संसर्गप्रतियोगिकाभावोत्यन्ताभाव इति यथैतद्धटैतद्‌भतलसंसर्गाभाव इति तदपि निराकर्तुमेतत्। तस्य निरवधिकत्वाभावात्। तर्ह्युदाहृतश्चतुर्थः स्यादिति चेन्न। तस्यापि यथासम्भवं प्रागभावादिष्वन्तर्भावात्।
</अत्यन्ताभावनिरूपणम्>

<अत्यन्ताभावनिरूपणम्>
(टी.)
निरवधिकोऽभावः सदाभावः। सदाभावोस्तीति कृत्वा। अथात्यन्ताभाव इति प्रसिद्धसंज्ञतिक्रमेण सदाभाव इति संज्ञान्तरकरणं किमर्थं। लक्षणस्याप्पुद्देशेनैव सूचनार्थं। यच्चान्यैरत्यन्ताभाव स्वरूपमुक्तं संसर्गप्रतियोगिकाभावोत्यन्ताभाव इति यथैतद्धटेतद्भूतलसंसर्गाभाव इति तदपि निराकर्तुमेतत्। तस्य निरवधिकत्वाभावात्। तर्ह्युदाहृतश्चतुर्थः स्यादिति चेन्न। तस्यापि यथासम्भवं प्रागभावादिष्वन्तर्भावात्।
</अत्यन्ताभावनिरूपणम्>

<अत्यन्ताभावनिरूपणम्>
(रा. टि.)
प्रागभावनशः प्रतियोगिनोन्यः प्रध्वंसप्रागभावोपि तथेत्युपेत्य शङ्कते %।। न चैवमिति ।।% प्रागभावपध्वंसयोर्नाशप्रागभावाङ्गीकार इत्यर्थः। कुत एतदित्यतस्तृतीयार्थमाह %।। सदाभावोस्तीति कृत्वेति ।। यथा स्भवमिति ।।% यदि घटसंसर्गो भावी तदा प्रागभावः। यदि भूतः तदा ध्वंसः। न कदापि चेत्तदात्यन्ताभाव वयेवं यथासम्भवमित्यर्थः।
</अत्यन्ताभावनिरूपणम्>

<अत्यन्ताभावनिरूपणम्>
(का. टि.)
प्रागभावपध्वंसयोरतिरिक्तत्वेऽनवस्थामाशङ्क्य निराचष्टे %।। नचेति ।। एवं% ध्वंसप्रागभावयोः पूर्वोत्तरावधिसत्त्वे %।। प्रवाहाविति ।।% घटादेर्यः प्रागभावस्तस्यप्रध्वंसस्तस्य प्रागभाव इत्येकः। घटादेर्यः प्रध्वंसस्तस्य प्रागभावस्तस्य प्रध्वंस इत्यपरश्च प्रवाहः प्रसज्यत इत्यर्थः %।। प्रतियोगिन एवेति ।.% घटस्यैव घटप्राग भावध्वंसरूपत्वात् घटध्वंसप्रागभावरूपत्वाच्च नानवस्थेति भावः। शङ्कते %।। तर्हिति ।।% घटस्यैव घटप्रागभावध्वंसरूपत्व इत्यर्थः %।। प्रागभावोन्मज्जनप्रसङ्ग इति ।% नष्टस्यपुनरुत्थानं स्यादित्यर्थः। तद्विरोध्यनधिकरणकालस्य तदधिकरणत्वनियमात्। घटध्वंसकालस्य घटप्रागभावविरोधिघटात्मकध्वंसानधिकरणत्वादिति भावः। इदमुपलक्षणं। घटध्वंसविरोधिघटात्मकप्रागभावानधिकरणे घटप्रागभावकाले घटध्वंससत्त्वप्रसंग इतयपि बोधयं %।। प्रध्वंसस्यापि तद्विरोधित्वादिति ।।% धटध्वंसस्यापि घटप्रागभावविरोधित्वादित्यर्थः। एवं च घटप्रागभावस्यघटध्वंसविरोधित्वमपि सिद्धमेवेति नोक्तदोष इति भावः। न चैवमपि घटध्वंसकाले घटप्रागभावो नास्तीति प्रतीतिर्न स्यात्। घटप्रागभावध्वंसविरोधिघटात्मकप्रागभावानधिकरणे घटप्रागभावकाले घटध्वंससत्त्वप्रसंग इत्यपि बोध्यं %।। प्रध्वंसस्यापि तद्विरोधित्वादिति ।।% घटध्वंसस्यापि घटप्रागभावविरोधित्वादित्यर्थः। एवं च घटप्रागभावस्यघटध्वंसविरोधित्वमपि सिद्धमेवेति नोक्तदोष इति भावः। न चैवमपि घटध्वंसकाले घटप्रागभावो नास्तीति प्रतीतिर्न स्यात्। घटप्रागभावध्वंसरूपविषयाभावादिति वाच्यं। घटध्वंसस्यैव तदभावत्वेन तद्विषयत्वात्। न चैवं घटध्वंससमये घटप्रागभावो ध्वस्त इति प्रतीत्यापत्तिरिति वाच्यं। घटध्वंसस्यैव तदभावत्वेन तद्विषयत्वात्। न चैवं घटध्वंससमयेघटप्रागभावो ध्वस्य इति प्रतीत्यापत्तिरिति वाच्यं। प्रतियोगिन एव ध्वंसत्वेन प्रागभावप्रतियोगिक्वाभ्युपगमात् %।। निरवधिकोऽभाव इति ।।% अवधितत्वानिरूपकतत्वे सत्यभावत्वमत्यन्ताभावत्वमित्यर्थः। ध्वंसादेर्गगानादेश्च वारणाय सत्यन्तविशेष्ययोर्निवेशः। अथवोत्तरैकावधिरित्यादेः ध्वंसप्रतियोग्यभावत्वं प्रागभावाप्रतियोगित्वे सति अबावप्रतियोग्यभावत्वं वा प्रागभावत्वं। प्रागभावप्रतियोग्यभावत्वं ध्वंसाप्रतियोगित्वे सति अभावप्रतियोग्यभावत्वं वा ध्वंसत्वमभावाप्रतियोग्यभावत्वमत्यन्ताभावत्वमित्यर्थः। नन्वाद्ययोः प्रागभावध्वंसलक्षणयोः प्रध्वंसत्वप्रागभावत्वप्रवेशादन्योन्याश्रयः। द्वितीययोश्चात्माश्रयः। एवमत्यन्ताभावत्वे अप्रतियोगित्वं प्रतियोगित्वात्यन्ताभाव इत्यात्माश्रय इति चेदुच्यते। ध्वस्यइत्याद्यनुगतप्रतीततिनियामकं हि ध्वंसत्वादिकमखण्डोपाधि। अन्यथा घटादेर्भावस्यध्वंसत्व द्यानुपपत्त्या घटप्रागभावो ध्वस्य इत्यादिप्रतीत्यनुपपत्तेः। उक्तं च %विजयीन्द्रतीर्थैः प्रागभावत्वादिकमखण्डोपाधिरिति ।।% एवं च तादृशध्वंसत्वादेरेव निरुक्तप्रागभावादिलक्षणघटकत्वान्नोक्तदोषः। एवं नास्तीत्यनुगतप्रतीतिनियामकं यत्प्रागभावादित्रयसाधारणमभावत्वं तदेवात्यन्ताभावत्वघटकमिति न कश्चिद्दोषः। अधिकमन्यत्रानुसन्धेयं।
%केचि%तु उत्तरैकावधिरित्यस्यप्रतियोग्युत्तरकालनिरकालनिष्ठाभावप्रतियोगित्वे सति स्वप्रतियोगिप्राक्कालवृततित्वे च सत्यभावत्वमित्यर्थः। (8)ध्वंसादिवारणायसत्यन्तद्वयं। तत्र प्रथमसत्यन्ताभावे घटादिध्वंसस्य स्वात्मकभेदप्रतियोगिभविष्यद्वस्तुप्राक्कालवृत्तित्वादतिव्याप्तिः। द्वितीयसत्यन्तताभावेऽपि स्वातत्मकभेदप्रतियोग्यतीतवस्तुत्तरकिञ्चित्कालनिष्ठाभावप्रतियोगित्वात्तत्रैवातिव्याप्तिः। न चैवमुक्तरीत्या भूतभाविप्रतियोगिद्वयमादाय सत्यन्तद्वयस्य सत्वादुक्तातिव्याप्तिस्तदवस्थैवेति वाच्यं। स्वस्य यत्प्रतियोग्युत्तरकालनिष्ठाभावप्रतियोगित्वं तत्प्रतियोगिप्राक्कालवृत्तित्वस्यविवक्षितत्वात्। न च स्वस्य यत्कालनिष्ठाभावप्रतियोगित्वं तत्प्राक्कालवृत्तित्वस्यैव प्रागभावलक्षणत्वं सम्भवतीति वाच्यं। यथासंनिवेशेनास्यलक्षणान्तरत्वात्। घटादिप्राक्कालवारणायाभावत्वप्रवेशः। एवं पूर्वैकावधिरित्यस्यस्वप्रतियोगिप्राक्कालनिष्ठाभावप्रतियोगित्वे सति स्वप्रतियोग्युत्तरकालवृत्तत्वे च सत्यभावत्वमित्यर्थः। प्रागभाववारणायसत्यन्तद्वयं। तत्र प्रथमसत्यन्ताभावे घटप्रागभावस्यस्वात्मकभेदप्रतियोग्यतीतवस्तूतरकालवृत्तित्वादतिव्याप्तिः। द्विसीतसत्यन्ताभावेऽपि स्वात्मकभेदप्रतियोगिभविष्यद्वस्तुप्राक्कालनिष्ठाभावप्रतियोगित्वात्तत्रैवातिव्याप्तिः। अत्रापि स्वस्य यत्प्रतियोगिप्राक्कालनिष्ठाभावप्रतियोगित्वं तत्प्रतियोग्युत्तरकालवृत्तित्वं विवक्षणीयं। तेन न पूर्ववद्दोषः। घटाद्युत्तरकालवारणायाभावत्वप्रवेशः। एवं निरवधिक इत्यस्य प्रतियोग्यवधिकपूर्वत्वोत्तरत्वरहिताभावत्वमित्यर्थः। प्रागभावप्रध्वंसयोर्वारणाय रहितान्तं। नित्यसादृश्यादिवारणायाभावत्वनिवेशः। अत्यन्ताभावस्यच प्रतियोग्यसत्त्वेन सदातनत्वाल्लक्षणसमन्वय इत्याहुः।
(F.N){8. ध्वंसवारणाय इति पाठेन भाव्यमिति भाति.}
स्वानधिकरणकालपूर्ववृत्त्यभावत्वं प्रागभावत्वं। स्वानधिकरणकालोत्तरवृत्त्यभावत्वं ध्वंसत्वं। सर्वकालवृत्त्यभावत्वमत्यन्ताभावत्वमित्यप्याहुः।
सदाऽऽभाव इत्यपूर्वसंज्ञाकरणे कारणं पृच्छति %।। अथेति ।।% यद्यपि सदाऽऽभूव इति मूले नास्ति तथापि प्राक्कालादिना विशेषिताऽभाव इत्यर्थानुवादात्प्रागभावादिसंज्ञावत्सदाऽऽभावसंज्ञावत्सदाऽऽभावसंज्ञाप्यभिप्रेतेति भावः। उत्तरयति %।। लक्षणस्येति ।। नन्वत्यन्ताभाव इत्युद्देशेऽप्यत्यन्तपदेन सदातनत्वविवंक्षायामुकत्लक्षणं लभ्यत एवेत्याशङ्कानिरासार्थ मुद्देशेनैवेत्युक्तं। व्याख्यानादिनिरपेक्षोद्देशोनेत्यर्थः। अत्यन्तपदमनेकार्थत्वान्नोक्तेद्देशेनैव लक्षणप्रत्यायकमिति भावः।
मतान्रनिराकरणमप्युक्तसंज्ञाकरणप्रयोजनमिति वक्तुं मतान्तरमनुवदति %।। यच्चेति ।। स्वरूपमिति ।।% सर्वात्यन्ताभावसाधारणरूपमित्यर्थः। लक्षणं तु निरवधिकाभावत्वमेव। तेन संसर्गध्वंसप्रागभावयोर्नातिव्याप्तिः %।। एतद्घटेति ।।% यद्भूतले यद्घटस्य यदाकदाचित्संयोगोऽस्ति तत्रापि तद्धटो नास्तीतिप्रतीतिविषयस्तद्घटससर्गाभावोऽप्यत्यन्ताभाव एवेत्यर्थः। न च घट एवास्तु तत्प्रतियोगी। संयोगेन घटात्यन्ताभावस्य घटसंयोगप्रतियोगिकत्वावश्यम्भावात्। अभावप्रतियोगितायाः प्रतियोगितावच्छेदकान्तर्भावेन पर्याप्त्यङ्गीकारात् %।। तस्येति ।।% उक्ताभावस्येत्यर्थः। निरवधिकत्वाभावाद्धेतोर्निराकर्तुमेतत्संज्ञाकरणमिति सम्बन्धः। उक्ताभावस्य घटभूतलसंसर्गकालावधिकत्वादिति भावः।
ननु निरवधिक एवायमभावः। न चैवं भूतले घटसत्त्वेऽपि घटो नास्तीति प्रतीतिप्रसङ्ग इति वाच्यं। तदानीसभावसत्त्वेऽपि तत्सम्बन्धाभावात्। तत्कालान्यकालविशिष्टविशेषणताया एतत्सम्बन्धत्वात्। अन्यथा तत्रोत्पादविनाशशाल्यभावान्तरकल्पनापत्त्या अभावत्रैविध्यभङ्गादित्याशयेन शङ्कते %।। तर्हीति ।। उदाहृतः% भूतभाविघटसंसर्गवति भूतले घटो नास्तीतिप्रतीतिसिद्धाभावः %।। चतुर्थः स्यादिति ।।% पूर्वोत्तरावधिमत्वेन प्रागभावादित्रयानन्तर्भावादिति भावः। %यथासम्भवमिति ।।% अत्र घटो नास्तीति प्रतीतौ यदि भावी घटसंसर्गः प्रतियोगितया भासते तदा तत्प्रागभावो विषयः। यदि भूतस्तदा तद्‌ध्वंसः। यदि तु वर्तमानस्तदा तदत्यन्ताभाव एव भासते। तत्र वर्तमानकाले घटसंसर्गासत्त्वादिति भावः। न च घटो नास्तीति साक्षाद्घटस्यैव प्रतियोगितया भानात्तस्य च देशान्तरे वर्तमानत्वान्न प्रागभावादेर्विषयत्वसम्भव इति वाच्यं। घटसंसर्गप्रागभावादेरपि घटप्रतियोगिकत्वाभ्युपगमात्। न चैवमत्र घटप्रागावोऽस्तीत्यादिप्रतीत्यापत्तिः। प्रागभावत्वादिना घटप्रतियोगिकत्वानभ्युपगमात्।
स्यादेतत्, कदापि घटसंसर्गशून्ये घटो नास्तीति प्रतीयमानस्तावन्न प्रामभावादिः। ध्वंसप्रागभावयोः प्रतियोगिसमानदेशत्वनियमात्। नाप्यन्त्यन्ताभावः। तस्यासन्मात्रप्रतियोगिकत्वात्। घटादेश्च सत्त्वादिति चेद%त्राहुः।% तत्र घटो नास्तीत्यादौ तद्देशघटसंसर्ग एव प्रतियोगितया भासते। तस्य चासत्त्वात्तत्प्रतियोगिकात्यन्ताभाव एव तत्र विषय इति। यदि तु घट एव तद्देशनिष्ठात्यन्ताभावप्रतियोगितया भासते तथापि तद्देशारोपित एव तथा। न चैवं घटवत्यपि घटो नास्तीति प्रतीत्यापत्तिः। प्रतियोगिनोऽसत्त्वादिति वाच्यं। प्रतियोगिनेव प्रतियोग्यारोपप्रधानेनाप्यभावस्य विरोधात्। घटवति च प्रतियोग्यसत्त्वेऽपि प्रधानभूतघटस्यैव सत्त्वात्। प्रधानत्वादेव च तस्यापि प्रतियोगित्वव्यवहार इति दिकू।
</अत्यन्ताभावनिरूपणम्>

<अभावविभागे मतान्तरद्वयम् तन्निरासश्च>
(टी.)
एके ब्रुवते, संसर्गाभावोऽन्योन्याभावश्चेति द्विविध एवाभाव इति। अन्ये तु प्राक्प्रध्वंसात्यन्तान्योन्याभावात्मा चतुर्विध इति। तदुभयं निराकर्तुमिष्यते इत्युक्तं। अन्योन्याभावो हि भेद एव। स च स्वरूपमेवेत्यन्यत्रोपपादितं। कार्यकारणयोः संसर्गस्यान्यत्र निराकृतत्वेन प्रागभावप्रध्वंसाभावयोः संसर्गाभावत्वानुपपत्त्वेश्चेति।
</अभावविभागे मतान्तरद्वयम् तन्निरासश्च>

<अभावविभागे मतानत्रद्वयम् तन्निरासश्च>
(रा. टि.)
%।। द्विविध एवेति ।।% संसर्गाभावोपि प्रागभावादिभेदेन त्रिविध इत्यपि ध्येयं %।। अन्यत्रेति ।। तत्वविवेकादौ।%
इत्यादिनेति भावः। प्रागभावादेस्संसर्गाभावत्वं वदतां मतं निराह %।। कार्येति ।।% तन्तुपटयोस्संसर्गप्रतियोगिकः प्राचीनः प्रागभावः। उदीचीनः प्रध्वंसः। उभावपि तन्त्वादिसमवायिकारणनिष्ठतया प्रतियोगिना समानदेशौ भिन्नकालीनाविति मतमयुक्तं। उपादानोपादेययोरभेदप्रतिपादनेन संसर्गस्य अन्यत्र %तत्वविवेकादौ निरस्तत्वेनेत्यर्थः।%
</अभावविभागे मतानत्रद्वयम् तन्निरासश्च>

<अभावविभागे मतानत्रद्वयम् तन्निरासश्च>
(का. टि.)
पक्षान्तरनिरासार्थत्वेन %इषय्ते% इति मूलमावतारयितुमाह %।। एव इति ।।% प्रागभावादेरन्यविधत्वव्यवच्छेदाय %द्विविध एवेत्ये%वकारः। प्रागभावादित्रयस्यैव संसर्गाभावत्वादिति भावः। अथ भूतले संयोगेन घटो नास्तीति प्रतीतेरत्यन्ताभावस्य संसर्गाभावत्वमस्तु। ध्वंसप्रागभावयोस्तु कथं। ध्वस्तो भविष्यतीति प्रतीत्योः संसर्गानुल्लेखादिति चेदुच्यते। अस्ति तावदिदानीं कपाले समवायेन घटो नास्तीति प्रतीतिः। तद्विषयस्तु नात्यन्ताभावः। प्रतियोगिध्वंसप्रागभावाधिकरणे तदनङ्गीकारात्। किं तु धवंसादिरेव तथा। तथा च घटादेः समवायेन ध्वसादिप्रतियोगित्वे समवायस्यापि तथात्वं। न चैवं समवायस्यानित्यत्वापत्तिः। प्रतियोगितावच्छेदकघटकतया प्रतियोगित्वेऽपि साक्षादतथात्वेन दोषाभावादित्याशयः %।। अपरे त्विति ।।% एतन्मते ध्वंसप्रागभावयोर्न संसर्गाभावत्वं। ध्वंसादिकालावच्छेदेन कपाले घटात्यन्ताभावस्वीकारेणोक्तप्रतीतिनिर्वाहादिति ध्येयं। मतद्वयसिद्धमन्योन्याभावस्य पार्थक्यमादौ दूषयति %।। अन्योन्येति ।।% यद्य%प्यन्योन्याभावः स्वरूपमेवे%त्येव वक्तुमुचितं।
%भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक्।%
%इति तत्वविवेके% तथैवोपपादितत्वात्। तथापि
%स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहेऽग्रहः।%
%इत्यनुव्याख्याना%द्युक्तयुक्तिसूचनार्थ%मन्योन्याभावो हि भेद एवेत्यु%क्तं। यद्वा अन्योन्याभावशब्देन घटपटादीनामन्योन्यसंसर्गावपरिग्रहनिरासाय तथोक्तमित्यवगन्तव्यं। प्रथमपक्षे दोषान्तरमाह %।। कार्यकारणयोरिति ।।% उपादेयोपादानयोरभेदेन समवायसम्बन्धस्य %तत्वविवेकादौ% निरस्तत्वेनेत्यर्थः। कपाले समवायेन घटो नास्तीति प्रतीतिश्चासिद्धैवेति भावः। इदमुपलक्षणं। अत्यन्ताभावस्यापि निष्प्रतियोगिकत्वेन संसर्गाभावत्वानुपपत्तेरित्यपि द्रष्टव्यं %।। इत्यभावनिरूपणं ।।
</अभावविभागे मतानत्रद्वयम् तन्निरासश्च>

<भावविभागः>
(टी.)
भावं विभज्य दर्शयति
चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ।। 2 ।।
न केवलमभावो भेदवान्। किन्तु भावोऽपीत्यपिशब्दः।
</भावविभागः>

<चेतनाचेतनलक्षणम्>
(टी.)
चेतयतीति चेतनः। अनेवंविधोऽचेतनः। तेन विष्णोश्चेतनत्वमभावस्याचेतनत्वं च ज्ञातव्यं। सर्वमचेतनञ्चेतनार्थमिति चेतनस्य प्राधान्यात्पूर्वमुद्देशः।
सर्वचैतन्यवादनिरासः
मृदब्रवीदीत्यादिवचनात्सर्वं चेतनमेवेतिमतनिरासाय मत इत्युक्तं। तच्चाभिमान्यधिकरणे निरस्तं चेतनादिविभागस्यनित्यादिविभागादभ्यर्हितत्वात्स एवादावुदाहृतः।
</चेतनाचेतनलक्षणम्>

<चेतनाचेतनलक्षणम्>
(रा. टि.)
%।। चेतयतीति ।।% स्वार्थं णिच्। चिती संज्ञाने। चेतते सम्यग्जानातीति बहुलग्रहणात्कर्तरि ल्युट। यद्वा हेतुमत्येव णिच्। परान् बोधयतीत्यर्थः। चेती संज्ञान इत्यतोण्यन्तात् `ण्यासश्रन्थो युज्' इति ण्यन्तात्स्त्रियां युच्प्रत्यये अनादेशे णेरनिटीति णिलोपे चेतनेति रूपं। अर्श आद्यच्प्रत्यये चेतना संज्ञा तद्वांश्चेतन इति रूपमिति भावः। अनेवंविधो ज्ञानहीन इत्यर्थः %।। तेनेति ।।% एवं निर्वचनेनेत्यर्थः। %।। चेतनार्थमिति ।।% तददृष्टजत्वादिति भावः। अथातो विभूतयोस्य पुरुषस्येत्युक्तदिशा भगवद्भोगार्थत्वाद्वेति भावः %।। अभिमान्यधिकरण इति।। अभिमानिव्यपदेशस्तु विशेषानुगतिभ्या%मिति युक्तिपादीयतृतीयाधिकरणए मृदब्रवीत् आपोऽब्रुवन् तत्तेज ऐक्षत, ओषधयस्संवदन्त, इत्यादिवाक्यमप्रमाणं। मृदादिकं न वक्तृत्वादिमत् जङ्त्वान्मृत्त्वादिति युक्तिविरुद्धत्वादिति प्राप्ते निर्दोषवेदवाक्यस्य निरवकाशयुक्ते श्चाप्रामाण्यायोगात् प्रमाणभूतोभयान्यथानुपपत्त्या मृदादिशब्दानां तदभिमानिचेतनपरत्वस्यावश्यं कल्प्यत्वादित्युक्तत्वान्न मृदादिजडस्यैव वक्तृत्वादिना चेतनत्वं कल्प्यमिति निरस्तमित्यर्थः %।। अभ्यर्हितत्वादिति ।। नित्यानित्यविभागेने%ति वक्ष्यमाणविभागस्याचेतनविषय%त्वाच्चेतनस्योक्तदिशा% प्राधान्याद्वा मोक्षोपयोगित्वाद्वा अभ्यर्हितत्वमिति भावः।
</चेतनाचेतनलक्षणम्>

<चेतनाचेतनलक्षणम्>
(का. टि.)
मूले %बावोऽपी%त्यपिशब्दान्न केवलमभावो द्विविधः किंतु %बावोपीति% प्रतीयमानसमुच्चयासङ्गः तेराह %।। न केवलमिति ।। इत्यपिशब्द इति ।।% एकदेशसमुच्चयार्थोऽपिशब्द इत्यर्थः। ननु चेतनाचेतनयोर्भावप्रभेदत्वे स्वतन्त्रस्य चेतनत्वानुपपत्तिः। न च स्वतन्त्रस्य भावत्वाङ्गीकारान्नानुपपत्तिरिति वाच्यं। परतन्त्रभावस्यैव विभाज्यत्वात्। अन्यथा चेतनविभागे दुःखास्पृष्टत्वेन रमामात्रग्रहणानुपपत्तेः। एवमभावस्याचेतनत्वानुपपत्तिश्चेति चेन्न। परतन्त्रभाव एवैवंविध इति विशेष्यावधारणविवक्षया दोषाभावादित्याशयेन स्वतन्त्राभावसाधारणे चेतनाचेतनत्वे निर्वक्ति %।। चेतयतीतिति ।।% जानातीत्यर्थः। यद्यपि रूढ्या चेतनाचेतनपदाभ्यां चित्वजडत्वरूपजातिविवक्षापि सम्भवति तथापि ज्ञातृत्वाज्ञातृत्वरूपव्यावर्तकलक्षणलाभाय योगाश्रयणं। ज्ञातृत्वं च ज्ञानस्वामित्वं ज्ञानाश्रयत्वस्यान्तकरणसाधारणत्वादित्यवधेयं %।। तेनेति ।।% तादृशचेतनत्वविवक्षणेनेत्यर्थः %।। चेतनार्थमिति ।।% चेतनानामर्थः प्रयोजनं यस्मात्तत्तथा चेतनभोग्यमिति यावत्। भोक्तृभोग्ययोर्भोक्तुः प्राधान्यं प्रसिद्धमेवेति भावः। यद्यप्यचेतनस्य चेत ननिरूप्यत्वाच्चेतनस्य प्रथममुद्देश इत्यपि सुवचं। तथाप्युक्तप्राधान्यक्रमस्य मुख्यत्वात्तदेव निमित्तमुक्तं %।। मृदब्रवीदित्यादीति ।।% वक्तृत्वस्य ज्ञातृत्वं विना अनुपपत्तेरिति भावः। ननु श्रुतिविरुद्धत्वात्कथमत्र संमतिरत आह %।। तच्चेति ।।% सर्वेचैतन्यमतं हि निरस्तं। %अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति सूत्रे% मृन्न वक्त्री जडत्वादिति युक्तिविरुद्धत्वाद्विदस्याप्रामाण्यमिति प्राप्ते, मृदित्यादिभिरभिमानिदेवताव्यपदेश एव। तासां च शक्तिविशेषाददृश्यत्वमभिमन्यमानव्यापित्वादभिमानित्वं च युज्यत इति सिद्धान्तितत्वादिति भावः। ननु भावो द्विविधो नित्योऽनित्यश्च। नित्यो द्विविधश्चेतनोऽचेतनश्चेत्येव विभागः कुतो न कृत इत्यत आह %।। चेतनादिविभागस्येति ।।% चेतनाचेतनविभागस्येत्यर्थः। %।। अभ्यर्हितत्वादिति ।।% उक्तरीत्या चेतनस्य प्राधान्येन विप्रतिपत्तिसद्भावेन चावश्यवेद्यत्वादित्यर्थः।
</चेतनाचेतनलक्षणम्>

<चेतनविभागः तल्लक्षण च>
(टी.)
यथोद्देशं चेतनविभागमाह
दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनं।
कदाचिद्दुःखसम्बद्धमेव दुःखस्पृष्टं। कदापि दुःखासम्बद्धं तदस्पृष्टं।
मूलगतैवकारकृत्यम्
कल्पितत्वाद्दुःखादीनां न किञ्चिद्दुःखस्पृष्टमित्येके। ईश्वरातिरिक्तं सर्वमपि दुःखस्पृष्टमेवेत्यन्ये। तदुभयनिरासायैवकारः। आद्यस्य प्रत्यक्षविरुद्धत्वाद्‌द्वितीयस्यागमविरुद्धत्वात्। परमेश्वरस्य दुःखास्पृष्टत्वं स्वातन्त्र्येणैव सिद्धं।
</चेतनविभागः तल्लक्षण च>

<चेतनविभागः तल्लक्षण च>
(रा. टि.)
%।। आगेति ।। तत्वविवेकरूपागमेत्यर्थः।%
नित्यानन्दज्ञानबला देवा नैवं तु दानवाः।
इत्याद्यागमेति वार्थः। यद्वा `द्वौ वा व सृत्यनुपक्रमौ प्रकृतिश्च परमश्च। द्वावेतौ नित्यमुक्तौ' इत्याद्यागमेत्यर्थः।
</चेतनविभागः तल्लक्षण च>

<चेतनविभागः तल्लक्षण च>
(का. टि.)
%।। यथोद्देशमिति ।।% उद्देशानुसारेणेत्यर्थः। तदपवादकप्राधान्यादेश्चाचेतनेऽभावादिति भावः। उद्देशेनैव लक्षणलाभान्न न्यूनतेत्याशयेनोद्देशलब्धलक्षणे दर्शयति %।। कदाचिदिति ।।% सर्वदा दुःखसम्बन्धविवक्षायामसम्भवः स्यादतः %कदाचिदित्यु%क्तं। दुःखस्यान्तःकरणधऱ्मत्वात्सम्बन्धपदं। दुःखानुभवोपलक्षितमित्यर्थः। मुक्तजीवानामपि पूर्वतनदुःखानुभवोपलक्षितत्वान्नासंग्रहः।
%ये तु% तत्सङ्ग्रहानुरोधेन दुःखसंसर्गात्यन्ताभावानधिकरणत्वं दुःखस्पृष्टत्वमिति वर्णयन्ति। तेषां क%अभावस्य भावनिरूप्यत्वाद्दुःखस्पृष्टस्य प्रथममुद्देशः% इत्युत्तरटीकान सङ्गच्छते। निरुक्तदुःखस्पृष्टत्वस्यापि प्रतियोगिनिरूप्यत्वात्। कथं तर्हि संसारसंसर्गात्यन्ताभावानधिकरणत्वमिति %तत्वविवेकटीकामन्दारमञ्जरी% सङ्गच्छत इति चेन्न। %तत्विविवेके% नित्यमुक्तस्यैव प्रथममुद्देशेन तदुपपत्तेः। इह तद्रीत्या व्याख्यानं तु टीकाया यथाश्रुतदुःखस्पृष्टपरत यैव सङ्गमनीयं।
दुःखास्पृष्टत्वं दुःखासम्बन्धमात्रं तदा संसारिणिसुषुप्त्यादावतिव्याप्तेराह %।। कदापीति ।।% तथा च दुःखसम्बन्धात्यन्ताभाववत्वं विवक्षितमिति %प्राञ्चः।% न च %नित्यमुक्तश्च सृतियुगिति% तत्वविवेकानुसारेण दुःखपदस्य प्रकृतिसम्बन्धलक्षणसंसारपरतया न सुषुप्त्यादावतिव्याप्त्यवकाश इति वाच्यं। तथा सति गरुडादीनां दुःखास्पृष्टत्वनिरासानुपपत्तेः। न हि तेषामसंसारित्वरूपदुःखास्पृष्टत्वमन्यैः स्वीकृतं। समष्टित्वाङ्गीकारविरोधात्। प्राप्ततमसां दुःखस्पृष्टावान्तरदुःखसंस्थाप्रभेदानुपपत्तेश्च। कथं तर्हि %तत्वविवेकटीकायाम%मुक्तप्रभेदत्वेन प्राप्ततमसां परिगणनमिति चेन्न। तत्र स्वरूपसुखाविर्भावरूपमुक्तत्वस्य विवक्षितत्वेन प्राप्ततमसां तदभावेनामुक्तत्वसम्भवात्. न चैवं संसारध्वंसाधिकरणत्वं मुक्तत्वं वर्तमानसंसारत्वममुक्तत्वमिति %मन्दारमञ्जरीविरोध% इति वाच्यं। स्वरूपसुखाविर्भावस्य सुप्तादिसाधारण्यान्मुक्तत्वशरीरे संसारध्वंसवत्वं, तादृशमुक्त्यभावस्य नित्यमुक्तसाधारण्यादमुक्तत्वशरीरे संसारित्वं च निवेशय्मित्याशयेन तथाऽभिधानात्। अन्यथा प्राप्ततमसां मुक्तेष्वेव परि गणनापत्तेः। स्वरूपाविर्भाव एव मुक्तिरिति चीकाविरोधाच्च। अत्र तु विमुक्ता दुःखादिति व्याख्यानान्निर्दुःखत्वरूपमुक्तत्वस्य विवक्षिततया तस्य च निःसंसाररूपत्वे प्राप्ततमसां मुक्तान्तर्भावध्रौव्यात्। न च तदर्थमत्रापि स्वरूपसुखादिर्भावो निवेश्यः। दुःखपदस्य मुख्यार्थत्वेनैवोपपत्तावर्थान्तरं गृहीत्वा विशेषणान्तरदानस्यायुक्तत्वात्। न चैवं %तत्वविवेका%ननुसारित्वं। सृतियुक्तत्वनित्यमुक्तत्वाभ्यां दुःखस्पृष्टत्वतदस्पृष्टत्वयोरेव सिद्धेः। शिष्यव्युत्पादनाय फलितोक्तेरमुक्तविभागादाविव सम्भवात्।
%भावचन्द्रिकारीत्या% तु मुक्तेष्वतिव्याप्तिवारकतया कदापीत्यस्य सार्थक्यसम्भवाद्दुःखपदं संसारपरमेव। न च प्राप्ततमसां मुक्तान्तर्भावापत्तिः। दुःखपदस्य दुःखतत्साधनसाधारणानिष्टमात्रपरत्वात्। %तत्वविवेके% सृतिपदस्याप्येतदर्थत्वान्न तद्विरोधोऽपीति।
%तत्वसङ्ख्यानस्य% व्याख्यानरूपत्वादेतदनुसारेण सृतिपदमेव दुःखार्थकमित्यप्याहुः।
स्यादेतत्, दुःखसम्बन्धात्यन्ताभाववत्वं दुःखास्पृष्टत्वमित्ययुक्तं। दुःखसम्बन्धस्य प्रतियोगित्वेनात्यन्ताभावविशेषणत्वायोगात्। सतस्तत्प्रतियोगित्वाभावात्। असतश्च व्यावर्तकत्वानुपपत्तेः। न च प्रतियोग्यसत्वेऽपि प्रतियोगित्वस्य निरूपकतया व्यावर्तकत्वसम्भवः। प्रतियोगित्वसामान्यस्य भावान्तरसाधारणत्वात्। तद्विशेषस्य चानुल्लेखात्। किं च प्रतियोगित्वं प्रतियोग्यभावयोः सम्बन्धः। न च सम्बध्यसत्त्वे सम्बन्धस्य सत्वं सम्भवत्यति प्रसङ्गात्।
यद्यपि %तदस्पृष्ट%मितिमूलस्य दुःखासम्बद्धमिति टीकायाशच् दुःखसम्बन्धवदन्योन्याभावार्थकतयोपपत्तेर्नोक्तविकल्पदोषः। सत एव तत्प्रतियोगित्वात्। तथापि %नित्यादुःखे%त्युत्तरमूलानुसारादत्यन्ताभावघटितमपि लक्षणमभिप्रेतं। अत एव त्रैकालिकदुःखनिषेधवदिति व्याख्यानमुपपद्यते। %भावचन्द्रिकायां% च दुःखसंसर्गात्यन्ताभावाधिकरणत्वं दुःखास्पृष्टत्वमित्युक्तं।
किं च %नित्यमुक्त% इति %तत्वविवेके, यस्य न कदापि संसारसम्बन्धोऽसौ नित्यमुक्त% इति %टीकायां% च संसारसंसर्गात्यन्ताभाववत्त्वं लक्षणमुक्तं। तत्र चोक्तानुपपत्तिः कथं परिहरणीयेति। अत्राहुः, असत एव दु स्वादिसम्बन्धस्य प्रतियोगित्वविशेषेणात्यन्ताभावविशेषणत्वं। सदसतोः सम्बन्धान्तराभावेऽपि विषयत्वप्रतियोगित्वादिसम्बन्धस्वीकारात्। अत एव तस्य व्यावर्तकत्वमपि। सम्बन्धविधया प्रतियोगित्वविशेषानुल्लेखस्त्वसिद्ध एवेति।
अन्ये तु (9)सत एव दुखसंसर्गस्य प्रधानप्रतियोग्यनुगतनिरूपकत्वेनाभावविशेषणत्वं। अत एवैतद्दुःखसंसर्गाभावस्तत्रेति प्रतीतिरुपपद्यते। न चैवमसतस्तत्प्रतियोगित्वे मानाभावः। भ्रमबाधोत्तरं `असन्नेव दुःखसंसर्गः प्रत्यभात्' इति प्रतीतेरेव मानत्वात्। असत्वस्यात्यन्ताभावप्रतियोगित्वरूपत्वादित्याहुः। अधिकमन्यत्रानुसन्धेयं।
%मायावाद्युपगतचेतनैक्यस्य तार्किकाद्युपगतपरतन्त्रचेतनैकविध्यस्य% च निरासाय द्वेधैवेत्यवधारणमित्याह %।। कल्पितत्वादिति ।।% दुःखादीनामारोपितत्वात्परमार्थतो न किंचिद्दुःखस्पृष्टमित्यर्थः। यद्यपि चेतनाचेतनत्वेन परतन्त्रविभागादेव स्वतन्त्रचेतनान्तरसिद्ध्या चेतनैक्यनिरासः सम्भवति। न च स्वतन्त्रस्य चेतनत्वानुक्तेर्नैवमिति वाच्यं। स्वातन्त्र्येणैव चेतनत्वसिद्धेः। तथापि पारतन्त्र्यादीनामप्यारोपितत्वादुक्तविभागानुपपत्तिशङ्काया अपि निवर्तकोऽयमेवकार इति भावः। अत एव %दुःखादीनामित्यादिपदं।%
%।। प्रत्यक्षविरुद्धत्वादिति ।।% दुःखी परतन्त्रोऽहमित्यादिसाक्षप्रत्यक्षविरुद्धत्वादित्यर्थः। न चेदमप्रमाणं। बाधकाभावात्। न च नेहनानास्तीत्यागमो बाधकः। तस्य ब्रह्मणि भिन्नगुणक्रियादिनिषेधपरत्वात्। अन्यथोक्तप्रत्यक्षविरोधात्। अत एव सत्यपि प्रमाणत्रयविरोधे प्रबलत्वात् प्रत्यक्षविरोध एव कण्ठत उक्तः %।। आगमविरुद्धत्वादिति ।% द्वावेतौ नित्यमुक्तौ, निर्दुःखो हि हरिर्नित्यं श्रीश्चान्ये दुःखभागिन इत्याद्यागमविरुद्धत्वादित्यर्थः। तद्वैलेनैव %समनाधिकरणए% श्रियो नित्यमुक्तत्वस्य समर्थितत्वादिति भावः।
नन्वीश्वरस्य दुःखास्पृष्टत्वमवश्यं प्रतिपत्तव्यं। तत्कुतो नोक्तमत आह %।। परमेश्वरस्येति ।।% स्वातन्त्र्योक्तावर्थसिद्धत्वान्नोक्तमिति भावः। यद्वा ननु दुःखस्पृष्टत्वतदस्पृष्टत्वाभायं तत्वविभाग एव कर्तव्यो न तु परतन्त्रचेतनविभागः। स्वतन्त्रस्य दुःखास्पृष्टत्वालाभादित्यत आह %।। परमेश्वेरस्येति ।।% तस्मादयमेव विभागो युक्त इति भावः। यद्वा नन्वत्र परतन्त्रचेतनमेवैवंविधमित्यवधारणं विवक्षितं न वा। आद्ये स्वतन्त्रस्य दुःखास्पृष्टत्वं न स्यात्। अन्त्ये दुःखस्पृष्टत्वं किं न स्यादित्यत आह %।। परमेश्वरस्येति ।।% स्वातन्त्र्येण दुःखास्पृष्टत्वमेव सिद्धमतो नान्त्यपक्षे दोष इति भावः। यद्वा ननु रमाया दुःखास्पृष्टत्वे स्वातन्त्र्यापत्त्या परमेश्वरसाम्यापत्तिरत आह %।। परमेश्वरस्येति ।।% परानपेक्षया दुःखास्पृष्टत्वं परमेश्वरस्यैव सिद्धमतो न तत्साम्यापत्तिरिति भावः। यद्वा परतन्त्रस्य दुःखास्पृष्टत्वमनुपपन्नमत आह %।। परमेश्वरस्येति ।।% परमेश्वरस्य स्वातन्त्र्येणैव परतन्त्रस्यापि दुःखास्पृष्टत्वं सिद्धं। तस्य यथेष्टकर्तृत्वादिति भावः।
</चेतनविभागः तल्लक्षण च>

<दुःखास्पृष्टस्पृष्टदुःखचेतनयोः क्रमेणोद्देशः>
(टी.)
यद्यप्यनयोर्दुःखास्पृष्टं चेतनं प्रधानं तथाप्यभावस्य भावनिरूप्यत्वात् दुःखस्पृष्टस्य प्रथममुद्देशः। तथापि प्राधान्यक्रमस्य मुख्यत्वात्तदनुसारेण द्वे अपि निर्दिशति
नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखाः समस्तशः ।। 3 ।।
अन्ये चेतनाः। एके तु व्यष्टिसमष्टिभेदेन जीवान्परिकल्प्य गरुडानन्तविष्वक्सेनादीन्मसष्टिजीवानपि नित्यादुखानाचक्षते। तन्निरासाय समस्तश इत्युक्तं। अत्र चाऽगमानां प्रामाण्यं। अत एव दुःखास्पृष्टे प्रभेदाभावाद्दुःखस्पृष्टापेक्षयैव धाप्रत्ययः पूर्वोक्तो ज्ञातव्यः।
</दुःखास्पृष्टस्पृष्टदुःखचेतनयोः क्रमेणोद्देशः>

<दुःखास्पृष्टस्पृष्टदुःखचेतनयोः क्रमेणोद्देशः>
(रा. टि.)
%।। अत्र चेति ।।% श्रीश्रीपतिभ्यामन्ये जीवाः स्पृष्टदुःखा इत्यत्र `अतोन्यदार्त, जीवा एव तु दुःखिनः' इत्याद्यागमानां प्रामाण्यं ध्येयमित्यर्थः। %अत एवे%त्यस्य विवरणं %दुःखास्पृष्टे प्रभेदाभावादिति।% सर्वस्य स्पृष्टदुःखत्वादेवेति वा अर्थः। `सङ्ख्याया विधार्थे धा' इत्युक्तधाप्रत्ययस्य %दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनमित्य%त्रोक्तेरिति भावः।
</दुःखास्पृष्टस्पृष्टदुःखचेतनयोः क्रमेणोद्देशः>

<दुःखास्पृष्टस्पृष्टदुःखचेतनयोः क्रमेणोद्देशः>
(का. टि.)
ननु प्राधान्यक्रमेण दुःखास्पृष्टस्यैव प्रथममुद्देशः कार्य इत्याशङ्कते %।। यद्यपीति ।। अनयो%र्दुःस्वस्पृषट्तदस्पृष्टयोर्मध्ये। अत्र निरूपकक्रमेणोद्देश इति समाधते %।। तथापीति ।। अभावस्य% दुःखास्पृष्टत्वस्य दुःखस्पृष्टत्वरूपभावनिरूप्यत्वाद्भावाभावज्ञानयोः पौर्वापर्यनियमात्पथमं भावोद्देश इति भावः।
ननु प्राधान्यक्रमस्य मुख्यत्वात्तदनुसारेणोद्देश एव युक्तः। न च भावज्ञानं विना कथमभावज्ञानमिति वाच्यं। दुःखास्पृष्टपदघटकदुःखपृष्टपदेनैव भावज्ञानसम्भवात्। न हि दुःखास्पृष्टमित्येतदबोधकमिष्यत इति चेत्सत्यं। तथापि दुःखस्पृष्टत्वस्य दुःखास्पृष्टत्वनिरूपकत्वं ज्ञापयितुमेव प्रथमोद्देशः कृतः। अन्यथा दुःखास्पृष्टमिति स्पष्टमनुद्दिश्य तदस्पृष्टमित्युद्देशः कृतः। अन्यथा दुःखस्पृष्टतदस्पृष्टशब्दयोर्नदीवृद्ध्यादिशब्दवत्संज्ञामात्रत्वशङ्का स्यात्। अत एव दुःखास्पृष्टमिति स्पष्टमनुद्दिश्य तदस्पृष्टमित्युद्देशः कृतः। अन्यथा दुःखस्पृष्टशब्दः संज्ञैव। (10)दुःखास्पृष्टशब्दस्तु तदन्यार्थक इति शङ्कापत्तेः। यथोद्देशे तु तच्छब्दस्य दुःखपदार्थपरामर्शकत्वानुरोधेन दुःखस्पृष्टशब्दस्य यौगिकत्वलाभात्। न च प्राधान्यज्ञापनाय दुःखास्पृष्टस्यैव प्रथमोद्देशः किं न कृत इति वाच्यं। तस्योत्तरमूलेन ज्ञापनात्। न च प्राधान्यज्ञापनाय दुःखास्पृष्टस्यैव प्रथमोद्देशः किं न कृत इति वाच्यं। तस्योत्तरमूलेन ज्ञापनात्। न चैवमुत्तरमूले %नित्यादुःखास्पृष्टदुःखा% इत्यर्थानुवादादेवोद्देशस्य संज्ञामात्रत्वशङ्कानिराससम्भवाद्व्यर्थं निरूपकक्रमानुसरणमिति वाच्यं। तस्य फलितार्थानुवादकत्वेन शब्दार्थाबोधकत्वात्। फलितार्थानुवादान्यथानुपपत्त्यैव शब्दार्थकल्पने तु प्रयासगौरवमिति सार्थकं निरूपकक्रमानुसरणं।
(F.N){10. दुःखास्पृष्टपदघटकदुःखस्पृष्टशब्दस्तु इति पाठेन भाव्यमिति भाति।}
प्रकान्तक्रमपरित्यागबीजं दर्शयन्नुत्तरमूलमवतारयति %।। तथापीति ।।% मुख्यत्वं च क्रमान्तरादवश्यज्ञेयत्वेन ज्ञेयं।
जडस्य दुःखस्पृष्टत्वायोगादाह %।। चेतना इति ।। व्यष्टीति ।।% मुक्तामुक्तभेदेनेत्यर्थः %।। आगमानामिति ।।
न ह वै सशरीस्य सतः प्रियाप्रिययोरपहतिरस्ति।
निर्दुःखो हि हरिर्नित्यं श्रीश्चान्ये दुःखभागिनः।
दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते।
दुःखस्य योगतो भागाद्रुद्रवीनद्‌रादयोऽधमः।।
इत्याद्यागमानामित्यर्थः। %अत एव% रमातिरिक्तानां सामस्त्येन दुःखस्पृष्टत्वादेव दुःखास्पृष्टे परतन्त्रचेतने भेदाभावः। ततश्च दुःखस्पृष्टानां प्रभेदवत्वाभिप्रायेणैव द्वेधैवेति धालूप्रत्यययोग इत्यर्थः। अन्यथा `द्वे चेतने' इत्यवक्ष्यदिति भावः। अत एवत्यस्याभावादित्यन्तं विवरणमित्यप्याहुः।
</दुःखास्पृष्टस्पृष्टदुःखचेतनयोः क्रमेणोद्देशः>

<स्पृष्टदुःखचेतनविभागस्तल्लक्षर्ण च>
(टी.)
अत एव तद्विभागमाह
स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा।
विमुक्ता दुःखासंस्था वर्तमानदुःखाः। चशब्दो दुःखसंस्था इत्यतः परं योज्यः। अत्र प्राधान्यक्रमेणोद्देशः।
</स्पृष्टदुःखचेतनविभागस्तल्लक्षर्ण च>

<स्पृष्टदुःखचेतनविभागस्तल्लक्षर्ण च>
(रा. टि.)
%।। अत एवेति ।।% (11)धाप्रत्ययेऽवान्तरभेदस्य सूचनादेवेत्यर्थः।।
(F.N){11. धाप्रत्ययेनावान्तरभेदस्य इति पाठेन भाव्यमिति भाति.}
</स्पृष्टदुःखचेतनविभागस्तल्लक्षर्ण च>

<स्पृष्टदुःखचेतनविभागस्तल्लक्षर्ण च>
(का. टि.)
%।। अत एवेति ।।% दुःखस्पृष्टापेक्षया धाल्प्रत्ययप्रयोगादेवेत्यर्थः। निगडमुक्तवारणायाह %।। दुःखादिति ।।% दुःखमुक्तत्वस्य सुषुप्त्यादिसाधारण्यादात्यन्तिकदुःखनिवृत्तिलाभाय विशब्दः। आत्यन्तिकत्वं च दुःखप्रागभावानवच्छिन्नत्वं। तथा च दुःखप्रागभावानवच्छिन्नदुःखाभाववविशिष्टत्वं दुःखविमुक्तत्वमिति निष्कर्षः। दुःखप्रागभावानवच्छिन्नत्वं। तथा च दुःखप्रागभावानवच्छिन्नदुःखाभावविशिष्टत्वं दुःखविमुक्तत्वमिति निष्कर्षः। दुखवृत्तित्वरूपदुःखसंस्थत्वस्य जीवेष्वसम्भवादाह %।। वर्तमानदुःखा इति ।।% ननु दुःखविमुक्तानामपि कदाचिद्वर्तमानदुःखत्वात्कथमयं विभागः। विभिन्नदेशयोरेव विभाजकत्वादिति चेन्न। समानकालविभिन्नदेशयोरिव विभिन्नकालसमानदेशयोरपि धर्मयोर्विभाजकत्वे बाधकाभावात्। समानदेशयोः परस्परधर्मिव्यावर्तकत्वाभावात्कथं विभाजकत्वमिति चेन्न। परस्परोपलक्षितधर्मिस्वरूपव्यावर्तकत्वाभावेऽपि परस्परविशिष्टव्यावर्तकत्वेन विभाजकत्वोपपत्तेः। अत एवायं विशिष्टविभाग इति गीयते। नन्वेवं सुप्तिविशिष्टानामुभयत्राप्रवेशात् त्रैविध्यापत्तिरिति चेन्न। दुःखपदस्य दुःखप्रागभावपरत्वादिति केचित्। दुःखहेत्वविद्यापरत्वादित्यन्ये। वस्तुतस्तु एतत्कल्पप्रागभावानधिकरणकालवृत्तिदुःखोपलक्षितत्वं वर्तमानदुःखत्वं। सृज्यजीवसङ्ग्रहायैतत्कल्पवृत्तित्वमुपेक्षितं। तेषामेतत्कल्पीयदुःखशून्यत्वेऽपि एतत्कल्पप्रागभावानधिकरणीभूतोत्तरकल्पीयदुःखवत्वात्तत्सङ्ग्रहः। सुप्तानामपि दुःखोपलक्षितत्वान्नोक्तदोषः। न च तादृशदुःखोपलक्षितत्वस्य दुःखविमुक्तसाधारण्यात्साङ्कर्यमिति वाच्यं। प्राक्कल्पीयमुक्तानामेव दुःखविमुक्तपदेन ग्रहणात्। न चैवं दुःखविमुक्तत्वस्यैतत्कल्पीयमुक्तेष्वतिव्याप्तिरिति वाच्यं। एतत्कल्पीयदुःखासमानाधिकरणदुःखध्वंसवत्वरूपविमुक्तत्वस्य विवक्षितत्वात्। न चैवं सृज्यजीवेष्वतिव्याप्तिः। तेषामेतत्कल्पीयदुःखासमानाधिकरणोत्तरकल्पीयदुःखध्वंसवत्वरूपविमुक्तत्वस्य विवक्षितत्वात्। न चैवं सृज्यजीवेष्वतिव्याप्तिः। तेषामेतत्कल्पीयदुःखासमानाधिकरणोत्तरकल्पीयदुःखध्वंसवत्वादिति वाच्यं। पूर्वकल्पीयत्वेन दुःखस्यैतत्कल्पीयत्वेन वा दुःखध्वंसस्य विशेषणीयत्वात्। अत एव ध्वंसपदमप्यर्थवत्। दुःखाभावमात्रोपादाने दुःखप्रागभावमादाय सृज्येष्वतिव्याप्तेः। एवं च साङ्कर्याभावात्तमोयोग्यविभागग्रन्थवत्स्वरूपविभागपर एवायं ग्रन्थ इत्यवधेयं। %विमुक्ताश्चेति% चशब्दस्य स्पृष्टदुःखसमुच्चायकत्वप्रतीतिनिरासायाह %।। चशब्द इति ।।% तथाचोक्तसमुच्चायकेनानेन विवक्षितस्य विमुक्तदुःखसंस्थसमुच्चयस्य लाभ इति भावः। यद्यपि %तत्र चान्यत्र च प्रसिद्धानामि%त्यादौ चशब्दस्य वक्ष्यमाणसमुच्चायकत्वमप्यस्ति तथाप्युक्तसमुच्चायकशब्दान्तरसमभिव्याहृतस्यैव तथात्वमित्याशयेन दुःखसंस्थसमुच्चायक इत्यनुक्त्या %दुखसंस्था इत्यतः परं योज्य% इत्युक्तं। मुक्तानां प्रथमोद्देशे नियामकमाह %।। अत्र चेति ।।% बद्धमुक्तयोर्मुक्तस्य प्राधान्यं प्रसिद्धमेवेति भावः।
</स्पृष्टदुःखचेतनविभागस्तल्लक्षर्ण च>

<दुःखसंस्थचेतनविभागस्तल्लक्षणं च>
(टी.)
दुःखसंस्थानां प्रभेदमाह
दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा ।। 4 ।।
अयोग्या मुक्तेः। अयोग्या इत्यतः परं चशब्दो ज्ञातव्यः। अत्रापि तदेवोद्देशक्रमे निमित्तं। ननु च प्राधान्याद्विमुक्तभेदः प्रथमं वक्तव्यः। सत्यं, योग्यायोग्यभेदस्य दुःखसंस्थेष्वेव भावात्तदभिधानानन्तरं मुक्तियोग्यभेदकथनस्य सौकर्यात्क्रमोल्लङ्घनम्।
</दुःखसंस्थचेतनविभागस्तल्लक्षणं च>

<दुःखसंस्थचेतनविभागस्तल्लक्षणं च>
(रा. टि.)
%अत्रापि तदेवेति ।।% प्राधान्यमेवेत्यर्थः %।। दुःखसंस्थेष्वेवेति ।।% न तु मुक्तेष्विति भावः। योग्यतायाः स्वभावत्वेन मुक्तेष्वपि मुक्तियोग्यतायाः सत्वान्मुक्तियोग्यभेदकथनस्येत्युक्तावविरोधः। यद्वा %एवं विमुक्तियोग्या% इत्येतदभिप्रायमिदं।
</दुःखसंस्थचेतनविभागस्तल्लक्षणं च>

<दुःखसंस्थचेतनविभागस्तल्लक्षणं च>
(का. टि.)
अत्र क्वचिदयोग्यत्वस्य मुक्तियोग्येष्वपि सम्भवात्क्वचिदप्ययोग्यत्वस्य तमोयोग्येष्वप्यसम्भवादाह %।। अयोग्या मुक्तेरिति ।।% अत्र मुक्तियोग्यत्वं मुक्तिप्रयोजकदृढभक्त्यादिरूपत्वं, अतद्रूपत्वं तद्विरोधिद्वेषादिरूपत्वं वा मुक्त्ययोग्यत्वमिति ध्येयं। अत्र चशब्दस्य द्वैविध्यान्तरसमुच्चायकत्वायोगादाह %।। अयोग्या इत्यतः परं इति ।। अत्रापीति ।।% दुःखसंस्थविभागेऽपि मुक्तियोग्यानां प्रथमोद्देशे प्राधान्यमेव मुख्यं नियामकमित्यर्थः। तेन निरूप्यनिरूपकभावरूपनियामकान्तरसत्वेऽपि नैवकारविरोधः। निरुक्तद्वितीयकल्पे तदभावाच्चेति ध्येयं। %।। प्राधान्यादिति ।।% यद्यप्युद्देशक्रमादित्यपि सुवचं तथापि प्राधान्यक्रमस्योद्देशक्रमबाधकत्वेन मुख्यत्वात्स एवोक्तः। समाधत्ते %।। सत्यमिति ।।% विमुक्तानां प्राधान्यमित्येतत्सत्यं। तथापि विमुक्तभेदकथनाव्यवहितोत्तरं मुक्तियोग्यभेदकथनस्यातिदेशलाघवात् क्रमोल्लङ्घनं। अन्यथा विमुक्तविभागानन्तरं योग्यायोग्यभेदेन दुःखसंस्थान्विभज्य योग्येषु व्यवहितविमुक्तभेदस्य एवमित्याद्यतिदेशायोगाद्विशिष्य देवर्ष्यादिभेदेन पञ्चविधत्वस्य कथनीयतया ग्रन्थगौरवं स्यादिति भावः। ननु योग्यायोग्यभेदादिना मुक्तानेव विभज्य दुःखसंस्थेष्वेव तदतिदेशलाघवसम्भवात्कुतः क्रमोल्लङ्घनं। अन्यथा विमुक्तविभागानन्तरं योग्यायोग्यभेदेन दुःखसंस्थान्विभज्य योग्येषु व्यवहितविमुक्तभेदस्य एवमित्याद्यतिदेशायोगाद्विशिष्य देवर्ष्यादिभेदेन पञ्चविधत्वस्य कथनीयतया ग्रन्थगौरवं स्यादिति भावः। ननु योग्यायोग्यभेदादिना मुक्तानेव विभज्य दुःखसंस्थेष्वेव तदतिदेशलाघवसम्भवात्कुतः क्रमोल्लङ्घनमित्याशङ्कापरिहारायोक्तं %।। योग्यायोग्येत्यादि ।।
</दुःखसंस्थचेतनविभागस्तल्लक्षणं च>

<मुक्तचेतनविभागस्तल्लक्षणं च>
(टी.)
इदानीं मुक्तानां प्रभेदमाह
देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा।
पान्तीति पाश्चक्रवर्तिनः। नरा मनुष्योत्तमाः। तुशब्दोऽवधारणे। तेन ये मोक्षे तारतम्यं न मन्यन्ते तन्मत निराचष्टे। गन्धर्वादीनां केषाञचिदेष्वेवान्तर्भावात् केषाञ्चिदविवक्षितत्वान्न ग्रन्थान्तरविरोधः।
</मुक्तचेतनविभागस्तल्लक्षणं च>

<मुक्तचेतनविभागस्तल्लक्षणं च>
(रा. टि.)
%।। पान्तीति पा इति ।।% पा रक्षणे, पचाद्यचू आतो लोप इटि चेत्याकारलोपः %।। केषाञ्चिदिति ।।% देवगन्धर्वाणां कर्मजाजानजदेवानां चेत्यर्थः %।। केषाञ्चिदिति ।% मनुष्यगन्धर्वादीनामित्यर्थः %।। ग्रन्थान्तरेति ।।% तैत्तिरीयादिग्रन्थान्तरेत्यर्थः।
</मुक्तचेतनविभागस्तल्लक्षणं च>

<मुक्तचेतनविभागस्तल्लक्षणं च>
(का. टि.)
तथापि देवर्ष्यादिभेदेन मुक्तियोग्यान् विभज्य तदतिदेश एव मुक्तेषु किं न कृत इत्यत आह %।। इदानीमिति ।।% दुःखसंस्थविभागानन्तरमित्यर्थः ।। मुक्तामुक्तभेदेन दुःखस्पृष्टविभागे कृते तदुभयविभागस्यैवाकाङ्‌क्षितत्वादिति भावः। पितृपत्वमेको विभाजकोपाधिरिति भ्रान्तिनिरासायाह %।। पान्तीति ।।% पातृत्वस्य देवादिसाधारण्यान्न विभाजकतेत्यतो विवक्षितार्थमाह %।। चक्रवर्तिन इति ।।% देवत्वादिजातिवच्चक्रवर्तित्वजातेरेव विभाजकत्वमिति भावः। सर्वमनुष्याणां मुक्त्ययोगादाह %।. मनुष्योत्तमा इति ।। तेनेति ।।% यद्यपि पञ्चधैवेत्यवधारणएन मुक्तानामेकजातीयत्वनिरास एव लभ्यते तथापि तारतम्योपपादकत्वेनैव पञ्चविधत्वावधारणात्सान्यनिरासोऽपि सिध्यति। तथा हि %`ब्रह्मान्ता उत्तरोत्तरं। मुक्ताः शतगुणोद्रिक्ताः इति %तत्वविवेकोक्तमुक्ततारतम्यमनुपपन्नं। युवा स्या%दित्यादिमूलश्रुतौ मनुष्यत्वादिजातिविशिष्टानामेव तारतम्योक्तेः। मुक्तौ च तदपायात्' इति मतं न श्रद्धेयं। मुक्तानामपि मनुष्यत्वादिजातिविशिष्टत्वेन तारतम्योपपत्तेरिति।
ननु %पञ्चधे%त्ययुक्तं गन्धर्वादीनामधिकत्वात्।
क्षितिपा मनवुष्यगन्धर्वा देवाश्च पितरश्चिराः।
आजानजाः कर्मजाश्च देवा इन्द्रः पुरन्दरः।।
रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः।
इत्यादौ तेषामपि मुक्तत्वोक्तेः। अत आह %।। गन्धर्वादीनामिति ।।% देवगन्धर्वादीनां देवादिष्वेवान्तर्भावदित्यर्थः। आजानजकर्मजतात्विकदेवगन्धर्वाप्सरः प्रभृतिसाधारणदेवत्वादेरेव विभाजकत्वेन विवक्षितत्वादिति भावः। नन्वेवमसुरगन्धर्वादीनामसङ्ग्रह इत्याशङ्क्योक्तं %।। केषाञ्चिदविवक्षितत्वादिति ।।% उक्तवचनेऽपि तेषामविवक्षितत्वान्न तद्विरोध इत्यर्थः। अत्र देवाद्यनन्तर्भूताशेषमुक्तानां मनुष्योत्तमेष्वन्तर्भावः। देवादिभिन्नसच्चेतनमात्रस्य मनुष्योत्तमपदेन विवक्षितत्वादित्यवधेयम्।
केचित्तु येषां तारतम्यं विशिष्य श्रुत्यादिप्रसिद्धं तेषामत्रैवान्तर्भावादन्येषामविवक्षितत्वान्न विरोधः। न चैवं विभागस्य न्यूनता। %तत्वविवेका%नुसारेण मुक्तास्तारतम्योपेता एवेत्यर्थे मूलतात्पर्यात्। पञ्चविधत्वं तु तारतम्यस्फुटीकरणायोपलक्षणत्वेनैवोक्तमित्याहुः। यद्यपि मन्दमध्यमोत्तमत्वेन त्रैविध्याभिधानेऽपि समस्तमुक्तसङ्ग्रहादिसम्भवः। अवान्तरजातीनां विशिष्य वक्तव्यत्वेऽपि देवर्ष्यादिप्रभेदेन मुक्ता बहुधा इत्येव वक्तुमुचितं तथापि `देवविशेषाः पितरो मनुष्यविशेषाश्चक्रवर्तिनः' इत्यादिमतनिरासाय पञ्चविधत्वाभिधानमिति।
</मुक्तचेतनविभागस्तल्लक्षणं च>

<मुक्तविभागस्य मुक्तियोग्येष्वतिदेशः>
(टी.)
दुःखसंस्था मुक्तियोग्यायोग्यभेदाद्‌द्विधा इत्युक्तं। तत्र मुक्तप्रभेदं योग्येष्वतिदिशति
एवं विमुक्तियोग्याश्च .... .... .... .... .... .... .... .... ....।
देवर्ष्यादिभेदेन पञ्चधा इत्यस्यानुकर्षणार्थश्चकारः।
</मुक्तविभागस्य मुक्तियोग्येष्वतिदेशः>

<मुक्तविभागस्य मुक्तियोग्येष्वतिदेशः>
(का. टि.)
मुक्तियोग्यविभागस्याप्रकृतत्वशङ्कां वारयितुमाह %।। दुःखसंस्था इति ।।% तत्र द्विधेत्युक्त्या तद्विभागोऽपि सूचित इति भावः। %तत्र% तयोर्मध्ये। योग्येष्विति सम्बन्धः। चशब्दस्यायोग्यसमुच्चायकत्वायोगादाह %।। देवर्ष्यादीति ।।% यद्यपि एवमित्यस्यैव देवर्ष्यादिभेदेन पञ्चधेत्यर्थकत्वसम्भवः तथापि न तस्य समुच्चयार्थकत्वं। यथा मुक्तास्तथा मुक्तियोग्या इत्युपमार्थत्वमेवाभिप्रेतं। अन्यथा चशब्दवैयर्थ्यादिति भावेनानुकर्षः कृतः। यद्वा एवमित्यस्य देवर्ष्यादिभेदेनेति व्याख्यानं। चशब्दात्पञ्चधेत्यनुकर्ष इति व्याख्येयमतो नान्यतरवैयर्थ्यं। अत एव देवर्ष्यादिभेदेनेत्यर्थानुवाद एव कृतो न तु %देवर्षिपितृपनरा% इति शब्दानुवाद इत्यवधेयं।
</मुक्तविभागस्य मुक्तियोग्येष्वतिदेशः>

<मुक्त्ययोग्यचेतनविभागः>
(टी.)
.... .... .... .... .... .... ।। 5 ।।
इति द्विधा मुक्त्ययोग्याः.... .... .... .... ....
तमोगास्तमोयोग्याः। न तु प्राप्ततमसः। वक्ष्यमाणविभागविरोधात्। सृतिसंस्थिताः नित्यसंसारिणः। (12)अयोग्यतातिशयानुसारेणोद्देशः।
(F.N){12. काशिकापाठे अत्र इत्यधिकं दृश्यते}
</मुक्त्ययोग्यचेतनविभागः>

<मुक्त्ययोग्यचेतनविभागः>
(रा. टि.) %।। वक्ष्यमाणेति ।।% दैत्येत्यादिवक्ष्यमाणेत्यर्थः %।। अयोग्यतेति ।।% मुक्तितत्साधनादावयोग्यतातिशयेत्यर्थः।
</मुक्त्ययोग्यचेतनविभागः>

<मुक्त्ययोग्यचेतनविभागः>
(का. टि.)
%।। तमोयोग्या इति ।।% तमःप्रापकदृढद्वेषादिरूपा इत्यर्थः %।। वक्ष्यमाणेति ।। दैत्येत्यादिना% वक्ष्यमाणतमोयोग्यविभागस्यानुपपत्तेरित्यर्थः. न च तत्र तमोयोग्यपदस्य प्राप्ततमसपरत्वेनोपपत्तिः शङ्क्य। %तेचे%त्यादिविभागविरोधादिति भावः. नन्वेवं सृतिसंस्थितानामपि तमोयोग्यत्वात्पृथग्ग्रहणानुपपत्तिरत आह %।। नित्यसंसारिण इति ।।% मध्यममनुष्याणां लिङ्गभङ्गानङ्गीकारे नित्यलिङ्गालिङ्गितत्वं नित्यसंसारित्वं। तदङ्गीकारे तु सुखदुःखाभिव्यञ्जकभक्तिद्वेषादिरूपत्वमेव तत्। `नित्यावर्तास्तु मध्यमाः' इत्यस्यापि नित्यमिश्रफला इत्यर्थः। प्राप्ताप्राप्तफलत्वेन तेषामविभागस्तु सर्वदा संसारसमानधर्मत्वाभिप्रायेणेति ज्ञेयं। ननु नित्यसंसार्यपेक्षया तमोयोग्यानामधमत्वेनाप्राधान्यात्कथ प्रथमोद्देश इत्यत आह %।। अत्रेति ।।% योग्येषु योग्यतातिशयेनेवायोग्येष्वयोग्यतातिशयेन तमोयोग्यानामेव प्राधान्यसंभवात्प्रथमोद्देश इत्यर्थः। ननु योग्यत्वाभावरूपायोग्यत्वस्योभयत्र समानत्वात्कथमेकत्रातिशय इति चेन्न। स्वरूपतस्तदभावेऽपि फलतस्तद्भावात्। द्वेषादिरूपायोग्यतायां स्वरूपतोऽप्यतिशयसद्भावाच्च।
</मुक्त्ययोग्यचेतनविभागः>

<तमोयोग्यचेतनविभागः>
(टि.)
तमोयोग्यानां प्रभेदमाह
.... .... .... .... .... .... दैत्यरक्षःपिशाचकाः।
मर्त्याधमाश्चतुर्धैव तमोयोग्याः प्रकीर्तिताः ।। 6 ।।
मर्त्याधमा इत्यतः परमितिशब्दोऽध्याहार्यः। अप्रसिद्धत्वादस्य भेदस्याश्रद्धेयत्वं निवारयितुमेवशब्दः। प्रकीर्तिता इति अत्राऽगमसंमतिमाचष्टे। स चान्यत्रोदाहृतो द्रष्टव्यः।
</तमोयोग्यचेतनविभागः>

<तमोयोग्यचेतनविभागः>
(रा. टि.)
%।। स चान्यत्रोदाहृत इति ।।% प्रजा ह तिश्रो अत्यायमीयु%रित्यैतरेयभाष्ये।% तथा %तृतीयस्कन्धे एकादशतात्पर्ये च।
जाताऽतिकृष्णा तद्देहाद्दैत्यरक्षःपिशाचकाः।
इत्युदाहृत इत्यर्थः।
</तमोयोग्यचेतनविभागः>

<तमोयोग्यचेतनविभागः>
(का. टि.)
दैत्यादीनां प्रत्येकं चातुर्विध्यमुच्यत इति भ्रमनिरासायाह %।। तमोयोग्यानामिति ।।% तमोयोग्याश्चतुर्धेत्यन्वयो न तु प्रत्येकमिति भावः। नन्वेवं दैत्यादेरनन्वय इत्यत आह %।। मर्त्याधमा इति ।। अप्रसिद्धत्वादिति ।।% तन्त्रान्तरासिद्धत्वादित्यर्थः। %अस्य% तमोयोग्याश्रितस्य। %अश्रद्धेयत्व%मनिश्चितप्रामाण्यकत्वमप्रामाणिकत्वशङ्कामिति यावत्। नन्वेतावतैव कथं तन्निवारणमत आह %।। प्रकीर्तिता इति।। अत्र% मुक्त्ययोग्यप्रभेदविपये। %प्रकीर्तिता% इत्यस्य पूर्वत्रोत्तरत्र च सम्बन्धेन सर्वत्रैवाप्रामाणिकत्वशङ्कानिरास इति भावः। स चागमः
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः।
एधमानद्विडुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्।।
सात्विका राजसाश्चैव तामसास्त्रिविधा जनाः।
सात्विकास्तत्र देवाद्या राजसाः सृष्टिगास्तथा।।
मर्त्याधमास्तामसास्तु दैत्यरक्षः पिशाचकाः।
स्वरूपभूतविद्वेषा अधो गच्छन्ति ते तमः।।
इत्यादि%र्भाष्यादा%वुदाहृत इत्यर्थः। वीरोऽध्यवसायान्तगामी परमेश्वरः सर्वानुग्रान्दैत्यादीन्दमयन् तद्विरुद्धान्देवादीन् संसारमतिक्रम्य स्वपदं नयन् वेदादिषु श्रूयते। नस एव मुक्तामुक्तनियामको मध्यममनुष्यप्रजाः संसार एवावर्तयति। न तु साधनानुष्ठानेऽपि मोचयति। यतः स्वायोग्यप्रयत्नादेधमानान्द्वेष्टीति श्रुत्यर्थः। अत्र दैत्यादीनामयोग्यतातिशयानुसारेणोद्देश इत्युक्तप्रायं। मर्त्याधमेभ्यो दैत्यादीनां कुत्सार्थककप्रत्ययेन बहुतरायोग्यत्वं सूचितं। अत एव तेषां पृथगुक्तिरिति ज्ञेयं।
</तमोयोग्यचेतनविभागः>

<प्रकारान्तरेण तमोयोग्यचेतनविभागः>
(टि.)
चतुर्विधा अप्येते प्रत्येकं द्विधा इत्याह
ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा।
ते च चतुर्विधा अपि। सृतिसंस्थाः संसारे वर्तमाना नाधुनापि तमः प्राप्ताः। योग्यतायाश्चैतन्यस्वभावत्वेन तमोयोग्यानामयं विभागो नानुपपन्नः।
</प्रकारान्तरेण तमोयोग्यचेतनविभागः>

<प्रकारान्तरेण तमोयोग्यचेतनविभागः>
(रा. टि.)
ननु योग्यविभागत्वं प्राप्ततमस्कानामयुक्तं। फलप्राप्तौ योग्यताया विनाशादित्यत आह %।। योग्यताया इति ।।%
मर्त्याधमानामेव ते चेत्यनेन परामर्श इति प्रतीतिं वारयति %।। चतुर्विधा अपीति ।।% नन्वेवं दैत्यादिव्यावर्तकचशब्दविरोध इत्यत आह %।। ते चेति ।। चो%ऽप्यर्थो न त्वर्थ इति भावः। सृतिसंस्थशब्दस्य नित्यसंसारिपरत्वभ्रमनिरासायाह %।। संसार इति ।।% अविद्यानुबन्धा इत्यर्थः। ननु प्राप्ततमस्कानामपि कदाचित्संसारित्वात्साङ्कर्यमत आह %।। अधुनापीति ।।% पथा चैतत्कालानुभूयमानदुःखमात्राः प्राप्ततमस्काः। तदन्यत्वविशिष्टत्वं वा एतत्कल्पीयाविद्योपलक्षितत्वं वा सृतिसंस्थत्वमतो न साङ्कर्यमिति भावः। समासान्तविधेरनित्यत्वात्प्राप्तान्धतमस इति सम्भवति। ननु प्राप्तान्धतमसानां कथं तमोयोग्यप्रभेदत्वं। तत्प्रागभावाधिकरणत्वरूपतद्योग्यतायास्तत्प्राप्त्युत्तरमभावादित्याशङ्कां परिहरति %।। योग्यताया इति ।।% द्वेषादिरूपयोग्यतायाः स्वरूपत्वेन सर्वदैव सत्त्वादिति भावः। अथाहुराचार्याः
स्वाबावाख्या योग्यता या हठाख्या याऽनादिसिद्धा सर्वजीवेषु नित्या। इति।
%इति चेतनविभागः।%
</प्रकारान्तरेण तमोयोग्यचेतनविभागः>

<अचेतनविभागः>
(टी.)
एवं चेतनविभागं विस्तरेणाभिधायावसरप्राप्तमचेतनविभागमाह
नित्यानित्यविभागेन त्रिधैवाचेतनं मतं ।। 7 ।।
अत्राप्यचेतनमेवैवंविभागवदित्यर्थानभ्युपगमात्पूर्वोक्ततत्वानामपि प्रमाणान्तरेण नित्यत्वादिग्रहणं न विरुद्धं। नित्यानित्यविभागेनेत्यस्य नित्यानित्यत्वेन तद्विभागेन चेत्यर्थः। तथा च नित्यानित्यं नित्यमनित्यं चेत्यचेतनं त्रिविधमित्युक्तं भवति।
(13)केचित्सर्वं क्षणिकं मन्यमाना नित्यं न मन्यन्ते। अपरे तु सत्कार्यवादिनोऽनित्यं नाङ्गीकुर्वन्ति। सर्वेऽपि नित्यानित्यं विरोधान्नाभ्युपगच्छन्ति। तन्निरासायैवकारः। न प्रतिज्ञामात्रेणार्थसिद्धिरिति प्रामाणिकत्वमुक्तविभागस्य सूचयति मतमिति। तच्च लेशतो दर्शयिष्यामः। यद्यपि नित्यं नित्यानित्यमनित्यमित्युद्देशः कार्यः प्राधान्यात्। तथाप्युक्तिलाघवाय क्रमोल्लङ्घनं।
(F.N){13. (का. टि.) केचित्तु}
</अचेतनविभागः>

<अचेतनविभागः>
(रा. टि.)
%।। पूर्वोक्तेति ।।% चेतनानां नित्यत्वं अत्यन्ताभावध्वंसयोर्नित्यत्वं प्रागभावस्यानित्यत्वं अन्योन्याभावस्य च यथाधिकरणं नित्यत्वमनित्यत्वं चेत्यादि ध्येयमित्यर्थः।
%।। सत्कार्येति ।।% कारणे सदेव कार्यं कुलालादिव्यापारेण व्यज्यते तत्रैव लीयत इति सत्कार्यवादिनोऽनित्यं नेति मन्यन्त इत्यर्थः %।। सर्वेऽपीति ।।% वादिन इत्यर्थः %।। दर्शयिष्याम इति ।।% नित्यादिवस्तुनिर्देशप्रस्ताव इति भावः %।। क्रमेति ।।% नित्यानित्यं नित्यमनित्यं चेत्येवं क्रमोल्लङ्घनमित्यर्थः।
</अचेतनविभागः>

<अचेतनविभागः>
(का. टि.)
%।। अवस्रप्राप्तमिति ।।% अवश्यकर्तव्यत्वेन बुद्धिस्थमित्यर्थः। ननु भावरूपाचेतनस्यैव नित्यानित्यविभागवत्त्वे चेतनस्य नित्यत्वं प्रागभावादेर्नित्यानित्यत्वं च प्रमाणान्तरसिद्धं विरुद्ध्येतेत्यत आह %।. अत्रापीति ।।% यद्यपि विभाजकधर्मप्रतिपत्त्यनन्तरमेवैषा शङ्का सम्भवति तथापि विशेष्यसङ्गतत्वादस्याः प्रथमं निरासः। विशेषणव्याख्याने सति तत्सङ्गतशङ्कानिरासस्यैवावसरप्राप्तेः। नित्यानित्ययोर्विभागेनेति व्याख्याने त्रैविध्यानुपपत्तेरन्यथा व्याचष्टे %।। नित्येति ।।% नित्यानित्यमिति कर्मधारयो भावप्रधानश्च। तद्धटकविशेष्यविशेषणधर्मपरविभागशब्देन द्वन्द्वैकवद्भाव इति भावः। यद्यपि नित्यानित्यत्वघटकनित्यत्वानित्यत्वयोर्नित्यानित्यसाधारणत्वान्न विभाजकत्वं तथापि विभागशब्दस्य परस्परविविक्तभागार्थकतया केवलनित्यत्वानित्यत्वे विभाजकत्वेन विवक्षिते। स्पष्टयिष्यते चैवतत्।
%त्रिधैवेत्येवका%रव्यावर्त्यमतान्तराण्याह %।। केचित्त्विति ।। चार्वाकादय% इत्यर्थः। क्षणिकत्वं चैकक्षणमात्रवृत्तित्वं स्वाधिकरणक्षणोत्तरक्षणावृत्तित्वमिति यावत्। स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वं तदित्येन्ये। तत्रोत्पत्त्युत्तरपदयोः कृत्य चिन्त्यं। अपरे साङ्ख्याः %।। सत्कार्यवादिन इति ।।% सदेव कार्यं तत्तत्कालेऽभिव्यज्यत इति वादिन इत्यर्थः %।। सर्वेऽपीति ।।% नित्यानित्यभेदेन द्वैविध्यमङ्गीकुर्वन्तोऽपि तार्किकादय इत्यर्थः। %विरोधात्% निर्वक्ष्यमाणनित्यानित्यत्वघटकनित्यत्वानित्यत्वयोर्विरोधभ्रमात्। न तु कूटस्थत्वतदभावरूपनित्यत्वानित्यत्वयोर्विरोधादित्यर्थः। सिद्धान्ते तदनिरासात् %।। तन्निरासायेति ।।% एवकारस्य निरुक्तैकविधत्वद्विविधत्वव्यवच्छेदकत्वादिति भावः %।। दर्शयिष्याम इति ।।% उत्तरमूल इत्यदिः %।। प्राधान्यादिति ।।% नित्यस्यानित्यं प्रत्युपजीव्यत्वेन प्राधान्यादित्यर्थः %।। उक्तिलाघवायेति ।।% नित्यानित्यस्य प्रथमोद्देश एव विभागपदेन तद्विभागभूतयोर्लाभाल्लघवं। अन्यथा पृथगेव त्रयाणां निर्देश्यतया गौरवादिति भावः।
</अचेतनविभागः>

<नित्यान्यचेतनानि>
(टी.)
क्रमेण त्रयं दर्शयिष्यन्नित्यं तावद्दर्शयति
नित्या वेदाः .... .... .... .... ....।
अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वं। तच्च वेदानां `नित्या वेदाः समस्ताश्च' इत्यादिप्रमाणसिद्धं। अत्र वेदा इत्युपलक्षणं। पञ्चाशद्वर्णानामव्याकृताकाशस्य च तथाभावात्।
</नित्यान्यचेतनानि>

<नित्यान्यचेतनानि>
(रा. टि)
%।। कूटस्थतयाऽऽद्यन्तशून्यत्वमिति ।। कूटवत्% आकाशवत् निर्विकारतया स्थिततयेत्यर्थः। यद्यप्यानुपूर्व्याः कृत्रिमत्वेन सजातीयानुपूर्वीकत्वमात्रेण प्रवाहतोऽनादित्वमेव। न कूटस्थत्वं। तथैव %तत्वनिर्णयदीकोक्तेः%। तथाप्यध्यापकाद्युच्चरितवेदस्य तथात्वेऽपि ईश्वरबुद्धिस्थक्रमापेक्षयैतदुक्तिः। उक्तं हि %तत्वनिर्णये सर्वज्ञत्वादीश्वरस्य तद्‌बुद्धौ सर्वदा प्रतीयमानत्वात्% इति।
तथा तत्वनिर्णयोक्तप्रमाणशेषे
नित्या वेदास्समस्ताश्च शाश्वता विष्णुबुद्धिगाः।
इति विष्णुबुद्धिगतत्वमुक्तं।
</नित्यान्यचेतनानि>

<नित्यान्यचेतनानि>
(का. टि.)
%।। क्रमेण त्रयं दर्शयिष्यन्निति ।।% प्राधान्यक्रमेण नित्यप्रदर्शनोत्तरं नित्यानित्यं प्रदर्श्य अनित्यं दर्शयिष्यन्नित्यर्थः। ननु वेदानामेव नित्यत्वोक्तिरयुक्ता प्रकृत्यादीनामपि नित्यत्वादित्यस्तद्व्यावृत्तं नित्यत्वं निर्वक्ति %।। अत्रेति ।।% अस्मिन् ग्रन्थे। विवक्षितमिति शेषः। तेन %तत्वविवेकादौ% प्रकृत्यादेर्नित्यत्वोक्तावपि न विरोधः. तत्रान्यविधनित्यत्वस्य विवक्षितत्वादिति सूचितं। अत्र नित्यत्वं नामाऽद्यन्तशून्यत्वं। तत्र हेतुः %।। कूटस्थतयेति ।।% अपरिणामितयेत्यर्थ इति %प्राञ्चः%। आद्यन्तशून्यत्वस्य प्रकृत्यादावतिव्याप्तिरित्यतस्तद्व्याख्यानं %।। कूटस्थतयेति ।।% अपरिणामितयेत्यर्थ इति %प्राञ्चः।% आद्यन्तशून्यत्वस्य प्रकृत्यादावतिव्याप्तिरित्यतस्तद्व्याख्यानं %।। कूटस्थतयेति ।। निर्विकारि%त्वमित्यर्थ इति %केचित्।% उक्तातिव्याप्तिवारणाय कूटस्थत्वे सतीति विशेषणान्तरोपादानमित्यन्ये। तेषामयामाशयः। %आद्यमते% तावदाद्यन्तशन्यत्वमाद्यन्तवदत्यन्तभिन्नत्वं। रतच्च नाऽद्यन्तवद्विकाराभिन्नप्रकृत्यादावतिव्याप्तं अतः कूटस्थत्वं न लक्षणघटकमिति। %द्वितीयमते% यथाश्रुतस्याऽद्यन्ताभाववत्त्वस्य प्रकृत्यादिसाधारणत्वात्कूटस्थत्वं विवक्षितं। तच्च विकारसामान्यशून्यत्वं। ध्वंसप्रागभावादेरपि जन्मादिविकारवत्त्वेनैव व्यावृत्तेर्नाऽद्यन्तशून्यत्वं पृथगुपादेयमिति ।। %तृतीयमते% चापरिणामित्वरूपकूटस्थत्वस्यैव विवक्षितत्वात् ध्वंसाद्यव्यावर्तकत्वेन आद्यन्ताभाववत्वसार्थक्यमिति।
अथ %मतत्रयेऽ%प्यसम्भवः। नित्यानामपि द्वित्वादिगुणात्मना परिणामित्वात्। तेन भेदाभेदाङ्गीकाराच्चेति चेदत्राहुः। कूटस्थत्वं नाम द्रव्यरूपेणापरिणामित्वं द्रव्यानारम्भकत्वमिति यावत्। नित्यानां च द्रव्यानारम्भकत्वान्नोक्तदोषः। न च नित्यानामप्येतद्देशकालादिविशिष्टरूपद्रव्यारम्भकत्वमस्तीति शंङ्क्यम्। विशिष्टस्याद्रव्यत्वादिति। एतच्च तृतीयमत एव सङ्गच्छते। न पूर्वमतयोः। आद्यन्तवद्‌द्रव्यभिन्नत्वस्य द्रव्यविकारवैधुर्यस्य वा विवक्षायां प्रागभावादावतिव्याप्तितादवस्थात्। तस्मादाद्ये स्वनिष्ठगुणादिभिन्नत्वेनाऽद्यन्तवद्विशेषणीयं। द्वितीये च विकारः। तेन वेदादेः संग्रहः प्रागभावादेर्व्यावृत्तिश्चेति। ननु शब्दस्यैवानित्यत्वात्कथं वेदानामुक्तविधं नित्यत्वमत आह ।। %तच्चेति% ।।
नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः।
सर्गे सर्गेऽमुनैवैत उद्गीर्यन्ते तथैव च।
तत्क्रमेणैव तैर्वर्णैस्तैः स्वरैरेव नान्यथा।।
इत्यादिप्रमाणविरोधादेव वर्णात्मकशब्दानित्यत्वप्यसिद्धमेवेत्याशयः।
ननु क्रमविशेषविशिष्टवर्णा एव वेदो न त्वाकाशादिवदर्थान्तरं। क्रमश्च नित्यानां न साक्षात्पौर्वापर्यरूपः सम्भवतीति पूर्वापरीभावापन्नबुद्धिविषयत्वरूपो वक्तव्यः। तथा च तादृशबुद्धीनामनित्यत्वात्कथं तद्धटितविशिष्टरूपस्य वेदस्य नित्यत्वमिति चेत्।
अत्रैके %साम्प्रदायिकाः%। स्वाभाविक एव वैदिकवर्णक्रमः। न च नित्यानां क्रमेयोगः। ईश्वरशक्त्या तदुपपत्तेः। न च गकारादेः स्वत एवाकारोत्तरत्वे तस्य तत्पूर्वत्वं क्वापि न स्यात् विरोधादिति वाच्यं। वैदिकवर्णानामानन्त्येनैकस्योत्तरत्वेऽप्यन्यस्य पूर्वत्वोपपत्तेः। न च वर्णानां पञ्चाशत्वविरोधः पञ्चाशज्जातीयत्वमात्रोपगमात्। न च
वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः।
व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते।।
%इति तन्त्रसार%विरोध इति वाच्यं। तत्र देशकालकृतक्रममात्रनिषेधेन स्वाभाविकक्रमाविरोधात्। व्यक्तिक्रमकथनस्य च प्रणवादीनामुत्पत्तिक्रमस्वरूपनिरूपणपरत्वात्। न चैवं "न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः" इति %तत्वनिर्णयटीका%विरोध इति वाच्यं। तस्या अभ्युपगमवादेन प्रवृत्तत्वात्। अन्यथैतट्टीकाविरोधात्। सप्रमाणत्वेनैतस्याः प्राबल्यात्। न चैवं पुराणादीनामपि नित्यत्वापत्तिः। लौकिवर्णानां स्वाभाविकक्रमानङ्गीकारात्। एवं च वेदनित्यत्वे न कश्चिद्विरोध इत्याहुः।
%केचित्तु% पञ्चाशद्वर्णैरेव सकललौकिकवैदिकव्यवहारोपपत्तेः प्रमाणाभावाच्च न पूर्वोक्तबहुकल्पना युत्ता। नापि क्रमस्य स्वाभाविकत्वमङ्गीकाराह। तथा सति वर्णधर्मस्य क्रमस्य यावद्‌द्रव्यभावित्वेन वर्णैरत्यन्ताभिन्नतया वर्णानां परस्पराभेदप्रसङ्गात्. तथा च क्रमस्य कृतकत्वान्न तद्विशिष्टवर्णात्मकस्य वेदस्य नित्यत्वं। न चैवं मूलविरोधः। तत्र वेदपदेन पञ्चाशद्वर्णानामेव ग्रहणात्। %उपलक्षण%मिति टीकायाश्च जहत्स्वार्थलक्षणया वर्णाकाशपरमित्यर्थसम्भवात्। न च `नित्या वेदाः समस्ताश्च' इति प्रमाणविरोधः। तत्र वर्णानां पृधग्ग्रहणेन तदुपलक्षणायोगादिति वाच्यं। "न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः। किं तु शब्दतोऽर्थतश्च सदैकप्रकारतां" इति टीकानुसारेण तद्वयाख्यानात्। न चैवमत्र तदुदाहरणासङ्गतिः। `तैर्वर्णैः' इति वर्णानां कूटस्थनित्यत्वोक्तेः। अत %एव टीकायामित्यादी%त्यादिपदप्रयोग इति वर्णयंति।
%अन्ये% तु वैदिकवर्णक्रमो यदि नित्य एव तदा %तत्वनिर्णयटीका%विरोधः। यदि चानित्य एव तदा %तत्क्रमेणे%त्युदाहृतप्रमाणविरोध इत्यर्थापत्त्या द्विविध एवाङ्गीकारयः। ईश्वरबुद्धिघटितो नित्योऽस्मदादिबुद्धिघटितस्त्वनित्य इति। ततश्च तद्विशिष्टरूपस्य वेदस्यापि द्वैविध्यमेव। तथा च वेदनित्यत्वप्रतिपादकानामीश्वबुद्धिघटितक्रमविशिष्टपरत्वात् तदनित्यत्वप्रतिपादकानामस्मदादिबुद्धिघटितक्रमविशिष्टपरत्वान्न विरोध इत्याचक्षते।
%अपरे% तु न वेदद्वैविध्यं युक्तं प्रमाणाभावात्। तथात्वे चास्मदादिपठ्यमानस्याज्ञप्रणीतत्वेनाप्रामाण्यप्रसङ्गात् अभ्युदयसाधनत्वाभावप्रसङ्गाच्च। `ऋग्वेद एवाग्नेरजायत' इत्यादेरभिव्यक्त्यर्थतया व्याख्यानवैयर्थ्याच्च। वेदस्य बुद्धिघटितत्वासम्भवाच्च। अन्यथा बुद्धेरश्रावणत्वेन वेदस्याश्रावणत्वप्रसङ्गात्। तस्मात्साङ्कल्पिकक्रमविशिष्टवर्णानामेव वेदत्वं। यथा हि यजमानसङ्कल्पाद्विप्राणां पूजादौ क्रमस्तथा नित्यानामपि तदुपपत्तेः। न च सङ्कल्पस्याश्रावणत्वेन वेदस्याश्रावणत्वप्रसङ्गः। सङ्कल्पाधीनः सङ्कल्पाघटितो वर्णधर्मः क्रमोऽस्तीत्यङ्गीकारात्। एवं चेश्वरसङ्कल्पाधीनस्य वैदिकवर्णक्रमस्य नित्यत्वाद्वेदस्य नित्यत्वं सिद्धं। न चैवमुक्तक्रमेण वर्णानामभेदप्रसङ्गः। अन्योन्याभाववद्भेदकवर्णप्रतियोगिकक्रमस्यापरवर्णनिष्ठत्वेनानेकधऱ्मत्वाभावात्। एवं कालिदासादिवाक्येष्वपि ततत्सङ्कल्पाधीनक्रम उत्पद्यत इति वदन्ति।
%उपाध्याय%स्त्वेवमाह, साङ्कल्पिकक्रमः किं पौर्वापर्यमुतान्यः। नाद्यः। नित्यानां पौर्वापर्यस्य व्याहतत्वात्। नान्त्यः प्रमाणाभावात्। विप्रेष्वपि क्रमिकपूजाविषयत्वादिरिक्तक्रमविशेषस्यासिद्धेः। एवं तत्तद्वक्तृसङ्कल्पादेव तत्र तत्र कमविशेषाङ्गीकारे पदार्थमात्रेष्वपि तथाविधक्रमाङ्गीकारप्रसङ्गः। तस्मान्नित्यानां स्वाभाविकक्रमायोगाद्व्यक्तिक्रम एव वक्तव्यः। तदुक्तं
वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः।
व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ।। इति।
तथा च क्रमेण भासमाना वर्णा वेदा इति फलितं। यद्यपि क्रमेण भासमानत्वमेकवर्णभानोत्तरभानविशिष्टापरवर्णत्वरूपं न यावद्वर्णसाधारण तथापि तादृशवर्णत्वरूपवाक्यानुपूर्वीघटकभानविशिष्टवर्णत्वरूपं बोध्यं। एवं च तादृशभानस्येश्वरीयस्य नित्यत्वाद्वेदनित्यत्वं। न च नित्यत्वे क्रमायोगः। उत्पत्यभावेऽपि व्यक्तिविशेषात्तदुपपत्तेः। न च क्रमिकव्यत्त्यङ्गीकारे
वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः।
%इत्याचार्योक्ति%विरोधः। अनन्तमुखैर्युगपदखिलवेदोच्चारणेऽप्येकैकमुखेन क्रमिकव्यक्त्यविरोधात्। न चास्मदादिबुद्धिक्रमस्यानित्यत्वाद्वेदानित्यत्वप्रसङ्गः। सामान्यतः क्रमिकभानविशिष्टवर्णानामेव वेदत्वात्। ताद्वशविशिष्टस्य च सर्वदैव सत्त्वात्। तदुक्तं %तत्वनिर्णयटीकायां% "क्रमविशिष्टवर्णा एव वेदः। क्रमश्च बुद्धिनिमित्त एव। ततश्च सर्वेषां सर्वथा वर्णविषयविवक्षितक्रमोपाधिभूतबुद्ध्युपरम एव वेदे विनाशो वक्तव्यः। न चेश्वरस्य तथाविधबुद्ध्युपरमो युज्यते" इति।
एतेन क्रमस्य कालघटितत्वात्कालस्यानित्यत्वान्न वेदनित्यत्वमित्यपास्तं। सामान्यरूपेण नित्यत्वाविरोधात् अत एव नोक्ताप्रामाण्यादिप्रसङ्गः। सामान्यतो वेदस्य प्रामाण्याद्यवधारणात्। विशेषस्य च सामान्यानतिरेकात्। नाप्यश्रावणत्वप्रसङ्गः। साक्ष्युपनीतक्रमविशिष्टवर्णानां श्रावणत्वोपपत्तेः। अन्यथोक्तटीकाविरोधात्। न चैवं पुराणादीनामपि नित्यत्वप्रसङ्गः। तत्रापीश्वरबुद्धिक्रमस्य ध्वंसप्रागभावाप्रतियोगित्वेन नित्यत्वादिति वाच्यं। यस्य यद्रुपेणाऽद्यन्तशून्यत्वं कृत्स्नकालवृत्तित्वमिति यावत् तस्य तद्रूपेण नित्यत्वमित्यङ्गीकारात्। पुराणादीनां च यः क्रमस्तद्विशिष्टरूपेण कृत्स्नकालावृत्तित्वान्न तद्रूपेण नित्यत्वं। सामान्यतो बुद्धिविषयत्वविशिष्टवर्णादिरूपेण तु नित्यत्वमिष्यत एव। न चैवं कालस्यापि कालत्वादिरूपेण कृत्स्नकालवृत्तित्वान्नित्यत्वापत्तिः। धर्मिरूपेण कूटस्थत्वस्य विवक्षितत्वात्कालस्य च क्षणादिरूपस्य निर्विकारत्वरूपकूटस्थत्वाभावात्। न चैवं तत एव ध्वंसप्रागभावव्यावृत्तेराद्यन्तशून्यत्वं व्यर्थमिति वाच्यं। यत्किञ्चिध्द्वंसप्रागभावविशिष्टाकारादावतिव्याप्तिवारकतया तत्सार्थक्यात्।
एतेन वेदस्य कूटस्थत्वाङ्गीकारे `न हि वयं' इत्यादितत्वनिर्णयटीकाविरोधः। न चासावभ्युगमवादः। `नित्या वेदाः' इति प्रमाणोक्तनित्यत्वव्याख्यानप्रसङ्गात्। `अखिलैरप्येकप्रकारेणैव पठ्यंते। एतदेवानादिनित्यत्वं' इतिटीकाविरोधाच्च। `%अत आकाशगुणैश्शब्दैर्व्यज्यमानवर्णादयस्तत्क्रमात्मको वेदश्व नित्य एवे%ति मूले `वेदनित्यत्वस्य पृथग्विधानात्पृथगुपसंहारः' इति टीकाविरोधाच्च। `न हि वयं वेदं कूटस्थनित्यं ब्रूमः' इति सुधाविरोधाच्चे"त्यादिकमपास्तं। तत्र साक्षात्कूटस्थत्वस्य विवक्षितत्वादत्र पुनर्वर्णरूपेण कूटस्थत्वस्याभिप्रेतत्वेन विरोधाभावात्। इत्थं च `नित्या वेदा' इति %मूले% `तच्च वेदानां' इति %टीकायां% `श्रुतिर्वेदः इति %तत्वविवेकटीकायां% च वेदग्रहणं सङ्गच्छते। अचेतनत्रैविध्यं चोपपद्यते। अन्यथा वेदस्य नित्यानन्तर्भावे तच्चातुर्विध्यप्रसङ्गादित्यन्यत्र विस्तरः।
ननु तथाप्याकाशादीनां नित्यत्वानुक्त्या मूलस्य व्यूनतेत्यत आह ।। %अत्रेति ।। उपलक्षणं% अजहत्स्वार्थलक्षणया यावन्नित्यपरमित्यर्थः।
</नित्यान्यचेतनानि>

<नित्यानित्यान्यचेतनानि>
(टी.)
नित्यानित्यं विभागेनाऽह
.... .... .... .... ....पुराणाद्याः कालः प्रकृतिरेव च।
नित्यानित्यं त्रिधा प्रोक्तं.... .... .... .... .... ....।।
पुराणाद्याः पौरुषेयग्रन्था एका विधा। कालोऽपरा। प्रकृतिरन्या।
नित्यत्वादिप्रकारत्रैविध्योक्तिः
ननु च त्रिधेति प्रकारत्रैविध्यमुक्तं। न चात्र कश्चित्प्रकारो दर्शितः। किं तु वस्तुनिर्देश एव कृतः। नैष दोषः। यन्न सर्वथा कूटस्थं नाप्यनित्यमेव तदुच्यते नित्यानित्यं। तस्य तिस्रो विधास्सम्भवन्ति। उत्पत्तिमत्त्वे सति विनाशाभावः। एकदेशे उत्पत्तिविनाशावेकदेशिनस्तदभावः। स्वरूपेणोत्पत्त्याद्यभावेऽप्यवस्थागमापायवत्त्वं चेति। तदेतद्विधात्रयमुक्तवस्तुत्रयोऽस्तीति तस्यैव ग्रहणं कृतं।
</नित्यानित्यान्यचेतनानि>

<नित्यानित्यान्यचेतनानि>
(रा. टि.)
उपरेत्यादौ विधेत्यनुषङ्गः %।। अनित्यमेवेति ।।% घटादिवदिति भावः %।। विनाशाभाव इती ।।% पुराणादिपौरुषेयग्रन्थस्य पुरुषैरुत्पाद्यमानक्रमवत्त्वेऽपि तस्य क्रमस्येश्वरबुद्धौ वेदक्रमस्येवोत्तरावधिशून्यतया प्रतीयमानत्वेन विनाशाभाव इत्यर्थः। क्षणलवाद्येकदेशैरुत्पत्तिविनाशवत्त्वेऽप्येकदेशवर्तोऽशिनः कालस्य प्रवाहत आद्यन्तशून्यत्वेनोत्पत्तिविनाशयोरभाव इत्यर्थः। जडोपादानप्रकृतेश्च स्वरूपत उत्पत्तिविनाशयोरभावेऽपि महदाद्यात्मकत्वावस्थाविशेषेण तौ स्त इति %तदेतद्विधात्रयमुक्तवस्तुत्रयेऽस्तीत्युक्तं ।। तस्यैवेति ।।% वस्तुत्रयस्यैवेत्यर्थः।
</नित्यानित्यान्यचेतनानि>

<नित्यानित्यान्यचेतनानि>
(का. टि.)
%।। विभागेनाहेति ।।% विभागेन सह निदर्शयतीत्यर्थः ।। आद्यशब्दसङ्ग्राह्याणामानन्त्यात्समानार्थमाह ।। %पौरुषेयग्रन्था इति% ।। स्वतन्त्रवक्तृका इत्यर्थः। अन्यतात्पर्यानुपजीवितात्पर्यप्रयोज्या इति यावत्। तथा हिः येन पुरुषेण पूर्वतात्पर्यमनुपजीव्य स्वयमेव यत्तात्पर्येण यद्वाक्यं प्रयुज्यते तदर्थकतद्वाक्यं तदीयमित्युच्यते। वेदस्य तु पूर्वतात्पर्यमनुसृत्यैव प्रयोगान्न पौरुषेयत्वमित्यवधेयं। पुराणादीनां प्रत्येकं त्रैविध्यान्वयप्रतीतिनिरासायाह %।। एका विधेति ।। (13)एकाऽपराऽन्येति ।।% आदावितिशब्दोऽध्याहार्थः। मूले प्रकृतिश्चेत्यनन्तरमितिशब्दोऽध्याहार्य इति भावः।
(F.N){13. एकाऽपराऽन्येत्यादावितिशब्दोऽध्याहार्यः इति पाठेन भाव्यमिति भाति।}
मूलस्य न्यूनतामाशङ्कते %।। ननु चेति ।।% ननु पौरुषेयवाक्यत्वकूलत्वप्रकृतित्वरूपप्रकाराणां दर्शितत्वात्कथं न्यूनतेत्यत आह %।। किं त्विति ।। वस्तुनिर्देश एवेऽति ।।% यथा ह्यनित्यं द्विविधमित्युक्ते तत्कथमित्याकाङ्क्षायामनित्यत्वोपपादकसंसृष्टत्वासंसृष्टत्वरूपप्रकारद्वयं दर्शितं तथाऽत्र नित्यानित्यत्वोपपादकप्रकारानुक्तेर्न्यूनतेत्याशयः। विवक्षितप्रकाराणामनुक्तावप्युदाहरणविशेषग्रहणेन सूचितत्वान्न न्यूनतेत्याशयेन समाधत्ते %।। नैष दोष इति ।।%
नित्यानित्यस्वरूपाज्ञाने तदुपपादकत्वस्य ज्ञातुमशक्यत्वात्तदेवादौ निर्धारयति %।. यन्नेति ।। सर्वथा कूटस्थं% धर्मिस्वरूपेणापि कूटस्थं पूर्वोक्तनित्यत्वविशिष्टमिति यावत् %।। अनित्यमिति ।।% केवलानित्यमित्यर्थः। स्वस्वरूपेणाद्यन्तोभयवदिति यावत् ।। एतेन नित्यत्वानित्यत्वव्यावृत्तं नित्यानित्यस्वरूपमित्युक्तं भवति। न चैवं तत्तद्‌बुद्धिक्रमविशिष्टवर्णात्मकस्य वेदपुराणादेः प्रातिस्विकरूपेणानित्यत्वापत्तिः। इष्टत्वात्। वेदादेरुक्तसामान्यरूपेणैव नित्यत्वाभ्युपगमात्। न चैवं नित्यत्वादेः साङ्कर्यप्रसङ्गः. तस्यादोषत्वात्। न चैवं विभागानुपपत्तिः वर्णप्रकृतिमहदाद्यसङ्कीर्णोदाहरणान्तरसत्त्वेनापि तदुपपत्तेः। एतेन कालक्षणानामनित्यान्तर्भावापत्तिरित्यपि समाहितं इष्टापत्तेः। अन्यथा कार्यप्रवाहस्य नित्यतया कार्यमात्रस्याप्यनित्यत्वानुपपत्तेः। तथा च यस्य यद्रूपेण पूर्वोक्तनित्यत्वानित्यत्वे न स्तः तस्य तद्रूपेण नित्यानित्यत्वमिति निष्कर्षः। एवं च नित्यस्याप्याकाशादेर्नित्यविशिष्टरूपेण नित्यत्वमनित्यविशिष्टरूपेणानित्यत्वं नित्यानित्यविशिष्टरूपेण नित्यानित्यत्वमित्यप्रधेयं।
%।। उत्पत्तिमत्त्वे सतीति ।।% अत्र नित्यव्यावृत्तये सत्यन्तं। अनित्यव्यावृत्तये च विशेष्यभागः। तथा च यद्रूपेणोत्पत्तिमत्त्वे सति विनाशाभावस्तद्रूपवत्त्वमिति निष्कर्षः। तेन पुराणादेस्तत्तद्‌बुद्धिक्रमविशिष्टरूपेण विनाशित्वेऽपि नासङ्ग्रहः. सामान्यतः क्रमिकबुद्धिविषयत्वविशिष्टरूपेण विनाशाभावात्। तथाविधेश्वरबुद्धेरविनाशात्. उत्पत्तिमत्त्वे तु प्रमाणं वक्ष्यते %।। एकदेश इति ।।% प्रवाहिरूपेणोत्पत्त्यादिमत्त्वे सति स्वरूपेण तदभाववत्त्वमित्यर्थः. अत्रापि नित्यव्यावृत्तये सत्यन्तं। सादिप्रवाहवारणाय विशेष्यांशः %।। स्वरूपेणेति ।।% अत्र कपालाद्यनित्यवारणाय सत्यन्तं। नित्यव्यावृत्तये विशेष्यभागः परिणामित्वार्थकः।
नन्वेतद्घटसंयोगप्रागभावविशिष्टाकाशादेर्भावरूपाज्ञानस्य च केवलनित्यत्वाद्यभावान्नित्यानित्यत्वं तावत्सिद्धं। न चक्तप्रकारत्रयेऽन्तर्भावोऽस्ति। एवमतीतकालप्रवाहस्यध्वंसप्रागभावप्रवाहयोश्च तदन्तर्भावाभावान्नित्यानित्यस्य त्रैविध्यानुपपत्तिः। नैष दोषः। उत्पत्तिविनाशपदयोरवधिमात्रोपलक्षकत्वात्. मूलोक्तोदाहरणानुसारेणैवोत्पत्तिविनाशपदोपादानात्। तथा च यत्किंचिदवधिमत्त्वे सति यत्किंचिदवधिसून्यत्वं प्रवाहिरूपेणावधिमत्त्वे सति स्वरूपेणावधिशून्यत्वं स्वरूपेणावधिशूनय्त्वे सति परिणामित्वं च विभाजकतया विवक्षितं। उक्तोदाहरणानां च यथासम्भवमेतेष्वन्तर्भावः।
अत एव तृतीयप्रकारे उत्पत्त्यभावनिवेशेनैवोपपत्तेरादिपदवैयर्थ्यमित्यपास्तं। उत्पत्तिविनाशयोः पृथगनुपादानेन वैयर्थ्यानवकाशात्।
</नित्यानित्यान्यचेतनानि>

<नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>
(टी.)
न्वेवं सत्यवान्तरभेदैर्विधान्तरमप्युत्प्रेक्षितुं शक्यमित्यत एवेत्युकत्ं। तत्रोपपादकाकाङ्क्षायां प्रोक्तमित्याह। शास्त्रीयविधानामत्रैवान्तर्भावोऽन्यासामनादरणीयत्वं चेति।
</नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>

<नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>
(रा. टि.)
%।। अवान्तरभेदैरिति ।।% वर्णात्मना अविकारित्वेऽपि क्रमरूपेण तथात्वेनाविकारिविकाररूपैका विधा। अंशैराशुविनाशादिमत्त्वेऽप्यंशिनस्तदभाव इत्याशुविनाशादितदभावादिरूपाशांशिरापा वा अपरा विधा। कारणात्मना सत्त्वेऽपि कार्यात्मनाऽसत्त्वेन सदसत्कारणकार्यरूपाऽन्या विधेत्यादिरूपेण नित्यानित्यविधातो विधान्तरमित्यर्थः।
</नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>

<नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>
(का. टि.)
ननु नित्यानित्यस्य पुराणाद्युदाहरणवैचित्र्यानुसारेण विभागे बहुविधत्वमेव वक्तुमुचितं। पुराणादेरुत्पत्तिमत्त्वे सत्यविनाशित्त्वेन भावरूपाज्ञानादेर्विनाशित्वे सत्यनुत्पत्तिमत्त्वेन अतीतकालप्रवाहादेः प्रवाहिरूपेणोत्पत्तिविनाशवत्त्वे सति स्वरूपतोऽनादित्वमात्रेण ध्वंसप्रवाहस्यप्रवाहिरूपेणोत्पत्तिमात्रवत्त्वे सति स्वरूपतस्तदभावेन प्रागभावप्रवाहस्य प्रवाहिरूपेण विनाशमात्रवत्त्वे सति स्वरूपतस्तदभावेन वैचित्र्यात्। एवं प्रवाहिरूपेणोत्पत्त्यादिशून्यत्वे सति प्रवाहरूपेण तद्वत्त्वं (14)स्वरूपेणोत्पत्तिशून्यमात्रत्वे सति परिणामित्वमित्यादिविधान्तरं चोत्प्रेक्षितुं शक्यमतः कथं त्रैविध्योक्तिरित्याशयेन शङ्कते %।। निन्विति ।।% त्रिधैव प्रोक्तमिति मूलयोजनया समाधत्ते %।। इत्यत इति ।।% तथा चान्यस्यानुक्तत्वादेवासत्त्वमिति भावः। ननु प्रदर्शितवैचित्र्यस्य तन्त्रोक्तत्वात्कथमनुक्तत्वमित्यतोऽभिप्रायं पूरयति %।। शास्त्रीयेति ।।% पुराणादेरित्युक्तप्रकाराणां शास्त्रीयत्वेऽप्युंक्तप्रकारत्रय एवान्तर्भावात् तदवान्तरत्वादिति यावत्। एवमित्याद्युक्तप्रकाराणामशास्त्रीयत्वेनाप्रामाणिकत्वान्नोक्तत्रैविध्यभञ्जकत्वमिति भावः।
(F.N){14. स्वरूपेणोत्पत्तिशून्यत्वे सति इति पाठेन भाव्यमिति भाति।}
</नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>

<नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>
(टी.)
अथ वा `पुराणानि तदर्थानि' `सर्वे निमेषा जज्ञिरे' `विकारोऽव्यक्तजन्म हि' इत्याद्यागमपरिग्रहार्थं प्रोक्तमित्युक्तं। अत एव विरोधोऽपि परिहृतः।
नन्वत्र यस्योत्पत्त्यादिकं तदनित्यमेव। यस्य तु नास्ति तन्नित्यमेव। नित्यानित्यं क्वास्तीति। मैवं। स्यादेतदेवं। यद्यंशांशिनोर्विकारविकारिणोर्वा अत्यन्तभेदः स्यात्। न चैवमित्यन्यत्रोपपदितमिति।
</नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>

<नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>
(रा. टि.)
पुराणानामुत्पत्तिमत्त्वे मानं
पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु।
क्रियन्ते.... .... .... ....।। इति।
कालैकदेशोत्पत्तौ मानं सर्व इति। प्रकृतेस्स्वरूपतो जन्माद्यभावेऽपि महदाद्यात्मना विकारोऽव्यक्तस्य प्रकृतेर्जन्मेत्यत्र विकार इत्येतन्मानं। सर्वेऽपि वादिनो विरोधान्नित्यानित्यं न मन्यन्त इति पक्षं निराह %।। अत एवेति ।। % आगमसिद्धत्वादेवेत्यर्थः %।। अन्यत्रेति ।।% तत्वविवेकादौ।
</नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>

<नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>
(का. टि.)
ननु पुराणादेः पूर्वकल्पस्थितस्यैवोत्तरकल्पेऽभिव्यक्तेर्वेदवन्नित्यत्वमेव। कालप्रकृत्योरपि नित्यत्वमेव तन्त्रान्तरसिद्धमतः कथमेषां नित्यानित्यत्विमित्याशङ्कानिवर्तकत्वेनापि %प्रोक्त%मित्येतद्व्याचष्टे %।। अथ वेति ।।%
पुराणानि तदर्थानि सर्गे सर्गेऽमुनैव तु।
क्रियन्तेऽतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत्।।
इत्यादिवचनेन पुराणादेरुत्पत्तिमत्त्वावगमादिति भावः।
न च पुराणादेः क्रमविशेषविशिष्टवर्णात्मकत्वात्क्रमस्य बुद्ध्युपाधित्वाद्बुदेश्चेश्वरीयाया अनादित्वात्कथमनित्य त्वमिति वाच्यं. एतत्कल्पीयव्यक्तिक्रमस्य पूर्वकल्वेष्वभावादेव तदुपपत्तेः। उत्तरकल्पेषु तत्सद्भावस्य प्रमितत्वान्न विनाशित्वप्रसङ्ग इति बोध्यं। ननु चोत्पत्तिमतां भावानामविनाशित्वादेर्विरुद्धतया कथं पुराणादिषु तदुभयाङ्गीकार इत्याशङ्कानिवारकत्वेनापि %प्रोक्त%मित्येतद्व्याख्याति %।। अत एवेति ।। प्रोक्त%मित्युक्तत्वादेवेत्यर्थः।
यद्वा नित्यत्वानित्यत्वयोरविरोधः प्रागुक्तः। तत्प्रकारस्तु नोक्त इत्यत आह %।। अत एवेति ।।% नित्यत्वानित्यत्वोपपादकप्रकारत्रयसूचनादेवेत्यर्थः।
%अत एव% नित्यानित्यत्वस्य `यन्न सर्वथा' इत्यादिनोक्तरूपत्वादेव ध्वंसाप्रतियोगित्वे सति तत्प्रतियोगित्वरूपनित्यत्वानित्यत्वस्य विरोधशङ्काऽपि परिहृतेत्यर्थ इति %केचित्।%
नन्वेतावताप्यपरिहृतो विरोधः। विशिष्टशुद्धयोरत्यन्ताभेदेनांश्यादेरत्यन्तभेदेन च पुराणादीनामुत्पत्त्याद्ययोगात्। विशिष्टोत्पत्तिवचनस्य विशेषणमात्रविषयत्वेनाव्यक्तजन्मोक्तेरौपचारिकत्वेन च तद्वचनविरोधाभावादिति भावेन शङ्कते %।। नन्विति ।। अत्र% पुराणादिषु। %यस्य% विशेषणांशादेः। %यस्य% विशेष्यांश्यादे।
एतेन विशिष्टस्य पुराणादेरुत्पत्त्यादिमत्वेऽपि नित्यानित्यत्वस्योपपादितत्वात्तदाक्षेपानुपपत्तिरित्यपास्तं। विशिष्टस्य विशेष्यानतिरिक्तत्वात्। %यदीत्यनन्तरं विशिष्टशुद्धयोरत्यन्ताभेदः स्यादिति% पूरणीयं। %अन्यत्र% तत्वविवेकादौ। %कार्यकारणयोश्चेत्या%दिना भेदाभेदस्य प्तिपादितत्वादिति भावः। एवं च पुराणादित्रयस्यापि नित्यानित्यत्वमुपपादितं भवति। %अंशांश्यादेरत्यन्तभेदाभावेन तृतीयराशिसम्भवादिति तत्वविवेकटीकाया%मत्यन्तभेदस्यैवाभावेनेत्यर्थः। एतेन विशिष्टशुद्धयोः क्वचिदत्यन्ताभेदस्य क्वचिद्भेदाभेदस्य लाभात् पुराणादीनां वर्णादिना खण्डितत्वेन भिन्नाभिन्नतया नित्यानित्यत्वोपपत्तिरित्याशयः।
%केचित्तुः% `उत्पत्तिमत्त्वे सति' इति वाक्यस्य विशेष्यरूपेणोत्पत्त्यादिरहितस्योत्पत्तिमत्त्वे सति विनाशाभाव इत्यर्थः। %शङ्काग्रन्थे% च विशिष्टशुद्धयोरप्यत्यन्ताभेदेन पुराणादेर्विशेष्यरूपेणोत्पत्त्यादिराहित्याभावान्न नित्यानित्यत्वमित्याशयः। %परिहारग्रन्थे% च विशिष्टशुद्धयोरिति शेषः। तथा च पुराणादेर्विशिष्टरूपेणोत्पत्तिमत्त्वेऽपि विशेष्यभूतवर्णरूपेण तदभावान्नित्यानित्यत्वमिति व्याचक्षते।
वस्तुतो नन्वस्तु पुराणादेर्नित्यानित्यत्वं। उत्पत्तिमत्त्वे सत्यविनाशित्वस्य प्रोक्तत्वेन विरोधाभावात्। न तु कालप्रकृत्योः। अंशांश्यादेरत्यन्तभेदेनोत्पत्त्यादिमत्त्वतदभावयोरेकनिष्ठत्वायोगादिति शङ्कते %।। नन्विति ।। यस्य% क्षणादेरुत्पत्त्यादिमत्वं न तस्य तद्राहित्यं %यस्% प्रवाहादेस्तद्राहित्यं न तस्य तद्वत्त्वं। अत उत्पत्त्यादिमत्त्वतद्राहित्योभयाक्रान्तं क्वास्तीत्यर्थः। तथा च नित्यानित्यस्य त्रैविध्यानुपपत्तिरित्यभिसन्धिः। परिहारस्तु यथाश्रुत एव योज्यः। न चैतत्पक्षे %पुराणादि येनांशेन नित्यं तं नित्यवर्गे विधाय येनांशेनानित्यं तमनित्यवर्गे विधायायं विभाग इति तत्वविवेकटीकाविरोध% इति वाच्यं। तत्र निरवधिकत्वसावधिकत्वरूपनित्यानित्यत्वाभ्यां द्वैविध्यस्यैवोक्तत्वेन पुराणादेस्तदन्तर्भावाऽवश्यकत्वादित्यवधेयं।
</नित्यत्वादिप्रकारत्रैविध्यपरीक्षा>

<अनित्यविभागः>
(टी.)
अनित्यं विभज्य दर्शयति
.... .... .... ....अनित्यं द्विविधं मतं ।। 8 ।।
असंसृष्टं च संसृष्टं.... .... .... .... .... ।।
सम्यक्सृष्टं संसृष्टं। अतथाभूतमसंसृष्टं।
अनित्यविभागपरीक्षा
सम्यक्ताया इयत्ताऽभावात्त्रैविध्याद्यपि किं न स्यादित्यतोमतमित्युक्तं। तद्वक्ष्यमः।
</अनित्यविभागः>

<अनित्यविभागः>
(रा. टि.)
%।। वक्ष्याम इति ।।% सूक्ष्मरूपेणेत्यादिनेति भावः।
</अनित्यविभागः>

<अनित्यविभागः>
(का. टि.)
%।। विभज्य दर्शयतीति ।।% पदद्वयेन विभज्योत्तरेण निदर्शयतीत्यर्थः। असंसृष्टं निर्दिशतीत्यादेरवान्तरवाक्यावतरणत्वान्न पुनरुक्तिः। असंसृष्टपदार्थज्ञानस्य संसृष्टपदार्थज्ञानाधीनत्वादादौ संसृष्टपदार्थमाह %।। सम्यगिति ।। इयत्ता% स्वतोऽधिकसम्यक्ताराहित्यं। तदभावात् अवान्तरवैचित्र्यवत्त्वादिति यावत् %।। त्रैविध्यादीति ।।% किं चित्सम्यक्त्वातिसम्यक्त्वरूपप्रकारद्वयविवक्षायां त्रैविध्यं। ततोऽधिकसम्यक्त्वादिविवक्षायां चातुर्विध्यादीत्यर्थः। अयं भावः। संसृष्टासंसृष्टयोरुत्पन्नत्वसाम्येऽपि नित्यानित्योपादानकत्ववैचित्र्येण द्वैविध्यवत् नित्योपादनकानित्योपादनकोपादानकत्वादिवैचित्र्येण त्रैविध्यादिकमपि सम्भवति। प्रकारान्रसम्भवेऽप्यनवस्थाभायाद्द्वैविध्येनानुगमः कृत इति चेत्तर्ह्यैकविध्यमेवास्तां लाघवादिति।
मतमित्यस्य युक्त्यागमसंमतमित्यर्थः। तथा चावान्तरवैचित्र्यज्ञानाय विभागस्यावशय्कत्वे द्वैविध्योक्तिरेव युक्ता लाघवात् आगमान्तरसिद्धत्वाच्च। तेनैव त्रैविध्यादेरूपहसम्भवाच्चेति भावः। ननु किमिदमसम्यक््सृष्टत्वादि येन द्वैविध्यं संमतमत आह %।। तद्वक्ष्याम इति ।।% लक्ष्यज्ञानोत्तरमेव लक्षणस्य सुग्रहत्वादिति भावः।
%केचित्तु% सम्यक्ताया एकविधत्वाभावाद्द्वैविध्यानुपपत्तिरिति शङ्कायां द्वैविध्यं प्रमितं। एकविधसम्यक्त्वस्य सुवचत्वात्। तच्च वक्ष्याम इति परिहार इत्याहुः।
</अनित्यविभागः>

<असंसृष्टिविभागः>
(टी.)
तत्रासंसृष्टं निर्दिशति
.... .... .... .... .... .... असंसृष्टं महानहं।
बुद्धिर्मनः खानि दश मात्रा भूतानि पञ्च च ।। 9 ।।
संसृष्टविभागः
संसृष्टं निर्दिशति
संसृष्टमण्डं तद्गं च समस्तं संप्रकीर्तितं।
</असंसृष्टिविभागः>

<संसृष्टासंसृष्टविभागपरीक्षा>
(टी.)
नन्वेषां चतुर्विशतितत्वानामसंसृष्टत्वं नाम यद्येकदेशेनोत्पत्तिस्तर्ह्यनुत्पन्नस्यासत्त्वादुत्पन्नमेव तत्वं। तच्च संसृष्टमेवेति न द्वैविध्यं न च प्रकारान्तरमस्तीति। मैवं। सूक्ष्मरूपेण नित्यानां महदादीनां (15)प्रकृत्याद्यंशैरुपचयमात्रं क्रियत इति तान्यसंसृष्टानि। न चैवं ब्रह्माण्डं तदन्तर्गतानीति संसृष्टानि। एषामपि मूलरूपं नित्यमिति चेन्न। साक्षान्मूलरूपस्य विवक्षितत्वात्। एवं सति महदादीनां नित्या नित्यत्वं कथं न स्यादिति चेत्स्यादेवं यदि सूक्ष्मरूपे महदादिव्यवहारः स्यात् किं तु प्रकृतिरेव सोच्यते।
(F.N){15. प्राकृताद्यंशैरुपचयमात्रं इति काशिकापाठः।}
</संसृष्टासंसृष्टविभागपरीक्षा>

<संसृष्टासंसृष्टविभागपरीक्षा>
(रा. टि.)
%।। साक्षान्मूलरूपस्येति ।।% तस्यैवोपचितत्वादिति भावः।।
</संसृष्टासंसृष्टविभागपरीक्षा>

<संसृष्टासंसृष्टविभागपरीक्षा>
(का. टि.)
उक्तद्वैविध्यानुपपत्तिमाशङ्कते %।। नन्विति ।।% अत्र यद्यपि तत्वविवेकाद्युक्तगुणत्रयादितत्वान्तरमपि सङ्ग्राह्यमेव तथाऽपि %महानह%मित्यादेः सामानाधिकरण्यभ्रमेण न्यूनसङ्ख्याप्रतीतिव्यवच्छेदार्थमेव चतुर्विशतिग्रहणमिति मन्तव्यं %।। एकदेशेनेति ।।% एकदेशेनैवेत्यर्थः। स्वरूपेणोत्पत्तिशून्यत्वे सति एकदेशेनोत्पत्तिमत्त्वमिति यावत्। %अनुत्पन्नस्य% स्वरूपेणोत्पत्तिशून्यस्य। %असत्त्वात्% एकदेशेनोत्पत्त्यसत्त्वात् तददर्शनादिति यावत्। स्वरूपेणोत्पन्नमेव महदादितत्वमित्यर्थः। %तच्च% स्वरूपेणोत्पन्नं च संसृष्टमेव। तत्वस्यैव संसृष्टरूपत्वादिति भावः। अस्तु तर्हि सम्यक्त्वमतिशयविशेषः। तथा चातिशयेनोत्पन्नं संसृष्टं, अतथाभूतमसंसृष्टमिति द्वैविध्योपपत्तिरित्यत आह %।। न चेति ।।% अतिशयविशेषे मानाभावादिति भावः। सूक्ष्मेति स्वरूपकथनं। उपादानरूपेणेत्यर्थः। %प्राकृताद्यंशैः% प्रकृतिगुणत्रयाशैः। %उपचयः% स्थूलरूपनिष्पत्तिः। न तूपादानरूपेणाप्यनित्यानामेवोत्पत्तिरिति मात्रार्थः। तथा च नित्योपादानकत्वमसंसृष्टत्वं अतथाभूतत्वं संसृष्टत्वमिति भावः। एवं सति ब्रह्माण्डादीनामप्यसंसृष्टत्वमेव स्यादित्याशङ्कते %।। एषामिति ।। मूल%मुपादानं। कार्यमात्रस्य साक्षात् परम्परया वा प्रकृत्युपादानकत्वादिति भावः %।। विवक्षितत्वादिति ।।% सूक्ष्मशब्देनेत्यादिः। तथा च साक्षान्नित्योपादनकत्वमसंसृष्टत्वं अतथाभूतत्वमेव च संसृष्टत्वमिति भावः। साक्षान्नित्योपादकत्वं च महदादीनां। अनित्यांशैरप्युपचाद्‌ब्रह्मांडादीनां च मूलभूतं नित्यं तदुपादानोपादानभूतमेवेति नातिप्रसङ्गः. महादादिसूक्ष्मस्य महदादित्वं मन्वानः शङ्कते %।। एवं सतीति ।।% महदादीनां सूक्ष्मरूपेण नित्यत्वे महदादिसूक्ष्माणां महदादिरूपेण नित्यनित्यत्वं स्यात्। तद्रूपेण पूर्वोक्तनित्यानित्यत्वयोरभावादिति भावः %।। स्यादेवमिति ।।% तथा च महदादिसूक्ष्मस्य महदादिरूपत्वाभावादेव नोकत्दोष इति भावः। नन्वेवं महदादिसूक्ष्मस्य यथोक्तनित्यानित्यानन्तर्गतस्याधिक्यापत्तिरित्याशङ्क्यह %।। किं त्विति ।।% तथा च तस्य प्रकृतिरूपेण नित्यानित्यत्वमेवेति भावः।
</संसृष्टासंसृष्टविभागपरीक्षा>

<महादादिस्वरूपसद्भावे प्रमाणसूचनम्>
(टी.)
केचिन्महदादिस्वरूपमेव नाभ्युपच्छन्ति। दूरेणोक्तविशेषं। तेषामतिबहुतरागमविरोधं दर्शयितुं संप्रकीर्तितमित्युक्तं। आगमाश्चान्यत्र द्रष्टव्याः। विस्तरभिया नेहोदाहियन्ते।
</महादादिस्वरूपसद्भावे प्रमाणसूचनम्>

<महदादिस्वरूपसद्भावे प्रमाणसूचनम्>
(रा. टि.)
%।। केचिदिति ।।% तार्किकादयः। %उक्तविशेषं% असंसृष्टत्वादिकं। उपसर्गद्वयार्थो %बहुतरेति ।। अन्यत्रेति ।।%
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विधुः।।
इत्याद्यनुव्याख्यानादावित्यर्थः।
</महदादिस्वरूपसद्भावे प्रमाणसूचनम्>

<महदादिस्वरूपसद्भावे प्रमाणसूचनम्>
(का. टि.)
%केचे%त्तार्किकाद्याः। %विशेषं% महदादीनां संसृष्टत्वरूपं न तु संसृष्टासंसृष्टभेदमित्यर्थः। द्व्यणुकादेरसंसृष्टत्वस्य त्र्यणुकादेश्च संसृष्टत्वस्य तैरप्यङ्गीकारात्। स्वरूपमात्रकल्पनापेक्षया गौरवाधिक्यमूचनाय दूरेणेत्युक्तं। अत्यन्तमित्यर्थः। सम्प्रेत्युपसर्गद्वयलब्धमाह %।। अतिबहुतरेति ।।% निरवकाशत्वबहुत्वाभ्यां प्रबलभूतेत्यर्थः. आगमाश्चान्यत्रोदाहृताः।
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः।।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः।।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः।।
इत्यादयो द्रष्टव्या इति।
</महदादिस्वरूपसद्भावे प्रमाणसूचनम्>

<अस्वतन्त्रजगतः सृष्ट्यादिविषये विष्ण्वायक्त्त्वकथनम्>
(टि.)
यदीदं विष्णुव्यतिरिक्तं भावाभावादिभेदभिन्नं जगदस्वतन्त्रं तर्हि कस्मिन्नायत्तं? कस्मिंश्च विषये? इत्याकाङ्क्षायामाह
सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ।। 11 ।।
बन्धो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च।
विष्णुनाऽस्य समस्तस्य समासव्यासयोगतः ।। 12 ।।
नियमो व्यापारेषु प्रेरणं। बन्धः प्रकृतेः। मोक्षो बन्धात्। आवृतिज्योतिषी बाह्यतमःप्रकाशौ। एवकारो विष्णुनेत्यनेन सम्बद्ध्यते। अस्य समस्तस्यास्वतन्त्रस्य भवन्तीति शेषः।
नन्वेतत्पूर्वविरुद्ध। समस्तस्य सृष्टिसंहारोक्तौ नित्यत्वोक्तिविरोधः। अचेतनस्य बोधविरोध इत्यादि। तत्रोक्तं समासेति। समासः सङ्क्षेपः व्यासो विस्तारः तावेव योगौ उपायावुक्तार्थघटनायां। ततः। इदमुक्तं भवति। उक्तधर्मेषु यत्र तत्वेऽल्पीयांसः सम्भवन्ति तत्र तावन्तो विष्ण्वधीना ज्ञातव्याः। यत्र तु बहवस्तत्र तावन्तः। सर्वथा स्वरूपस्वभावावस्य तदधीनाविति। तत्र स्थितिनियमौ सर्वस्य। सृष्टिसंहृती नित्यानित्यस्यानित्यस्य च। अज्ञानं भावरूपं दुःखस्पृष्टस्य। ज्ञानाभावस्तु सर्वस्य। बोधनं चेतनस्य। सुखं प्राप्ततमसो विना। दुःखं दुःखास्पृष्टं विनेत्यादि द्रष्टव्यं। पदार्थानां सृष्ट्याद्यन्यतोपि प्रतीयते अत एवेत्युक्तं। सकलसत्तादेस्तदधीनत्वात्तत्तद्वस्तु निमित्तमात्रमेव। स्वातन्त्र्येण विष्णुरेवास्येश्वर इति।
</अस्वतन्त्रजगतः सृष्ट्यादिविषये विष्ण्वायक्त्त्वकथनम्>

<अस्वतन्त्रजगतः सृष्ट्यादिविषये विष्ण्वायक्त्त्वकथनम्>
(रा. टि.)
%आयत्तमिति ।।% अधीनतयाऽऽस्त इत्यर्थः। %।। विषय इति ।% आयत्तमित्यनुषङ्गः। सृष्ट्यादेः प्रसिद्धत्वादन्येषामर्थमाह %।। नियम इति ।।% अत्र सृष्टिपदेन स्रष्टृनिष्ठव्यापारवाचिना जगन्निष्ठजन्मग्राहं। %स्थितिरन्नादिदानेन% रक्षणं। संहृतिर्ध्वंसः। पूर्वविरुद्धतां व्यनक्ति %।। समस्तस्येति ।। इत्यादीति ।।% अचेतनस्य बन्धमोक्षसुखदुःखाज्ञानविरध %इत्यादि%पदार्थः। (17)%मोक्षो% बद्धस्य %।। इत्यादि द्रष्टव्यमिति ।।% अवृतिज्योतिषी सर्वस्येत्यादिपदार्थः %।। अन्यतोऽपीति ।।% ब्रह्मादितोऽपीत्यथः %तत्तद्वस्तिति ।।% ब्रह्मादिवस्त्वित्यर्थः। यद्वा देशकालादिवस्त्वित्यर्थः। इत्यंतेन तात्पर्योक्तिः।
(F.N){17. इदं वाक्यं `संहृतिर्ध्वंसः' इति वाक्यानन्तरं योजनीयमिति भाति।}
</अस्वतन्त्रजगतः सृष्ट्यादिविषये विष्ण्वायक्त्त्वकथनम्>

(टी.)
पद्मापद्मासनानन्तप्रभृतीदं यदिच्छया।
सत्तादि लभते देवः प्रीयतां श्रपतिः स मे।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वसङ्ख्यानविवरणं
श्रीजयतीर्थभिक्षुविरचितं सम्पूर्णम्

(रा. टि.)
%अस्य% समस्तस्येति मूलस्थेदंशब्दार्थ विवृण्वन् जगदुपादानतया सर्वस्य जन्मादिकर्तृत्वभ्रमं वारयंस्तत्प्रीति प्रार्थयते %।। पद्मेति ।।% पद्मासनो ब्रह्मा। यदिच्छयेत्यनेनोपादानत्वनिरासः अनायाससाध्यत्वं च सूच्यते। %इच्छामात्रं प्रभोस्सृष्टिरि%त्युक्तेः. तेन फलाभावेऽपि सृष्ट्यादिर्युक्तः। आयाससाध्यकर्मण एव फलापेक्षणादित्युक्तं भवति। मूलोक्तसृष्टिशब्दार्थस्सत्तेति। तेन सापि सर्वविषयेति सूचितं। देव्या अपि प्रीतिप्रार्थनालाभायोक्तं %।। श्रीपतिरिति ।।
तत्वाभिमानिनो देवा ब्रह्मरुद्रपुरस्सराः।
यत्परीवारतामाप्तास्तं वन्दे कमलापतिं।।
इति श्रीमत्तत्वसङ्ख्यानटीकाभावदीपः श्रीसुधीन्द्रतीर्थश्रीपादशिष्य-
श्रीराघवेन्द्रतीर्थयतिविरचितः सम्पूर्णः

(का. टि.)
दुरन्तदुर्मतध्वान्तध्वंसकृन्मध्वभास्करः।
बळित्थेत्यादिवेदोक्तगुणः प्रीतोऽस्तु मे सदा।।
इति श्रीमदुपाध्यायकृता भगवतः सदा।
तत्वसङ्ख्यानतात्पर्यचन्द्रिका सुप्रसत्तये।।

इति महामहोपाध्यायकाशीतिम्मण्णाचार्यविरचिता
तत्वसङ्ख्यानटीकाविवरणटिप्पणी समाप्ता

"https://sa.wikisource.org/w/index.php?title=तत्वसङ्ख्यानम्&oldid=399689" इत्यस्माद् प्रतिप्राप्तम्