प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← डल्हणव्याख्या तन्त्रयुक्तिः
इन्दुव्याख्या
[[लेखकः :|]]
श्रीदासव्याख्या →

इन्दु तन्त्रयुक्तिः

तत्राधिकरणं योगो हेत्वर्थोर्थः पदस्य च।
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्॥
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः।
प्रङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः॥
पूर्वपक्षविधानानुमतव्याख्यानसंशायाः।
अतीतानागतापेक्षा स्वसंज्ञोह्यसमुच्चयाः॥
निदर्शनं निर्वचनं नियोगोऽथ विकल्पनम्।
प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः॥ अ सं उ ५०
तत्रेत्यादिना युक्तयः उच्यन्ते। वाक्यार्थानां योजनं युक्तिः याभिर्योजनाभिर्विना तन्त्रमसंबद्धं भवति। का युक्तयः। तत्र तेष्वधिकरणं नाम अधिकरणं प्रस्तावः नामान्येनोक्तमप्यर्थजातं यद्बलाद्विशेऽवस्थाप्यते तदधिकरणम्। यथा सप्ताहादौधं केचिदाहुरन्ये दशाहत इति वाक्यार्थः सामान्येन प्रवृत्तोऽधिकरणवशाज्ज्वराख्ये विशेषेऽवस्थाप्यते॥१॥
योगो नाम योगः सम्बन्धः स च पदार्थयोर्वाक्यार्थयोर्वा। तत्र पदार्थयोः साध्यसाधकभावेन। यथा - रागादिरोगाः इत्यादौ समूला इत्यस्यापास्ता इत्यनेन वाक्यार्थयोर्यथा जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेदित्यस्य तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिरित्यनेन॥२॥
हेत्वर्थो नाम यदेकत्रोच्यमानमन्यत्रापि तथैवोपयुज्यते। यथा तत्रैकैकत्र शाखायामित्यस्यद्यवेद्योक्त्या शेषा वेद्या इति गम्यते॥३॥
पदार्थो नाम पदेनार्थोऽवगम्यते। यथा गुर्वादयो गुणशब्दादवगम्यन्ते॥४॥
प्रदेशो नाम यत्रैकदेशस्योच्यमानस्यार्थस्य प्रसादादनुच्यमानोपि तच्छेषापद्यते स प्रदेशः। यथा कुकूलादिपाकक्रमेण लाघवातिशयोऽपूपानामुच्यमानानां प्रसादादनुच्यमानान्यपि कृतान्नानि तथावगम्यन्ते॥५॥
निदेशोनाम यच्छब्दमात्रेण निर्दिष्टानां स्वरूपविशेषप्रदर्शनाय पुनः कीर्त्तनं निर्देशः। यथा वस्तिव्यापदि द्रुतोत्क्षिप्त इत्यादिकमुद्दिश्य तेषु दोषं प्रदर्शयितुमनुच्छ्वास्य तु बद्ध इत्युच्यते॥७॥
 वाक्यशेषोनाम यस्मिन् वाक्ये एकदेशः शिष्यते व्याख्यानकालेत्वनुच्यमानोप्यापतति स वाक्यशेषः। यथा रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता इत्यत्र उच्यत इति वाक्यशेषः। यथा रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता इत्यत्र उच्यत इति वाक्यशेषः॥८॥
प्रयोजनं नाम यत् सम्पादयितुं क्रिया ह्यारभ्यते तत्प्रयोजनम्। यथा सदोषेषु दोषशेषपाचनमग्निसन्धुक्षणं च सम्पादयितुमौषधपानमरभ्यते॥९॥
उपदेशो नाम शुद्धस्याप्तवचनस्य कीर्त्तनमुपदेशः। यथा गर्भस्तु मातुः पृष्ठाभिमुखो ललाटे कृताञ्जलिः संकुचिताङ्ग इत्येवमादि॥१०॥
अपदेशो नाम शुद्धस्याप्तवचनस्य प्रतिज्ञातस्य साधनहेतुरपदेशः। यथा अहितायोत्तरोत्तरं दुष्टा वातादय इत्यस्यां प्रतिज्ञायां दुष्परिहरत्वादिति हेतुः॥११॥
अतिदेशो नाम अन्यसम्बन्धिनां धर्माणामन्यत्रावस्थापमतिदेशः। यथा पालक्यासम्बन्धिनां धर्माणां चुच्चावस्थापनम्॥१२॥
अर्थापत्तिर्नाम यदेकस्मिन्नर्थ उच्यमाने अनुक्तस्याप्यर्थस्य बलादागमनं सार्थापत्तिः। यथा पक्वे जले जीर्णेप्यामं न पेयमित्युच्यमाने अभोजनादित्यनुच्यमानस्यापि सामर्थ्यादागमनम्॥१३॥
निर्णयो नाम उद्दिष्टानामर्थानामनुद्दिष्टेन निराकाङ्क्षत्वापदनं निर्णयः। यथा वर्त्मरोगविज्ञानीयोक्तानां रोगाणां वर्त्मरोगप्रतिषेधनिराकाङ्क्षत्वापादनम्॥१४॥
प्रसङ्गो नाम यदप्राकरणिकस्यापि वस्तुनः किञ्चित् सम्बन्धेन यत् कीर्तनं स हि प्रसङ्गः। यथा वमनप्रस्तावे धूमान्तैः प्रायः सर्वैरित्यादेरप्रकारणिकस्य कीर्त्तनम्॥१५॥
एकान्तो नाम यत् पक्षान्तरव्यावर्त्तकं तदेकान्तः। यथा दोषहेतुजत्वोक्तेर्निजत्वं न कदाचिदपि बाह्यहेतुजं तदेकान्तः। यथा दोषहेतुजत्वोक्तेर्निजत्वं न कदाचिदपि बाह्यहेतुजं व्याप्नोति॥१६॥
नैकान्तो नाम यदुच्यमानमप्यवश्यम्भावित्वेननियतं स नैकान्तः। यथा ज्वरस्तु जातः षड्रात्रादशिवनीषु निवर्तत इत्येतदुक्तमप्यवश्यम्भावित्वेनानियतम्॥१७॥
अपवर्गो नाम सामान्योक्त्यनुप्रविष्टस्य विशेषेणाकर्षणं सोपवर्गः। यथा मधुरं श्लेष्मळमित्युक्तावनुप्रविष्टेषु जीर्णशाल्यादिषु शब्देनाकर्षणम्॥१८॥
विपर्ययो नाम उक्तस्यान्यथाभावो विपर्ययः। यथा निदानोक्तानामनुपशयो भवति तद्विपरीतानां चोपशयः॥१९॥
पूर्वपक्षो नाम परपतिज्ञातानुपपत्तिप्रदर्शनपरो वाक्यसमुदायः पूर्वपक्षः यथा षड्रसवादिनं प्रत्यनेकरसप्रतिपादकानि वाक्यानि॥२०॥
विधानं नाम तन्त्रस्य कर्ता विशिष्टा या पदादिरचना कृता तद्विधानम्। यथा सर्वविरोधपरिज्ञानद्व्यवहारोच्छित्तिर्माभूदित्यभिप्रायेणोक्तं न च तद्विज्ञानमेकान्तभद्रकमिति॥ २१॥

अनुमतं नाम परपक्षस्य भिन्नस्याप्याङ्गीकरणमनुमतम्। यथा वस्तिविधाने कल्पनाया मतेषु दोषौषधादिबलतः सर्वमेतत् प्रमाणयेदित्यङ्गीकरणम्॥२२॥
व्याख्यानं नाम सङ्क्षेपेणोक्तस्यार्थस्य विस्तारेणाख्यानं व्याख्यानम्। अथवा स्फुटैः शब्दैरनभिहितं गुरुपरम्पर्यक्रमागतम्॥२३॥
संशयो नाम विरुद्धानां पक्षाणामनिश्चयः संशयः। यथा विषवेगसंभवपक्षेषु॥२४॥
अतीतापेक्षा नाम यत्रातीतं पदमापेक्ष्य सम्बन्धार्थता भवति सातितापेक्षा। यथा च स्वेद्यादयः स्नेह्याः इत्युक्ते नत्वतिमन्दाग्निरित्यादेः स्नेह्याः इत्यपेक्षते। यथा च ज्वरे लङ्घनं कुर्वीतेति सूत्रोक्तं लङ्घनमपेक्षते॥२५॥
अनागतापेक्षा नाम यत्रातीतं पदमपेक्ष्य सम्बन्धार्थता भवति सानागतापेक्षा। यथा ततो नावनगण्डूषेत्यादिना दिनचर्यायां नस्यादिविधयोऽपेक्ष्यन्ते॥२६॥
स्वसंज्ञा नाम स्वतन्त्रे एवमन्यस्मिञ्छास्त्रे न श्रूयते सा स्वसंज्ञा। यथा आपानोजेन्ताक इत्येवमादि॥२७॥
ऊह्यं नाम यत् भिष्रिजा स्वप्रज्ञया शब्देनानुक्तमपि व्यवस्थाप्यते तदूह्यम्। यथा द्रव्यं जह्यादयौगिकमिति यन्न यौगिकं तच्छब्देन नोक्तमपि प्रज्ञया व्यपस्थाप्यते॥२८॥
समुच्चयो नाम एकस्मिन् विहिते तदविरोधेन तत्रैव द्वितीयस्य विधानं समुच्चयः। यथा वातस्योपक्रमः स्नेहः स्वेदः इत्यादि॥२९॥
निदर्शनं नाम साध्यैकदेशो दृष्टान्तो निदर्शनम्। यथा आमदोषेषु त्रिविधेषु लङ्घनपाचनशोधनानि दृष्टान्तः। एवमन्यानपि व्याधीन् स्वनिदानविपर्ययात् चिकित्सेदित्यादेः॥३०॥
निर्वचनं नाम संज्ञयोक्तस्य तदर्थेन योजनं निर्वचनं। यथा सूचीभिरिव गात्राणि भिद्यतीति विषूचिका॥३१॥
नियोगो नाम क्रियाणां व्यापाराणां नियोगः। यथा भवता स्वेदमूर्च्छापरीतेनापि नैषा पिण्डिका विमोक्तव्येति॥३२॥
विक्ल्पो नाम क्रमेण यौगपद्येन वा सम्भविनां पक्षाणां कीर्त्तनम्। यथा कुर्वीत लङ्घनं प्रग्रूपेषु ज्वरादौ वा॥३३॥
प्रत्युत्सारो नाम यत्रोपपत्तिं दर्शयन्तः परस्परमतानि निवारयन्ति। यथा गर्भिणी अष्टमे मासि क्षीरयवागू सर्पिष्मतीं पिबेत् नेति खण्डकाप्यः गर्भस्य पैङ्गळ्या बाधभयात्। अस्तु पैङ्ग्ळया बाधास्तथाप्येवं कुर्वती निरुजं बलवर्णाद्युपेतमपत्यं जनयतीति भगवानत्रेयः॥३४॥
उद्धारो नाम यच्छास्त्रे चोद्यस्य समाधानम्। यथा चित्रकर्मगुणकृत् गुरुणोक्तो वस्तिरित्यादि यावत् सर्वतः कथमपोहति दोषानिति चोद्यस्य स्तिमितमारुतवश्यमेतदित्यादि समाधानम्॥३५॥
सम्भवो नाम किमप्यन्यत्रादर्शनाद्येन नियमेन स्थाप्यते स सम्भवः। यथा सर्वरोगेषु हेतुलिङ्गौषधादीनां सामान्योक्तौ वातादिविशेषणास्थापनं सम्भवप्रसादाल्लभ्यम्॥३६॥ एवं तन्त्रयुक्तयः॥
यद्यपि भट्टारकप्रस्थानेन च परिप्रश्नव्याकरणव्युत्क्रान्ताभिधानहेत्वाख्याश्चतस्रोवशिष्यन्ते तथापि आचार्येण तन्त्रेणानिबद्धा इत्यत्र नोच्यन्ते। अथवा तन्त्रयुक्तित्वमेव तासां नाङ्गीक्रियते। तत्र चाग्न्यतियोगोक्तौ वातादिविशेषेणावस्थापनं सम्भवप्रसादाल्लभ्यमेवाद्युक्तम्॥
सरसः सुप्तपद्मस्य रविदीधितयो यथा।
यथा गृहस्य दीपाभास्तथा तन्त्रस्ययुक्तयः॥
अधीयानोपि तन्त्राणि तन्त्रयुक्त्यविचक्षणः।
नाधिगच्छति तन्त्रार्थमर्थं भाग्यक्षये यथा॥
सरस इत्यादि सुबोधम्। तन्त्रयुक्त्यविचक्षणः एतासु षट्त्रिंशत्तन्त्रयुक्तिष्वसमर्थस्तन्त्रार्थं नाधिगच्छति न प्राप्नोति यथा भाग्यक्षये धनम्॥
वाक्यार्थयोजनादेता युक्तयस्त्विष्टसिद्धिदाः।
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधकाः॥
लीनव्यत्यासलेशोक्तिगदितानां प्रकाशकाः।
वाक्यन्यायोदधेः सारं गृहीत्वैवं व्यवस्थिताः॥
एता युक्तयो वाक्यार्थस्य योजनाद्धेतोः स्वेष्टसिद्धिं ददति। यानि चासद्वादिनामर्थसम्बन्धप्रदर्शनपरणि वाक्यानि तेषां प्रतिषेधकाः। लीनगदितानां व्यत्यासगदितानां च प्रकाशकाः। लीनं तद्यत् स्फुटं वक्तुं न पार्यते। व्यत्यासः परस्परविवर्तनम्। लेशोंशेन स्पर्शः। उक्तिर्वचनभङ्गिः। एताश्च युक्तयो वाक्यन्यायोदधेरसंख्यप्रकारसम्भविनो गेयस्येव जातयः सारं गृहित्वा एवं व्यवस्थिताः। पदार्थयोजनास्तु व्युत्पन्नानां प्रसिद्धा एवेत्यत आचार्येण नोक्ताः।