तन्त्ररहस्यम्
[[लेखकः :|]]

।। श्रीमद्रमानुजाचार्यविरचितं तन्त्ररहस्यम् ।।

पश्यन् गोदावरीमग्रे प्राङ्‌मुखः पद्मकासनः ।
नरसिंहवपुर्विष्णुरव्याद्धर्मपुरे वसन् ।। 1 ।।
गोदावरीरोधसि संनिविष्टा गरीयसी धर्मपुरी चकास्ति ।
तत्रावतीर्णस्य नृसिंहमूर्त्तेर्विष्णोःपदं चेतसि संस्मरामि ।। 2 ।।
नमामि जैमिनिमुनिं येन द्वादशलक्षणी ।
मीमांसा निर्मिता सूत्रैश्श्रुतितात्पर्यसिद्धये ।। 3 ।।
स जीयाच्छबरस्वामी नानाशाखासु विश्रुतः ।
सूत्रार्थं विशदीकर्तुं येन भाष्यमभाष्यत ।। 4 ।।
आलोच्य शब्दबलमर्थबलं श्रुतीनां
टीकाद्वयं व्यरचयद्बृहतीं च लघ्वीम् ।।
भाष्यं गभीरमधिकृत्य मिताक्षरं यः
सोऽयं प्रभाकरगुरुर्जयति त्रिलोक्याम् ।। 5 ।।
बृहतीं तथैव लघ्वीं टीकामधिकृत्य शालिकानाथः ।
ऋजुविमलां दीपशिखां विशदार्थामकृत पञ्चिकां क्रमशः ।। 6।।
तथाऽन्यां शालिकानाथो नानाप्रकरणात्मिकाम् ।
मानमेयविवेकार्थं चक्रे यत्नेन पञ्चिकाम् ।। 7।।
टीकाद्वयं पञ्चिकाश्च भवनाथस्तु संक्षिपन् ।
चक्रे नयविवेकाख्यं प्रबन्धं सर्वसंमतम्।।8।।
भिन्नं क्कचित्कुत्रचिदप्यभिन्नं विरुद्धमेकत्र तथाऽविरुद्धम् ।
तन्त्रद्वयं चापि गुरुक्तरीत्या वितन्यते तन्त्ररहस्यशिक्षा ।। 9।।
पूर्वपूर्वकृतिषु प्रपञ्चितं मानमेयमितितत्वनिर्णयम् ।
संक्षिपामि गुरुतन्त्रनीतिभिः प्रीतयेऽत्र विदुषां मिताक्षरम् ।। 10 ।।
अनुभूतिः प्रमाणं, परीक्षकाणाम् तत्रैव प्रमाणव्यवहारात्। स्मृतिव्यतिरिक्ता च संवित् अनुभूतिः । स्मृतिश्च संस्कारमात्रजं ज्ञानम्, तत्रैव स्मृतिव्यवहारात् । तत्र संस्कारग्रहणेन प्रत्यक्षादिज्ञानव्युदासः, तेषां इन्द्रियादिमात्रजत्वात् । मात्रग्रहणेन प्रत्यभिज्ञायाः व्युदासः, तस्यास्संस्कारसचिवेन्द्रियजत्वात् । स्मृत्यनुभवयोर्विवेकः प्रपञ्चयिष्यते ।।
ननु स्मृतिरपि त्वन्मते यथार्था । सा किमिति न प्रमाणम् ? सत्यम् - न हि याथार्थ्यं प्रामाण्यनिमित्तं, तस्य सर्वसंवित्साधारणत्वात् । किं त्वनुभूतित्वमेव। स्मृतिस्तु सत्यपि तस्मिन् केवलसंस्कारजन्यत्वेन अनुभूतिविलक्षणा पूर्वानुभूतमेवार्थं तदित्यवरुन्धाना च सती न स्वातन्ञ्येणार्थं परिच्छिनत्तीति न प्रमाणम् । तदंशविकलस्मृतिप्रमाऽपि प्रतीतिपारतन्ञ्याभावेऽपि संस्कारजत्वेन न प्रमाणमेव । अत एवोभयविधपारतन्ञ्याभावाद्रृहीतग्राहित्वेऽपि धारावाहिकवित्तयः प्रमाणमेव ।।
कथं याथार्थ्यं साधारणम् ? सर्वस्यापि ज्ञानस्यार्थाव्यभिचारित्वेन तन्नियमात्। ननु कथमव्यभिचारः ? इदं रजतं पीतश्शडख इत्यादेर्विपर्ययस्य, स्थाणुर्वा पुरुषो वा इत्यादेस्संशयस्य स्वप्नस्य वाऽतथात्वात् । रजतप्रतिपत्तिश्च पुरोगतां शुक्तिमेव रजतत्वेनाध्यवस्यति। रजतमात्रगोचरत्वे च ' इदं रजतम् ' इति सामानाधिकरण्यं न स्यात् । रजतार्थिनः पुरोवर्तिनि शुक्तिशकले प्रवृत्तिर्न स्यात्। अवगतिप्रवृत्त्योरेकविषयत्वनियमात् । एवं ' पीतश्शंखः ' इत्यादिवित्तयोऽपि अन्यथाख्यातिरुपाः ।।
किं च साधारणे याथार्थ्ये भ्रमाभ्रमविभागः कुतः ? तस्य याथार्थ्यायाथार्थ्यनिबन्धनत्वात् । ' नेदं ' इति बाधश्च कुतः ? तस्य पूर्वप्रतिपन्नविषयापहारलक्षणत्वात् । याथार्थ्ये च तदयोगात् ।
उच्यते - यस्यां संविदि योऽर्थोऽवभासते स तस्या विषयः, नान्यः, तस्य
तत्रानवभासात् । अनवभासमानस्य विषयत्वेऽतिप्रसङ्‌गात्। तेनान्यस्य अन्यथाभानं प्रतीतिविरुद्धमेव । ततोऽत्र न रजतप्रतीतिः शुक्तिगोचरा, तत्र तस्य अनवभासात् । किं तु रजतगोचरैव ।
ननु तर्हि पुरोवर्तिनि ' इदं रजतं ' इति विशिष्टनिर्वाहः कथम् ? इत्थम्- प्रथममिन्द्रियार्थसन्निकर्षे सति शुक्तिकामात्रमागृहीतविशेषधर्मकं इदमिति सामान्येन गृह्यते। तदनु दोषवशात् तदंशविकलं तत्सदृशं रजतमात्रं स्मर्यते। लोके च सदृशदर्शनात्सदृशस्मृतिर्दृष्टैव । तच्च स्मरणं तदंशप्रमोषादनुभवसमानाकारम्। एतावत्तावदावयोरविवादम् । तत्र गृह्यमाणस्मर्यमाणयोर्ग्रहणस्मरणयोर्वा भेदाग्रहात्केवलं सामान्याकारोपलम्भाद्विशिष्टव्यवहारः, न तु विशिष्टधीतः, तत एव प्रवृत्तिरपि युक्ता। उत्तरकालं च भेदग्रहणे व्यवहारविसंवाद्बाधोऽप्युपपन्नः । स च न पूर्वज्ञानविषयापहारः, तयोर्यथार्थत्वात् । किं तु व्यवहारविसंवाद एव । न हि ज्ञानं बाध्यं, तस्य यथार्थत्वात् । किं तु व्यवहारः । दशमाध्यायविचारगोचरो बाधोऽपि व्यवहारस्यैव, न तु ज्ञानस्य । तत्र हि कृष्णलेष्ववघातस्य चरुषु पेषणस्य चानुष्ठानमात्रं बाध्यते, न त्वङ्‌गत्वप्रतीतिः, तस्याः प्रमाणसिद्धत्वात्। तत एव सम्यङ्मिथ्याविभागोऽपि। यत्र व्यवहारविसंवादः तत्र पूर्वज्ञानस्य भ्रान्तत्वम्। यत्र तु न (व्यवहारविसंवादः) तत्र सम्यक्त्वम् ।।
ननु उष्णं जलं, शीतश्शीतमयूखः, सुवर्णं गुरुतरं, इत्यादौ व्यवहाराविसंवादात्सम्यक्त्वं स्यात् ? न स्यात्, तत्रापि भेदाग्रहनिबन्धनत्वात्प्रतीतेः । विद्यमानमपि भ्रान्तत्वं न व्यवह्रियते ।।
ननु भवेन्नामेदमंशोऽनुभवः, रजतांशस्तु कथं स्मृतिः ? तत्तांशप्रमोषात् । न हि तत्र तदिति प्रतीतिरुदेति। ततोऽनुभवत्वमेवोचितम् । सत्यम्, न तावच्चाक्षुषोऽनुभवः, तदसंप्रयोगात् । नाप्यनुमितिः, लिङ्‌गाभावात्। परिशेषात्स्मृतिरेव । तदंशप्रमोषस्तु दोषवशात् । अत एव पामराणां
तत्रानुभवव्यवहारः । परीक्षकाणां त्वन्यथा । गृहीतगोचरस्य तत्तारहितस्यापि केवलसंस्कारगोचरत्वाद्धारावाहिकवैलक्षण्यमपि ।।
ननु दोषाच्चाक्षुषोऽपि विशिष्टानुभव एव किं न स्यात् ? न स्यात् । दोषाणां सहजकार्यशक्तिप्रतिबन्धकत्वमेव, न तु विलक्षणकार्यजनकत्वम् । न हि दोषसहस्रसंकुलादपि शालिबीजाद्यवाङ्‌कुरोदयः । किं चान्यथाख्यातिवादिनाऽपि भवता प्रथमं ग्रहणस्मरणे अङ्‌गीकृत्यैव ताभ्यां विपर्ययो जायत इत्यभ्युपगतम्। अत एवात्र स्मर्यमाणारोप इति भवतो व्यवहारः । अस्माकं तु ताभ्यामेवागृहीतभेदाभ्यां भ्रान्तिव्यपदेशोपपत्तेः प्रवृत्तिसंभवाच्च न तृतीयज्ञानाङ्‌गीकारः, लाघवात् । याथार्थ्यनियमभङ्‌गश्चात्राधिको दोषः ।।
ननु यद्गोचरं ज्ञानं तत्रैव प्रवृत्तिः । रजतज्ञानं च न शुक्तिगोचरम्। अतः कथं तत्र प्रवृत्तिरिति चेत् ? सत्यम् । सम्यग्रजतस्थले तथैव। अत्र तु साकेवलभेदाग्रहनिबन्धना । भेदाग्रहश्चात्र भवताऽप्यङ्‌गीकार्यः। अन्यथा भ्रान्त्यनुदयात् । न हि विशेषग्रहे तदुदयः, तन्निवर्तकत्वात्तस्य। अत एव शुक्तिशकलं रजतज्ञानगोचरं रजतार्थिप्रवृत्तिविषयत्वात् सम्यग्रजतवदिति त्वदीयमनुमानं प्रत्युक्तम्। अविसंवादत्तत्र तथा। अत्र तु नैवं, विसंवादात् । किं च घटशब्दः पटवाचकः, चक्षुर्गन्धग्राहकमितिवत् प्रतिज्ञापदयोर्व्याघातश्च ।।
कि च ज्ञानस्यार्थव्यभिचारे प्रतीयमानस्तावदाकारो ज्ञानमात्रपर्यवसितः स्यात् । ततश्च सर्वं ज्ञानं साकारमापतेदिति बाह्यसमयसाङ्‌कर्यम् ।
तथा पीतशङ्खबोधोऽपि यथार्थ एव। तथाहि- नेत्रवर्तिनि स्वच्छे पित्तद्रव्ये तद्रश्मिभिस्सह निर्गते तद्गतपीतिमाऽत्र गृह्यते । तथा दोषवच्छङ्खमात्रं च। द्रव्यगुणयोस्सहप्रतीतिनियमश्च नास्ति, परस्परसाकाङ्क्षयोस्तयोर्विद्यमानोऽप्यसंबन्धो न बुध्यते, ततश्च तत्रासंबन्धाग्रहाद्विशिष्टधीव्यवहारः । प्रवृत्तिरपि तत एव। द्विचन्द्रज्ञानेऽप्युङ्‌गुल्यवष्टम्भादिदोषाद्विधोः प्रविभक्तो नायनरश्मिरेकस्मिंश्चन्द्रमसि
द्वित्वं जनयति । तत्र द्वित्वस्य चन्द्रमसश्चासंबन्धाग्रहाद्वौ चन्द्रावित्येवं व्यवहारः । तथा सर्वतोदिशमाशुतरसंचारिण्यलातदण्डेऽपि निरन्तरधियो जायन्ते। तत्रान्तरालाग्रहणाच्चक्रबुद्धिव्यवहारः । अलाते च चक्रव्यवहारः। तथा दर्पणे नयनरश्मिर्निपतितः प्रथमं सविशेषं दर्पणं गृह्णाति। पश्चात्तु प्रतिहतः परावृत्तो मुखमात्रम् । तत्र दर्पणस्य मुखस्य च भेदाग्रहाद्दर्पणे मुखव्यवहारः। तद्गतानां सव्यदक्षिणमहत्त्वाल्पत्वादिधर्माणां मुखस्य च भेदाग्रहात् । मुखे तद्देशादिव्यवहारश्च ।।
स्वप्नस्तु स्मृतिरेव । न ह्यननुभूते स समुदेति । दोषाच्च तत्ताप्रमोषः। ग्रहणाकारश्च अदृष्टवशादर्थानामनुभूतत्वं च नाध्यवसीयते । अवस्थाविशेषोऽदृष्टं च संस्कारोद्बोधकम् । अत एव जाग्रतस्तादृगेव धीः ।।
तथा संशयोऽपि नैकं विज्ञानम् । किन्तु द्वे एते स्थाणुत्वपुरुषत्वगोचरे प्रमृष्टतत्तांशे परस्परविनिर्मुक्ते पुरः स्थितोर्ध्ववस्तुदर्शनाज्जायमाने स्मृतिरुपे । एतत्सर्वं यथार्थमेव । परस्परविनिर्मुक्तयोस्तयोर्विशेषयोः पुरःस्थिते धर्मिणि एकस्यापि व्यवस्था नास्तीति व्यवस्थितव्यवहारं प्रवर्तयिता प्रवर्तयितुमशक्नुवन् संशेत इति भवति तत्र संशयव्यवहारः। किं च कस्यचिद्भानस्यार्थव्यभिचारे सर्वस्यापि तथात्वशङ्‌कायां जगति विश्वासो न स्यात्।।
ननु त्वन्मतेऽपि कुत्रचिद्भाने भेदाग्रहनिबन्धनप्रघृत्तौ व्यवहारविसंवादे सर्वत्र तथात्वशङ्‌कायामविश्वासस्तदवस्थ एवेति चेत् न, वैषम्यात् । याथार्थ्ये हि साधारणे ' यद्भानं तत्सत्यम् ' इति सर्वत्र स्वारसिको विश्वासः । प्रवृत्तिश्च स्वारसिकी । क्कचिदविश्वासे सोप्यल्पायासेन निवर्तते । प्रवृत्त्युत्तरकालं व्यवहाराविसंवादे पूर्वज्ञानस्य विशिष्टार्थगोचरत्वनिश्चयात्। विसंवादे तु केवलं परस्परविनिर्मुक्ता गृहीतभेदतत्तद्वस्तुगोचरत्वनिश्चयात् ।।
अतस्सर्वं ज्ञानं यथार्थम् । याथार्थ्येऽपि स्मृतिरप्रमाणम् । अनुभूतिः
प्रमाणमिति सिद्धम् ।।
आचार्यैस्तु- 'दृढमविसंवादि अगृहीतग्राहि विज्ञानं प्रमाणम् ' इति प्रमाणसामान्यलक्षणं निबद्धम् । तच्च प्रामाण्यं स्वतः, अप्रामाण्यं परत इत्यपि निबद्धम् । दतुक्तम्-
तस्माद्दृढं यदुत्पन्नं न विसंवादमृच्छति ।
ज्ञानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम् ।।
इति । तच्छिष्यैश्च तत्स्वतस्त्वं बहुधा प्रपञ्चितम्। तथाहि- तत्र केचिदित्थं व्याचख्युः-स्वशब्दोऽयमात्मीयवचनः । प्रामाण्यं चार्थतथात्वम्। जायत इति च योग्यतयाऽध्याह्रियते । ततश्चायमर्थः- स्वीयादेव कारणादर्थतथात्वलक्षणं प्रामाण्यं जायते, न गुणात्, तस्य दोषप्रतिबन्धमात्र एवोपक्षीणत्वात्। गुणाधीने तु प्रामाण्ये वेदस्यापौरुषेयतया वक्तृगुणाभावेन प्रामाण्यं न स्यात्। एतद्विलक्षणमप्रामाण्यं न स्वीयात्कारणाज्जायते, किन्तु दोषादित्यप्रामाण्यं परतः। अत एवेदं रजतमित्यादिषु स्वीयात्कारणादिदमंशस्य स्वतस्त्वम् । दोषात्तु रजतांशस्य मिथ्यात्वमिति ।।
एतन्मतमाचार्यग्रन्थानुगुणं न भवतीति तदीयैरेवोपेक्षितम् ।।
अन्ये तु- स्वशब्दोऽयमात्मवचनः । प्रामाण्यं चानधिगततथाभूतार्थनिश्चयः। ततश्च स्वतोज्ञानस्वरुपात्तादृशं प्रामाण्यं जायते। न तु गुणज्ञानादर्थक्रियाज्ञानाद्वा। अप्रामण्यं तु परतो दोषज्ञानादर्थान्यथात्वज्ञानाद्वेति । अयमपि पक्षस्तदीयैरेव प्रतिक्षिप्तः । तत्र तावदप्रामाण्यस्य परतो जन्म युक्तम् । न हि रजतज्ञानस्याप्रामाण्यं दोषज्ञानादिजन्यं, उत्पत्तावेवाप्रमाणत्वात् । अतथाभूतार्थनिश्चयोऽप्रामाण्यम्। तच्चाप्रमाणज्ञाने स्वत एव भवति, न बाधकज्ञानादिकमपेक्षते । न ह्युत्पत्तौ प्रमाणं सत्पश्चाद्बाधकेनाप्रमाणीक्रियते। अपि तूत्पत्तावेव ज्ञातमप्रामाण्यं पश्चाद्बाधकेन ज्ञाप्यते । किं च प्रामाण्यस्यापि स्वतो जन्म अयुक्तम् । स्वत इति ज्ञानस्वरुपमत्रं चेद्विवक्षितं तदा मिथ्याज्ञानस्यापि स्वतः प्रामाण्यं स्यात्, तत्रापि
ज्ञानस्वरुपस्याविशेषात् । अथ सम्यग्ज्ञानं विवक्षितं, तदा प्रमाणज्ञानात्प्रामाण्योत्पत्तिरुक्ता स्यात् । तदा स्वस्मात्स्वस्योत्पत्तिस्स्यात्, सम्यग्ज्ञानस्वरुपाव्यतिरेकात्प्रामाण्यस्य ।।
अपरे तु- स्वशब्दो ज्ञानपरः। योग्यतया च भातीत्यध्याह्रियते । ज्ञानात्तद्गतं प्रामाण्यं ज्ञाप्यते । अप्रामाण्यं तु परतो गम्यत इति । तदपि तदीयैरेव निरस्तम् । न हि ज्ञानमात्मानमात्मीयं वा प्रामाम्यं गृह्णाति, तस्यार्थग्रहणमात्रोपक्षीणत्वात्। न ह्युत्पन्नं ज्ञानमहं प्रमाणं मदीयं वा प्रामाण्यमिति प्रतिभाति । ज्ञानं तु केवलमर्थप्रकाशान्यथानुपपत्त्या कल्प्यते । प्रामाण्यमपि तत एव । तस्मात्स्वतो भातीत्यनुपपन्नमिति ।।
आचार्यमततत्ववेदिनस्तु- स्वशब्दोऽयमात्मवचनः । प्रामाण्यं चार्थवत्त्वम्। भातीति चाध्याहारः । ज्ञानस्वरुपादेवार्थतथात्वलक्षणं प्रामाण्यं भातीति ज्ञानमात्रस्यार्थतथात्वप्रकाशकत्वं स्वारसिकमिति यावदिति । तदुक्तं तदीयैः-
आत्मवाची स्वशब्दोऽयं स्वतो भाति प्रमाणता ।
अर्थस्य च तथाभावः प्रामाण्यमिति गीयते।।
यदर्थतथात्वं यद्वशाच्च ज्ञानं प्रमाणं तद्भानं स्वरुपादेव भाति, न तु गुणज्ञानादर्थक्रियाज्ञानात्संवादज्ञानाद्वेत्यौत्सर्गिकं प्रामाण्यम्। अर्थान्यथात्वलक्षणमप्रामाण्यं न स्वतो भाति। किन्तु कारणदोषज्ञानान्नेदमिति वाधकज्ञानाद्वेति परत इत्युपपादितमप्रामाण्यमिति। यथाहुराचार्याः-
तस्मात्स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्।
भाधकारणदुष्टत्वज्ञानाभ्यां तदपोद्यते ।।
इति । स्थितं प्राप्तं प्रतिपन्नमिति यावत् । सर्वत्रेति न केवलं प्रमाणेषु किन्तु ज्ञानमात्र इत्यर्थः । न हि प्रमाणज्ञानान्यधिकृत्येयं चिन्ता, यत औत्सर्गिकत्वं न स्यात् । किं नाम संशयस्मृतिविलक्षणानि ? तयोरप्रामाण्यस्य स्पष्टत्वात् न तौ
विचारगोचरौ । यदि प्रमाणज्ञानान्यधिकृत्येयं चिन्ता स्यात् तदा तेषामेव स्वतः प्रामाण्यं साधितं स्यात् । तथा च वेदस्योभयवादिसिद्धप्रामाण्याभावेन विचाराविषयत्वान्न तत्साधितं स्यात् । तथा च तत्प्रामाण्यानुपयोगिनी चिन्ता काकदन्तपरीक्षावदकर्तव्या स्यात् । ज्ञानमात्राधिकारेण तु स्वतः प्रामाण्ये साधिते वेदस्यापि सामान्यतः प्राप्तं प्रामाण्यं कारणदोषादेरभावान्निरपवादमिति सप्रयोजना स्यादिति प्रामाण्यमौत्सर्गिकम्, अन्यदापवादिकम् ।।
नन्वर्थतथात्वं प्रामाण्यं चेत्स्मृतेरपि तत्प्रसङ्गः । तयाऽपि तथात्वनिश्चयात्। मैवम्। अधिगततयाऽननुसन्धानम्, अर्थस्य च तथात्वम्, ज्ञानस्य च तत्र निश्चयजनक्तवमिति त्रितयमपि प्रामाण्यमभिमतं लोके । तत्रैव प्रमाणशब्दप्रवृत्तेः। अतो न स्मृतेः प्रामाम्यम् ।
तदयमत्र पूर्वोत्तरपक्षसङ्क्षेपः- घटपदाच्च घटज्ञानोदयदर्शनात् घटसदसद्भावमात्रसाधारणेन ज्ञानमात्रेण घटो दुर्निश्चयः । अतो न तस्य स्वतः प्रामाण्यनिश्चयः । किन्त्वर्थक्रियाज्ञानात्संवादाद्‌गुणवत्कारणज्ञानाद्वा तन्निश्चयः। क्रियाज्ञानमव्यभिचारात्स्वत एव प्रमाणम् । संवादोऽप्यर्थतथात्वादेव घटते। तथा गुणोऽपि । तस्मात्परत एव प्रामाण्यनिश्चयः न स्वत इति पूर्वः पक्षः ।।
सिद्धान्तस्तु- न ज्ञानमव्यभिचारानिश्चयमुखेनार्थं निश्चिनोति। किन्तु स्वत एव । यदि स्वतो निश्चेतुं न शक्नुयात् तंदा निश्चयस्यात्यन्तासम्भव इत्यान्ध्यमेवाशेषस्य जगतो भवेत् । न हि स्वतोऽनिश्चितोर्थः परतोऽपि निश्चेतुं शक्यते, परस्यापि पूर्ववदेवासामर्थ्यात् । यथा घटज्ञानमसत्यपि घटे दृष्टम् इत्यनिश्चायकं तथाऽर्थक्रियाज्ञानमपि स्वप्नावस्थायामसत्यामेव च तस्यां दृष्टमिति न केनापि सा निश्चेतुं शक्यते । तया घटनिश्चयस्तु दूरत एव । तथा संवादो नाम तद्विषयं ज्ञानान्तरम् । तस्य पूर्वज्ञानात्को विशेषः ? येन तेनानिश्चितमनेन निश्चीयेत। तथा गुणज्ञानादपि गुणो निश्चेतुं न शक्यते । किं पुनः पूर्वज्ञानप्रामाण्यम् ।
तस्मात्स्वत एव प्रमाण्यं परतस्त्वप्रमाण्यं दोषज्ञामाद्बाधकज्ञानाद्वा । वेदे तु दोषाभावात्स्वतः प्राप्तं प्रामण्यं सुस्थमिति तत्प्रामाण्योपयोगाद्विचारश्च सप्रयोजन इति ।।
तत्र सामान्यलक्षणं तावदनुपपन्नं संशयविपर्यययोर्योथार्थ्येन आद्यपदद्वयव्यावर्त्याभावात् । धारावाहिकप्रमाण्येनान्त्यपदाव्यप्तेः । तथा स्वातन्ञ्यमनुपपन्नं, अनुभूतित्वमात्रप्रयुक्तत्वात्प्रामाण्यस्य । तथा परतस्त्वमनुपपन्नं, संस्कारमात्रजन्यत्वमात्रप्रयुक्तत्वादप्रामाण्यस्य । किं च अर्थतथात्वं प्रामाण्यं चेत्स्मृतेरपि तथात्वप्रसङ्‌गः अननुसन्धानं तत्प्रयोजकं चेत्, स्मृतिप्रमोषप्रत्यभिज्ञयोरतिव्याप्त्यव्याप्ती । केवलसंस्कारजन्यत्वं चेत्तदेव सर्वत्र स्यात्, किं स्वतः परतो वेति विभागेन ।
यच्चोक्तं स्वारसिकं प्रामाण्यमन्यदापवादिकमिति तत्र स्वारसिकत्वं नाम किम् ? ज्ञानस्वभावश्चेत्तर्हि स्मृतावतिप्रसङ्‌गः । अथ तद्युतिरिक्तज्ञानस्वभाव इति चेत्, तर्ह्यावयोरविवादः । द्वितीयेऽपि पक्षे कोऽपवादः ? दोषश्चेत्तस्य सहजशक्तिप्रतिबन्धकत्वमेव, न त्वप्रामाण्यनिमित्तता । अथ संस्कारमात्रजत्वं चेत, तथैवाविवादः । वेदप्रमाण्यं त्वनपेक्षत्वादेव सिद्धम्, किं स्वतः परतो वेति प्रयासेन। मानान्तरानपेक्षतयैव वेदः प्रमाणमिति प्रथमाध्याये निर्णोतम् । तत्र बाह्यहेतुसमुत्थमप्रामाण्यं सापेक्षत्वलक्षणं तर्कपादे निराकृतम् । वाक्यानां परस्परानन्वयशङ्‌कासमुत्थं तु त्रिपाद्याम् । ज्ञानयाथार्थ्यं तु प्रकरणपञ्चिकायां शालिकानाथेन नयवीथ्यां समर्थितम् ।।
ननु त्वन्मते स्मृतेरप्यात्मस्वात्मांशयोरनुभूतित्वात्कथं तद्यतिरेकस्तल्लक्षणम्। न च वेद्यांशस्यैव संस्कारजन्यत्वेन तत्वमिति युक्तम् । अंशान्तरस्यापि तदविरोधात् । किंचैकस्यैव स्मृतित्वमनुभवत्वं च विरुद्धम् । अनुभवपारतन्ञ्यमप्यंशत्रयसाधारणम् । उच्यते- न हि प्रतीतिप्रकारमपह्‌नुत्य
तत्वव्यवस्था युक्ता । इत्थं तु तत्प्रकारः- याकाचिद्ग्रहणस्मरणरुपा प्रतीतिः तत्र सर्वत्र साक्षादात्माऽवभासते । न ह्यनवभासमाने तस्मिन् विषयाः प्रतिभान्ति। इत्थं हि सर्वा प्रतीतिरिदमहं जानामीति । न ह्याश्रयानुल्लेखेन काचिढ्बुद्धिरुदेतुमलम्। तथात्वे स्वपरसंवेदनयोरविशेषः प्रसजेत्। प्रत्ययान्तरविषयत्वे च मेयमात्रोः न सहोपलम्भनियमः। एकप्रतीतिगोचरत्वे तु तत्संभवः। तस्मात्सर्वा प्रतीतिरात्मांशेऽनुभवाकारा साक्षात्कारवती चेत्यनुभवबलादेवाश्रयणीयम् । तथा स्वात्मांशेऽपि स्वयंप्रत्यक्षा प्रकाशते । अप्रकारात्मकयोरपि मेयमात्रोर्यत्सबन्धात्प्रकाशः तादृश्यास्तस्याः प्रकाशते । अप्रकारात्मकयोरपि मेयमात्रोर्यत्सबन्धात्प्रकाशः तादृश्यास्तस्याः प्रकाशे किमपरमपेक्षमीयम्। न च तस्यां विषयप्रकाशसमये प्रकाशान्तरमपि । न च सा तदानीं नावभासते । तदनवभासे च सर्वानवभासप्रसङ्गात् । न चाप्रकाशदीपे विषयाः प्रकाशन्ते । एतेन परोक्तं निरस्तम्। यथाऽऽहुः-
अङ्‌गुल्यग्रं यथाऽऽत्मानं नात्मना स्प्रष्टुमर्हति ।
स्वंशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ।।
इति । तत्र किं कर्मकर्तृभावविरोधोऽभिमतः, अथार्थप्रकाशकस्य स्वप्रकाशकत्वविरोधो वा । न प्रथमः अनभ्युपगमात् । न हि वयं ज्ञानस्यस्वपेक्षया कर्मकर्तृभावमम्युपगच्छामः । न द्वितीयः, प्रतीतिबललब्धत्वात्। अत एव ज्ञानस्य तदभिमतं नित्यानुमेयत्वमप्यपास्तम् । तदनुमापकं च नार्थमात्रं, तस्य तदविनाभावनियमाभावात्। नापि तज्जन्यो विषयगतो ज्ञातताप्राकट्यापरपर्यायोऽतिशयः, तत्र प्रमाणाभावात् । ज्ञातो घटइति व्यपदेशस्तु ज्ञानसंबन्धमात्रेणाप्युपपन्नः । एतेन सुखादिवन्मानसप्रत्यक्षगम्यं ज्ञानमित्यपि निरस्तं मतम् । तस्मात्स्वयंप्रकाशा सर्वा प्रतीतिरात्मस्वांशयोर्नियमेनानुभवाकारा साक्षात्कारवती प्रमाणं चेति प्रतीतिबलादेवाश्रयणीयम् । वेद्यांश एव
स्मृतित्वमनुभूतित्वं प्रत्यक्षत्वं परोक्षत्वं प्रमाणत्वमप्रमाणत्वं च व्यवस्थितम् । तथाहि- यत्र यो वेद्यांशस्तदित्युल्लिख्यते तत्र तस्यांशस्य संस्कारजत्वं स्मृतित्वं परोक्षत्वमप्रमाणत्वं च भवति । संस्कारजत्वं तु तदंशस्यैव युक्तम् । प्रत्यभिज्ञायां तथा दर्शनात् । स्मृतिप्रमोषस्वप्नयोस्तु तदित्युल्लेखविरहेऽपि संस्कारजत्वमिन्द्रियसंप्रयोगाभावात्परिशेषसिद्दमधस्तादुक्तम् । यथाऽन्यथाख्यातिवादिनः त्वन्मते सामग्र्यैक्येऽप्येकस्मित्रजतांशस्य दोषजत्वं मिथ्यात्वं च इदमंशस्य तु सत्यत्वमदोपजत्वम्, तस्यापि तथात्वैऽशान्तरस्येव बाधप्रसङ्गात् , तथाऽत्रापि कारणभेदेन अंशेषु धर्मव्यवस्था स्यात्। तथाहि- यत्र तु वेद्यांशे इदमित्युल्लिख्यते तत्रेन्द्रियसन्निकर्षजत्वेन प्रत्यक्षत्वं, यत्र तु न तथोल्लेखः तत्र तु लिङ्गशब्दजन्यत्वेन परोक्षत्वमनुभूतित्वम् । यत्र तु तदित्युल्लेखः तत्र तु केवलसंस्कारजत्वेन स्मृतित्वमिति सर्वमुपपन्नम् । सर्वत्र कार्यानुरोधेन कारणकल्पना, न तु वैपरीत्येन । अतस्सामग्र्यैक्येऽपि कार्यवैलक्षण्येऽवान्तरकारणवैलक्षण्यमेषितव्यम्। तत्सिद्धमनुभूतिः प्रमाणं, स्मृतिव्यतिरिक्ता च संविदनुभूतिः । स्मृतिश्च संस्कारमात्रजं ज्ञानमिति। लक्षणान्तराण्यपि प्रकरणपञ्चिकायामुपन्यस्य निरस्तानि । नास्माकं तत्रात्यन्ताभियोगः, वेदार्यविचारमात्रप्रवृत्तत्वात् ।
तच्च पञ्चविधं, प्रत्यक्षानुमानोपमानार्थापत्तिशब्दभेदात् ।।
तत्र साक्षात्प्रतीतिः प्रत्यक्षम् । साक्षात्त्वं चापरोक्ष्यं विशदावभास इति। तच्च सर्वसंवित्तीनामात्मास्वात्मांशयोः ऐन्दियकज्ञानेषु त्वंशत्रयानुगतस्साक्षाद्‌व्यवहारहेतुः पारोक्ष्यविलक्षणः स्वानुभवसिद्धो धर्मविशेषः। इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमिति तु न लक्षणं, स्मृतेरात्मास्वंशयोख्याप्तेः। स्मृतावप्यंशद्वयपैन्द्रियकज्ञान इव साक्षादवभासते । अतस्साक्षाद्‌व्यवहारहेतुर्द्धर्म इत्येव लक्षणम् ।।
ननु स धर्मः कीदृशः ? न तावदापरोक्ष्यम् । तस्यैव
विचारविषयत्वेनाद्यप्यसिद्धेः । नापीन्द्रियजत्वं पूर्वोक्तदोषानतिवृत्तेः । नापि स्मृतिलैङ्गिगकज्ञानातिरेकः, तेष्वप्यात्मस्वात्मांशयोस्साक्षात्त्वात् ।। उच्यते- ' इत्यंशत्रये प्रत्येकं तात्कालिकव्यवहारहेतुः धर्मविशेषः । न ह्यनुमानादिषु वेद्यांशे तात्कालिको व्यवहारो दृश्यते । तेषामतीतानागतविषयत्वस्यासंभावात्। लोकप्रसिद्धपरोक्षापरोक्षव्यवहारनियामको धर्मस्त्वयाऽप्यङ्गीकार्यः । न हि नियामकमन्तरेण नियतव्यवहारस्संभवति । तर्ह्यङ्गीकुर्मस्तादृशं धर्मम् । स च ज्ञानावान्तरजातिभेद एव । मैवम् । न हि गुणेषु जातिस्संभवति। तत्संभवं प्रमेयवर्गे निराकरिष्यामः । संभवेद्वा । तथापि तदभिव्यञ्जकं किम् ? परीक्षकप्रसिद्धा जातयः स्वप्रतीतौ व्यञ्जकसापेक्षा इति हि भवतां राद्धान्तः। इन्द्रियजन्यत्वमिति चेत् ? न, त्वदभिमत ईश्वरज्ञानेऽव्याप्तेः । इदमिति व्यवहारानुगुणत्वमिति चेत् (न)। अतीतानागतविषये तस्मिन् योगिज्ञाने चातिव्याप्तेः । अतोऽस्मदुक्तैव रीतिर्भवतां शरणम् ।
तत्र वेद्यांशगोचरं प्रत्यक्षं द्विविधं, निर्विकल्पकसविकल्पकभेदात् । तत्राद्यं स्वरूपविषयम् । तथाहि- इन्द्रियसंप्रयोगानन्तरं प्रथमं द्रव्यगुणजातिषु स्वरुपमात्रज्ञानं जायते । तस्य च न द्रव्यमात्रं विषयः, जातिगुणयोरप्यवभासात् । अतो योग्यं सर्वमपीति निर्विकल्पकं स्वरुपविषयम् । इतरत्तु विशिष्टविषयम् । तथाहि-
निर्विकल्पकदशायां वरत्वन्तरानुसन्धानशून्यतया जातेरनुवृत्तिर्व्यावृत्तिश्च न प्रतीयते । सविकल्पकदशायां तु तदनुसन्धाने पूर्वाकारावमर्शेन जातेरनुवृत्तिप्रतीतिः। अयं घटः अयमपि घटः न तु पटः इति विशिष्टप्रतीतिसंभवः । तथा गुणप्रतीतावपि । पूर्वं द्रव्यगुणयोरन्योन्यं व्यावर्त्यवयावर्तकभेदो न प्रतीयते । सविकल्पकदशायां तु गुणस्य गुणिना सह अन्वय इतरेम्यो व्यतिरेकश्च पश्चादेव प्रतीयते । शुक्लो घटः न कृष्ण इति विशिष्टप्रतीतिसंभव इति सविकल्पकं विशिष्टविषयं कर्म न
निर्विकल्पकगोचरः, तस्य नित्यानुमेयत्वात् । संयोगविभागपरम्परया हि गतिरनुमीयते। अनुमिते तस्मिन् पश्चाद्विशिष्टप्रतीतिसंभवः । देवदत्तो गच्छतीति नामकल्पनायामपि वाच्यदर्शनात् स्मर्यमाणशब्दो विशेषणम् । न हि प्रत्यक्षोपात्तमेव विशेषणमिति नियमः । प्रमाणान्तरोपात्तस्यापि तत्संभवात् । अतो नामकर्मणी स्वयमप्रत्यक्षे अपि प्रमाणान्तरोपात्ते सती विशिष्टज्ञानहेतुतां भजेते इति द्विविधं प्रत्यक्षम् ।।
प्रमाणफलविभागस्तु- यदा प्रमितिः प्रमाणमिति भावसाधनः प्रमाणशब्दः तदा साक्षात्कारि प्रमाणम् । तदनन्तरं जायमाना हानोपादानापेक्षाबुद्धयः फलम्। यदा प्रमीयतेऽनेनेति करणसाधनः तदा अपेक्षितं करणं मनइन्द्रियं तदर्थसन्निकर्षो वा सर्वत्र ज्ञानमेव फलम् । तदुद्देशेनैव करणप्रवृत्तेः। भावसाधनपक्षेऽपि यद्यपि हानादिवुध्द्यपेक्षया प्रमा स्वयं करणमेव, तथपि ज्ञानाज्ञानविभागाभिप्रायेण पक्षद्वयविभागोऽवगन्तव्यः ।।
________ ।। अथानुमानम् ।।
एकाश्रयाश्रितयोरेकदेशयोः ज्ञातसंबन्धनियमेनैकदेशेन सन्दिग्धस्यैकदेशान्तरस्य परिज्ञानमनुमानम् । तदुक्तम्-
ज्ञातसंबन्धनियमस्यैकदेशस्य दर्शनात् ।
एकदेशान्तरे बुद्धिरनुमानमबाधिते ।।
इति ।। अत्रैकदेशशब्देनाश्रिताभिधानम् । आश्रयशब्देन पक्षस्य। उदाहरणं तु महानसादौ ज्ञाताग्निसंबन्धनियमस्य धूमस्य पर्वतोपरि दर्शनात्तद्गतवह्रिज्ञानम् । किं पुनस्संबन्धनियमे प्रमाणम् ? न तावत्प्रत्यक्षं तस्य सन्निहितदेशवर्तमानकालवस्तुविषयत्वनियमात् । नापि मानसं प्रत्यक्षं, तस्य वहिरस्वतन्त्रत्वात् । भूयोदर्शनसंस्कारसचिवमपि न समर्थं, संस्कारस्य
स्मृतिमात्रहेतुत्वात् । उच्यते-
धूमाग्नयोस्संयोगस्तावत्प्रत्यक्षेण प्रकाशते । सोऽपि द्रव्यविशेषणत्वेन, गुणानां द्रव्यपरतन्त्रस्वभावत्वात् । धूमवह्नी तु विशेष्यतया देशकालावपि संयोगवद्द्व्यविशेषणतयैव, न पुनस्संयोगविशेषणतया । तथाहि- संयुक्ताविमाविति हि प्रतीतिः, न पुनरयमनयोस्संयोग इति। सन्निहितदेशवर्तमानकालता हीदन्ता । सा च द्रव्यपरतन्त्रा । ततश्चात्र प्रथमं महानसादावग्रेर्धूमेन सह संयोगो देशकालानवच्छिन्न एव प्रतीयते। स तस्मात्स्वाभाविकः । ततश्चाग्रेर्थूमेन सह संबन्धो धूममात्रानुबन्धीति विज्ञांयते । तथा च देशान्तरे कालान्तरे वा धूमसत्तैव प्रमाणमपेक्षते । न तु तस्यां सत्यामग्रिसंयोगस्य, तन्मात्रानुबन्धित्वेन पूर्वमेवावगमात् । अत एव संबन्धनियमावसायसमय एव यावद्धूमाविनाभावितयाऽग्नयादिसंबन्धस्यावगमात् गृहीतग्राहित्वेऽप्यनुमानस्यानुभूतित्वेन धारावाहिकवत्प्रामाण्यं नानुपपन्नम् । अतः प्राथमिकं प्रत्यक्षमेव धूमाग्नयोस्संबन्धनियमे प्रमाणम् । भूयोदर्शनेन पश्चात्तस्य निरुपाधिकत्वनिश्चयः, यत्नेनान्विष्यमाणेऽप्युपाधेरदर्शनात् । अतो भूयोदर्शनमपि सप्रयोजनमिति गुरुभिरादृतम् । यत्र तु प्रथमप्रतिपन्नस्संयोगः पश्चात्कदाचिद्विहन्यते यथाग्रिना सह धूमस्य, तस्य देशकालावच्छेदः पश्चादनुप्रवेश्यत इति तस्य स्वाभाविकत्वाभावेन औपाधिकत्वम् । उपाधिश्चाद्रैन्धनसंबन्धः, तन्मात्रानुबन्धित्वाद्धूमस्य । इत्थमन्यत्रापि यत्र व्याप्यव्यापकसंबन्धो येन येन प्रमाणेन निरुपाधिकः प्रतीयते तत्रतत्र तदेव प्रमाणमिति सिद्धम् ।। तदुक्तम्-
यः कश्चिद्येन यस्येह संबन्धो निरुपाधिकः ।
प्रत्यक्षादिप्रमासिद्धस्स तस्य गमको मतः ।।
इति । तत्राचार्यमतपक्षपातिनः केचिदाहुः- वह्निधूमौ संयुक्तौ संयुज्येते संयोक्ष्येते इति संयोगस्यैव भावार्थस्य कालत्रयावच्छेदः प्रतीयते । न
चावश्यमिदंशब्देनैव कालो निर्देष्टव्यः, लडादिप्रत्ययैरपि सुतरां तन्निर्देशादिति। मा भूद्वा देशकालाभ्यामवच्छेदावगमस्संयोगस्य । तथापि स्वाभाविकत्वमप्रामाणिकम्, न ह्यवच्छेदानवगतिमात्रेण तदवधारणं सिध्यति, सतोऽप्यनवगतिसंभवात्। तस्मादनिश्चिते चावच्छेदासंभवे न स्वाभाविकत्वं सिध्यति ।।
अत्रोच्यते- व्याप्तिग्राहकप्रमाणेन हि संयोगस्य कालावच्छेदो न प्रतीयत इति वदामः, न त्वनुशासनसिद्धलडादिमुखेन संयोगस्य कालावच्छेदं निवारयामः, तस्य तु व्याप्तिप्रतीतावनुपयोगात् । तद्ग्राहकप्रमाणमुखेनैव तदवच्छेदस्य तद्ग्रहणोपयोगात् । नाप्यवच्छेदानवगतिमात्रेण स्वाभविकत्वं ब्रूमः । भूयोदर्शनस्यापि सहायत्वात् । तेन हि निरुपाधिकत्वनिर्णये स्वाभाविकत्वं परिशेषात्सुस्थम् ।
किं च संयोगादयो हि वस्तुतो द्रव्यपरतन्त्रस्वभावाः, द्रव्यं तु स्वतन्त्रम्। अतस्यैवावच्छेद्यत्वमौत्सर्गिकम् । यत्र त्वविवादस्संभवति तत्र विशेषणभूतस्संयोगादिरपि कालेनावच्छिद्यते । यथा वह्‌नेर्धूमसंबन्धः । अत एव तस्यौपाधिकत्वमिति ।।
तच्चानुमानं स्वार्थपरार्थभेदेन द्विविधम् । स्वयमनुसंहितया सामग्र्या अनुमानोत्पत्तिः स्वार्थम् । परप्रयुक्तवाक्योद्बोधितया तु परार्थम् ।।
तच्च वाक्यं ञ्यवयवम् । ते च प्रतिज्ञाहेतूदाहरणानि। तत्र प्रतिज्ञातु प्रथमं प्रयोगार्हा । हेतूदाहरमयोस्तु न प्रयोगक्रमनियमः। एकदेशदर्शनपूर्वकमपि सबंन्धनियमस्मरणं सामग्र्युद्बोधकम् । तथा संबन्धनियमस्मरणपूर्वकमप्येकदेशदर्शनम् । हेतूपनययोस्त्वन्यतरप्रयोगेणापि साध्यसिद्धेरुभयोपादानं व्यर्थमिति मीमांसकाः। निगमनमप्यनर्थकमेव, यथोदितहेतुबललब्धत्वात्साध्यस्य। तथा वैधर्म्यदृष्टान्तोऽपि नानुमानाङ्‌गम्। साध्यधर्मसंबन्धनियमबलेन हेतोर्गमकत्वम् । तच्च साधर्म्यदृष्टान्तेनैव समर्थितम्, कृतं
वैधर्म्यदृष्टान्तेन । अत एव तत्रप्रतिपादनपरं कैश्चित्प्रयुज्यमानं वैधर्म्योदाहरणवाक्यमपि व्यर्थमेव । तर्हि विकल्पस्स्यादिति चेन्न, अतुल्योपायत्वात् । एकस्यऋजुत्वात्, इतरस्य वक्रत्वात् । तुल्यप्रकारयोरेव हि विकल्पः । अत एव केवलव्यतिरेक्यनुमानं केचिन्मीमांसका न सहन्ते । साध्यसाधनसंबन्धस्यान्वयदृष्टान्ते प्रसिद्धत्वात्, तस्य चात्राभावात् ।।
प्रमाणफलविभागस्तु प्रत्यक्षवत्कर्तव्यः । यदा अनुमितिरनुमानमिति व्युत्पत्त्या साध्यज्ञानं प्रमाणं, तदा तदनन्तरभाविनी हानादिबुद्धिः फलम् । यदा त्वनुमीयतेऽनेनेत्यनुमानमिति करणाश्रयः तदानीं न ज्ञानादीनां करणत्वं, वैवक्षिकत्वात्करणभावस्य । सर्वत्र लैङ्गिकविषया प्रतीतिरेव फलम् । तत्र लौकिकवचसामनुमानवेषेण प्रामाण्यं शब्दप्रमाणावसरे वक्ष्यामः । अतस्सर्वं प्रकरणपञ्चिकायां प्रमाणपारायणे अनुमानपरिच्छेदे बहुशो वर्णितम्। प्रतितन्त्रसिद्धान्तमात्रप्रवृत्तत्वान्नास्माकं प्रपञ्चाधिकारः ।।
।। अथोपमानम् ।।
सदृशदर्शनात्तत्सदृशवस्त्वन्तरगतसादृश्यज्ञानमुपमानम् । यथा पूर्वदृष्टगोः पुरुषस्य वने गवयं तत्सदृशं पश्यतो यद्गोगतगवयप्रतियोगिकसादृश्यज्ञानं अनेन सदृशी मदीया गौरिति तदुपमानम् । नेदं प्रत्यक्षं, चक्षुस्सन्निकर्षातिवर्तिन्यां गवि जायमान त्वात् । न स्मृतिः, पूर्वमेतादृशाननुभवात्, तत्पूर्वकत्वात्स्मृतेः । गोमात्रज्ञानं तु स्मृतिरेव । नाप्यनुमानम्, व्याप्तितत्प्रतिसन्धानपूर्वकत्वाभावात्। सदृशदर्शनादित्यनेनैन्द्रियकसादृश्यज्ञानस्योपमानत्वनिरासः । अवशिष्टेन च सादृश्यदर्शनानुबन्धिनः भूयोवयवसामान्यज्ञानादेः सादृश्यस्य च पृथक्तत्वान्तरत्वं प्रमेयनिरुपणावसरे भविप्यति ।।

।। अथार्थापत्तिः ।।
अर्थान्तरकल्पनायामसत्यां योऽर्थान्तरमनुपपन्नं कुरुते तत्रार्थापत्तिः प्रवर्तते। यथा ' जीवन् देवदत्तो गृहे नास्ति ' इत्यत्र गृहाभावे दृष्टे श्रुते वातत्रासति वहिर्भावकल्पने गृहाभावो जीवनमनुपपन्नं कुर्वन् बहिर्भावं कल्पयति । अनुपपत्तिश्चात्र संदेहः । तथाहि- अकल्पिते वहिर्भावे गृहाभावे च निर्णीते ' जीवति वा न वा ' इति संदेह एव भवति। कल्पिते तु तस्मिन् स प्रशाम्यति। अर्थसंदेहापादकोऽर्थः प्रमाणम् । वहिर्भावकल्पना प्रमा । कल्प्यमानोऽर्थः प्रमेयम्। यद्वा प्रमितिः प्रमाणमिति व्युत्पत्त्या कल्पना प्रमाणम् । तदनन्तरभावि विशिष्टज्ञानं फलमिति ।।
ननु गृहाभावदर्शनाद्बहिर्भावकल्पनमनुमानमेव । तथाहि-देवदत्तो बहिरस्ति गृहे अविद्यमानत्वे सति जीवनवत्त्वात्, यो जीवंस्तत्र नास्ति स ततोऽन्यत्रास्ति, यथाहम्, इति चेत् ? मैवं- जीवनांशे संदिग्धासंदिग्धत्वात् । ननु जीवनं प्रमाणान्तरप्रतिपन्नं कथं संदिग्धम् ? सत्यं प्रमिते हि वस्तुनि पूर्वप्रतिपन्नरूपाद्रूपान्तरप्राप्तौ संदेहो भवत्येव । पूर्वं हि जीवनं गृहसंबद्धमेव प्रमितम् । संप्रति तत्संबन्धे निवृत्ते बहिर्देशसंबन्धे चाकल्पिते जीवने संदेहो भवत्येव । ' पूर्वं जीवन् देवदत्तो गृह एव दृष्टः । इदानीं स गृहे नास्ति जीवति वा न वा ' इति। तर्हि बहिर्देशसंबन्धकल्पनादसदिग्धं जीवनं लिंगमिति चेत् (एवं चेत्) अनुमेयाभावः। बहिर्देशसंबन्ध एव अनुमित्सितः। स तु निर्णोतश्चेदनुमेयं नावशिष्यते। केवलगृहाभावोऽपि न लिङ्गं, मृतजनिष्यमाणयोर्व्यभिचारात् । अतोऽत्र नानुमानावकाशः । अतससंदेहापादकोऽर्थोऽर्थापत्तिरिति स्थितम् । न हि धूमादिकं कस्यचिदर्थस्य संशयापादनद्वारेण लिङ्गमिति ततो वैषम्यम्। तथा पीनो देवदत्तो दिवा न भुङ्‌क्त इत्यत्राकल्पिते रात्रिभोजने पीनता रात्रिभोजने प्रमाणम् ।। तदुक्तम्-
तत्संदेहव्युदासाय कल्पना या प्रवर्तते ।
संदेहापादकादर्थादर्थापत्तिरसौ स्मृता ।।
इति। अन्ये पुनरेवं मेनिरे- यस्मिन्नकल्पिते योऽर्थः प्रतीतोऽपि पूर्वपरिदृष्टस्वरूपपरिवृत्त्या संशयरुपामनुपपत्तिं भजते सोऽर्थः स्वगतसंदेहव्युदासाय अर्थान्तरकल्पनायां प्रमाणम् । यथा पूर्वोक्तं जीवनसामान्यं भोजनमात्रं च। धूमाद्यनुमानं नैतादृशं, एकत्रानिश्चितकरणमपरत्र संदिग्धमिति ततो वैषम्यम् ।। तदुक्तम्-
यत्कल्पनां विना योऽर्थः प्रतीतोऽप्येति संशयम् ।
तेन तत्कल्पनामेके त्वर्थापत्तिं प्रचक्षते ।।
इति ।। केचित्तु गृहाभाव एवान्यथाऽनुपपद्यमानस्सन्वहिर्भावकल्पनायां प्रमाणमित्याहुः । तदयुक्तम् । तत्र गृहाभावस्य काऽनुपपत्तिः ? असति बहिस्सत्त्वे स्वस्याभाव इति चेत्, तर्हि साध्याभावे हेत्वभावरिपोव्यतिरेक एव । स च हेतुसद्भावे साध्यसद्भावलक्षणेनान्वयेनावगम्यत इत्यन्वयव्यतिरेकमुखेन प्रवर्तमानत्वादिदमनुमानमेवेति नार्थापत्तेः पृथक्प्रामाण्यसंभवः । अतस्संदेहापादकोऽर्थस्तेनापादितसंदेहोऽर्थो वाऽर्थापत्तिरिति स्थितम् ।।
अत्र केचित्- यत्रार्थानुपपत्तिः प्रमाणान्तरप्रतिपन्ना तत्रार्थान्तरमेव कल्प्यमिति सा दृष्टार्थापत्तिः । यत्र तु वाक्यप्रतिपन्ना ' पीनो देवदत्तो दिवा न भुङ्‌क्ते 'इति तत्र ' रात्रौ भुङ्‌क्ते ' इति वाक्यमेव कल्प्यम् । ' शाब्दी ह्याकाङ्क्षा शब्देनैव परिपूर्यते ' इति न्यायात् । अतस्सा श्रुतार्थापत्तिरिति अर्थापत्तिद्वैविध्यमाहुः। तदयुक्तम्। अत्राप्यर्थस्यैव कल्पयितुमुचितत्वात् । यस्मिन्नकल्पितेऽनुपपत्तिः कल्पिते तु तच्छान्तिः अतः तदेव कल्प्यं अन्यथा ह्यव्युत्पन्नपदवाक्यप्रयोगे तु तच्छान्तिरिति तदेव कल्प्यमिति। तर्हि पदार्थज्ञानादेव तच्छान्तिरिति अर्थपरिकल्पनमेवोचतम्। उभयपरिकल्पने गौरवं च । दृष्टार्थापत्तावर्थस्यैव कल्प्यत्वं दृष्टमिति तदेवात्रापि कल्प्यताम् । शाब्दी ह्याकाङ्क्षा कल्पितार्थान्वयेनापि शाम्यति, तस्यैवाकांङ्क्षितत्वात् । अत एव ' द्वारम् ' इत्यादौ अध्याहारस्थले बुद्धिस्तेनैव
संवरणादिनाऽन्वितामिधानं न तु ' संव्रियताम् ' इत्यध्याहृतेन, शब्देन बुद्धिसन्निहितेनाप्यन्वितामिधानोपपत्तेः। जिज्ञासावशेन क्कचित्परं प्रति शब्दप्रयोगसंभवः, न तु नियमेन ।।
नन्वर्थकल्पनाय प्रवृत्तार्थापत्तिः तस्यार्थस्य सविकल्पकज्ञानविषयत्वात्। तेषां च शब्दपुरस्सरत्वात्तद्वाचकशब्दपर्यन्तं व्याप्रियत इति चेन्न । सर्वत्र सविकल्पकप्रत्यक्षे स्वार्थानुमाने च तदभावात् । न हि ते शब्दपर्यन्तं व्याप्रियेते, वधिरमूकतिरश्चां तदसंभावात् । किंत्वर्थमात्रे । किं च सर्वत्र सविकल्पकज्ञानेषु हि स शब्दश्रवणविपरिवर्तो, न तु प्रमेयम्। अर्थदर्शनाद्धि वाचकशब्दस्स्मर्यत इति विचारासहमेतत् । शब्दं तु प्रमाणं स्वावसरे निरुपयिष्यामः । तस्मादर्थापत्त्या सह पञ्च प्रमाणानि । एतत्सर्वं प्रमाणपारायणे प्रपञ्चितम् । वेदार्थविचारानुपयोगान्नास्माकं तत्रातिनिर्बन्धः ।।
।। अभावप्रमाणनिरासः ।।
अभावाख्यं षष्ठे प्रमाणमभावग्रहणाय कैश्चिदङ्‌गीक्रियते । अभावस्य भावविलक्षणतया भावरुपप्रमाणेन तद्ग्रहणाशक्तेः पञ्चप्रमाणानुत्पत्तिरुपमभावरुपं प्रमाणमेषितव्यमिति । तदयुक्तं, प्रमेयाभावात् । ननु कथं तदभावः ? ' इह भूतले घटो नास्ति ' इति तावदस्ति प्रतीतिः । सा किं भूतलस्वरूपविषया, अथ केवलं तद्विषया ? नाद्यः, घटवत्यपि प्रसङ्‌गात् । न द्वितीयः, पूर्वोक्तदोषानतिवृत्तेः। द्वितीये त्वभावाङ्‌गीकारः । किं च कण्टकादिविरहिणि भूतलादौ निश्शङ्‌कः पदन्यासादिव्यवहारस्तावत्किं भूतलमात्रपरिच्छेदनिबन्धनः ? अथ केवलभूतलपरिच्छेदः । तथा च सूक्ष्मकण्टकादिष्वनवगतेष्वपि निश्शङ्‌कव्यवहारः स्यात् । प्रयत्नपूर्विका तज्जिज्ञासा च निह्‌नुता स्यात् । द्वितीये त्वभावाख्यं प्रमेयमङ्गीकृतं स्यात् । तदानीं हि तत्परिच्छेदनिबन्धनो व्यवहारो युक्तः। प्रतियोगिपरामर्शर्थं जिज्ञासा च। किं चाभावानङ्गीकारे नास्तिशब्दो निरर्थकः स्यात्।
शशादीनां शृङ्गानुमानं स्यात् । इदं रजतमित्यस्य बाधश्च न स्यात् । तदङ्‌गीकारे तु सार्थकः । वाधितविषयत्वं चानुमानस्य युक्तम् । बाधश्च युक्तः । तस्मादस्ति भावविलक्षणं तत्वान्तरमिति ।।
इदमिदानीं विचारयामः- किं तद्भावप्रमाणबोध्यं, उताभावबोध्यमिति ? तत्र न तावत्प्रत्यक्षबोध्यं इन्द्रियव्यापारोपरमेऽप्यवगतेः । कथमयं निर्णयः ? अभावस्तावत्कुत्रचित्कस्यचित्प्रत्येतव्यः इह तन्नेति । ततश्च यत्र प्रत्येतव्यः तद्‌ग्रहण एवेन्द्रियमुपरमते । नाभावग्रहणे, तेन सह संबन्धाभावात् । तस्मादभावप्रमाणगोचरोभावः । कथमयं विभागोऽवसितः ? उच्यते- गृहादिस्वरुपमनुभूय देशान्तरगतः पुरुषः वस्त्वन्तराभावप्रश्ने सति भावान्तरं जिज्ञासमानस्य प्रष्टुस्तथैव नास्तीत्युत्तरं प्रतिपद्यते ।। तदुक्तम्-
स्वरूपमात्रं द्रष्टा च पश्चात्किंचित्समरन्नपि ।
तत्रास्य नास्तितां पृष्टः तथैव प्रतिपद्यते ।।
इति ।। न च तत्रेन्द्रियव्यापारस्समस्ति, देशविप्रकर्षात्। तस्मादभावप्रतीतिर्नैन्द्रियिकी । तेन प्रत्यक्षोऽभावो न शक्यो वक्तुम् । तत्र पूर्वमेवाभावो गृहीतः पश्चाद्बुद्धिस्थ इति च न वक्तुं शक्यते, प्रतियोगिनस्तदानीं बुद्धावनारोहात् । न च निर्विकल्पकेन पूर्वमनुभूतः पश्चात्सविकल्पकेन स्मर्यत इति वाच्यम् । नियमेन प्रतियोगिसम्मितवेषस्याभावस्य सर्वदा निर्विकल्पकागोचरत्वात् । तत्संभवे वा स्मृतिरपि ताद्शी स्यात्, यथानुभवं स्मृतेः ।।
नाप्यनुमानं लिङ्गाभावात् । न ह्यत्र अभावव्याप्तं लिङ्गमुपलभ्यते। उपपानार्थापत्त्योरनवसर एव। तस्मात्तत्रतत्र भावप्रमाणपञ्चकानुत्पत्तिरेवाभावावगमे प्रमाणम्।।
ननु प्रमाणानुत्पत्तिर्लिङ्गतया प्रमाणं स्यात् ? न । उभयोरप्यभावात्मकत्वेन भावग्राहकप्रमाणेन तयोर्व्याप्तिग्रहासंभवात् । तस्मादभावाख्यं प्रमाणं स्वमहिम्नैव
स्वविषयमुपस्थापयति ।।
केचित्तु दृश्याभावस्थले दृश्यानुपलब्धिः प्रमाणम् । अन्यत्र तु भावरुपमभावरुपं यथायोग्यं प्रमाणं स्यदित्याहुः । तस्मात्प्रमेयसद्भावादभावाख्यं प्रमाणमङ्गीकर्तव्यमिति ।।
अत्रोच्यते- द्विविधा तावद्भूतलादीनामवगतिः, एका संसृष्टविषया, अपरा तदेकविषया । साऽपि द्विधा-प्रतियोगिन्यदृश्ये दृश्ये च । तत्र दृश्ये प्रतियोगिनि या तदेकविषया बुद्धिस्सैव तस्य प्रतियोगिनोऽभाव इत्युच्यते । न हि तदेकविषयबुद्धिमात्रमभावः, विशेषानवगमात्, किन्तु दृश्ये प्रतियोगिनि । ततश्च यस्मिन् प्रतियोगिनि दृश्ये या तदेकविषया बुद्धिः सा तदभाव इति विशेषव्यपदेशलाभः । तेनेह भूतले घटो नास्तीत्युक्ते घटे दृश्ये भूतलमात्रं नाबोधीत्युक्तं भवति ।।
ननु किमिदं प्रतियोगिनि दृश्यत्वं नाम ? अन्यत्र प्रमितस्य अन्यत्र प्रसक्तिरितित्वन्मतस्थितिः । अन्यथा अप्रसक्तप्रतिषेधापातात् । सैवास्तु दृश्यता। अस्माकं तु ज्ञानविशेषः । योऽप्यभावाख्यं तत्वमङ्‌गीकुरुते । तेनापि तदेकविषयां बुद्धिमङ्‌गीकृत्यैवाभावप्रतीतिरिष्यते, अधिकरणप्रतीतेः । प्रतियोगिप्रसक्तेश्च तत्प्रतीतिकारणत्वात् । तत्र कीदृशस्याधिकरणस्य प्रतीतिस्तत्कारणमिति चिन्तनीयम् । किं सद्वितीयस्य, अथाभावविशिष्टस्य, अथानपेस्यैकाकिन, इति ? नाद्यः, घटघटितेऽप्यधिकरणे प्रतीते तदभावप्रतिप्रसङ्‌गात् । न द्वितीयः, आत्माश्रयात्। अभावं हि प्रतीत्य तद्विशिष्टमधिकरणं बुद्ध्वा पश्चात्स एवाभावः प्रतिपत्तव्य इत्यभावावगतिरेवाभावावगमकारणं यतः, अतोऽप्रतीतेऽप्यभावे स्वरूपमात्रप्रतीतिरङ्‌गीकार्येति । तृतीयः पक्षः परिशिष्यते -तावतैवाभावव्यवहारोपपत्तौ किमतिरिक्ततत्वान्तराभ्युपगमेन ? नीलपीतादिवत्तादृशतत्वान्तरानुपलम्भात् । ' वायुपरमाणवो नीलरूपाः,
सलिलपरमाणवोगन्धशून्याः, इत्यादिष्वनुमानात्मिका तदेकविषया बुद्धिः । अयं भावः- चतुर्विधेष्वभावेषु यस्य यस्याभावस्य यद्यदधिकरणं त्वन्मते दृश्ये प्रतियोगिनि तत्तदधिकरणमात्रगोचरा बुद्धिरेवास्माकमभाव इति । नास्तिशब्दश्च तादृशाधिकरणमात्रवाचकः । नञ्‌शब्दश्च स्वरुपमात्रपर इति हि प्राभाकराः। निश्शङ्‌कपदन्यासादिव्यवहारोऽपि तदेकविषयबुद्धिमात्रनिमित्तकः । जिज्ञासाऽपि दृश्यत्वापत्तये युक्तैव । तथा प्रत्यक्षबाधो लिङ्‌गबाधश्च तदेकविषयबुद्धिमात्रनिमित्तको व्यवहारबाधमात्रनिमित्तको वा । शुक्तिकायां रजतव्यवहारो लिङ्गाभासे लिङ्‌गव्यवहारश्च बाध्यते । न हि ज्ञानं बाध्यते । किन्तु व्यवहार एवेति प्राभाकराः ।।
ननु यद्यभावोऽपरो नास्ति तर्हि यत्र प्राक्संसर्गबुद्धिरासीत् तत्र कथं तदेकविषया बुद्धिराविर्भवति । त्वन्मते वा कथं तत्राभावप्रतीतिः ? मुद्ग्रराभिघातादिवशादिति चेत्, तत एवास्माकमपि तदेकविषया बुद्धिर्जन्यते।एतेन देशान्तरं नीतस्य घटस्य तत्र स्थितिरेव तदेकविषयबुद्धिनिमित्तमिति व्याख्यातम् ।
ननु यद्यभावोऽपरो नास्ति तर्हि मुद्ग्रराभिघातादिना कपालमालोत्पत्तौ यत्र तदेकविषया बुद्धिस्तत्र पश्चात्संसृष्टविषयाऽपि न स्यात् । त्वन्मते वा किमिति न स्यात् ? तत्र भावविनाशादिति चेत्, अस्माकमपि तथा स्यात् । तर्ह्यभावाङ्‌गीकार इति चेत्, वयमपि विनाशमङ्‌गीकुर्मः, न तु भावान्तरोदय एव । भाव एव त्वेकाकी सद्वितीयश्चेति द्वयीमवस्थां लभते। तत्रैकाकी भावोदय एव विनाशशब्दवाच्यः। त्वन्मतेऽपि ताद्दश्यवस्थाऽवश्याङ्‌गीकार्येत्यधस्तादुक्तम् । एवं निरन्वयविनाशिष्वपि बुद्धिप्रभृतिषु धर्मिणः स्वरूपावस्थानमेव भावान्तरोदयोऽवगन्तव्यः ।
किंच प्रमाणान्तरवादिनोऽप्यनुपलब्धिलक्षणा प्रमाणानुत्पत्तिर्न सत्तयाऽभावबोधिका, स्वापादौ सर्वाभावप्रतीतिप्रसङ्गात् । किंच कस्यचिद्वस्तुनः कुत्रचित्पूर्वमदृष्टस्य पूनस्तस्मिन्नेव देशे दृश्यमानस्य
दर्शनसमानकालीनोऽभावोऽवसीयते इदमिह पूर्वं नासीदिति । ततश्च तस्यं दर्शनाद्दर्शनाभावो निवृत्त इति प्राक्कालीन एवं दर्शनाभावोऽनुसन्धीयमानोऽभावप्रतीतिकारणमिति वक्तव्यम् । ततश्च विदितैवानुपलब्धिरभावप्रतीतिकारणमिति वक्तव्यम् । तथा चानुपलब्धेरप्यभावरुपतया तद्भानमप्यनुपलम्यमित्यनवस्था । तदेकविषया बुद्धिश्चेत्स्वयं प्रकाशतया न प्रमाणान्तरापेक्षणी । तस्मात्प्रमाणानवक्लृप्तिरपि न। तन्महिम्ना प्रमेयावक्लृप्तिरिति पञ्चैव प्रमाणानीति सिद्भम् । शाब्दं स्वावसरे वक्ष्यामः। एतत्सर्वममृतकलायां शालिकानाथेन समर्थितम् ।।
इति श्रीमद्रामानुजाचार्यविरचिते तन्त्ररहस्ये
प्रमाणपरिच्छेदः प्रथमः ।।

।। अथ प्रमेयपरिच्छेदः ।।
।। अथ प्रमेयवर्गो निरुप्यते ।।
तत्र चाभ्युपगमसिद्धान्तन्यायेन कणादतन्त्रसिद्ध एव प्रमेयवर्गोऽङ्‌गीक्रियते, तस्य तत्प्रतिपादनार्थं प्रवृत्तत्वात् । न तु पृथगत्र व्युत्पाद्यते । तत्राप्यनभिमतांशो निराक्रियते । विशेषांशस्तु व्युत्पाद्यते । तथाहि-
द्रव्यगुणकर्मसामान्यसमवायशक्तिसंख्यासादृश्यान्यष्टौ पदार्थाः ।।
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नव ।।
तत्र वायुः प्रत्यक्ष एव, न तु तद्ग्रतस्पर्श एव प्रत्यक्षः, शीतोष्णस्पर्शभेदेऽपि ' स एव वायुः, ' इति प्रत्यभिज्ञानात् । नन्वनुष्णाशीतस्पर्शो वायुः, स कथं तद्भेदे प्रत्यभिज्ञायते (न) स्फदिकवदुपपत्तिः । यथा हि शुक्लोऽपि स्फटिकः तत्तदौपाधिकगुणसंबन्धेऽपि ' योऽयं शुक्लस्स एवायं रक्तः' इत्याश्रयांशे प्रत्यभिज्ञायते ।।
तत्र पृथिव्येव शरीरारम्भिका, नेतराणि भूतानि, तदनुपलम्भात् । इदानीन्तनस्त्रीपुंसपरमपरायाश्च तथा दर्शनात् । विपरीतमसदेव । तच्च जरायुजाण्डजस्वेदजभेदेन त्रिप्रकारमेव । उद्भिज्जं तु वृक्षादिकं न शरीरं, भोगानुपलम्भात् । तदायतनं हि तत्प्रयोजकम् । यदपि-
श्मशाने जायते वृक्षः कङ्कगृध्रोपसेवितः ।।
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।।
इति वचनं तद्विधिपरतन्त्रतया न स्वतन्त्रम्, ' यजमानः पशुः, आदित्यो यूपः' इतिवत् प्रमाणविरोधात् ।
तथा आत्मा च न मानसप्रत्यक्षः, कर्मकर्तृभावविरोधात् । ' मां जानामि ' इति व्यपदेशस्तु भाक्तः । किन्तु विषयेषु प्रकाशमानेषु ज्ञानाश्रयतया प्रकाशते। सर्वाऽपि संवित् त्रितयप्रकाशिका । अवश्यं ज्ञातुरनुभवो मेयानुभवेष्वनुवर्तते। अन्यथा स्वपरसंवेद्ययोरनतिशयः स्यात् । विषयैस्सहोपलम्भनियमश्च एवं सत्युपपन्नः । न ह्यात्मा विषयाननुविद्भोऽवभासते । विषयाश्च बोद्धर्यनवभासमाने भासन्ते । तस्मात्सैव संविद्विष्ये प्रमाणम् । सैव पुरुषं विषयीकरोतीति, तत्संवित्तिफलभागित्वेऽपि पुरुषस्य न कर्मता, कर्तृतैव। परसमवेतक्रियाफलशालि कर्मेति कर्मज्ञाः । अतो न मानसप्रत्यक्षः ।।
तमो नाम द्रव्यान्तरं न भवति । अन्धानामिव केवलं नीलिमाभिमानः। अपवारितालोकं केवलं भूभागादिकमेव छाया ।।
गुणास्तु रुपरसगन्धस्पर्शपरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहसंस्कारशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माः ।।
एतेषां नित्यानित्यविभागस्तथोत्पत्तिस्थितिविनाशप्रकारश्च कणादतन्त्रसिद्धः। वेदार्थविचारानुपयोगान्नास्माकं तत्राभिनिवेशः।।
कर्म तु नित्यानुमेयम् । संयोगविभागपरम्परया हि गतिरनुमीयते। देशाद्देशान्तरप्राप्त्या सूर्यगत्यनुमानं भाष्ये प्रपञ्चितम् । इदमेव कर्म स्वतस्साध्यतया साक्षाद्विधेयम् । सिद्धस्वभावयोस्तु द्रव्यगुणयोस्तदुपरागात् । स्वतः ' दध्ना जुहोति ' इति होमोपरक्ततयैव दधि विधीयते । तथा ' अरुणया क्रीणाति ' इत्यारुण्यमपि ।।
जातिस्तु प्रत्यक्षद्रव्यमात्रे वर्तते, नान्यत्र, अनुपलम्भात् । इत्थं हि तस्याः प्रतीतिः- प्रत्यक्षेषु घटपटादिद्रव्येषु तत्तदाश्रयग्राहकैरिन्द्रियैः संयुक्तसमवायाद्गृह्यमाणा नानाव्यक्तिषु स्वयमेकाकारतया ताम्योऽत्यन्तविलक्षणा प्रथमपिण्डग्रहणे स्वरूपमात्रेण प्रतीयमाना द्वितीयादिपिण्डग्रहणेषु सैवेयमिति पूर्वाकारावमर्शेन प्रत्यभिज्ञायमाना पामरपरीक्षकाविशेषेण प्रकाशते । तदुक्तम्-
जातिराश्रयतो भिन्ना प्रत्यक्षज्ञानगोचरा ।
पूर्वाकारावमर्शेन प्रभाकरगुरोर्मता।।
इति ।। अनुवृत्ता हि जातिः। अनुवृत्तिश्च तद्धर्मः । अतः प्रथमपिण्डग्रहणसमये पिण्डान्तरानुसन्धानशून्यतया तदनुवृत्तिर्न प्रतीयते। द्वितीयादिग्रहणेषु तु तत्संभवात्सा प्रतीयते। यत्र हि भेदमध्यवस्यत एव पुंसोऽभेदज्ञानं तत्रानुपपत्त्या जातिः कल्प्यते । जातिप्रत्यभिज्ञा च तत्रैव स्यात् । अत एवैकवर्तिकावर्तिनीषु क्षमविध्वंसिनीषु बह्वीषु ज्वालासु ज्वालात्वं न प्रत्यभिज्ञागोचरम् । तत्र शुक्तिरजतवद्भेदाग्रहेण व्यक्तिभेदानुपलम्भात् । केचित्तु जातिं व्यक्तिभ्यो भिन्नमभिन्नां चोररीचक्रु, तदनुपपन्नम्, विरोधात् । न चोपलम्भबलेन तदविरोधः, तस्यैवासंभवात् । भिन्नबुद्धिबोध्यं हि वस्तु भिन्नं, अभिन्नबुद्धिबोध्यमभिन्नमिति लौकिकाः । तत्र वस्तुद्वयप्रतीतिसमये जातिर्व्यक्तितो भिन्नाभिन्नवेषेण व्यक्तिर्वा जातितस्तथा प्रतीयेत । ततो द्विरवभासोऽयं स्यात्। नैवं दृश्यते। तस्माद्भेद एव तयोः । सत्यपि तस्मिन् ' इह कुण्डे बदरम् ' इतिवत् इह गवि गोत्वमिति नेह प्रत्ययः । सर्वं हि रुपं रुपिणमन्तरेण न प्रतीयते। तेन
समानेन्द्रियग्राह्यतया जातिरपि व्यक्तिप्रतीत्यनुप्रवेशिनी। कर्मणि त्वनुमेये व्यक्तिप्रतीत्यनुप्रवेशाभावाद्भवत्येवेह प्रत्ययः।।
केचित्तु द्रव्यादित्रिके सत्सदिति प्रत्ययानुवृत्तेः सत्ताख्यसामान्यमाहुः, तदसत् । न च नानाजातीयेषु सर्षपमहीधरादिषु रुपादिषु कर्मसु वा निर्निमेषं निरीक्षमाणस्य पूर्वाकारानुकारिणी सत्ताबुद्धिरुदेति । प्रयोगानुवृत्तिस्तु पाचकादिशब्दवत् केवलमुपाधिनिबन्धना । उपाधिश्च प्रमाणसंबन्धयोग्यत्वम्। किंचोत्तरत्रिके सच्छब्दप्रयोगः केवलमुपाधिनिबन्धन इति भवदभ्युपगमः सर्वत्र तथैव स्यात् । अनेनैव न्यायेन प्रत्यक्षाप्रत्यक्षनिष्ठा द्रव्यत्वपृथिवीत्वगुणत्वशब्दत्वकर्मत्वादयोऽपि निराकृताः। अनुगताकारापरिस्फुरणात् । प्रयोगानुवृत्तिस्त्वैपाधिकी । उपाधयश्च तत्तल्लक्षणान्येव। तानि च जातिव्यञ्जकतया त्वयाऽप्यङ्‌गीकृतानि ।।
ननु गोत्ववत्सत्ताद्रव्यत्वादीनि झडिति सर्वाविशेषेण न परिस्फुरन्ति । किन्तु शास्त्रमुखेन शिक्षितधियां व्यञ्जकानुसन्धाने सतीति चेत्, हन्त सकलजनमनोनिह्रवः, यदेकमेव वस्तु प्रतिपत्त्यव्यवस्थया प्रतीयत इति । तथा च गोत्वमपि सास्नादिमत्यां विप्रतिपन्ननिराकरणायोगात् । अनेनैव न्यायेन ब्राह्मणत्वक्षत्रियत्वादिकमपि न निर्वहति । तर्हि तत्तद्वर्णव्यवस्तया प्रवृत्तानि शास्त्रणि न स्युरिति चेत् । मैवम्- सन्ति चानादौ संसारप्रवाहे लोकप्रमाणसिद्धा ब्रह्मणादिशब्दवाच्या अनिदंप्रथमाः काश्चन स्त्रीपुंसव्यक्तयः, तत्प्रभवत्वमेव ब्राह्मणत्वादिकम् । तन्मात्रगोचरं च शास्त्रम् । तच्च व्यञ्जकतया त्वदङ्गीकृतमिति न किंचिदनुपपन्नम् । एतत्सर्वं जातिनिर्णयाख्ये प्रकरणे प्रपाञ्चितम् ।।
वैशेषिकास्तु - समानगुणकर्मजातिषु नित्यद्रव्येषु परस्परव्यावृत्तिनिमित्तं विशेषाख्यं धर्ममाहुः, तदनुपपन्नं, पृथक्त्वेनैव व्यावृत्तिसिद्धेः । ननु पृथक्त्वस्य सर्वद्रव्यसाधारणतया नित्यद्रव्येषु ततो नात्यन्तव्यावृत्तिसिद्धिरिति चेत् । मैवं-तेषु तस्या एवासंभवात् । तद्दर्शिनां तत्संभव इति चेत्, तेषामेवाभावात् । न ह्ययोग्यं
वस्तु साक्षात्क्रियते । ननु परमाणवः कस्य चित्प्रत्यक्षाः, मेयत्वाद्घटवदिति तत्संभव इति चेत् । निरवयवद्रव्यत्वेन बाह्यप्रत्यक्षत्वस्य, मूर्तत्वेन मानसप्रत्यक्षत्वस्य, चासिद्धिः । तस्माद्विशेषाः कथासु परिशिष्यन्ते ।।
अयुतसिद्धयोस्संबन्धस्समवायः । स च नित्ययोर्नित्यः। अनित्ययोर्नित्यानित्ययोश्चानित्यः । यतः कार्यमुत्पद्यते तत एव तदुत्पत्तिरपि। नित्यानुमेयश्च, प्रत्यक्षेणानुपलम्भात् ।
सर्वभावेष्वतीन्द्रिया शक्तिः कार्येणनुमीयते । तथाहि- यथाभूतादेव वह्नेर्दाहो दृष्टः, मणिमन्त्रौषधिप्रयोगे सति तथाभूतादेव वह्नेर्दाहो न दृश्यते । अतो मणिमन्त्रादिप्रतिबन्धनीयं तद्विनाश्यं वा किञ्चिदतीन्द्रियं शक्तिसामर्थ्यादिपदवाच्यमभिधेयम् । तस्य च स्वाश्रयकारणादुत्पत्तिः । कार्यानुत्पत्तौ द्वयी गतिः, अभिभवो वा विनाशो वा । यत्र पुनः कार्यं न जन्यते तत्र विनाशः । यत्र तु जन्म तत्राभिभव इति । ननु मणिमन्त्रादिसन्निधानादेव कार्यानुदयः स्यात् । (न) कारणावैगुण्ये कार्येदयविघातासंभवात् । तर्हि तदप्रयोगोऽपि तदुत्पत्तिनिमित्तमिति चेत्, न । प्रयोगस्य प्रतिबन्धकतया तदभावस्य केवलं तन्निवृत्तिरुपत्वमेव, न तु निमित्तत्वम् । कार्योत्पत्तिस्तु निवृत्तप्रतिबन्धायाश्शक्तेरेव । किञ्च क्कचित्प्रयोगेऽपि प्रतीकारवशेन कार्योत्पत्तिदर्शनान्न तदभावस्य निमित्तत्वम् । एवमपि निमित्तत्वमङ्‌गीकृत्य शक्तिरपह्‌नूयते चेत्, स्पर्शवद्द्रव्यसंयोगेन पतनप्रतिबन्धे तदभावस्यैव तन्निमित्तत्वात् गुरुत्वं दत्तजलाञ्जलि स्यात् । असति प्रतिबन्धे गुरुत्वात्पतनमिति हि त्वन्मतस्थितिः । तदुक्तं- ' संयोगप्रयत्नाभावे गुरुत्वात्पतनम् ' सत्यपि तस्मिन्कार्यानुत्पादकत्वात्, यद्यस्मिन्सत्यपि नोत्पादयति तत्तदतिरिक्तापेक्षं, यथा केवलं तवेति । किञ्च शक्त्यनङ्‌गीकारे कार्यार्थिभिर्नियतकारणोपादानं न स्यात् । तदङ्‌गीकारे तु यच्छक्तं तदेवोपादीयते, नान्यदिति नियमसिद्धिरिति ।।
तथा संख्याऽपि पृथक्तत्वान्तरम् । तथहि-न द्रव्यं गुणादिषु वृत्तेः, गन्धो द्विविधस्स्पर्शस्त्रिविध इति । तत्र वृत्तिरौपचारिकीति चेत्, न । मुख्ये बाधकाभावात् । गुणत्वमेव बाधकमिति चेत्, न । तस्यासिद्धेः। न गुणः, बहुषु वृत्तेः, घटत्वदिवत् । न कर्म, प्रत्यक्षत्वात्, तत्प्रतीतिवैलक्षण्याच्च । न सामान्यं अनित्यत्वात् । तस्मात्पृथक्तत्वान्तरम् ।।
तथा सादृश्यमपि न द्रव्यं, गुणकर्मणोरपि वृत्तेः । गन्धादयो हि परस्परसदृशाः प्रतिभान्ति । गन्धो गन्धान्तरेण, तथा रूपम्, तथा क्रिया । अत एव न गुणकर्मणी । नापि सामान्यम्, अनुवृत्तप्रत्ययनिमित्तत्वाभावात् । ननु भूयोक्यवसामान्यं सादृश्यमिति चेत्, न । प्रतीतिवैलक्षण्यात् । सादृश्यं हि सप्रतियोगिकमेव प्रतीयते ' अयमनेन सदृशः' इति । तत्तु तव्द्यञ्जकम् । तत्रैव सादृश्यप्रतीतेः । तस्मात्पृथक्तत्वान्तरम् ।।
सर्वं प्रमेयजातं भोक्तृभोगायतनभोगसाधनभोग्यभुक्तिषु पञ्चसु कोशेषु परिसमाप्यते ।। आत्मा भोक्ता । भोगायतनं शरीरम् । भोगसाधनानीन्द्रियाणि । भोग्याश्चान्तरा बाह्या इति द्विविधाः । बाह्याः पृथिव्यादयः, आन्तरास्सुखादयः । भुक्तिस्सुखदुःखानुभवः ।।
मोक्षोऽपि सकलदुःखोच्छेदरुपतया विलक्षणः पुरुषार्थः । तत्प्राप्तिस्तु ' आत्मा वाऽरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, तरति शोकमात्मवित् ' इत्य दिश्रुतिविहितादात्मज्ञानात् । विनश्वरविविधपुरुषार्थवरक्तिस्सकलदुःखधवंसकामः तदधिकारी । इतरस्तु कर्माधिकारी । तमधिकृत्यैव सर्वाणि कर्मशास्त्राणि प्रपर्तन्ते, मोक्षशास्त्राणि तु तदितरपुरुषमिति प्रमेयपरिज्ञानमुभयथाऽपि सप्रयोजनम् ।।

इति श्रीमद्रामानुजाचार्यविरचिते तन्त्ररहस्ये
प्रमेयपरिच्छेदो द्वितीयः ।।

।। शाब्दप्रमाणम् ।।
इत्थं मानमेयमितयो निरुपिताः । अथ साब्दं प्रमाणं निरूप्यते। संबन्धग्रहणवशेनार्थप्रत्यायकं पदजातं शाब्दम्। तदेव प्रत्यक्षाद्यसन्निकृष्टार्थं शास्त्रम् तदुक्तम्-
' शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानम् '
इति । शब्दज्ञानसापेक्षादात्ममनस्सन्निकर्षादसन्निकृष्टार्थविषयं ज्ञानं तच्छास्त्रं नाम प्रमाणम् । प्रमाणान्तरसन्निकृष्टार्थविषयं तु लौकिकं वचनम् । तत्त्वनुमानरूपम् । अतो न शास्त्रम् । अनुमानरूपता तु वक्ष्यते । शब्दार्थयोस्तावत्प्रत्याय्यप्रत्यायकभावलक्षणस्संबन्धः, वाच्यवाचकभाव इति यावत् । स चापौरुषेयः ।। तदुक्तम्-
'औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ।। इति ।
औत्पत्तिकः- स्वाभाविकोऽपौरुषेयो नित्य इत्यर्थः । वर्णानां नित्यत्वादर्थानां च प्रवाहरुपेण नित्यत्वात्संबन्धस्यापौरुषेयत्वम् ।
ननु कथं वर्णा नित्याः ? उच्चारणमात्रपवर्गिणः श्रूयन्ते । तथाहि- इदं तावदविवादम्- तत्तद्वर्णोच्चारणापेक्षया पुरुषप्रयत्नप्रेरितः कोष्ठ्यो वायुर्नाभिमण्डलदेशादुद्गच्छन्नुरःकण्ठशिरोजिह्वामूलदन्तनासिकोष्ठप्रदेशेषु संयुक्तः श्रोतुश्श्रोत्रप्रदेशेन संयुज्यते, तदनु तत्रत्यस्तिमितवायुरपक्रामति । तदनन्तरं च वर्णा उपलभ्यन्ते । तथा कर्णशष्कुल्यवच्छिन्नमाकाशमेव श्रोत्रम् । तद्‌गुणश्च शब्दः। तेन च समवायाद्‌गृह्यत इति। इदमिदानीं विचार्यते,- किमुत्पादकः प्रयत्नः, उताभिव्यञ्जक इति, ? न तावदभिव्यञ्जकत्वं, आवरणापनयनेन वा किंचिदभिव्यज्यते, इन्द्रियसंस्कारेण वा, विषयसंस्कारेण वा ? न तावच्छ्रोत्रशब्दयोः कुड्यादिरावरमं
संभवति, तत्समवायस्य यावत्प्रतिसंबन्धिभावात् । इन्द्रियसंस्कारोऽपि कोष्ठ्येन वायुना तदाप्यायनं तत्संयोगमात्रं वा ? द्वयमप्युत्पत्तिपक्षेऽप्यनुकूलम् । शब्दस्याकाशधर्मत्वात् । आकाशस्यैव श्रोत्रत्वात् । विषयसंस्कारोऽपि विषयधर्म एव । स च न संभवति। न हि कोष्ठ्यस्य वायोराकाशधर्मेण संबन्धः । कथं चित्संभवेऽप्युत्पत्तिपक्षसाधारण एव । परम्परया संबन्धस्याप्युत्पादकत्वदर्शनात् । किं च प्रयत्नस्याभिव्यञ्जकत्वे एकेनैव प्रयत्नेन सर्वशब्दाभिव्यक्तिप्रसक्तिः,। समानेन्द्रियग्राह्याणां व्यञ्जकभेदानपेक्षत्वनियमात् । न हि प्रदीपादिव्यङ्‌ग्या घटादयः तन्नानात्वमपेक्षन्ते । प्रयत्नस्याभिव्यञ्जकत्वे तत्तारतम्यानुविधायिता च न स्यात् । मन्दे तस्मिन्मन्दस्तीव्रे च तीव्र इति ।।
न हि प्रदीपादितारतम्ये तदभिव्यङ्‌ग्यतारतम्यं दृश्यते, किं चैक एव ककारादिस्तत्तद्वक्तृभेदान्नानाभूतश्च दृश्यते, तच्चोत्पत्तिपक्ष एव युक्तम् । अभिव्यक्तिपक्षे प्राच्यश्शब्दः प्रतीच्य इति व्यवहारो न स्यात् । उत्पत्तिपक्षे तूत्पादकदेशेन श्यात् ततश्चैवं प्रयोगः- अनित्यश्शब्दः, अनभिव्यञ्जकप्रयत्नानन्तरीयकत्वात्, घटवदिति । तस्मात्ताल्वादिस्थानैस्तत्तत्प्रयत्नसंयोगादुत्पन्नः शब्दः शब्दान्तरारम्भक्रमेण श्रोत्रदेशे शब्दमारभते । स तावच्छ्रोत्रसमवायाच्छ्रूयत इत्युक्तम् ।।
अत्रोच्यते- वर्णात्मकेषु शब्देषु सर्वत्र ' स एवायं गकारः, तदेवेदं पदं ' इति प्रत्यभिज्ञा तावद्दृश्यते । न सा सादृश्याद्भेदाग्रहनिबंधना, नेदमिति बाधादर्शनात् । ज्वालाप्रत्यभिज्ञायां तु भेदस्सिद्ध एक, तत्कारणसंभवात् । तथाहि-ज्वाला तावदवयविद्रव्यम् । तस्याश्च प्रभा गृहोदरव्यापिनी । न हि प्रथमप्ररोपितज्वालाया विशरणमन्तरेण प्रभाप्रचारः संभवति । तस्मात्प्रथमप्ररोपिता नष्टा, द्वितिया त्वन्यादृशीति तत्र सादृश्यनिबन्धनस्तद्ग्रहः, अत्र तु युक्तिमुखेनापि न तादृशी बाधा दृश्यते । अतस्सपष्टे तद्ग्रहे तत्तद्वर्णगोचरस्य प्रयत्नस्य व्यञ्जकत्वमेव युक्तम् ।
परकीयमनुमानं च विशेषणासिद्धम् । कोष्ठ्यस्य वायोः श्रोत्रप्रदेशसंयोग एव संस्कारः,। स्तिमितवाय्वपगमस्तु नान्तरीयकः, तत्सहकारी वा, । ततश्च तत्संस्कृतं श्रोत्रं शब्दं गृह्णाति, गतिमत्त्वाच्च वायोः तत्संयोगविरामे शब्दोपलम्भविच्छेदः, प्रतिवर्णं व्यञ्जकभेदाच्च न सर्वशब्दोपलम्भप्रसक्तिः, उत्पत्तिपक्षेऽपि कारकभेदोऽङ्गीकृत एव, स एवास्माकं व्यञ्जकभेदः, ततश्चैवं प्रयोगः- शब्दः प्रयत्नाभिव्यङ्‌ग्यः, तदनुत्पाद्यत्वे सति तदनन्तरमुपलब्धेः, यो यदनुत्पाद्यत्वे सति यदनन्तरमुपलभ्यते स तदभिव्यङ्‌ग्यः, यथा प्रदीपानन्तरमुपलम्यमानो घटः । न चात्र विशेषणासिद्धिः। तद्ग्रहणबलेन व्यञ्जकत्वसिद्धेः । योऽप्ययं तर्कः- यदि वर्णाः प्रयत्नाभिव्यङ्‌ग्या स्स्युः, तर्हि प्रयत्नभेदानपेक्षिणस्स्युः । समानेन्द्रियग्राह्याणां प्रयत्नभेदानपेक्षित्वनियमात्, अपेक्ष्यते च भेदः । तस्मात्तदभिव्यङ्‌ग्या न स्युरिति, सोऽपि प्रशिथिलमूल एव, शुक्लनीलादिरुपेषु समानेन्द्रियग्राह्येषु स्फुटस्फुटालोकव्यङ्‌ग्यत्वदर्शनात्, तथाल्पेनैव लालाजलेन शर्करामाधुर्यमभिव्यज्यते, सक्तुपृथुकयोस्तु अनल्पेन, तथा कुङ्‌कुमगन्धो गोघृतेनैव, मुस्तागन्धस्तु तैलेन, निदाघसमयनिर्दग्धपृथिवी गन्धस्तु जलेनैवेति। तीव्रमन्दादितारतम्यमपि प्रयत्नस्याभिव्यञ्जकत्वेऽपि तत्तारतम्याद्युज्यते। प्रदीपप्रकाशतारतम्याद्रूपोपलब्धितारतम्यवत्, तथैकस्यैव वर्णस्य तत्तद्वक्तृभेदेन नानाभावोपलब्धिरपि तत्तद्वक्तृसमुत्थस्य परस्परनिरपेक्षस्य प्रत्येकं विलक्षणं श्रोत्रसंस्कारमारभमाणस्याभिव्यञ्जकस्य कोष्ठ्यस्य वायोर्नानात्वादुपपन्ना। प्रत्यभिज्ञाबलेन स्थायित्वस्य तदैक्यस्य चोपपादितत्वात् । तिमिरभिन्नाभिर्नेत्रवृत्तिभिश्च चन्द्रे नानात्वोपलब्धिवत्। प्राच्यादिव्यपदेशोऽपि व्यञ्जकवक्तृदेशापेक्षयोपपन्नः । ह्रस्वदीर्घप्लुतप्रतीतिरपि अभिव्यञ्जकवृद्धिह्रासप्रयुक्ता। अनुवातं दूरे शब्दोपलब्धिः । प्रतिवातं तदनुपलब्धिरपि व्यञ्जकपक्ष एवोपपन्ना। ताभ्यां दूरं कोष्ठ्यवायुप्रेरणात्तन्निरोधाच्च ।।
ननु शब्दे प्रत्यभिज्ञा न संभवति, तदभिव्यक्तेः क्षणिकत्वात् । तथाहि- स्फटिकादौ प्रथमप्रतीते तदनु संस्कारोद्भेदे तत्सहकृतं चक्षुस्तदनन्तरं ' स एवायम् ' इति गृह्णाति । इह तु वर्णाभिव्यक्तिः क्षणिका । तया च संस्कारोद्बोधे श्रोत्रनित्यत्वेऽपि व्यञ्जकव्यापारोपरमात्पश्चात्प्रत्यभिज्ञा नोदेतुमर्हतीति । उच्यते- कार्यानुरोधेन हि कारणकल्पना । अत्र तु नाभिव्यक्तिस्संस्कारोद्बोधिका, किन्त्वदृष्टादिकारणवशात्तदुद्बोधे सति प्रथमाभिव्यक्तिरेव प्रत्यभिज्ञानरुपा परिममते। यथा- महान्धकारे क्षणिकसमुन्मेषिसौदामिनीसंपातमात्राच्चिरपरिचिते वस्तुनि प्रथमत एव प्रत्यभिज्ञा जन्यते । तस्माद्वर्णा नित्याः । एतच्च सर्वं न्यायशुद्धौ प्रपञ्चितम् ।।
इत्थं वर्णानां नित्यत्वात् अर्थस्य च प्रवाहरुपेण नित्यत्वात्तत्संबन्धस्यानादितयापौरुषेयत्वम्। तथाहि- इदानीन्तनवृद्धव्यवहारे हीदानीन्तनव्युत्पित्सूनां शक्तिग्रहः । तथा पूर्वव्युत्पिसूनां पूर्ववृद्धव्यवहारे । तथा पूर्वतराणां पूर्वतरे इत्यनिदम्प्रथमे संस्कारमण्डले शब्दार्थपरम्पराया अनादित्वात्तत्संबन्धस्याप्यनादित्वम् । कि च शब्दानित्यत्वे व्युत्पत्तिरेव न स्यात् वृद्धव्यवहारे हि शक्तिग्रहः । स च भूयोभूयः प्रयोगदर्शने स्यात् वर्णानां, तत्तत्पदस्यार्थपरिहारेण स्वस्वार्थावधारणशक्तिरावापोद्वापाभ्यां भूयोभूयः प्रयोगदर्शनादिना । न ह्युच्चारणमात्रापवर्गिणः शब्दस्य पुनः पुनः- प्रयोगदर्शनं संभवति । तच्च शब्दनित्यत्वे स्यात् इति तन्नित्यत्वपसाधनं व्युत्पत्त्पर्थतयापि सप्रयोजनं स्यात् ।
अयं मनोरथः, यदि संस्कारस्यानादिता स्यात् । ततु न सिध्यति । तथाहि- कृत्स्नकार्यकलापे युगपदुपसंहृते सति सर्गादावादिसर्वज्ञस्सर्वशक्तिस्सर्वेश्वरः पुरुषोत्तमः कृपावान् सर्गव्यवहारसमर्थानयोनिजान् पुरुषविशेषान्मनसा निर्माय भोग्यभोगोपकरणभोगस्थानप्रविभक्तं भूतभौतिकं संघातं च सृष्ट्‌व तेषुतेष्वर्थेषु अस्यशब्दस्यायमर्थ इति सङ्‌केत्य वेदानप्याविष्कृत्य तेभ्यः पुरुषेभ्यस्समुपदिदेशेति
सकलप्रमाणासिद्धम् । तस्मात्संबन्धः पोरुषेय इति ।।
नैतत्सारम्- स्यातां नाम क्रमेण कार्यवर्गस्य सृष्टिविनाशौ । यौगपद्येतु प्रमाणं न पश्यामः । वैपरीत्ये तु विमतः कालो न कृत्स्नकार्यध्वंसवान्, कालत्वात्, संप्रति पन्नकालवत् इति । यद्वा विमतो घटध्वंसः सर्वदा घटान्तर समानकालीनः, ध्वंसत्वात्, धवंसान्तरवत् । किंच कृत्स्नकार्यध्वंसे सर्वात्मगतादृष्टध्वंसात् पुनस्सृष्टिवैषम्यं न स्यात् । " इदं वा अग्रे नैव किंचनासीत्, न द्यौरासीत् न पृथिवी नान्तरिक्षम् " तथा ' सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयं, तत्सृष्ट्‌वा तदेवानुप्राविशत्, " इत्यादिवाक्यानि त्वर्थवादतया विधिशेषभूतानि, न तु स्वातन्ञ्येणार्थप्रतिपादनसमर्थानि, कृत्स्नस्यापि वेदस्य अनुष्ठेयार्थतात्पर्यात् । तच्च व्युत्पत्तिसिद्धमिति वक्ष्यते । तथा सर्वज्ञपुरुषसद्भावे च ' क्षित्यादिकं सकर्तृकं कार्यत्वात् । घटवत्, ' इत्यनुमानं न प्रमाणम्, कार्यत्वस्य शरीरिकर्तृकत्वेन व्याप्तेः, शरीरिणश्च सार्वज्ञासंभवात्, अशरीरिणश्च कारणाधिष्ठानाशक्तेः कर्तृत्वासंभवात्, इदानीन्तनपुरुषपरम्परायाश्च योनिजत्वदर्शनेन अयोनिजपुरुषसद्भावोऽप्यसंभावित एवेति मीमांसकानामभिमानः । एतत्सर्वं विमलाब्ज ननाम्नि प्रकरणेऽभिहितम् ।।
ननु देवदत्तादिपदेषु संकेतनिबन्धनार्थप्रतीतिदर्शनाद्गवादिपदेष्वपि तथा स्यात् । ततश्चापौरुषेयत्वमबद्धमिति चेत्, मैवम्- अत्र संकेतस्य प्रत्यक्षसिद्धत्वात्, अन्यत्र वृद्धव्यवहारादेव व्युत्पत्तेस्तदभावात् । ननु देवदत्तादिपदेष्वपि कदाचित्संकेतादर्थप्रतीतिर्दृश्यत इति चेत्, न । अनियतो हि तत्र संकेतः, व्युत्पत्तिस्तु नियता । तस्मादेकत्र शक्तिग्रहनिबन्धनं वाचकत्वम्, अन्यत्र तु कदाचिद्व्यवहारतो वाचकत्वग्रहेऽपि संकेतनिबन्धनम् । वाचकत्वप्रतीतिस्तु भेदाग्रहात् । संकेतात्पूर्वं गवादिपदवद्वाचकत्वाप्रतीतिः ।
ननु संबन्धस्यापौरुषेयत्वे प्रथमश्रुताच्छब्दादविशेषेण सर्वेषामर्थप्रतीतिस्स्यात्, न स्यात्, व्युत्पत्तेरपि हेतुत्वात् । तस्माद्वर्णा नित्याः,
सबन्धश्चापौरुषेय इति स्थितम्। तद्‌ग्रहणं च वाचकत्वशक्तिग्रहात् । स च वृद्धव्यवहारादिति वक्ष्यते ।।
ननु कथं पदेम्यः पदार्थप्रतीतिः वाक्यार्थप्रतीतिर्वा । तत्र शब्दतत्वविदो वैयाकरणाः प्राहुः- क्रमिकैराशुतरतिरोहितैर्वर्णैः प्रत्येकं यौगपद्यैन च पदार्थप्रतीतेर्वक्यार्थप्रतीतेश्चासंभवात्तत्तद्वर्णाभिव्यङ्‌ग्यं प्रत्यस्तमितवर्णविभागं पदवाक्यशब्दवाच्यं स्फोटाख्यं शब्दतत्वं तन्मूलमेषितव्यम्। तथाहि- न चैकैकवर्णग्रहणेऽर्थप्रतीतिः, अतिप्रसङ्गात् । न च युगपद्ग्रहणं, आशुतरतिरोधनात्। ततो नियतक्रमैः कतिपयैर्वर्णैः पदाभिव्यक्तिः । तथा एव पदार्थ वाक्यार्थविभागश्चोपपन्न इति ।।
अपरे नु प्रत्यस्तमितपदवाक्यविभागमखण्डं शब्दतत्वमेकमेव। तत्र पदवाक्यविभागस्तु काल्पनिक इति प्रतिपन्नः ।।
तच्चातीन्द्रियमर्थप्रतीत्यनुपपत्तिकल्प्यमित्येके ।। अपरे तु श्रोत्रग्राह्यमिति। पूर्वत्र वास्तवपदपदार्थव्युत्पत्तिर्वास्तववाक्यार्थव्युत्पत्तिश्च सहकारिणी। उत्तरत्र काल्पनिकी पदतदर्थवाक्यतदर्थव्युत्पत्तिः । अन्यथा सर्वाविशेषेणार्थप्रतीतिप्रसङ्गात् ।
किं च " वन-नव-नदी-दीन " इत्यादिषु वर्णभेदेऽपि पदान्यत्वं प्रतीयते। ततस्तदतिरिक्तं पदम् । न च वाच्यं, वर्णा एव पदम्, नदीदीनेत्यादिषु क्रमभेदेन पदबुद्धिभेद इति, तेषां सर्वगतत्वनित्यत्वाभ्यां देशकालक्रमासंभवात् । किं चानेकेषु वर्णेषु एकं पदं एकं वाक्यमिति व्यपदेशोऽपि वर्णान्यत्वे प्रमाणम् । किं च वर्णानां वाचकत्वे क्रमभेदे वक्तृभेदे विलम्बोच्चारणे चार्थप्रत्ययस्स्यादिति, नैतत्सारम्-यत्नेनान्वेषणेऽपि नानावर्णव्यतिरेकेण निर्भागशब्दतत्वानुपलम्भात्। यस्त्वेकं पदमेकं वाक्यमिति व्यपदेशः, सोऽप्यनेकेषु अर्यैक्योपाधिनिबन्धनः। दृश्यते हि बहूनामप्यौपाधिकमेकत्वम् । यथा ' सेना वनं राजसूयः ' इति। अत एवार्थैकत्वमजानतां नास्त्येकत्वपरामर्शः । यदि ह्यनौपाधिकं शब्दतत्वं स्यात्तर्हि
संहितापाठमात्रेण व्युत्पन्नानामितरेषां च प्रकाशेत । ननु व्युत्पत्तिरपि सहकारिणीति नातिप्रसङ्‌ग इति चेत्, हंत, स्वानुभवविसंवादः, न हि व्युत्पन्नः पुमानेभिर्वर्णैरिदं शद्बतत्वमभिव्यज्यत इति प्रत्येति । किं च यावद्भिर्वर्णैश्शब्दतत्वमभिव्यक्तं प्रतिनियतार्थप्रत्यायकं तावतामेव वाचकत्वसंभवेऽतिरिक्तकल्पनं गौरवपराहतम्। नदीतीनेत्यादिष्वपि बुद्धिभेदः क्रमभेद निबन्धनः। तथाहि- उच्चारणक्रमानुरोधात्प्रतिवर्णाभिव्यक्ति भिन्ना एव बुद्धयो जायन्ते। प्रतिवर्णौपलम्भप्रभावितभावनाख्यसंस्कारक्रमवशाच्च विलक्षणाः स्मृतयः। तत्क्रमाद्वर्णा अपि क्रमवन्त इव भान्ति । तस्मादेकवकत्रोच्चारणापादितनैरन्तर्या आनु पूर्वीविशेषशालिनस्स्वरविशेषभाजो वर्णा एव पदम् । तत एवार्थप्रत्ययः । न च युगपद्ग्रहणासंभवः, क्रमेण श्रुतानामपि तेषां तेनैव क्रमेण पश्चात्स्मृतिविषयत्वसंभवात् । दृश्यते हि क्मानुभूतेष्वपि युगपदनुसन्धानं ' पञ्च प्रयाजा मयानुष्ठिताः, गोदावर्यां महानद्यां शतवारं स्नातोऽहम् ' इति च अयमर्थस्स्वसिद्धान्तोपन्याससमये प्रपञ्चयिष्यते ।
अतीन्द्रियशब्दकल्पनमप्यनुपपन्नम् । अर्थप्रतीतेरन्यथासिद्धत्वात् । अतिप्रसङ्गश्च तस्य नित्यत्वे सर्वार्थप्रतीतिप्रसङ्‌गात् । अनित्ये च तत्कारणं दुर्निरूपम् । वर्णानां च कारणत्वे तदुत्पत्तिर्व्यर्था, उक्तेन मार्गेण तैरेवार्थप्रतीत्युपपत्तेः। अभिव्यञ्जकत्वे तु प्रत्यक्षत्वापातः । किंच वृद्धव्यवहारे आवापोद्वापाभ्यां हि शक्तिग्रहाद्व्युत्पत्तिः । ततश्च यस्य पदस्य आवापे यस्यार्थंभागस्यावापः यदुद्वापे चोद्वापः तत्रैव तस्य व्युत्पत्तिरुक्ता अखण्डशब्दतत्वावादे कस्य कुत्र व्युत्पत्तिः ? ननु तत्रापि पदविभागं परिकल्प्य तत्र तस्य व्युत्पत्तिरिति चेत्, न, प्रतिपत्तिगौरवात् । नियतक्रमा वर्णा एव हि पदमित्युक्तम् । किं चानेनैव न्यायेन वाक्यार्यप्रतीत्युपपत्तौ तत्र वाक्यं परिकल्प्य तत्र तस्य व्युत्पत्तिर्वक्तव्या । तत्रापि भूयान् प्रतिपत्तौ गौरवक्लेश इति
प्रत्यक्षतोऽनुमानतो वा न वर्णातिरिक्तशब्दतत्वसंभव इति ।।
अपरे तु वर्णानां प्रत्येकं (पदार्थ) वाचकत्वेऽतिप्रसङ्‌गात् आशुतरविना शित्वेन युगपद्‌ग्रहणभावाच्च पूर्वपूर्ववर्णानुभवजनितसंस्कारसचिवोऽन्त्यो वर्णः पदार्थवाचकः । तथा पूर्वपदार्थानुभवजनितसंस्कारसचिवमन्त्यं पदं वाक्यार्थवाचकम्। अत्रापि वास्तवपदपदार्थव्युत्पत्तिस्सहकारिणीति प्रतिपेदिरे । अयं च संस्कारस्स्मृतिहेतोस्संस्काराद्विलक्षणः । तस्य च स्मृतिहेतुत्वात्, अस्य चानुभवनिमित्तत्वात् इति, तदप्यनुपपन्नं, उक्तेन न्यायेनार्थप्रतीतेरन्यथासिद्धत्वात् युगपद्‌ग्रहणस्योपपादितत्वाच्च अत्र यद्यपि पदपदार्थविभागो वास्तवः, तथापि व्युत्पत्तिर्यत्नोपपाद्या, अन्त्यवर्णस्य पदत्वाभावात् । तथा वाक्यार्थव्युत्पत्तिरपि, अन्त्यपदस्य वाक्यत्वाभावात्, पक्षद्वयेऽप्युभयोरनियतत्वाच्च ।।
अत्र नव्यास्तु पदैरभिहिताः स्वार्थाः स्मारिता वा पदार्था अकाङ्‌क्षादियुक्ता वाक्यार्थं गमयन्तीति, तदप्यनुपपन्नं, शक्तिकल्पनागौरवात् । तथाहि-अभिधानपक्षे पदानां स्वस्वार्थाभिधानशक्तिः पदार्थानां वाक्यार्थबोधनशक्तिः । तथा शब्दादन्यतः प्रमाणात्प्रतीतानां पदार्थानां वाक्यार्थबोधकत्वादर्शनात्प्रतिपादितानां च तदृर्शनात्पदानि पदार्थेषु वाक्यार्थबोधनशक्तिमादधति । तेषां तदुत्पादनशक्तिरपरेति । ननु प्रमाणान्तरप्रतिपन्नामपि संसर्गबोधनसामर्थ्यं दृश्यते । तथाहि-येन नाम प्रत्यक्षेणाज्ञाताश्रयं श्वैत्वं प्रतिपन्नं हेषारवेणाज्ञातरूपोऽश्वोऽनुमितः रवुरपुटनिष्पेषशब्देन चाज्ञातकर्तृकं गमनमनुमितं तस्य श्वेतोऽश्वो धावतीति संसर्गबोधो दृश्यते ।। तदुक्तम्-
' पश्यतः श्वेतमारूपं हेषाशब्दं च शृण्वतः ।
खुरनिष्पेषशब्दं च श्वेतोऽश्वो धावतीति धीः ।
दृष्टा वाक्यविनिर्मुक्ता_____'इति ।।
आरुपमव्यक्तरुपम् । अव्यक्ताश्रयमिति यावत्, मैवम्- तादृशस्य
पुंसस्संसर्गप्रतीतिरेव नोदेति, किं तु श्वेतं किंचिद्वस्तु दृश्यते । अश्वेन भाव्यं गच्छतान्येन केन चिदित्येतावान्मात्रम्। अथाभ्यासपाटवात्पदमनिष्पेषशब्दश्वसंबन्धिनमवगच्छति । तदानुमानादेव धावत्यश्व इति धीः । अथ श्वैत्यस्य अथ अनुमिताश्वाश्रयत्वमध्यवस्यति, तदाप्यश्वादन्यत्र न संभावितमिति परिशेषादेव श्वेतोऽश्व इति धीः । तथा श्वैत्यस्यानुमिताश्रयस्य च धावनसमानाश्रयत्वमनुमिनोति चेत्, श्वेतोऽश्वो धावतीति धीः । अन्यथा नेति यत्किंचिदेतत्। अपि च यद्यत्र पदार्थावगमादेव परस्परान्वयावगमः, तदा तस्य कस्मिन् प्रमाणेऽन्तर्भावः, ? न शब्दे, तत्प्रयोगाभावात्। प्रमाणान्तराभ्युपगमे तु शब्दस्योच्छेदः । तस्मात्पदप्रतिपादितानां पदार्थनामन्यत्रादृष्टं वाक्यार्थबोधनसामर्थ्यं कल्पनीयम् । पदानामपि तदाधानशक्तिरिति शक्तित्रयकल्पनागौरवम् ।।
ननु पदार्थानां संसर्गबोधनशक्तिस्वीकारे खलु गौरवम्। अनन्वितावस्थोऽभिहितोऽन्वितावस्थां लक्षयति, अवस्थावस्थावतोर्हि संबन्धस्तावदस्त्येव, तदाहुर्वार्तिककारपादाः-
वाक्यार्थो लक्ष्यमाणौ हि सर्वत्रैव हि लक्ष्यते । इति ।
तदयुक्तमित्यन्ये, नेयं लक्षणां स्वार्थापरित्यागात् । तत्परित्यागेन हि गंगादिषु लक्षणा दृष्टेति । ते हि मीमांसाभ्यासवैकल्येनैवमाहुः, न हि सर्वत्र लक्षणायां स्वार्थस्त्यज्यते । तथाहि-
लोके छत्रिणो गच्छन्तीति छत्रिशब्देन छत्रच्छत्रिसमुदायो लक्ष्यते। छत्रिशब्दार्थश्च न त्यज्यते । तथा वेदेऽपि चातुर्मास्येषु वैश्वदेवेन यजेतेति वैश्वदेवशब्देनवैश्वडेववगणो लक्ष्यते। स्वार्थश्च न त्यज्यते । अत एव जहदजहल्लक्षणेति तद्द्वेविध्यं परैरङ्गीकृतम् । अतोऽन्यथा दूषणमुच्यते, वाच्यस्य गंङ्गाशब्दार्थस्य वाक्यार्थेऽनन्वयात्खलु लक्षणा, गामानयेत्यादौ तु गोपदार्थस्यान्वयादयुक्तैव सा । किं च वाक्यार्थमात्रस्य लक्ष्यत्वमनुपपन्नम्,
संबन्धानुपपत्तिपरामर्शमन्तरेण पदार्थवदेव झडिति प्रतीतेः। ननु तर्हि स्मारकत्वपक्षे न गौरवम् । पदस्मारिताः पदार्थाः वाक्यार्थं गमयेयुः । तथाहि- पदश्रवणे व्युत्पत्तिदशायां प्रतिसंबन्धितयानुभूताः पदार्थाः स्मर्यन्ते । अस्ति च संबन्ध्यन्तरदर्शने सबन्ध्यन्तरस्मरणम्। तदुक्तम्-
पदमभ्यधिकाभावात्स्मारकान्न विशिष्यते ।। इति ।।
अभ्यधिकाभावात्-स्मारकत्वातिरिक्ताभिधायकत्वाभावादिति । तदयुक्तम्। वाक्यार्थस्याशाब्दत्वप्रसङ्‌गात् । वाक्यार्थोऽपि पदार्थलक्ष्यः, न तु शक्त्याभिधीयत इति। ननु यथा पदैः पदार्थाः स्मर्यन्ते तथा तैरपि पदानि संबन्धस्याविशेषात्। ततश्च स्मृतैः पदैरन्वयो बोध्यत इति शाब्दत्वमिति चेनमैवम्-
प्रथमं वाचकश्रवणं, तदनु वाच्यस्मरणम्, पुनरपि वाचकस्मरणं, तैस्तत्स्मरणमित्यव्यवस्थाप्रसङ्गात् ।।
प्रभाकरास्तु- पदान्येव वाक्यम् । पदार्थ एव वाक्यार्थः । तत्र पदान्येव प्रमाणम् । अर्थान्तरान्वितस्वार्थे पदानां व्युत्पत्तेरित्याहुः । तथाहि- इत्थं तावत्प्रथमं लोके व्युत्पत्तिप्रकारः,- उत्तमवृद्धस्तावत् देवदत्त गामानयेति वाक्यं प्रयुङ्क्ते, तदनु मध्यमवृद्धः प्रवर्तते । तदानीं तटस्थो व्युत्पित्सुरेवं मन्यते-अस्य प्रवृत्तिर्ज्ञानपूर्विका, प्रवृत्तित्वात्, मदीयप्रवृत्तिवत् । तच्च ज्ञानं वाक्यजन्यं, तदनन्तरभावित्वादिति । इत्थं भूयोभूयः प्रयोगदर्शनेन प्रथमं तावद्वाक्यस्य वाक्यार्थे सम्मुग्धा व्युत्पत्तिर्जायते अस्य वाक्यस्य गवानयनमर्थ इति । पश्चात्कदाचिदश्वमानयेति वाक्यप्रयोगे तथैव प्रवृत्तौ अश्वपदावापे तदर्थान्वयाद्गोपदोद्वापे तदर्थानन्वयादावापोद्वापाभ्यामश्वपदस्यार्थान्तरान्विते हयार्थे गोपदस्य च ताढृशे सास्नादिमदर्थे प्रत्येकं व्युत्पत्तिर्जायते । इत्थं भूयोभूयः प्रयोगदर्शनाद्व्युत्पन्नस्य पुंसः पूर्वं ततश्शब्दार्थमप्रतियतः पुनरेषा विचिकित्सा जायते, यदि प्रत्यायकस्ततो ममापि पूर्वमेव प्रत्याययेत् । अथाप्रत्यायकस्ततो वृद्धमपि न प्रत्याययेदिति। एवं
विचिकित्सतः पुनरेषा विचिकित्सा जायते- नूनमस्ति कश्चिद्‌वृद्धस्य विशेषः, यतोऽयमवबुध्यतेऽहं तु नेति । कोऽसौ विशेष इति निर्णयमिच्छतः पुनर्वृद्धव्यवहारे तेभ्यश्श्ब्देभ्यस्स्वयमर्थावगमात् प्रत्यायक्त्वमेव विशेषः। स च वाचकत्वशक्तिग्रहाधीनः । तद्‌ग्रहश्च वृद्धव्यवहारे। स च ममेतः पूर्वं नासीत्, वृद्धस्प त्वासीदिति निर्धारणा जायते । इत्थं ममेव पूर्ववृद्धस्य तत्पूर्ववृद्धपरम्परायाश्चेत्यनादित्वादपौरुषेयत्वेन स्वाभाविकत्वमपि शब्दार्थसंबन्धस्यावसीयते । तस्माच्छब्दानां प्रत्यायकत्वं स्वाभाविकम् । तच्च व्युत्पत्यपेक्षं, न पुनस्संकेतकृतम् । सा च शक्तिग्रहाधीना । तद्ग्रहश्च प्रयोज्यवृद्धव्यवहारे। स च विशिष्टार्थज्ञानमूलः । तच्च ज्ञानं वाचकशक्तिमूलमिति विशिष्टविषयैव शक्तिरुन्नीयते। आवापोद्वापौ चान्वितगोचरौ । ततश्च गामानयेत्युक्ते गोपदमानयेत्यन्वितस्वार्थबोधकम्। एवमानयेति पदमपि । ततश्चान्विते शक्तिग्रहादन्विताभिधायित्वं पदानां सिद्धम् । तथा मध्यमवृद्धप्रवृत्तेः कार्यज्ञानपूर्वकत्वात्तस्य च शब्दमूलत्वात् सर्वेषामपि पदानां कार्यपरत्वमवगन्तव्यम्। तच्चावापोद्वापाभ्यां साक्षाल्लिङादिप्रत्ययस्य, इतरेषां तु परम्परया प्रकृत्यंशस्येव प्रत्ययांशस्यापि ताभ्यां शक्तिग्रहात् । एतच्चोपरिष्टात्स्पष्टीभविष्यति ।।
नन्वन्विताभिधानं न सिध्यति, प्रतियोगिनामानन्त्येन तदन्विते शक्तिग्रहासंभवात्, । सामान्येनान्विताभिधानं च नाशङ्‌कनीयं, वाक्येभ्योऽविशेषान्वयावगमात् । तथापि स्वरुपमात्राभिधानेनापि वाक्यार्थप्रतीत्युपपत्तौ अन्विताभिधानाश्रयणे शक्तिकल्पनागौरवाच्च । किं पदान्तराभिहितेनान्विताभिधानमनभिहिते वा ? प्रथमे तदपि पदमन्विततया प्रथमपदाभिहितमर्थमपेक्षते, तदपि पदं द्वितीयपदाभिहितमिति परस्पराश्रयः । द्वितीये पदान्तरप्रयोगवैयर्थ्यम्, एकस्माच्च पदात्सर्वान्वयप्रतीतिप्रसङ्ग,श्चेति। मैवम्-आकाङ्‌क्षादित्रयस्योपलक्षणत्वात् । आकाङ्क्षितं सन्निहितं योग्यं यदर्थान्तरं
तदन्विते शक्तिग्रहणात्, का पुनरियमाकङ्‌क्ष ? प्रतिपत्तुर्जिज्ञासा । सा किन्निबन्धना ? अविनाभावनिबन्धनेति केचित् । तथाहि क्रिया कारकाविनाभाविनी तां श्रुतवतः कारकजिज्ञासा स्यात् । एवं कारकमपीति । तदयुक्तम्, जिज्ञासाविरमानुपपत्तेः। उभयाविनाभाविनां पदार्थानामानन्त्यात् । अतोऽन्यदेव निबन्धनमभिधानापर्यवसानमभिधेयापर्यवसानं च । द्वारमित्यादावेकपदप्रयोगे प्रतिसंबन्ध्यनुपादानेनान्विताभिधानापर्यवसानात्प्रतियोगिजिज्ञासायां संव्रियतामित्यनेनान्विताभिधानम् । यत्राप्यनेकपदप्रयोगेऽभिहितोऽर्थो न पर्यवस्यति। यथा ' दिवा अभुञ्जानो देवदत्तः पीन ' इति तत्र रात्रिभोजनजिज्ञासायां ' रात्रौ भुङ्‌क्ते ' इत्यनेनान्विताभिधानम् । तथा ' विश्वजिता यजेत ' ' अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ति, इति वाक्यद्वये नियोज्याकाङ्‌क्षायां स्वर्गकामपदेनान्विताभिधानम् । नियोज्यजिज्ञासाप्रकारस्त्परिष्टाद्वक्ष्यते ।।
नन्वेवं ' गामानय शुक्लां दण्डेन रक्तः पटो भवति ' इत्यत्र शुक्लरक्तपदाभ्यामत्विताभिधानं न स्यात्, ताभ्यां विनाऽपि वाक्यपर्यवसानात् ? सत्यं तदप्रयोगे, तत्प्रयोगे तु समभिव्याहृतसर्वपदानां संभूयकारित्वव्युत्पत्तेरेकवाक्यताबलात्तद्विषयामाकाङ्‌क्षामुत्थाप्य ताम्यामन्विताभिधानम् । तदुक्तं भाष्ये- ' भवति तु रक्तं प्रत्याकाङ्‌क्षेति । अयं तु विशेषः- द्वारमित्यादावाकाङ्‌क्षावशात्सन्निधिः कल्प्यते । अत्र तु सन्निधिवशादाकाङ्क्षा इति । अत एवोत्थापिताकाङ्क्षा स्वारसिकाकाङ्क्षा इत्याकाङ्क्षाद्वैविध्यमाहुः ।।
ननु सन्निधियोग्यत्वे द्वे एव व्युत्पत्तावुपलक्षणं स्याताम् । किमाकाङ्क्षया ? मैवं, तयोस्सतोरप्याकाङ्क्षाविरहेणान्वयादर्शनात् । यथा 'अयमेति पूत्रो राज्ञः पुरुषोऽपसार्यताम् ' इत्यत्र राजपुरुषयोः पुत्रापसर्पणनिराकाङ्क्षयोर्न परस्परान्वय इति। सा च प्रतियोगिषु सर्वेषु न युगपद्भवति, किं तु
प्रधानोपसर्जनभावेनान्वयार्हतत्तदर्थयोग्यताक्रमेण । तथा हि- ' गामानय शुक्लां दण्डेन' ' इत्यत्र प्रथमं कर्मविषया पश्चात्तद्विशेषणविषया तदनु करणविषया, । एवं ' स्वर्गकामो यजेत ' इत्यत्रापि आकाङ्क्षाक्रमेणान्वयो वक्तव्यः । क्रमनियमे च लौकिकानां प्रतिपत्तिरेव प्रमाणम् । तदुक्तं वाक्यार्थमातृकायाम्-
अन्वितस्याभिधानार्थमुक्तार्थघटनाय वा ।
प्रतियोगिनि जिझासा या साऽऽकाङ्क्षेति गीयते ।।
परिपूर्णेन योग्यस्य समीपस्याप्यनन्वयात् ।
व्युत्पत्तौ तेन शब्दानामाकाङ्क्षाऽप्युपलक्षणम् ।।
जिज्ञासा जायते बोद्धुस्संबन्घि षु यथायथा ।
तथातथैव शब्दानामन्वितार्थाभिधायिता ।।
इति ।। अथ कस्सन्निधिः, यस्यार्थस्य श्रवणानन्तरमाकाङ्क्षायोग्यताभ्यामर्थान्तरे परिवृत्तिः । सा च न केवलं शब्दनिबन्धना । अध्याहृतेनाप्यन्विताभिधानदर्शनात् । ननु तत्रापि शब्द एवाध्याह्रियते । स चार्थमुपस्थापयतीति चेत्, न, अन्विताभिधानानुपपत्तिवशात्खल्वध्याहारः । सा च योग्यप्रतियोग्यर्थोपस्थापनेन शान्तेति न शब्दकल्पनायां प्रमाणम् । एतच्चार्थापत्तिप्रकरणेऽभिहितम्। अतश्शब्दोपस्थितेनाध्याहृतेन वाऽन्विताभिधानम्। आकाङ्क्षावत्सन्निधिरपि क्रमेणैव भवति । तदुक्तम्-
सन्निधिश्शब्दजन्मैव व्युत्पतौ नोपलक्षणम् ।
अध्याहृतेनाप्यर्थेन लोके संबन्धदर्शनात् ।।
सहसैव न सर्वेषां सन्निधिः प्रतियोगिनाम् ।
सन्निधापकसामग्रीकमेण क्रमवानसौ ।।
यथायथा सन्निधानं जायते प्रतियोगिनाम् ।
तथातथा क्रमेणैव शब्दैरन्वितबोधनम् ।।
अत्राकाङ्‌क्षायोग्यत्वे सन्निधिनिबन्धने । अनाकाङ्‌क्षितस्यायोग्यस्य सन्निहितस्यापि वेदे प्रकरणादुत्कर्षः । लोके त्वर्थान्तरापार्थकाप्राप्तकालादिप्रसङ्गः। सन्निधानेऽपि लोकप्रतीतिरेव प्रमाणम् ।।
किं पुनरिदं योग्यत्वं ? यत्संबन्धार्हं, तच्च लोकप्रमाणसिद्धम्। यस्य तु योग्यत्वमवधारितं तस्यान्वयः। यस्य तु न, न तस्य। यथा ' वह्निना सिञ्जेत् ' इत्यत्र वह्निसेकयोः। अत एव वेदे सन्निहितस्यप्ययोग्यस्य प्रकरणादुत्कर्षः । लोके त्वर्थान्तरादिनिग्रहस्थानप्रसङ्गः।।
ननु तर्हि कथं वैदिकपदानामपूर्वकार्येणान्विताभिधानं, तस्य मानान्तरागोचरतया तेन सह कस्यचित्संबन्धयोग्यत्वादर्शनात् । अत्रापि सामान्यतो योग्यतावधारणं विशेषान्वयप्रतिपत्तावुपायइत्यदोषः । यदपूर्वं तदपि कार्यमेवेति लौकिककार्यसबन्धार्हं यत्तद्वेदेऽपि योग्यमित्यवसीयते । तदुक्तम्-
सामान्येनैव योग्यत्वं लोके यदवधारितम् ।
तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम् ।।
अन्ये तु- यदयोग्यतया नावधारितं तद्योग्यम् । तेनालौकिकेनापि विध्यर्थेनान्विताभिधानं सिध्यतीत्याहुः । तन्न, यथा ह्यलौकिके वस्तनि योग्यता नावधार्यते तथैवायोग्यतेति सर्वस्य सर्वप्रकारेणान्वयस्स्यात् । ततश्च भावार्थस्यैव विषयत्वेनान्वयः, अनुपादेयविशेषणविशिष्टस्यैव स्वर्गकामादेर्नियोज्यत्वेनेति नियमो न स्यादित्यलम् । क्कचिद्योग्यताबलादेव विप्रकृष्टानामपि सन्निधिं परिकल्प्यान्वयः । यथा अनारभ्याधीतानां पर्णतादीनां प्रकृतावन्वयः, योग्यतापरामर्शबलादेवापूर्वविषयनियोज्यानां लोकप्रसिद्धक्रियाकारकभावेनान्वयप्रकारमतिलङ्ध्य विलक्षणप्रकारेणान्वयः । प्रथमं शब्दमुखेनान्वितानामपि पश्चादर्थमुखेनामपि पश्चादर्थमुखेनाप्यन्वयधीः । अत
एवारुणाधिकरणे प्रथमं क्रमेणान्वितानामप्यारुण्यादीनां पश्चात्पार्ष्ठिको द्रव्यान्वयः। तथा प्रथमं विषयीभूतस्य भावार्थस्य पश्चात्करणतया, तथा प्रथमं नियोज्याऽन्वितस्य स्वर्गकामादेः पश्चादप्यधिकारिकर्तृभावेन ।।
आकाङ्क्षादीनां त्रयाणां न केवलमन्वयं प्रत्येव कारणत्वं किंत्वन्योन्यमपि कार्यकारणभावस्तत्रतत्रान्वयवशादवगन्तव्य इति गम्भीरोऽयं न्यायमार्गः। तस्मात्प्रतियोग्यानन्त्येऽप्युपलक्षणाश्रयणान्न संबन्धग्रहणासंभवः। अत एव न सामान्यतोऽन्विताभिधानं, विशेषतो व्युत्पत्तेः।।
ननू व्युत्पत्तौ उपलक्षणत्रयाश्रयणे गौरवं, न। अभिहितान्वयवादिनापि नियतान्वयसिद्ध्यर्थमवश्याङ्गीकारात् । आकङ्क्षाद्युपलक्षिता एव पदार्था अन्वयं बोधयन्ति नान्य इति । यत एवान्विते शक्तिः । अतः पदार्थप्रतिपादनमवान्तरव्यापारीकृत्य वाक्यार्थप्रतिपादकानीति मतं निरस्तं, अन्वितस्यैव वाक्यार्थत्वात् ।।
ननुपलक्षणपक्षेऽप्युपलक्षितानामानन्त्यात् गामानय बधान मुञ्च इत्येकस्यैव गोपदस्यानन्ताः शक्तयस्स्युः । अभिहितान्वयवादे तु अर्थैक्यादेकैवेति चेन्न। एकयैवाकाङ्क्षितसन्निहितयोग्यप्रतियोगिगोचरया शक्तया नानाप्रतियोगिभेदेऽपि तत्प्रतियोगिबोधनकार्यभेदोपपत्तेः । यथा- चक्षुरेकयैव रूपरूपवत्तत्समवेतवस्तुगोचरया दर्शनशक्त्या प्रतियोगिभेदेऽपि तत्तद्दर्शनकार्यभेदहेतुः । किं च पदार्थनामाङ्‌क्षाद्युपलक्षितानन्तप्रतियोग्यान्वयप्रबोधने इयमनुपपत्तिस्समानैव । अपि च प्रत्ययस्तावत्प्रकृत्यर्थान्वितं स्वार्थमभिधत्त इति भवताऽप्युक्तम् । तथा प्रकृतिरपि। ततश्च सर्वमपि पदजातं तथैव स्यात्, किमर्थवैशसेन ।
नन्वेवमप्यन्वयवानन्वितः। अन्वयस्तु विशेषणमितरस्तु विशेष्यः। ततश्चोभयत्र शक्तिरवर्जिनीयेति गौरवमिति चेन्मैवम्। अन्वयवत्तैवान्वितत्वम्, न
त्वन्वयमन्तरेणान्वितत्वस्य पृथगात्मलाभः । न हि घटमन्तरेण पटवदन्वयमन्तरेणान्वतत्वं पृथगवतिष्ठते । ततश्चान्वयमन्तरेणान्वितत्वस्य प्रत्येतुमशक्तेः तत्प्रतीतौ च तत्प्रतीतिरेकैव । शक्तिरन्वयपर्यन्ता व्यक्तिवत्। न हि व्यक्तिमन्तरेण जातिः प्रत्येतुं शक्यते । वस्तुस्वभावाद्‌व्यक्तिप्रतितावेव तत्पतीतिः। आकारभूता हि तस्याः । न ह्यकारिणमन्तरेणाकारप्रतीतिः। तर्हि तयोरप्येकशक्तिगोचरत्वं स्यात् । न स्यात् । यथाऽन्वयवत्त्वमेवान्वितस्वरूपं, नैवं व्यक्तिमत्तेव जातिस्वरूपं, व्यक्तेः पृथग्बूता, तदाकारभूता हि सा । अतो नैकशक्तिगोचरत्वं तयोः । तर्ह्युभयप्रत्यायने शक्तितद्वयं स्यात् । न स्यात् । शक्तिमन्तरेणापि जातिस्वभावादेव व्यक्त्या सहोपलब्धेः । तथाहि- जातिवाची हि शब्दो व्यक्तिमन्तरेण जातिं प्रत्याययितुं न शक्नोति । आकारिणमन्तरेणाकारस्य प्रत्येतुमशक्तेः । अतो जात्यभिधायकतयैव जातिशब्दो व्यक्तिमपि प्रत्याययतीति न शक्तिस्तत्र कल्प्यते । अनन्यलभ्यश्शब्दार्थ इति न्यायात् ।
नन्वेकप्रतीतिविषयत्वेऽप्येकस्यानभिधेयत्वमन्यस्याभिधेयत्वं च कुतः ? इत्थम्- तत्र तावदनन्तासु व्यक्तिषु सङ्गतिरशक्या । जात्युपलक्षितास्तु यद्यपि शक्याः । तस्मिन्नपि पक्षे जातौ शब्दस्य शक्तिरवश्याङ्गीकार्या । अन्यथा शब्दाज्जातेप्रतीतिप्रसङ्गात् । ततो वरं जातावेव शक्तिः । व्यक्तिस्तु जात्यभिधायकत्वस्वभावलभ्या लाघवादिति न सर्वसाम्यं व्यक्तिदृष्टान्तस्य । किं तु तत्प्रतीतावेव तत्प्रतीतिः, तदप्रतीतौ च तदप्रतीतिः इति दर्शनरहस्यम् । कथंचिच्छक्तिद्वयकल्पनेऽप्यभिहितान्वयवादादन्विताभिधानपक्ष एव श्रेयान् । पदानां स्वार्थे तदर्थानां वाक्यार्थे पुनरपि पदानां तदाधाने इति शक्तित्रयम् । अत्र तु शक्तिद्वयम् । पदानां स्मारकत्वपक्षे यद्यपि कथंचित्साम्यम् । तथापि वाक्यार्थस्य शाब्दत्वसिद्धये पदानामेव सा अन्वितगोचराऽङ्गीकार्या । किं च इतोऽप्यन्विताभिधानमेव युक्तम् । यतः प्रथमभावीनि पदान्यतिलङ्ध्य पदार्थेषु
वाक्यार्थबोधनशक्तिराश्रयितुमयुक्ता । किंच पदानां वाक्यार्थाभिधानशक्तिरविवादा, भवद्भिरङ्गीकारात् । ततश्च सैवान्वितपर्यन्ता स्वीकार्या, न तु पदार्थानामन्या स्वीकार्या, धर्मिकल्पनातो धर्मकल्पनाया लघीयत्वात् । किंच येन नाम पदानां स्मारकत्वमङ्‌गीकृतं तेनापि तेषां वाक्यार्थे तात्पर्यमङ्‌गीकृतम् । तथा च तेषामेव साक्षाद्बोधनशक्तिरस्तु, किं परम्पराश्रयणेन ? तदुक्तम्-
प्राथम्यादभिधातृत्वात्तात्पर्योपगमादपि ।
पदानामेव सा शक्तिर्वरमभ्युपगम्यताम् ।।
इति ।। तस्मादन्विताभिधानमेव युक्तम् । तच्च मुख्यपदानामेव। गौणलाक्षणिकयोस्तु प्रतियोगिमात्रोपस्थापकत्वमेव, नान्वितबोधकत्वं, तत्र तयोशशक्तिग्रहणाभावात् । तह्नहणे चानेकार्थत्वं तयोः स्यात्, तच्चान्याय्यम्। अक्षादिपदेषु त्वनेकार्थत्वमगत्या । इह तु संबन्धानुपपत्तिभ्यां गुणयोगाच्चार्थप्रतीतिसंभवे तत्रापि शक्तिकल्पनमयुक्तम्। इत्थमाकाङ्क्षादित्रयोपाधिवशेनान्विते शक्तिग्रहणाद्विशेषेणैवान्विताभिधानं समर्थितम् ।।
केचित्तु सामान्याकारेणाहुः । तथाहि- क्रियापदं हि कारकसामान्यान्वितं स्वार्थमाह । एवं कारकपदमपि । सर्वोऽपि शाब्दोऽन्वयः क्रियाकारकभावेनैव। अन्वयव्यतिरेकाभ्यां हि शक्तिग्रहः, तौ च सामान्यगोचरौ, अतस्सामान्येनाऽन्विताभिधानमिति । तन्न, तन्मते विशेषवाक्यार्थावगतिर्दुर्लभा, प्रमाणाभावात्, पदानि चेत्सामान्यान्वितपर्यवसितशक्तीनीति । अथ सामान्यस्य विशेषपर्यवसानात्तत्सिद्धिरिति चेत्, तथापि निर्धारितविशोषावगतिर्दुर्लभा, प्रमाणाभावादेव । अथ विशेषमात्राक्षेपे पदान्तरोपस्थापिते योग्ये विशेषे पर्यवसानमिति चेत्, एवं चेद्विशेषान्वयव्युत्पत्तिरेवमुखान्तरेणाङ्‌गीकृता स्यात् । किंच क्रियास्वभावालोचनयाऽपि तस्य कारकमात्रेणान्वये सिद्धे तत्रापि शब्दप्रयासो
व्यर्थः । एवं कारकस्वभावालोचनयाऽपि । अस्माकं चेदाकाङ्‌क्षादित्रयं विशेषव्युत्पत्तावुपकारकम् । इतरस्य तु लोपकारकम् । कथंचिदुपकारकत्वेऽपि पदान्तरसन्निधिर्व्यर्थ एवेति विशेषत एव युक्तम् । यदि पदान्तराभिहितेनैवान्विताभिधानं तदेतरेतराश्रयः स्यादित्युक्तम्। मैवम्, इत्थं हि पदेभ्यो वाक्यार्थावगतिः-प्रथमं श्रूयमाणनि पदानि परस्परानन्वितान्स्वार्थान्स्मारयन्ति। स्मृतेषु तेषु पश्चाच्छ्रोतुः स्वस्वार्थविषयो विमर्शौ जायते । इदमेकवाक्यं भिन्नवाक्यमिदं विवक्षितार्थमविवक्षितार्थमिदं लाक्षणिकं मुख्यमिदमन्वयार्हमिदं प्रधानमप्रधानमिदं विधेयमविधेयं चेत्येवमाद्यात्मकः । ततश्च वाक्यार्थनिर्णयौपयिकन्यायानुसंधानेन यथावच्छब्दार्थानुसंधानविषययोग्यायोग्यविभागे सति स्मृत्यारुढानि तान्येव पदान्यन्विताभिधायकानीति स्मृतिदशायां परामर्शदशायामभिधानदशायां च नेतरेतराश्रयः ।।
ननु पदान्येव वाल्यमित्युक्तम् । तत्रैकैकं पदं वाक्यं तत्संवातो वा ? नाद्यः, पदान्तरप्रयोगवैर्थ्यात् । न द्वितीयः, संघातस्य चान्यत्वप्रसंगात् । मैवम्, पदान्येव वाक्यम् । तान्यपि न संघानात्मना, किं तु प्रत्येकं पदात्मकतयैव । तथाहि- गामानय इत्यत्र गोपदमानयत्यन्वितस्वार्थबोधकम् । आनयतिपदं तु तदानीं प्रतियोगिमात्रोपस्थापकम् । एवमानयेतिपदमपीत्युभयमपि वाक्यम् । एवं दण्डेनेत्यादीन्यपि । प्रतियोग्यपस्थापकतया च न पदान्तरप्रयोगवैयर्थ्यमपि। अभिधानदशायामेकस्मृत्यारूढानि सर्वाण्यपि पदानि युगपदेव बोधकानि। गुणप्रधानभावेनान्वये सति प्रधानैक्याद्वाक्यार्थैक्यं, तदैक्याद्वाक्यैक्यमपि। प्रधानप्रतिपलिश्च नैकनिबन्धना । कथं नु नाम प्रधानं विशिष्टं प्रतीयतामित्यंवेमर्थं गुणप्रतिपादनमिति गुणा अपिप्रधानशेषभूता इति तत्प्रतिपादनमपि नैकस्मात्पदात् । प्रधानं प्रयोजनं कार्यमिति यावत्, सर्वेषामपि पदानां कार्यपरत्वव्युत्पत्तेः । एतेन प्रथमं पदं प्रधानं पदं वा अन्विताभिधायि, अतस्तदेव वाक्यम्।
अन्यत्प्रतियोगिमात्रोपस्थापकमित्यदिवादा निरस्ताः । प्राथम्यादेरनियतत्वाच्च ।।
केचित्तु पदातिरिक्तं वाक्यं पदार्थातिरिक्तश्च वाक्यार्थ इत्याहुः। तन्मते वाक्यस्पानियतत्वात्तस्य तदर्थे व्युत्पत्तिरशक्या । अपूर्ववाक्यश्रवणे च तदर्थप्रतीतिर्न स्यात् । तत्र तस्याव्युत्पत्तेः। अनियत्वं च, पदान्तरप्रक्षेपे तत्प्रतिक्षेपे च वाक्यान्तरपरिणामात् परिणमन्ते। तत्रानेकशक्तिकल्पनाः स्युः । तथा हि- " शिशो ! गामानय गां बधान " अर्भक गामानय गां बधान, डिंभक ! गामानय गां बधान, वत्स गामानय गां बधान " इति सप्तभिः पदैः अष्टवाक्यानि । तत्र पदव्युत्पत्तिवादिनः सप्त शक्तयः, वाक्यव्युत्पत्तिवादिनस्त्वष्टौ । तथा ' शुक्लाम् ' इति पदप्रक्षेपेऽष्टापराः प्रकल्प्याः ।। पदवादिनस्त्वेका । अस्माकं तु पदान्येव वाक्यं तदर्थ एव वाक्यार्थ इति न किंचिदनुपपन्नम् ।
नन्वन्विते व्युत्पत्तेरन्वितपदार्थप्रतिसंबन्धीनि पदानि । न तैस्स्मरणदशायामनन्वितपदार्थस्मरणम् । उच्यते- अन्वितेऽर्थेऽनन्वितांशस्यापि विद्यमानत्वात् तत्स्मरणमुपपद्यते, प्रतियोगिनस्त्वनियतत्वेन, न स्मृतिविषयता । विशिष्टानुभवेऽपि क्कचित्कारणवशाद्विशेष्यमात्रस्मरणं च लोके बहुशो दृश्यते । अथवा यथा निर्विकल्पकगृहीतादप्रमाणभूतादवाच्यादप्यर्थाद्वाचकशहब्दस्मरणं एवमभिधायकत्ववेषमनपेक्ष्य केवलमर्थप्रतिसंबन्धिशब्दमात्रादप्रमामभूतादप्यर्थस्मरणं युज्यते । परस्परप्रत्यासत्तिरेव स्मरणनिमित्तम्, न प्रमाणत्वाप्रमाणत्वे । श्रूयमाणं च पदं नान्विताभिधायकम्, तदानीं प्रतियोगिनोऽनुपस्थानात्, तत्सापेक्षत्वाच्चान्विताभिधानस्य । ततश्च पदोच्चारणानन्तरमनन्वितपदार्थस्मरणमुपपन्नम् । मतान्तरेऽपि पदानां स्मारकत्वमभिमतम् । यथा अभिहितान्वयवादे स्मृतेभ्यः पदार्थेभ्यः अन्वितप्रतीतिः तथा स्मृतेभ्यः पदेम्योऽपि नानुपपन्ना । ननु यदि स्मृतिसन्निहितेन पदार्थेनान्विताभिधानं तत्स्मृतिश्च शब्दात्, तर्हि गोपदस्य गोत्वेनेवार्थन्तरेणापि
प्रत्यासत्तेः तस्यापि गोपदेन स्मरणे सति गामानयेत्यत्र आनयतिना नियमेन गोरन्विताभिधानं न स्यात् । एवमानयतेरपि । नैवम्- अभिहितान्वयवादेऽप्यस्य दोषस्य तुल्यत्वात्, गोपदार्थस्यानयतिनेव पदार्थान्तरेणापि संबन्धात्। तस्मादावाभ्यामयं दोषः परिहर्तव्यः । परिहारस्तु गोपदप्रयोगे तस्यैव नियमेन स्मरणमनुगतत्वात्, न त्वर्थान्तरस्य, तदभावात् । एवमानयेतिप्रयोगेऽपि। तस्मात्तयोरेवान्विताभिधानम् । अर्थान्तरैरान्विताभिधाने एकवाक्यं च न स्यात्। तस्माल्लौकिकं वैदिकं च पदजातमन्वितबोधकतयैव प्रमाणमिति सिद्धम् । य एव लौकिकास्त एव वैदिका इति लोकवेदाधिकरणन्यायात् । एतत्सर्वमभिप्रेत्योक्तं प्रकरणपञ्चिकायाम् -
पदजातं श्रुतं सर्वं स्मारितानन्वितानन्वितार्थकम् ।
न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ।।
स्मृतिसन्निहितैरेवमर्थ्यैरन्वितमात्मनः ।।
अर्थमाह पदं सर्वमिति नान्योन्यसंश्रयः ।।
न्यायसंपादितव्यक्तीति वृद्धव्यवहारप्रवर्तितायां शब्दार्थप्रवृत्तौ ये न्यायाः शब्दार्थगोचराः एकवाक्यत्वभिन्नवाक्यत्वादयः पूर्वोक्तास्साधारणाः ये च द्वादशाध्यायीप्रतिपाद्या वेदार्थनिर्णये प्रातिस्विकाः शब्दान्तराभ्यासादयः श्रुतिलिङ्गवाक्यप्रकरणादयः श्रुत्यर्थपठनस्तानादयो वचननामधेयचोदनादयश्च तैर्विमर्शदशायां संपादिते शब्दार्थानामन्वयार्हत्वविभागे सति पश्चात्स्मृत्युपनीतैः पदैर्योग्यक्रमेण वाक्यार्थावगतिरित्यर्थः । तस्माल्लौकिकं वैदिकं च वाक्यं न्यायसापेक्षमेवार्थबोधकं यद्विप्रतिपन्नार्थमपि । प्रतिपन्नार्थं तु तदनपेक्षमेव झडिति बोधकम्। वेदवाक्यार्थसंशये सति तन्निर्णयौपयिकन्यायनिबन्धनं हि शास्त्रं मीमांसा, सा च द्वादशाध्यायी । तदारम्भश्चाग्रे समर्थयिप्यते । सा च करणीभूतस्य वेदस्येतिकर्तव्यता, यथा चक्षुष आलोकः, यथा वाऽनुमानस्य व्याप्तिस्मरण, यथा
वोपमानस्य सादृश्यं, यथा वाऽर्थापत्तेस्संदेहापत्तिः, । तदुक्तम्ः-
धर्मे प्रमीयमाणे हि वेदेन करणात्मना ।
इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ।।
इति।।तस्मादन्विते व्युत्पत्तेस्सर्वमपि पदजातमन्विताभिधायीति स्थितम् ।।
नन्वस्त्वन्विते व्युत्पत्तिः, तद्वशात्कथंचिदप्रतीतिरपि स्यात् । तथाहि- 'अङ्गुल्यग्रे करिणां यूथशतमास्ते ' 'जरद्गवो गायति ' इत्यादिना वृद्धव्यवहारे व्युत्पन्नानामपि लौकिकपदानामर्थासंस्पर्शित्वदर्शनात्सर्वाप्यपि पदान्यर्थासंस्पर्शीनीति कथं तेषां प्रामाण्यम् ? अर्थप्रतीतिस्तु केवलं शब्दसाहचर्यप्रभवतया भ्रान्तिरेव, न त्वव्यभिचारिणीति नियमः । ननु शुक्तिकारजतादिवल्लौकिकवाक्यानां कारणदोषेण दुष्टतया भेदाग्रहात् भ्रान्तत्वं युक्तम् । वैदिकानां तु निर्दोषतया स्वाभाविकं निश्चायकत्वमेवेति चेन्न । दोषासंभवाद्युक्तं साक्षादिन्द्रियजन्यतया रजतज्ञानस्य तद्दोषादुष्टत्वम् । इह तु शब्द एव हि साक्षात्प्रत्यायकः, वक्तारस्तु केवलं शब्दाभिव्यञ्जकाः । तद्दोषाश्च न तेषु संक्रामन्ति । अतो लौकिकानां स्वतोऽर्थासंस्पर्शित्वं, वैदिकाश्च न लौकिकेभ्यो भिद्यन्ते। अतस्तेषामप्यर्थासंस्पर्शित्वं स्यात् । किं च व्युत्पत्तिश्च लोके, ततश्च सुतराम् । ननु तर्हि कथमाप्तवाक्येभ्यः प्रवृत्तिः ? कथं वा संवादः ? न, तत्र संदेहादपि तदुपपत्तेः। कृष्यादिषु संदेहादपि हि प्रवर्तन्ते । संवादश्च यादृच्छिकः । अपि च लौकिकेषु मानान्तरवशेनाप्यर्थनिर्णयस्स्यादेव । वेदे तु वक्तुरभावात्तदर्थस्य मानान्तरागोचरत्वाच्च न तत्र निर्णय इत्यर्थासंस्पर्शिन एव वेदाः ।
अत्रोच्यते- अर्थासंस्पर्शे जगति शब्दमूला प्रवृत्तिर्न स्यात्। तत्प्रतिपादनं च न घटेत, तस्यापि शब्दमूलत्वात् । यथाकथंचित्संस्पर्शे नियता प्रवृत्तिर्न स्यात्। तस्मात्तत्संस्पर्शाऽङ्‌गीकार्यः । तत्र लौकिकं पदजातं तावत् लिङ्गतयाऽर्थप्रत्यायकं, न तु स्वयं प्रमाणत्वेन । तत्र यद्यपि शब्दार्थयोस्संबन्धस्तावदौत्पत्तिकः । तत्परिज्ञानं
च शक्तिग्रहात् । स च वृद्धव्यवहारप्रवर्तितायां व्युत्पत्तौ गृहीतसंबन्धं च पदजातं स्वरसतोऽर्थप्रत्यायकमित्येतावत्सर्वजनसम्मतम्, तथापि लौकिकवाक्येषु वक्तृदोषशङ्‌कया सा शक्तिस्तिरोधीयते । तथाहि- तत्र पुरुषा भ्रमातिशयदोषप्रमादाशक्तिभिनन्वितार्थानि वाक्यानि प्रयुञ्जाना दृश्यन्ते । तद्दृष्टान्तबलेन सर्वत्राप्यनन्वितार्थत्वशङ्कायां लौकिकं वाक्यं श्रुतमात्रं नार्थनिश्चायकं, यावद्वाक्यस्य प्रमाणमूलत्वं न निश्चितम् । पश्चात्तु, कदाचिदप्यनन्वितार्थानि वाक्यानि न प्रयुङ्‌क्ते । अर्थं ज्ञात्वैवान्योन्यान्वययोग्यार्थं पदजातं ब्रवीति । तस्मादाप्त इत्याप्तत्वनिश्चये सति पश्चात्तस्माद्वाक्यात्कार्यभूतात्कारणभूतं वक्तृज्ञानमनुमीयते, इदं वाक्यं स्वार्थसंसर्गज्ञानपूर्वकं, आप्तवाक्यत्वात्, मदीयवाक्यवत् । पश्चात्तु तज्ज्ञानमर्थाविनाभावि, ज्ञानत्वात्, मदीयज्ञानवदिति ज्ञानेनार्थोऽनुमीयते । इत्थं वाक्यार्थे निश्चिते सति पश्चात्तदेव वाक्यमुद्‌बुद्धशक्तिकं सत्तस्यार्थस्य वाचकम् । तस्यां दशायां अनुमितार्थबोधकत्वादनुवादकमेव, न तु प्रमाणम् । तस्माल्लौकिकं वाक्यं लिङ्गतयैव प्रमाणं, न तु स्वतः । अनाप्तवाक्यं चेल्लिङ्गाभास एव, व्यभिचारात् । शब्दस्य तु न क्कचिदपि व्यभिचारोऽस्ति । तस्य तु शास्त्ररूपस्य स्वत एव प्रमाणत्वात् । लौकिकं तु वाक्यं न शास्त्रं, किं तु लिङ्गम् । अतस्तदेव व्यभिचारि । विचार्यमाणेलिङ्गस्यापि न व्यभिचारः । प्रत्ययितवचनादप्रत्ययितवचनं विवेकेनाप्रतिपद्यमानप्रत्ययितवचने दृष्टम् । ग्रहणापूर्वकत्वव्यवहारमप्रत्ययितवचने प्रवर्तयतीति न लिङ्गस्यापि व्यभिचारः । तस्माल्लौकिकमाप्तवाक्यमनुवाददशायामर्थसंस्पर्शि । अनाप्तवाक्यं चेत्केवलं स्वस्वार्थस्मारकतया अर्थासंस्पर्शीति सिद्धम् । वेदे तु, वक्तुरभावात् असति शक्तिप्रतिबन्धे स्वरसप्राप्तं वाचकत्वं सुस्थमेवेत्यर्यसंस्पर्शिन एव वेदाः।
ननु लौकिकानि पदानि लिङ्गतया बोधकानि चेत्, कथं तेषां स्वस्वार्थे शक्तिग्रहः ? उच्यते- न हि धूमवदविनाभावबलेनैवानुमापकं, किं तु
वाचकशक्त्यन्तर्भावबलेनैव । न हि यक्तिंचिच्छब्दमात्राद्यक्तिंचिदर्थमात्रमनुमीयते, किं तु विशिष्टच्छब्दाद्विशिष्टोऽर्थः । वाचकत्वमेव शब्दस्य विशेषः, वाच्यत्वमेवचार्थस्य । ततश्च प्रथमं वृद्धव्यवहारे पूर्वोक्तेन मार्गेण वाचकाच्छब्दाद्वाच्यार्थव्युत्पत्तौ सत्यां कुतश्चित्कारणादर्थव्यभिचारशङ्कायां पश्चात्तस्मिन्नेवार्थे तस्य शब्दस्य लिङ्गत्वं, ततः पश्चादनुवादकतयाऽपि वाचकत्वमिति व्युत्पत्तिसमयेऽनुवादसमये च शक्तिग्रहणमुपपन्नमिति गम्भीरोऽयं न्यायमहाह्रदः ।।
ननु प्रत्ययितत्वज्ञानेन व्यभिचारशङ्‌कायां निवृत्तायां वाक्यं स्वत एवार्थे प्रमाणं स्यात्, किमिति वक्तृज्ञानानुमानं भवेत् । मैवम्,- प्रत्ययितत्वं नाम समीचीनज्ञानपूर्वकवाक्यप्रयोक्तृत्वम् । ज्ञानस्य समीचीनत्वनिश्चयश्चार्थनिश्चयमन्तरेण न स्यादिति न संशयनिवारणमात्रे पुरुषविशेषज्ञानं व्याप्रियते, किंत्वर्थनिश्चयेऽपि। ननु तर्हि निश्चितेऽर्थे संशये च निवृत्ते पश्चात्तत्र प्रमाणं स्यात्, न स्यात्, तस्यां दशायां अनुवादकत्वादित्यसकृदुक्तम् । ननु यदि वाक्याद्वक्तृज्ञानानुमानं, ज्ञानाच्चार्थानुमानं, तर्ह्यनवगतेऽर्थे कथं ज्ञानविशेषोऽनुमातुं शक्यते, ज्ञानमात्रं च नानुमेयम्, अप्रयोजकत्वात् । अर्थेनैव ज्ञानस्य विशेषः, तदुक्तम् -
 
अर्थेनैव विशेषो हि निराकारतया धियाम्।
इति ।। न चानवगतोऽर्थो ज्ञानस्य विशेषमापादयतीति प्रथमत एवार्थविशेषसंघटितं ज्ञानमनुमीयताम्, किमिति पश्चाज्ज्ञानेनार्थानुमानम् ? उच्यते- वुमुत्साक्रमेण ह्यनुमानं, कार्यभूतस्य वाक्यस्य प्रथमं सामान्याकारेण स्वार्थसंसर्गज्ञानपूर्वकत्वमात्रं बुभुत्सितम्, ततश्चानवगतेऽप्यर्थविशेषे तादृशज्ञानविशेषोऽनुमातुं शक्यत एव । यादृशार्थप्रतिपादनयोग्यानि पदानि तादृशार्थज्ञानपूर्वकाणीति । इत्थं ज्ञानेऽनुमिते, पश्चात्तेन ज्ञानेनार्थोऽनुमीयत इति बुमुत्साक्रमेणानुमानद्वयप्रवृत्तिरिति न किंचिदनुपपन्नम् । एतत्सर्वं नीतिपथे प्रकटितम्
।।
ननु भारतादिवत्पदसंघातात्मकतया वेदः पौरुषेयस्स्यात्, अत एव कठशाखा कण्वशाखेति समाख्या, न चेयं प्रवचननिमित्ता, तस्य सर्वाध्येतृसाधारणत्वात्। बहवो हि प्रब्रूयुः, कर्ता पुनरसाधारणः, असाधारणेन हि व्यपदेशो युक्तः। पौरुषेयत्वे च वेदस्य तदर्थस्य प्रमाणान्तरागोचरत्वात्तद्विषये वक्तुः प्रमाणान्तराभावादप्रमाणमूलतयाऽनन्वितार्थत्वशङ्‌का स्यादेवेति चेत्, मैवम्,- पुरुषकृतत्वं तावद्भारतादिवन्न स्मर्यते । वैयासिकी भारतसंहिता, पाराशरी विष्णुपुराणसंहितेति स्मर्यते । दुरनुमानं च, मानान्तरागोचरेऽर्थे पुरुषाणां वाक्यरचनानुपपत्तेः, समाख्या तु पौरुषेयी प्रमाणान्तरानुसारिणी न स्वयं पौरुषेयत्वं व्यवस्थापयितुं शक्नोति, प्रमाणान्तरं च न दृश्यते । तस्मात्प्रवचननिमित्ता कठादिसमाख्या, प्रकृष्टं वचनं कस्यचिदेवेति तदप्यसाधारणम्। अध्ययानध्यायादिव्यवस्थयाऽधीयमानस्य व्रतनियमविशेषपूर्वकस्य व्याकरणानुशिष्टस्य स्वरतो विशेषनियतस्यानुष्ठानपर्यन्तस्याविसंवादिपश्चन्नाद्यैहिकफलसाधनस्य शिष्टजनपरिगृहीतस्य महतो ग्रन्थराशेर्भ्रान्तपुरुषप्रणीतत्वशङ्‌का च निरवकाशा। क्कचित्कवचिद्विप्रकीर्णविरुद्धाप्रसिद्धार्थतयाऽप्रामाण्यमपि नाशङ्‌कनीयं, निरुक्तव्याकरणमीमांसादिमुखेन समीचीनार्थत्वनिर्णयसिद्धेः । प्रमाणान्तरागोचरस्य अपूर्वात्मकस्य वेदार्थस्यबुद्धावारोपयितुमशक्यतया बुद्धिमत्प्रणीतत्वमपि नाशङ्‌कनीयम्। न हि दर्शपूर्णमासाद्यपूर्वं प्रत्यक्षादिप्रमाणगोचरः । किं तु तच्चोदनामात्रगोचरः। तदाह सूत्रकारः-
" सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् । चोदनालक्षणोऽर्थो धर्मः " इति च ।।
तस्मादपौरुषेयो वेदः । पदसंघातात्मकत्वं चोच्चारणवशादुपपन्नम्।
तदुच्चारणमुच्चारणान्तरपूर्वकम्, तच्च तथा । अपौरुषेयतया च प्रमाणान्तरपूर्वकता नास्ति, प्रत्यक्षवत् । अत एव चानपेक्षतया वेदप्रामाण्यमिति ।।
ननु ' चित्रया यजेत पशुकामः, इत्यादिचोदनाः पश्वादिफलानुविद्धं स्वमर्थमवबोधयन्ति । न च कर्मानन्तरफलं दृश्यते । दृश्यमानमपि प्रतिग्रहादिनिमित्तमेव । अतः प्रमाणान्तरबाधान्न प्रमाणम् । उच्यते- न तावच्छास्त्रेणानन्तरभावितया फलं ज्ञाप्यते, किं तु फलसाधनत्वमात्रमपूर्वस्य । न च प्रतिग्रहादिकमपूर्वसाधनत्वपरिपन्थि, तत्साधनत्वेऽप्यपूर्वसाधनत्वाविरोधात् । अतः प्रत्यक्षादिसिद्धं प्रतिग्रहादिकं शास्त्रसिद्धमपूर्वमुभयमपि फलसाधनमिति । अतो वेद एव शास्त्रं पृथक्प्रमाणम् । तत्र लौकिकं वाक्यं लिङ्गतया प्रत्यायकम् । तत्तु, न शास्त्रं, असन्निकृष्टविषयत्वाभावात् । वैदिकमेव शास्त्रमिति सिद्धम् । तत्तु द्विविधं प्रत्यक्षमनुमानं च । तत्राद्यपध्ययनपरिगृहीतस्वाध्यायात्मको वेदराशिः । द्वतीयस्तु नित्यानुमेयः । तत्र लिङ्गं स्मृतिः आचारश्च । तथाहि- ' अष्टका कर्तव्या ' इति स्मृतिस्तावत् त्रैवर्णिकैरविगानेन परिगृहीता । न चामूलायाः परिग्रह उपपद्यते । न च प्रत्यक्षं मूलं, तस्यापूर्वविषयत्वासंभवात् । स्मृतिस्तु कार्यविषया । ततश्शास्त्रमेव मूलम् । ननु तदपि कथं मूलं, यत्नेनान्वेषणेऽप्यनुपलब्धेः । अनुपलब्धस्य चाबोधकत्वात् ? उच्यते- स्मृतिप्रणेतार एव वयमिव तच्छास्त्रं नोपलभन्ते। तत्समानार्थस्मृत्यन्तरदर्शनेन तेषामप्यस्माकमिवानुमानं संभवत्येव। एवं मन्वादिभ्यः पूर्वेषामपि स्मर्तृणां तत्समानार्थस्मृत्यन्तरदर्शनेनानुमानम्। इत्थमानादित्वात्स्मर्तृपरम्पराया लिङ्गभूतायाश्च स्मृतिपरम्पराया नानुमानत्वविघातः। अत एव नान्धपरम्परावदमूलत्वमपि, अनुमितस्य शास्त्रस्य अर्थप्रतिपादकत्वं च लिप्यनुमिताक्षरवदुपपन्नम् । अनन्तचरणाधारे हि महीमण्डले कुत्रचिदप्यश्रवणमनाम्नानात्, तदेव कथम्, आचार्यान्तरानाम्नानात् ? तदपि कुतः ? तथैव । तत एव नित्यानुमेयत्वं वेदत्वं च, तस्यापौरुषेयप्रबन्धरुपत्वात् । अत एव
स्मृतीनां विप्रकीर्णशाखामूलत्वमपि परोक्तं निरस्तं, क्कचित्कदाचित्केनचिदप्यनुपलम्भात् । तथा शिष्टत्रैवर्णिकपरिगृहीताविरुद्धाचारेणापि साक्षाच्छ्रुतिरनुमीयते, मूलान्तरासंभवात् । आचारात्स्मृतिस्ततःश्रुतिरिति पंरोक्तमयुक्तं, परम्परायां प्रमाणासंभवात् । तस्माद्द्विविधं शास्त्रम्। उभयमप्यसन्निकृष्टार्थविषयम् । स च कार्यात्मा, सर्वेषामपि शब्दानां साक्षात्परम्परया वा लोके कार्यपरत्वव्युत्पत्तेः । वैदिकानामपि लोकाविशेषात्। तथाहि- यथा मध्यमवृद्धप्रवृत्तिर्ज्ञानपूर्विका, तथा कार्यज्ञानपूर्विका च, न हि ज्ञानमात्रात्प्रवर्तते, किं तु कार्यमेव तदिति ज्ञात्वा । इष्टसाधनताज्ञानस्य प्रवर्तकत्वमग्रे निराकरिष्यते। तच्च कार्यज्ञानं शब्दानन्तरभावित्वाच्छब्दजन्यम् । तस्मिंश्च कार्ये लिङ्लोट्‌तब्यप्रत्यया एवान्वयव्यतिरेकाभ्यामवधारितशक्तिकाः, ततस्तेषां साक्षात्तत्परत्वम्, इतरेषां तु परम्परया । तथाहि- ' देवदत्त गामानय शुक्लां दण्डेन ' इत्यादौ विधिप्रत्ययः साक्षादानयतेः कार्यतां बोधयति । आनयतिस्तु क्रियां, गोपदं तदन्वितं कर्म। एवमितराण्यपि कारकपदानि तदन्वितं स्वार्थम्, अन्विते व्युत्पत्तेः । तथा ' ज्योतिष्टोमेन स्वर्गकामो यजेत ' इत्यादौ वैदिकपदानामपि कार्यपरत्वं द्रष्टव्यम्। एतच्चोपरिष्टात्प्रपञ्चयिष्यते। तस्मात्सर्वेषामपि कार्यपरत्वव्युत्पत्तेः तत्परत्वं सिद्धम् ।
ननु सिद्धार्थपरादपि वाक्याद्‌व्युत्पत्तिः दृश्यते । कथं तन्मात्रपरत्वम् ? तथाहि- ' पुत्रस्ते जातः, क्षेत्रं ते पक्कसस्यम् ' इत्यादिप्रयोगे मुखप्रसादादिलिङ्गैः श्रोतुर्हर्षोत्पत्तिरनुमीयते, सा च तन्निमित्तमन्तरेण न संभवति । प्रियवस्तुप्रतीतिश्च हर्षहेतुरिति स्वात्मनि प्रतीतम् । तेन वाक्येन प्रियोऽर्थो बोधित इति सामान्येन प्रतीते परिशेषात्प्रमाणान्तरप्रतिपन्नं पुत्रजन्मैव वाक्यप्रतिपाद्यमिति व्युत्पित्सुरवगच्छति । तस्मात्प्रतिपदमावापोद्वापाभ्यां विशेपार्थनिश्चयो भवति। तथा ' काष्ठैः पचति ' इत्यादौ, वर्तमानप्रयोगे । व्युत्पन्नविभक्तय्थौऽव्युत्पन्नप्रातिपदिकार्थश्च प्रत्यक्षेण काष्ठानां करणभावमधिगच्छन् प्रसिद्धपचतिपदसमभिव्याहारात्काष्ठशब्दार्थं
निश्चिनोति। किं चास्य शब्दस्यायमर्थ इत्यपि लोके व्युत्पत्तिर्दृश्यते । अपि च सिद्धार्थपराण्यपि वाक्यानि लोके प्रश्र्नोत्तरपराणि दृश्यन्ते । ' कुशलं ते, कुशलं मम इति '। अतः कार्यमात्रपरत्वमनुपपन्नमिति ।।
अत्रोच्यते- सर्वपुरुषाणामाद्या व्युत्पत्तिस्तावद्‌वृद्धव्यवहारत एवेत्यविवादम्। व्यवहारश्च प्रत्यक्षेण विशिष्टार्थविषय उपलभ्यते । स च कार्यावगममूलः, तस्यैव प्रवर्तकत्वात् । अतः कार्यान्विते विशिष्टार्थे ज्ञानानुमानद्वारेण शब्दस्य शक्तिग्रहस्सुकर एव । नात्र परिशेषापेक्षा, व्यवहारविषयस्य विशिष्टार्थस्य प्रत्यक्षसिद्धत्वात् । सिद्धार्थाख्याने तु व्युत्पत्तिर्दुश्शकैव । यद्यपि तत्परवाक्यप्रयोगे मुखप्रसादादिभिः हर्षोत्पत्तिरनुमीयते । तया च तद्धेतुप्रतीतिः, तन्निमित्तताऽपि शब्दस्यैव । तथापि परिशेषात्प्रमाणान्तरसिद्धपुत्रजन्माख्यहर्षहेतुप्रतिपादकता दुरनुमाना, कालत्रयवर्तिनां सन्निहितव्यवहितानां प्रमाणान्तरसिद्धानां हर्षहेतूनां पारिशेप्यादवधारणायोगात् । तथा अस्य शब्दस्यायमर्थ इत्यत्रापि सर्वपदार्थापरिज्ञाने व्युत्पत्तिर्दुश्शकैव । कतिपयपदार्थज्ञाने तु प्रसिद्धपदसमभिव्याहार एव । तत्र प्रसिद्धानां पूर्वं कार्यान्वितस्वार्थे व्युत्पत्तेरप्रसिद्धार्थस्यापि पदस्य कार्याध्याहारेणैव तदन्वितस्वार्थावगतिरेषणीया । ततश्च सर्वपदानां तत्परत्वं सिद्धम् । एवं च लोके यस्सिद्धार्थपरस्स लाक्षाणिक एव, कार्यपरं पदजातं परस्परपदार्थान्वया व्यभिचारीति कार्यान्वयमविवक्षित्वा. परस्परपदार्थन्वयमात्रं विवक्षित्वा लोकश्शब्दं प्रयुङ्‌क्ते। विवाक्षावशेन लक्षणयाऽपि तत्र तात्पर्यं निर्वहत्येव । वेदे तु लक्षणानिबन्धनं किंचिदपि नेति औत्सर्गिकं कार्यपरत्वमनवग्रहम् । ततश्च सिद्धब्रह्मपराणां सिद्धपरात्मपराणां च ' सत्यंज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रह्म, तेनेदं पूर्णं पुरुषेण सर्वं, यस्सर्वज्ञस्सर्ववित्, द्वे ब्रह्मणी वेदितव्यं परं चापरं च, द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते '। इत्यादिविधिनैकवाक्यतामाश्रित्य कार्यपरत्वं वर्णनीयम् । ' भूतं भव्याय ' इति न्यायात् । साध्यशेषभूतं सिद्धमिति
न्यायादित्यर्थः ।
इत्थं वर्णा नित्याः । अर्थाश्च प्रवाहरूपेण । तत्संबन्धश्चापौरुषेयः। तत्परिज्ञानं च शक्तिग्रहात् । शक्तिग्रहश्च वृद्धव्यवहारेण । स च कार्यान्वितस्वार्थे। तत्र पदान्येव कार्यान्वितस्वार्थबोधकानि, न त्वखण्डं शब्दतत्वं, नाप्यन्त्यो वर्णः, नापि पदप्रतिपादिताः पदार्थाः, तत्र लौकिकं पदमनुमानरूपं, न शास्त्रं, असन्निकृष्टार्थंवैदिकमेव शास्त्रम् । तदपि द्विविधमित्युक्तम् । लक्षणव्यावर्त्यचिन्तातु अर्थग्रहणेनाभिधेयवचनेन । लैङ्‌गिकं वक्त्रभिप्रायज्ञानमशास्त्रमित्युक्तम्। असन्निकृष्टार्थमिति पौरुषेयवाक्याभिधेयस्यार्थस्य वक्त्रभिप्रायनिश्चयपुरस्सरं यद्विज्ञानं तन्न शास्त्रमिति । तथाऽर्थवादानां स्वतन्त्राणां सन्निकृष्टार्थपराणां न शास्त्रत्वं, किं तु विध्यन्तरानुप्रवेशेनैव । शब्दग्रहणेन चार्थस्य ज्ञानस्य चाशास्त्रत्वमुक्तम् । तथाहि-
प्रकृतौ ' वाससि मिनोति वाससा सोममुपावहरति ' इति सोमभानमुपावहरणं च विहितम् । तत्रैकत्वात्कर्मणो यस्मिन्नेव वाससि सोमो मीयते तेनैवोपावह्रियत इत्यचोदितमपि वासस एकत्वमर्थात्संपन्नम् । विकृतौ त्वहर्गणे पृथक्त्वात्सोमस्य एकस्मिन्नपि वाससि नानाभूतस्यापि सोमस्य मानं शक्यते कर्तुम् । उपावहरणं तु पुञ्जीकृत्य वाससाऽऽनयनम्, तदेकेनाशक्यमिति मानवाससोऽन्यत् तदर्थमुपादीयते । एकत्वं तु प्रकृतावार्थं, न शब्दार्थ इति विकृतौ चोदकेन न प्राप्यत इति तत्र वासस एकत्वज्ञानं न शास्त्रमित्युक्तम् । ' अर्थं न चोदकः प्रतिदिशति ' इति न्ययात् । विज्ञानमिति न्यायाभासात् वाक्यस्य च वचनव्यक्तिमवधार्य तदर्थज्ञानं न शास्त्रमिति । न हि तच्छब्दविज्ञानात् यादृशं हि सम्यङ्‌न्यायावधार्यवचनव्यक्तिकं तादृशमेव शास्त्रमिति ।।
इति श्रीमद्रामानुजाचार्यविरचिते तन्त्ररहस्ये
शास्त्रपरिच्छेदस्तृतीयः ।।
______


        

   

"https://sa.wikisource.org/w/index.php?title=तन्त्ररहस्यम्&oldid=402822" इत्यस्माद् प्रतिप्राप्तम्