तन्त्रालोकः अष्टममाह्निकम्

तन्त्रालोकः

अथ श्रीतन्त्रालोके अष्टममाह्निकम्

देशाध्वनोऽप्यथ समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः ॥१॥

विचारितोऽयं कालाध्वा क्रियाशक्तिमयः प्रभोः ।
मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते ॥२॥

अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः ।
यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ॥३॥

संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च ।
नाडीचक्रानुचक्रेषु बर्हिर्देहेऽध्वसंस्थितिः ॥४॥

तत्राध्वैवं निरूप्योऽयं यतस्तत्प्रक्रियाक्रमम् ।
अनुसंदधदेव द्राग् योगी भैरवतां व्रजेत् ॥५॥

दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते ।
तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने ॥६॥

ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत् ।
तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात् ॥७॥

तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका ।
उपास्यमाना संसारसागरप्रलयानलः ॥८॥

श्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत् ।
ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम् ॥९॥

रुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे ।
अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः ॥१०॥

एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत ।
न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने ॥११॥

त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः ।
षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना ॥१२॥

अव्याहतविभागोऽस्मिभावो मूलं तु बोधगम् ।
समस्ततत्त्वभावोऽयं स्वात्मन्येवाविभागकः ॥१३॥

बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् ।
तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् ॥१४॥

बोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम् ।
संविदेकात्मतानीतभूतभावपुरादिकः ॥१५॥

अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः ।
श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् ॥१६॥

अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत् ।
यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः ॥१७॥

पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी ।
तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा ॥१८॥

स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः ।
ततः प्रमातृसंकल्पनियमात् पार्थिवं विदुः ॥१९॥

तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम् ।
तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः ॥२०॥

नेता कटाहरुद्राणामनन्तः कामसेविनाम् ।
पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः ॥२१॥

स देवं भैरवं ध्यायन् नागैश्च परिवारितः ।
कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम् ॥२२॥

लोकानां भस्मसाद्भावभयान्नोर्ध्व स वीक्षते ।
स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् ॥२३॥

नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः ।
दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः ॥२४॥

तदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः ।
श्धो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः ॥२५॥

अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात् ।
एकादशैकादश च दशेत्यन्तः शराग्नि तत् ॥२६॥

प्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम् ।
लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः ॥२७॥

कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता ।
शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते ॥२८॥

तत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम् ।
ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् ॥२९॥

यान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि ।
सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् ॥३०॥

पातालाष्टकमेकैकमष्टमे हाटकः प्रभुः ।
प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः ॥३१॥

सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने ।
व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः ॥३२॥

दीक्षिता अपि ये लुप्तसमया नच कुर्वते ।
प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः ॥३३॥

देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः ।
अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः ॥३४॥

ते हाटकविभोरग्रे किङ्करा विविधात्मकाः ।
ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते ॥३५॥

तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे ।
अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः ॥३६॥

ते कालवह्निसंतापदीनाक्रन्दपरायणाः ।
गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः ॥३७॥

पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् ।
अधमाधमदेहेषु निजकर्मानुरूपतः ॥३८॥

मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् ।
मुच्यन्तेऽन्ये तु बध्यन्ते पूर्वकृत्यानुसारतः ॥३९॥

इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना ।
प्रोक्तं भगवता श्रीमदानन्दाधिकशासने ॥४०॥

पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः ।
सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् ॥४१॥

भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः ।
ततस्तमस्तप्तभूमिस्ततःशून्यं ततोऽहयः ॥४२॥

एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् ।
ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि स षोडश ॥४३॥

मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः ।
सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः ॥४४॥

मध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः ।
भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका ॥४५॥

सर्वे देवा निलीना हि तत्र तत्पूजितं सदा ।
मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् ॥४६॥

ज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च स प्रभुः ।
अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश ॥४७॥

चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः ।
अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् ॥४८॥

अत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः ।
तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु ॥४९॥

विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये ।
याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः ॥५०॥

मातृनन्दा स्वसंख्याता रुद्रास्तत्साधकास्तथा ।
कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः॥५१॥

रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम् ।
वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् ॥५२॥

उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात् ।
वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः ॥५३॥

वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा ।
महोदयेन्दोर्गुह्याः स्युः पश्चिमेऽस्याः पुनः पुनः ॥५४॥

कुबेरः कर्मदेवाश्च तथा तत्साधका अपि ।
यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः ॥५५॥

दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् ।
मैरवे चक्रवाटेऽस्मिन्नेवं मुख्याः पुरोऽष्टधा ॥५६॥

अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः ।
इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः ॥५७॥

ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम् ।
मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः ॥५८॥

मन्दरो गन्धमादश्च विपुलोऽथ सुपार्श्वकः ।
सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः ॥५९॥

एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः ।
चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः ॥६०॥

रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम् ।
वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः ॥६१॥

एषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम् ।
मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः ॥६२॥

लक्षमात्रः स नवधा जातो मर्यादपर्वतैः ।
निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः ॥६३॥

लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात् ।
नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः ॥६४॥

मेरोः षडेते मर्यादाचलाः पूर्वापरायताः ।
पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः ॥६५॥

सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ ।
अष्टावेते ततोऽप्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात् ॥६६॥

जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः ।
एवं स्थितो विभागोऽत्र वर्षसिद्ध्यै निरूप्यते ॥६७॥

समन्ताच्चक्रवाटाधोऽनर्केन्दु चतुरश्रकम् ।
सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् ॥६८॥

मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे ।
केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् ॥६९॥

मेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः ।
सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् ॥७०॥

पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे ।
द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते ॥७१॥

मेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम् ।
चापवन्नवसाहस्रमायुस्तत्र त्रयोदश ॥७२॥

कुरुवर्षस्योत्तरेऽथ वायव्येऽब्धौ क्रमाच्छराः ।
दश चेति सहस्राणि द्वीपौ चन्द्रोऽथ भद्रकः ॥७३॥

यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् ।
तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश ॥७४॥

तत्र वै वामतः श्वेतनीलयो रम्यकोऽन्तरे ।
सहस्रनवविस्तीर्णमायुर्द्वादश तानि च ॥७५॥

मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे ।
हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् ॥७६॥

तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे ।
कैन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् ॥७७॥

तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे ।
भारतं नवसाहस्रं चापवत्कर्मभोगभूः ॥७८॥

इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम् ।
हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः ॥७९॥

अत्र बाहुल्यतः कर्मभूभावोऽत्राप्यकर्मणाम् ।
पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः ॥८०॥

संभवन्त्यप्यसंस्कारा भारतेऽन्यत्र चापि हि ।
दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् ॥८१॥

स्थानान्तरेऽपि कर्मास्ति दृष्टं तच्च पुरातने ।
तत्र त्रेता सदा कालो भारते तु चतुर्युगम् ॥८२॥

भारते नवखण्डं च सामुद्रेणाम्भसात्र च ।
स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते ॥८३॥

इन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान् ।
सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः ॥८४॥

कन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः ।
उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते ॥८५॥

अङ्गयवमलयशङ्कुः कुमुदवराहौ च मलयगोऽगस्त्य ।
तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः ॥८६॥

द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः ।
मुक्ताकाञ्चनरत्नाढ्या इति श्रीरुरुशासने ॥८७॥

भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः ।
शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः ॥८८॥

महाकालादिका रुद्रकोटिरत्रैव भारते ॥

गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् ॥८९॥

अन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम् ।
प्राप्यं मनोरथातीतमपि भारतजन्मनाम् ॥९०॥

नानावर्णाश्रमाचारसुखदुःखविचित्रता ।
कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा ॥९१॥

पुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः ।
परापरौ स्वर्निरयाविति रौरववार्तिके ॥९२॥

एवं मेरोरधो जम्बूरभितो यः स विस्तरात् ।
स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः ॥९३॥

मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः ।
प्राव्रजन्नथ जम्ब्वाख्ये राजा योऽग्नीध्रनामकः ॥९४॥

तस्याभवन्नव सुतास्ततोऽयं नवखण्डकः ।
नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः ॥९५॥

तस्याष्टौ तनयाः साकं कन्यया नवमोंऽशकः ।
भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् ॥९६॥

लक्षैकमात्रो लवणस्तद्बाह्येऽस्य पुरोऽद्रयः ।
ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् ॥९७॥

वराहनन्दनाशोकाः पश्चात् सहबलाहकौ ।
दक्षिण चक्रमैनाकौ वाडवोऽन्तस्तयोः स्थितः ॥९८॥

अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः ।
विद्युत्वांस्त्रिसहस्रोच्छ्रिदायामोऽत्र फलाशिनः ॥९९॥

मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः ।
नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः ॥१००॥

निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये ।
इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने ॥१०१॥

इत्थं य एष लवणसमुद्रः प्रतिपादितः ।
तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः ॥१०२॥

क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः ।
शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः ।
क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः ॥१०३॥

मेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा ।
संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः ॥१०४॥

गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः ।
पुष्करसंज्ञो द्विदलो हरियमवरुणेन्दवोऽत्र पूर्वादौ ॥१०५॥

त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् ।
स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा ॥१०६॥

सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम् ।
उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः ॥१०७॥

लोकालोकदिगष्टक संस्थं रुद्राष्टकं सलोकेशम् ।
केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः ॥१०८॥

पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ ।
भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति ॥१०९॥

सर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः।
उदयास्तमयावित्थं सूर्यस्य परिभावयेत् ॥११०॥

अर्धरात्रोऽमरावत्यां याम्यायामस्तमेव च ।
मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः ॥१११॥

उदयो योऽमरावत्यां सोऽर्धरात्रो यमालये ।
केऽस्तं सौम्ये च मध्याह्न इत्थं सूर्यगतागते ॥११२॥

पञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः ।
चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः ॥११३॥

सप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट् ।
लोकालोकस्य परतो यद्गर्भे निखिलैव भूः ॥११४॥

सिद्धातन्त्रेऽत्र गर्भाब्धेस्तीरे कौशेयसंज्ञितम् ।
मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः ॥११५॥

क्रीडन्तिं पर्वताग्रे ते नव चात्र कुलाद्रयः ।
तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः ॥११६॥

चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा ।
ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः ॥११७॥

ब्रह्मणोऽण्डकटाहेन मेरोरर्धेन कोटयः ।
पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् ॥११८॥

पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः ।
व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् ॥११९॥

विद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य ।
अभिमानतो यथेष्टं भोगस्थानं निवासश्च ॥१२०॥

भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे ।
दश वायुपथास्ते च प्रत्येकमयुतान्तराः ॥१२१॥

आद्यो वायुपथस्तत्र विततः परिचर्च्यते ।
पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः ॥१२२॥

आप्यायकः स जन्तूनां ततः प्राचेतसो भवेत् ।
पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु ॥१२३॥

सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः ।
ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः ॥१२४॥

तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः ।
पञ्चाशदूर्ध्वमोघोऽत्र विषवारिप्रवर्षिणः ॥१२५॥

मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते ।
ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः ॥१२६॥

तत्र स्थाने महादेवजन्मानस्ते विनायकाः ।
ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् ॥१२७॥

पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः ।
विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः ॥१२८॥

ये विद्यापौरुषे ये च श्मशानादिप्रसाधने ।
मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः ॥१२९॥

पञ्चाशदूर्ध्वं वज्रांकाद्वैद्युतोऽशनिवर्षिणः ।
अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः ॥१३०॥

भृगौ वह्नौ जले ये च संग्रामे चानिवर्तिनः ।
गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः ॥१३१॥

वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः ।
ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे ॥१३२॥

रोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते ।
क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः ॥१३३॥

पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः ।
विद्याधरविशेषाश्च तथा ये परमेश्वरम् ॥१३४॥

गान्धर्वेण सदार्चन्ति विषावर्तेऽथ ते स्थिताः ।
विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः ॥१३५॥

ब्रह्मणोऽत्र स्थिता मेघाः प्रलये वातकारिणः ।
पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे ॥१३६॥

जीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः ।
ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः ॥१३७॥

महावहे त्वीशकृताः प्रजाहितकराम्बुदाः ।
महापरिवहे मेघाः कपालोत्था महेशितुः ॥१३८॥

महापरिवहान्तोऽयमृतर्द्धेः प्राङ्मरुत्पथः ।
अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः ॥१३९॥

द्वितीये तत्परे सिद्धचारणा निजकर्मजाः ।
तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः ॥१४०॥

षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः ।
दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः ॥१४१॥

दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे ।
नवयोजनसाहस्रो विग्रहोऽर्कस्य मण्डलम् ॥१४२॥

त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः ।
स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं परिभाष्यते ॥१४३॥

सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा ।
चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु ॥१४४॥

प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः ।
सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा ॥१४५॥

ब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवोऽचलः ।
मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः ॥१४६॥

अत्र बद्धानि सर्वाण्यप्यूह्यन्तेऽनिलमण्डले ।
स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः ॥१४७॥

इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः ।
स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः ॥१४८॥

एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च ।
द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् ॥१४९॥

मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः ।
निवर्तिताधिकाराश्च देवा महति संस्थिताः ॥१५०॥

महान्तराले तत्रान्ये त्वधिकारभुजो जनाः ।
अष्टौ कोट्यो महल्लोकाज्जनोऽत्र कपिलादयः ॥१५१॥

तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः ।
जनात्तपोर्ककोट्योऽत्र सनकाद्या महाधियः ॥१५२॥

प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् ।
ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः ॥१५३॥

तत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः ।
सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः ॥१५४॥

आनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम् ।
ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् ॥१५५॥

ध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम् ।
वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः ॥१५६॥

रुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि ।
दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥१५७॥

ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन ।
तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः ॥१५८॥

अधिकारक्षये साकं रुद्रकन्यागणेन ते ।
पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः ॥१५९॥

ब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं स च ।
शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति च ॥१६०॥

शर्वरुद्रौ भीमभवावुग्रो देवो महानथ ।
ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः ॥१६१॥

स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः ।
सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् ॥१६२॥

ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः ।
स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः ॥१६३॥

परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः ।
लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः ॥१६४॥

कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः ।
अत ऊर्ध्वं कटाहोऽण्डे स घनः कोटियोजनम् ॥१६५॥

पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा ।
एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः ॥१६६॥

शतरुद्रावधिर्हुफट् भेदयेत्तत्तु दुःशमम् ।
प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः ॥१६७॥

ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः ।
अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु ॥१६८॥

व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः ।
आवापवाननिर्भक्तो वस्तुपिण्डोऽण्ड उच्यते ॥१६९॥

तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् ।
रजोऽनुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः ॥१७०॥

वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् ।
अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते ॥१७१॥

तथापि शिवमग्नानां शक्तीनामण्डता भवेत् ।
तदर्थ वाक्यमपरं ता हि न च्युतशक्तितः ॥१७२॥

तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम् ।
तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः ॥१७३॥

तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः ।
अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् ॥१७४॥

विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत् ।
तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत् ॥१७५॥

गुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते ।
उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् ॥१७६॥

रूपमुक्तं यतस्तेन तत्समूहोऽण्ड उच्यते ।
भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः ॥१७७॥

तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम् ।
तावन्मात्रास्ववस्थासु मायाधीनेऽध्वमण्डले ॥१७८॥

मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् ।
इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत् ॥१७९॥

तेषां स्वे पतयो रुद्रा एकादश महार्चिषः ।
अनन्तोऽथ कपाल्याग्निर्यमनैरृतकौ बलः ॥१८०॥

शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः ।
मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते ॥१८१॥

तद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः ।
शराष्टनियुतं कोटिरित्येषां सन्निवेशनम् ॥१८२॥

श्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च ।
ईश्वरत्वं दिविषदामिति रौरववार्तिके ॥१८३॥

सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम् ।
अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् ॥१८४॥

तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः ।
क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् ॥१८५॥

धरातोऽत्र जलादि स्यादुत्तरोत्तरतः क्रमात् ।
दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः ॥१८६॥

सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा ।
नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा ॥१८७॥

कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा ।
ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा ॥१८८॥

सादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन संख्यया ।
व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता ॥१८९॥

अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः ।
जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात् ॥१९०॥

ऋते ततः शिवज्ञानं परमं मोक्षकारणम् ।
तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने ॥१९१॥

नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि ।
शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम् ॥१९२॥

प्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः ।
शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् ॥१९३॥

न यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम् ।
तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः ॥१९४॥

निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी ।
विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् ॥१९५॥

तावतीं गतिमायान्ति भुवनेऽत्र निवेशिताः ।
ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः ॥१९६॥

विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम् ।
जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः ॥१९७॥

ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम् ।
वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा ॥१९८॥

रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम् ।
आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा ॥१९९॥

त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम् ।
ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् ॥२००॥

मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः ।
अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् ॥२०१॥

ततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ ।
प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत् ॥२०२॥

सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् ।
रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्योऽन्यास्तथा स्थिताः ॥२०३॥

पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती ।
लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः ॥२०४॥

ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः ।
ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः ॥२०५॥

भैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम् ।
प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् ॥२०६॥

ध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम् ।
तं विशन्ति महात्मानो वायुभूताः खमूर्तयः ॥२०७॥

भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम् ।
खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् ॥२०८॥

वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम् ।
अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः ॥२०९॥

ज्ञानहीना अपि प्रौढधारणास्तेऽण्डतो बहिः ।
धराब्धितेजोऽनिलखपुरगा दीक्षिताश्च वा ॥२१०॥

तावत्संस्कारयोगार्थं न परं पदमीहितुम् ।
तथाविधावतारेषु मृताश्चायतनेषु ये ॥२११॥

तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम् ।
पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले ॥२१२॥

श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः ।
सुरेश्वरीमहाधाम्नि ये म्रियन्ते च तत्पुरे ॥२१३॥

ब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः ।
रुद्रजातय एवैते इत्याह भगवाञ्छिवः ॥२१४॥

आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये ।
तन्मात्रादिमनोऽन्तानां पुराणि शिवशासने ॥२१५॥

पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् ।
आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा ॥२१६॥

एवं रसादिमात्राणां मण्डलानि स्ववर्णत ।
शर्वो भवः पशुपतिरीशो भीम इति क्रमात् ॥२१७॥

तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः ।
ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् ॥२१८॥

उग्रश्चेत्येषु पतयस्तेभ्योऽर्केन्दू सयाजकौ ।
इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः ॥२१९॥

अपरा ब्रह्मणोऽण्डे ता व्याप्य सर्वं व्यवस्थिताः ।
कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु ॥२२०॥

ततो वागादिकर्माक्षयुक्तं करणमण्डलम् ।
अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः ॥२२१॥

प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम् ।
दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः ॥२२२॥

प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम् ।
मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः ॥२२३॥

बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः ।
मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः ॥२२४॥

ततोऽपि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः ।
स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् ॥२२५॥

बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम् ।
पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम् ॥२२६॥

एतानि देवयोनीनां स्थानान्येव पुराण्यतः ।
अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते ॥२२७॥

परमेशनियोगाच्च चोद्यमानाश्च मायया ।
नियामिता नियत्या च ब्रह्मणोऽव्यक्तजन्मनः ॥२२८॥

व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा ।
स्वांशनैव महात्मानो न त्यजन्ति स्वकेतनम् ॥२२९॥

उक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः ।
अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः ॥२३०॥

तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः ।
चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि ॥२३१॥

साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि ।
एतानि भक्तियोगप्राणत्यागादिगम्यानि ॥२३२॥

तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा ।
तरतमयोगेन ततोऽपि देवयोन्यष्टकं लक्ष्यं तु ॥२३३॥

लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि ।
गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् ॥२३४॥

अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते ।
ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः ॥२३५॥

क्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः ।
तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्तकात् ॥२३६॥

अकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम् ।
स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने ॥२३७॥

योगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव च ।
ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते ॥२३८॥

तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते ।
तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् ॥२३९॥

प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी ।
उमापतेः पुरं पश्चान्मातृभिः परिवारितम् ॥२४०॥

श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते ।
ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका] ॥२४१॥

पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात् ।
अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः ॥२४२॥

अंशेन मानुषे लोके धात्रा ता ह्यवतारिताः ।
स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः ॥२४३॥

स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः ।
उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम् ॥२४४॥

शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः ।
ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता ॥२४५॥

श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत् ।
ये योगं सगुणं शम्भोः संयताः पर्युपासते ॥२४६॥

तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः ।
गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः ॥२४७॥

तारतम्याच्च योगस्य भेदात्फलविचित्रता ।
ततो भोगफलावाप्तिभेदाद्भेदोऽयमुच्यते ॥२४८॥

मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः ।
वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः ॥२४९॥

तदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः ।
यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते ॥२५०॥

ततोऽप्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत् ।
बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः ॥२५१॥

महादेवाष्टकान्ते तद् योगाष्टकमिहोदितम् ।
तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा ॥२५२॥

मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः ।
उपरिष्टाद्धियोऽधश्च प्रकृतेर्गुणसंज्ञितम् ॥२५३॥

तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् ।
न वैषम्यमनापन्नं कारणं कार्यसूतये ॥२५४॥

गुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत् ।
नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् ॥२५५॥

कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः ।
सांख्यस्य दोष एवायं यदि वा तेन ते गुणाः ॥२५६॥

अव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं न चेतरत् ।
अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसंगतम् ॥२५७॥

अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः ।
ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा ॥२५८॥

तदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः ।
नैतत्कारणतारूपपरामर्शावरोधि यत् ॥२५९॥

क्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत् ।
क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः ॥२६०॥

तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः ।
स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः ॥२६१॥

त्रिनेत्राः पाशनिर्मुक्तास्तेऽत्रानुग्रहकारिणः ।
बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते ॥२६२॥

रुद्राणां भुवनानां च मुख्यतोऽन्ये तदन्तरे ।
योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः ॥२६३॥

योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः ।
अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी ॥२६४॥

करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च ।
अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयोऽमीषाम् ॥२६५॥

धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि ।
यच्छन्ति गुणेभ्योऽमी पुरुषेभ्यो योगदातारः ॥२६६॥

तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य ।
सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य ॥२६७॥

येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु ।
ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि ॥२६८॥

उपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य ।
दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः ॥२६९॥

यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी ।
अनुकल्पो रुद्राण्या वेदी तत्रेज्यतेऽनुकल्पेन ॥२७०॥

पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः ।
गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः ॥२७१॥

गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः ।
क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ ॥२७२॥

पञ्चान्तकैकवीरौ च शिखोदश्चाष्ट तत्र ते ।
गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् ॥२७३॥

गुणकारणमित्येते मायाप्रभवस्य पर्यायाः ।
यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः ॥२७४॥

ते सर्वेऽत्र विनिहिता रुद्राश्च तदुत्थभोगभुजः ।
मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः ॥२७५॥

अकृताधिष्ठानतया कृत्याशक्तानि मूढानि ।
प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि ॥२७६॥

भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि ।
इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् ॥२७७॥

पुंस्तत्त्वे तुष्टिनवकं सिद्धयोऽष्टौ च तत्पुरः ।
तावत्य एवाणिमादिभुवनाष्टकमेव च ॥२७८॥

अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा ।
हेयेऽप्यादेयधीः सिद्धिः तथा चोक्तं हि कापिलैः ॥२७९॥

आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
पञ्च विषयोपरमतोऽर्जनरक्षासङ्गसंक्षयविघातैः ॥२८०॥

ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥२८१॥

अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः ।
तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहृतम् ॥२८२॥

नाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम् ।
पुंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता ॥२८३॥

न ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम् ।
अकर्तर्यपि वा पुंसि सहकारितया स्थिते ॥२८४॥

शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः ।
तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा ॥२८५॥

तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति ।
नाड्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते ॥२८६॥

कार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि ।
साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे ॥२८७॥

भुवनं देहधर्माणां दशानां विग्रहाष्टकात् ।
अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः ॥२८८॥

शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः ।
पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः ॥२८९॥

आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः ।
तत्रैवाष्टावहंकारस्त्रिधा कामादिकास्तथा ॥२९०॥

पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः ।
त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः ॥२९१॥

यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् ।
पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥२९२॥

तदेवं पुंस्त्वमापन्ने पूर्णेऽपि परमेश्वरे ।
तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः ॥२९३॥

उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः ।
ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् ॥२९४॥

पुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शंकरा दश ।
हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः ॥२९५॥

कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः ।
रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् ॥२९६॥

पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम् ।
मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः ॥२९७॥

कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् ।
ततो माया त्रिपुटिका मुख्यतोऽनन्तकोटिभिः ॥२९८॥

आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः ।
अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि ॥२९९॥

चक्राष्टकाधिपत्येन तथा श्रीमालिनीमते ।
वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने ॥३००॥

ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः ।
कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः ॥३०१॥

सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः ।
क्रमात्तत्तत्त्वमायान्ति यत्रेशोऽनन्त उच्यते ॥३०२॥

उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य ।
स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य ॥३०३॥

धर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च ।
मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य ॥३०४॥

तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः ।
सर्वेऽनन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः ॥३०५॥

सोऽव्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः ।
शुद्धाशुद्धस्रोतोऽधिकारहेतुः शिवो यस्मात् ॥३०६॥

शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम् ।
तेऽनन्तादेर्जगतः सर्गस्थितिविलयकर्तारः ॥३०७॥

मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः ।
उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु ॥३०८॥

योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा ।
कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् ॥३०९॥

प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते ।
तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु ॥३१०॥

अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि ।
योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले ॥३११॥

मायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः ।
निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः ॥३१२॥

स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः ।
प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः ॥३१३॥

अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः ।
न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः ॥३१४॥

तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम् ।
स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि ॥३१५॥

अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः ।
ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः ॥३१६॥

मध्ये पुटत्रयं तस्या रुद्राः षडधरेऽन्तरे ।
एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः ॥३१७॥

गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे ।
मध्येऽनन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः ॥३१८॥

इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या ।
परिवर्त्तते स्थितिः किल देवोऽनन्तस्तु सर्वथा मध्ये ॥३१९॥

ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या ।
मध्यतोऽष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः ॥३२०॥

श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा ।
ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया ॥३२१॥

मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम् ।
तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् ॥३२२॥

मायातत्त्वाधिपतिः सोऽनन्तः समुदितान्विचार्याणून् ।
युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः ॥३२३॥

तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत् ।
निःसंख्यं च विचित्रं मायैवैका त्वभिन्नेयम् ॥३२४॥

उक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम् ।
असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् ॥३२५॥

पाशाः पुरोक्ताः प्रणवाः पञ्चमानाष्टकं मुनेः ।
कुलं योनिश्च वागीशी यस्यां जातो न जायते ॥३२६॥

दीक्षाकालेऽधराध्वस्थशुद्धौ यच्चाधराध्वगम् ।
अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् ॥३२७॥

साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च ।
पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम् ॥३२८॥

आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम् ।
अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः ॥३२९॥

मायामयशरीरास्ते भोगं स्वं परिभुञ्जते ।
प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे ॥३३०॥

अन्यानन्तप्रसादेन विबुधा अपि तं परम् ।
सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः ॥३३१॥

स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः ।
अतः परं स्थिता माया देवी जन्तुविमोहिनी ॥३३२॥

देवदेवस्य सा शक्तिरतिदुर्घटकारिता ।
निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः ॥३३३॥

इदं तत्त्वमिदं नेति विवदन्तीह वादिनः ।
गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः ॥३३४॥

सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम् ।
असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः ॥३३५॥

भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।
शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा ॥३३६॥

न प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति ।
महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका ॥३३७॥

वागीश्वरी च तत्रस्थं वामादिनवसत्पुरम् ।
वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा ॥३३८॥

मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः ।
सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वेऽत्र संस्थिताः ॥३३९॥

एकैकार्बुदलक्षांशाः पद्माकारपुरा इह ।
विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः ॥३४०॥

विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम् ।
शिखण्ड्याद्यमनन्तान्तं पुराष्टकयुतं पुरम् ॥३४१॥

शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ ।
शिवोत्तमः सूक्ष्मरुद्रोऽनन्तो विद्येश्वराष्टकम् ॥३४२॥

क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः ।
अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः ॥३४३॥

मुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम् ।
तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः ॥३४४॥

उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् ।
भगबिलशतकलितगुहामूर्धासनगोऽष्टशक्तियुग्देवः ॥३४५॥

गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते ।
उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः ॥३४६॥

ते तेनोदस्तचितः परतत्त्वालोचनेऽभिनिविशन्ते ।
स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन ॥३४७॥

अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः ।
निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु ॥३४८॥

अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने ।
इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः ॥३४९॥

तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते ।
तेऽष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः ॥३५०॥

आलोकयन्ति देवं हृदयस्थं कारणं परमम् ।
तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् ॥३५१॥

सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः ।
मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यतेऽप्यभवः ॥३५२॥

शिवशुद्धगुणाधीकारान्तः सोऽप्येष हेयश्च ।
अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी ॥३५३॥

इष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात् ।
पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः ॥३५४॥

कञ्चुकवच्छिवसिद्धौ तावतिभवसंज्ञयातिमध्यस्थौ ।
धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् ॥३५५॥

रूपावरणसंज्ञं तत्तत्त्वेऽस्मिन्नैश्वरे विदुः ।
वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् ॥३५६॥

सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः ।
ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् ॥३५७॥

शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम् ।
विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला ॥३५८॥

शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता ।
शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् ॥३५९॥

तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः ।
मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता ॥३६०॥

सुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत् ।
शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् ॥३६१॥

अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः ।
मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् ॥३६२॥

ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः ।
ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते ॥३६३॥

इच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम् ।
प्रबुद्धावरणादूर्ध्व समयावरणं महत् ॥३६४॥

भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति ।
सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् ॥३६५॥

तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः ।
ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी ॥३६६॥

सृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया ।
पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः ॥३६७॥

दशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः ।
सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् ॥३६८॥

मूर्धशिखावर्मदृगस्त्रमङ्गानि षट् प्राहुः ।
सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम् ॥३६९॥

कण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम् ।
ओं कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ ॥३७०॥

सूक्ष्मसुतेजःशर्वाः शिवाः दशैतेऽत्र पूर्वादेः ।
विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः ॥३७१॥

मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च ।
सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः ॥३७२॥

सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि ।
मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम् ॥३७३॥

तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम् ।
यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य ॥३७४॥

प्रत्येकमस्य निजनिजपरिवारे परार्धकोटयोऽसंख्याः ।
मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः ॥३७५॥

सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः ।
अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः ॥३७६॥

ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम् ।
शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः ॥३७७॥

निवृत्त्यादिकलावर्गपरिवारसमावृतः ।
असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः ॥३७८॥

श्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम् ।
पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते ॥३७९॥

चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् ।
तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम् ॥३८०॥

निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता ।
मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते ॥३८१॥

उद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः ।
यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः ॥३८२॥

बिन्दूर्ध्वेऽर्धेन्दुरेतस्य कला ज्योत्स्ना च तद्वती ।
कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः ॥३८३॥

रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा ।
एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाह् ॥३८४॥

अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः ।
तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका ॥३८५॥

हेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः ।
निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम् ॥३८६॥

पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः ।
इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् ॥३८७॥

नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः ।
चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम् ॥३८८॥

इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा ।
मध्येऽत्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः ॥३८९॥

नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः ।
तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः ॥३९०॥

या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा ।
ग्रथितोऽध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा ॥३९१॥

नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् ।
अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः ॥३९२॥

नाड्या ब्रह्मबिले लीनः सोऽव्यक्तध्वनिरक्षरः ।
नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः ॥३९३॥

सुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक् ।
तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः ॥३९४॥

तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा ।
रोद्ध्री दात्री च मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली ॥३९५॥

शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते ।
तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्ये अमृतामिते ॥३९६॥

मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः ।
शक्तितत्त्वमिदं यस्य प्रपञ्चोऽयं धरान्तकः ॥३९७॥

शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः ।
व्यापी व्योमात्मकोऽनन्तोऽनाथस्तच्छक्तिभागिनः ॥३९८॥

मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः ।
तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः ॥३९९॥

शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया ।
सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता ॥४००॥

बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता ।
तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः ॥४०१॥

समना करणं तस्य हेतुकर्तुर्महोशितुः ।
अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते ॥४०२॥

तयाधितिष्ठति विभुः कारणानां तु पञ्चकम् ।
अनाश्रितोऽनाथमयमनन्तं खवपुः सदा ॥४०३॥

स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु ।
कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥४०४॥

नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः ।
यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने ॥४०५॥

तत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम् ।
अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः ॥४०६॥

तद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत् ।
अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी ॥४०७॥

रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात् ।
जलतेजःसमीरनभोऽहंकृद्धीमूलसप्तके प्रत्येकम् ॥४०८॥

अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता ।
अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन् ॥४०९॥

अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम् ।
श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् ॥४१०॥

अष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात् ।
रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् ॥४११॥

इत्यष्टकं जलेऽनौ वह्न्यतिगुह्यद्वयं मरुति वायोः ।
स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम् ॥४१२॥

अभिमानेऽहङ्कारच्छगलाद्यष्टकमथान्तरा नभोऽहंकृत् ।
तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम् ॥४१३॥

दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते ।
मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् ॥४१४॥

धियि दैवीनामष्टौ क्रुत्तेजोयोगसंज्ञकं त्रयं तदुमा ।
तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः ॥४१५॥

तदथ महादेवाष्टकमिति बुद्धौ सप्तदश संख्या ।
गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः ॥४१६॥

यद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि ।
तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम् ॥४१७॥

इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् ।
अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयोऽणिमादिगणः ॥४१८॥

गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक् ।
गन्धादिविकारपुरं बुद्धिगुणाष्टकमहंक्रिया विषयगुणाः ॥४१९॥

कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ ।
इति पाशेषु पुरत्रयमित्थं पुरुषेऽत्र भुवनषोडशकम् ॥४२०॥

नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् ।
रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले ॥४२१॥

भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम् ।
इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् ॥४२२॥

वामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः ।
सुविशुद्धिशिवौ मोक्ष धुवेषिसंबुद्धसमयसौशिवसंज्ञाः ॥४२३॥

सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता ।
बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने ॥४२४॥

परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः ।
व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः ॥४२५॥

षष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा ।
बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि ॥४२६॥

सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना ।
इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् ॥४२७॥

श्रीमन्मतङ्गशास्त्रे च क्रमोऽयं पुरपूगगः ।
कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् ॥४२८॥

कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः ।
इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः ॥४२९॥

स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता ।
पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये ॥४३०॥

तन्मात्रेषु च पञ्च स्युर्विश्वेदेवास्ततोऽष्टकम् ।
पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे ॥४३१॥

योगाष्टकं क्रोधसंज्ञं मूले काले सनैयते ।
पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः ॥४३२॥

द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश ।
वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् ॥४३३॥

शैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः ।
यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् ॥४३४॥

शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम् ।
इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन ॥४३५॥

अन्येऽपि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः ।
श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् ॥४३६॥

तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् ।
कालाग्निः कूष्माण्डो नरकेशो हाटकोऽथ भूतलपः ॥४३७॥

ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः ।
अधरेऽनन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः ॥४३८॥

लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति ।
एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः ॥४३९॥

इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम् ।
लकुलीशभारभूती दिण्ड्याषाढी च पुष्करनिमेषौ ॥४४०॥

प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे ।
भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः ॥४४१॥

श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि ।
भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः ॥४४२॥

अतिगुह्याष्टकमेतन्मरुति च सतन्मात्रके च साक्षे च ।
स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः ॥४४३॥

अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे ।
स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् ॥४४४॥

माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे ।
अन्येऽहङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः ॥४४५॥

धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति ।
इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता ॥४४६॥

नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ ।
अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् ॥४४७॥

संवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ ।
वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं च काले स्यात् ॥४४८॥

समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ ।
भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ ॥४४९॥

अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम् ।
हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः ॥४५०॥

विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च ।
वामा ज्येष्ठा रौद्री शक्तिः सकला च शोन्तयम् ॥४५१॥

अष्टादश भुवना स्यात् शान्त्यतीता त्वभुवनैव ।
इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः ॥४५२॥