तन्त्रालोकः अष्टाविंशमाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके अष्टाविंशमाह्निकम्


इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते ॥१॥

नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते ।
मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः ॥२॥

दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता ।
दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा ॥३॥

अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम् ।
प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः ॥४॥

सन्ध्यादि पर्वसंपूजा पवित्रकमिदं सदा ।
नित्यं नियतरूपत्वात्सर्वस्मिन् शासनाश्रिते ॥५॥

ज्ञानशास्त्रगुरुभ्रातृतद्वर्गप्राप्तयस्तथा ।
तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसंगतिः ॥६॥

श्राद्धं विपत्प्रतीकारः प्रमोदोऽद्भुतदर्शनम् ।
योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम् ॥७॥

शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः ।
देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः ॥८॥

इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम् ।
त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम् ॥९॥

तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम् ।
कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसंचरे ॥१०॥

अब्धीन्दु मुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः ।
प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक् ॥११॥

अब्धिरक्षीन्दु वैष्णव्या ऐन्द्र्यास्त्वस्त्रं त्रयोदशी ।
वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम् ॥१२॥

द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः ।
तस्या अप्यष्टमी यस्माद्द्वितिथिः सा प्रकीर्तिता ॥१३॥

अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम् ।
कुलपर्वेति तद्ब्रूमो यथोक्तं भैरवे कुले ॥१४॥

हैडरे त्रिकसद्भावे त्रिककालीकुलादिके ।
योऽयं प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात् ॥१५॥

स चक्रभेदसंचारे कांचित् सूते स्वसंविदम् ।
स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते ॥१६॥

पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः ।
पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति ॥१७॥

हैडरेऽत्र च शब्दोऽयं द्विधा नान्तेतरः श्रुतः ।
तच्चक्रचारनिष्णाता ये केचित् पूर्णसंविदः ॥१८॥

तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा ।
योऽप्यतन्मय एषोऽपि तत्काले स्वक्रमार्चनात् ॥१९॥

तद्योगिनीसिद्धसङ्घमेलकात् तन्मयीभवेत् ।
यथा प्रेक्षणके तत्तद्द्रष्टृसंविदभेदिताम् ॥२०॥

क्रमोदितां सद्य एव लभते तत्प्रवेशनात् ।
योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम् ॥२१॥

लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात् ।
तत्कालं चापि संवित्तेः पूर्णत्वात् कामदोग्धृता ॥२२॥

तेन तत्तत्फलं तत्र काले संपूजयाचिरात् ।
यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् ॥२३॥

अतिथिं सोऽनुगृह्णाति तत्कालाभिज्ञमागतम् ।
तथा सुफलसंसिद्ध्यै योगिनीसिद्धनायकाः ॥२४॥

यत्नवन्तोऽपि तत्कालाभिज्ञं तमनुगृह्णते ।
उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् ॥२५॥

यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया ।
मन्त्रो योगः क्रमश्चैव पूजनात् सिद्धिदो भवेत् ॥२६॥

कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये ।
ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः ॥२७॥

गुरूणां देवतानां च न कुर्वन्ति प्रमादतः ।
दुराचारा हि ते दुष्टाः पशुतुल्या वरानने ॥२८॥

अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् ।
अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम् ॥२९॥

शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम् ।
तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति ॥३०॥

तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम् ।
मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते ॥३१॥

उत्कृष्टत्वात् पर्वदिनं श्रीपूर्वत्वेन भाष्यते ।
समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् ॥३२॥

तुर्याष्टमान्यभुवनचरमाणि द्वयोरपि ।
पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम् ॥३३॥

यदेतेषु दिनेष्वेव भविष्यद्ग्रहभात्मकः ।
उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता ॥३४॥

सा चैकादशधैकस्मिन्नेकस्मिन्विभुनोदिता ।
सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत् ॥३५॥

कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः ।
अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् ॥३६॥

परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः ।
मूलप्राजापत्ये विशाखिका श्रवणसंज्ञया भानि ॥३७॥

रन्ध्रे तिथ्यर्कपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम् ।
प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम् ॥३८॥

प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु ।
कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती ॥३९॥

व्याससमासात् क्रमशः पूज्याश्चक्रेऽनुयागाख्ये ।
सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः ॥४०॥

गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम् ।
अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे ॥४१॥

अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः ।
भग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम् ॥४२॥

वेलाभग्रहकलना कथितैकादशसु मासेषु ।
फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व ॥४३॥

अग्रतिथिवेधयोगो मुख्यतमोऽसौ विशेषोऽत्र ।
दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः ॥४४॥

पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः ।
यदि संघटेत वेला मुख्यतमा भग्रहौ तथा चक्रम् ॥४५॥

तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत् ।
दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम् ॥४६॥

ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात् ।
उक्तो योऽर्चाकालस्तं चेदुल्लङ्घ्य भग्रहतिथिः स्यात् ॥४७॥

तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित् ।
नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला ॥४८॥

संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः ।
यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति ॥४९॥

तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन ।
वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः ॥५०॥

श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु ।
वेलायोगं कंचन तिथिभग्रहयोगतो ह्यन्यम् ॥५१॥

तिथिस्तु पूज्या प्रधानरूपत्वात् ।
श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति ॥५२॥

यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् ।
मुख्यतयोद्दिश्य विधिं तथाच तत्र पौषपर्वदिने ॥५३॥

कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा ।
आदेशः फलति तथा माघे चक्राद्वचः फलति ॥५४॥

अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः ।
चक्रस्थाने क्रोधात् पाषाणस्फोटनेन रिपुनाशः ॥५५॥

सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना ।
भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत ॥५६॥

सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् ।
भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम् ॥५७॥

यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत् ।
नच काम्यमेव केवलमेतत्परिवर्जने यतः कथितः ॥५८॥

समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च ।
दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः ॥५९॥

नच काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम् ।
तत्रानुयागसिद्ध्यर्थं चक्रयागो निरूप्यते ॥६०॥

मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते ।
नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना ॥६१॥

सर्वत्र चक्रयागोऽत्र मुख्यः काम्ये विशेषतः ।
ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसंज्ञके ॥६२॥

योगे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम् ।
तत्संपर्कात्पूर्णता स्यादिति त्रैशिरसादिषु ॥६३॥

तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम् ।
ज्ञानिने योगिने वापि यो ददाति करोति वा ॥६४॥

दीक्षोत्तरेऽपि च प्रोक्तमन्नं ब्रह्मा रसो हरिः ।
भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेअत् ॥६५॥

सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः ।
तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता ॥६६॥

अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये ।
परिसंख्या न विद्येत तदाह भगवाञ्छिवः ॥६७॥

भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम् ।
एवं यो वै विजानाति दैशिकस्तत्त्वपारगः ॥६८॥

तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे ।
निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् ॥६९॥

यदस्य वक्त्रं संप्राप्ता यास्यामः परमं पदम् ।
अन्येऽपानभुजो ह्यूर्ध्वे प्राणोऽपानस्त्वधोमुखः ॥७०॥

तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि ।
आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् ॥७१॥

श्रीमन्निशाटनेऽप्युक्तं कथनान्वेषणादपि ।
श्रोत्राभ्यन्तरसंप्राप्ते गुरुवक्त्राद्विनिर्गते ॥७२॥

मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम् ।
सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः ॥७३॥

अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा ।
पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः ॥७४॥

तत्र संनिहितो देवः सदेवीकः सकिङ्करः ।
तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम् ॥७५॥

मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते ।
पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम् ॥७६॥

सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु ।
उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि ॥७७॥

दीक्षायां च प्रतिष्ठायां समयानां विशोधने ।
कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा ॥७८॥

केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः ।
केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः ॥७९॥

साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः ।
पत्नीयोगात् क्रयानीतवेश्यासंयोगतोऽथवा ॥८०॥

चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः ।
तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः ॥८१॥

सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते ।
मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः ॥८२॥

तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम् ।
पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा ॥८३॥

तदा तद्गन्धधूपस्रक्समालम्भनवाससा ।
पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति ॥८४॥

एकारके यथा चक्रे एकवीरविधिं स्मरेत् ।
द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके ॥८५॥

षड्योगिनीः सप्तकं च सप्तारेऽष्टाष्टके च वा ।
अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि ॥८६॥

ततः पात्रेऽलिसंपूर्णे पूर्वं चक्रं यजेत्सुधीः ।
आधारयुक्ते नाधाररहितं तर्पणं क्वचित् ॥८७॥

आधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः ।
प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः ॥८८॥

भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः ।
अणुशक्तिशिवात्मेत्थं ध्यात्वा संमिलितं त्रयम् ॥८९॥

ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात् ।
प्रतिसंचरयोगेन पुनरन्तः प्रवेशयेत् ॥९०॥

यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते ।
तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः ॥९१॥

वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः ।
ततोऽवदंशान्विविधान् मांसमत्स्यादिसंयुतान् ॥९२॥

अग्रे तत्र प्रविकिरेत् तृप्त्यन्तं साधकोत्तमः ।
पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च ॥९३॥

पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः ।
दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते ॥९४॥

दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम् ।
तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः ॥९५॥

निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते ।
ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम् ॥९६॥

तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः ।
धारया भैरवस्तुष्येत् करपानं परं ततः ॥९७॥

प्रवेशोऽत्र न दातव्यः पूर्वमेव हि कस्यचित् ।
प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् ॥९८॥

एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम् ।
समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः ॥९९॥

रूपकार्धात् परं हीनां न दद्याद्दक्षिणां सुधीः ।
समयिभ्यः क्रमाद्द्विद्विगुणा गुर्वन्तकं भवेत् ॥१००॥

एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः ।
काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः ॥१०१॥

जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् ।
बलाबलं ततः पश्चाद्विस्मयन्तेऽत्र मातरः ॥१०२॥

ततोऽपि संनिधीयन्ते प्रीयन्ते वरदास्ततः ।
देवीनामथ नाथस्य परिवारयुजोऽप्यलम् ॥१०३॥

वल्लभो मूर्तियागोऽयमतः कार्यो विपश्चिता ।
राक्तौ गुप्ते गृहे वीराः शक्तयोऽन्योन्यमप्यलम् ॥१०४॥

असंकेतयुजो योज्या देवताशब्दकीर्तनात् ।
अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् ॥१०५॥

काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा ।
प्रतिपच्छ्रुतिसंज्ञे च चतुर्थी चोत्तरात्रये ॥१०६॥

हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ ।
सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा ॥१०७॥

मूले तु द्वादशी ब्राह्मे भूताश्विन्यां च पूर्णिमा ।
धनिष्ठायाममावस्या सोऽयमेकादशात्मकः ॥१०८॥

अर्कादित्रयशुक्रान्यतमयुक्तोऽप्यहर्गणः ।
योगपर्वेति विख्यातो रात्रौ वा दिन एव वा ॥१०९॥

योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा ।
यः सर्वान्योगपर्वाख्यान् वासरान् पूजयेत्सुधीः ॥११०॥

मूर्तियागेन सोऽपि स्यात् समयी मण्डलं विना ।
इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते ॥१११॥

अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः ।
श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः ॥११२॥

श्रीसिद्धाटनसद्भावमालिनीसारशासने ।
तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते ॥११३॥

क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः ।
नागराजः स्वभुवने मेघकाले स्म नावसत् ॥११४॥

केवलं तु पवित्रोऽयं वायुभक्षः समाः शतम् ।
दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत् ॥११५॥

व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे ।
पाताले नासितुं शक्तः सोऽप्येनं परमेश्वरः ॥११६॥

नागं निजजटाजूटपीठगं पर्यकल्पयत् ।
ततः समस्तदेवौघैर्धारितोऽसौ स्वमूर्धनि ॥११७॥

महतां महितानां हि नाद्भुत विश्वपूज्यता ।
तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः ॥११८॥

आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् ।
दश कोट्यो न पूजानां पवित्रारोहणे समाः ॥११९॥

वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च ।
विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया ॥१२०॥

तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः ।
आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः ॥१२१॥

कर्तव्यः सोऽनिरोधेन यावत्सा तुलपूर्णिमा ।
तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् ॥१२२॥

कुलशब्दं पठन्तोऽन्ये व्याख्याभेदं प्रकुर्वते ।
नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम् ॥१२३॥

कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम् ।
माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम् ॥१२४॥

पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा ।
दक्षिणोत्तरगः कालः कुलाकुलतयोदितः ॥१२५॥

कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते ।
दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ ॥१२६॥

पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः ।
तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत् ॥१२७॥

एकेनैव पदेन श्रीरत्नमालाकुलागमे ।
तदत्र समये सर्वविधिसंपूरणात्मकः ॥१२८॥

पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा ।
पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम् ॥१२९॥

दक्षिणायनसाजात्यात् तेन तद्विधिरुच्यते ।
एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत् ॥१३०॥

हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् ।
सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ ॥१३१॥

परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि ।
प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् ॥१३२॥

अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् ।
विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत् पुनः ॥१३३॥

वटुके कनकाभावे रौप्यं तु परिकल्पयेत् ।
पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम् ॥१३४॥

तस्मान्नवगुणात् सूत्रात्त्रिगुणादिक्रमात् कुरु ।
चण्डांशुगुणपर्यन्तं ततोऽपि त्रिगुणं च वा ॥१३५॥

तेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः ।
अष्टोत्तरशतं तस्मात् त्रिगुणं तूत्तमं मतम् ॥१३६॥

ग्रन्थयस्तत्त्वसंख्याताः षडध्वकलनावशात् ।
यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः ॥१३७॥

विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः ।
पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात् ॥१३८॥

गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा ।
ततो महोत्सवः कार्यो गुरुपूजापुरःसरः ॥१३९॥

तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः ।
महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् ॥१४०॥

चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः ।
तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् ॥१४१॥

वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः ।
मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् ॥१४२॥

सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम् ।
वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः ॥१४३॥

सति वित्ते पुनः शाठ्यं व्याधये नरकाय च ।
नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् ॥१४४॥

तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् ।
पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः ॥१४५॥

सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः ।
अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः ॥१४६॥

त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा ।
दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते ॥१४७॥

ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः ।
नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः ॥१४८॥

अकामात् कामतो वापि सूक्ष्मपापप्रवर्तिनः ।
तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे ॥१४९॥

श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे ।
नतु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु ॥१५०॥

पाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च ।
चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम् ॥१५१॥

त्रिधा तु त्रिगुणीकृत्य मानसंख्यां तु कारयेत् ।
अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम् ॥१५२॥

ह्रासस्तु पूर्वसंख्याया दशभिर्दशभिः क्रमात् ।
नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः ॥१५३॥

यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः ।
चतुःसमविलिप्तांस्तानथवा कुङ्कुमेन तु ॥१५४॥

व्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम् ।
अर्चासु शोभनं मूर्घ्नि त्रितत्त्वपरिकल्पनात् ॥१५५॥

द्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि ।
विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे ॥१५६॥

घण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे ।
स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते ॥१५७॥

प्रासादे यागगेहे च कारयेन्नवरङ्गिकम् ।
विद्यापीठे तु खशराः प्रतिमालिङ्गपीठगम् ॥१५८॥

वसुवेदं च घण्टायां शराक्ष्यष्टादश स्रुवे ।
वेदाक्षि स्रुचि षट्त्रिंशत् प्रासादे मण्डपे रविः ॥१५९॥

रसेन्दु स्नानगेहेऽब्धिनेत्रे ध्यानगृहे गुरौ ।
सप्त साधकगाः पञ्च पुत्रके सप्त सामये ॥१६०॥

चत्वारोऽथान्यशास्त्रस्थे शिष्ये पञ्चकमुच्यते ।
लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत् ॥१६१॥

द्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम् ।
पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः ॥१६२॥

पवित्रकाणां संपाद्य कुर्यात्संपातसंस्क्रियाम् ।
ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम् ॥१६३॥

दत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम् ।
ओं समस्तक्रियादोषपूरणेश व्रतं प्रति ॥१६४॥

यत्किंचिदकृतं दुष्टं कृतं वा मातृनन्दन ।
तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु ॥१६५॥

सर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे ।
अनेन दद्याद्देवाय निमन्त्रणपवित्रकम् ॥१६६॥

योगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः ।
पञ्चगव्यं चरुं दन्तकाष्ठं शिष्यैः समन्ततः ॥१६७॥

आचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम् ।
ततो विधिं पूजयित्वा पवित्राणि समाहरेत् ॥१६८॥

दन्तकाष्ठं मृच्च धात्री समृद्धात्री सहाम्बुना ।
चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत् ॥१६९॥

प्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात् ।
पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे ॥१७०॥

कुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत् ।
वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः ॥१७१॥

दद्यादसृक् तथा मद्यं पानानि विविधानि च ।
ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो ॥१७२॥

तिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः ।
शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः ॥१७३॥

मूलं सहस्रं साष्टोक्तं त्रिशक्तौ ब्रह्मवक्त्रकम् ।
अर्चिषां तु शतं साष्टं ततः पूर्णाहुतिं क्षिपेत् ॥१७४॥

ततोऽञ्जलौ पवित्रं तु गृहीत्वा प्रपठेदिदम् ।
अकामादथवा कामाद्यन्मया न कृतं विभो ॥१७५॥

तदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया ।
मूलमन्त्रः पूरयेति क्रियानियममित्यथ ॥१७६॥

वौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम् ।
नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात्त्रयम् ॥१७७॥

एवं चतुष्टयं दद्यादनुलोमेन भौतिकः ।
नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम् ॥१७८॥

यत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम् ।
तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम् ॥१७९॥

वस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः ।
भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः ॥१८०॥

चतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम् ।
कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन ॥१८१॥

ततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम् ।
दद्यात्सुवर्णरत्नादिरुप्यवस्त्रविभूषिताम् ॥१८२॥

वदेद्गुरुश्च संपूर्णो विधिस्तव भवत्विति ।
वक्तव्यं देवदेवस्य पुनरागमनाय च ॥१८३॥

ततो विसर्जनं कार्यं गुप्तमाभरणादिकम् ।
नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत् ॥१८४॥

चतुर्णामपि सामान्यं पवित्रकमिति स्मृतम् ।
नास्माद्व्रतं परं किञ्चित् का वास्य स्तुतिरुच्यते ॥१८५॥

शेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम् ।
अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया ॥१८६॥

स भण्यते तत्र कार्या देवस्यार्चा विशेषतः ।
चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः ॥१८७॥

तत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम् ।
पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम् ॥१८८॥

तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये ।
तदुपायोऽपि संपूज्यो मूर्तिकालक्रियादिकः ॥१८९॥

उपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात् ।
तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात् ॥१९०॥

यथा यथा च नैकट्यमुपायेषु तथा तथा ।
अवश्यंभावि कार्यत्वं विशेषाच्चार्चनादिके ॥१९१॥

ज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः ।
यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः ॥१९२॥

तदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः ।
तद्विद्योऽपि गुरुभ्राता संवादाज्ज्ञानदायकः ॥१९३॥

गुरोः पत्नी तथा भ्राता पुत्र इत्यादिको गणः ।
न योनिसंबन्धवशाद्विद्यासंबन्धजस्तु सः ॥१९४॥

वीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः ।
देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः ॥१९५॥

तथाच स्मृतिशास्त्रेषु सन्ततेर्दायहारिता ।
युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः ॥१९६॥

ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः ।
बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः ॥१९७॥

तत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्क्रियः ।
देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः ॥१९८॥

आत्मा विकाररहितः शाश्वतत्वादहेतुकः ।
स्वातन्त्र्यात् पुनरात्मीयादयं छन्न इव स्थितः ॥१९९॥

पुनश्च प्रकटीभूय भैरवीभावभाजनम् ।
तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् ॥२००॥

य उपायः समुचितो ज्ञानसन्तान एष सः ।
क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया ॥२०१॥

गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते ।
एवं चानादिसंसारोचितविज्ञानसन्ततेः ॥२०२॥

ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् ।
असंसारोचितोदारतथाविज्ञानसन्ततेः ॥२०३॥

कारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम् ।
अत्यन्तं स्वविशेषाणां तत्रार्पणवशात् स्फुटम् ॥२०४॥

उपादानं हि तद्युक्तं देहभेदे हि सत्यपि ।
देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः ॥२०५॥

न तथात्वाय योगीच्छाविष्टशावशरीरवत् ।
योगिनः परदेहादिजीवत्तापादने निजम् ॥२०६॥

देहमत्यजतो नानाज्ञानोपादानता न किम् ।
तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः ॥२०७॥

अन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः ।
इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च ॥२०८॥

एककारणकार्यं च वस्त्वित्येष गुरोर्गणः ।
गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी ॥२०९॥

यतो निःशक्तिकस्यास्य न यागेऽधिकृतिर्भवेत् ।
अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम् ॥२१०॥

सामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम् ।
एकजन्या भ्रातरः स्युस्तत्सदृग्यस्तु कोऽपि सः ॥२११॥

पुनः परम्परायोगाद्गुरुवर्गोऽपि भण्यते ।
मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा ॥२१२॥

गुर्वादीनां च सम्भूतौ दीक्षायां प्रायणेऽपि च ।
यदहस्तद्धि विज्ञानोपायदेहादिकारणम् ॥२१३॥

एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते ।
तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम् ॥२१४॥

दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् ।
भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः ॥२१५॥

स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति ।
नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत् ॥२१६॥

तत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम् ।
व्यापकोऽपि शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात् ॥२१७॥

विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् ।
शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः ॥२१८॥

संवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः ।
गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः ॥२१९॥

असङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते ।
स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना ॥२२०॥

प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् ।
अतः प्राग्गाढसंसुप्तोत्थितवत्स प्रबुद्ध्यते ॥२२१॥

क्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी ।
तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम् ॥२२२॥

गृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः ।
एवं क्रमेण संपुष्टदेहप्राणबलो भृशम् ॥२२३॥

भोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः ।
उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना ॥२२४॥

यथा गृहं विनिष्पाद्य गृही समधितिष्ठति ।
तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः ॥२२५॥

किञ्चित्स्फुरणमात्रः प्राग्निष्कलः सोऽपि शब्द्यते ।
स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते ॥२२६॥

इत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु ।
क्षये तु कर्मणां तेषां देहयन्त्रेऽन्यथागते ॥२२७॥

प्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः ।
नाडीचक्रेषु सङ्कोचविकासौ विपरीततः ॥२२८॥

भङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः ।
इत्येवमादि यत्किञ्चित् प्राक्संस्थानोपमर्दकम् ॥२२९॥

देहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः ।
तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम् ॥२३०॥

गृह्णाति योनिजेऽन्यत्र वा देहे कर्मचित्रिते ।
स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा ॥२३१॥

तस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि ।
विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः ॥२३२॥

अतो नियतिकालादिवैचित्र्यानुविधायिनः ।
अनुग्रहस्तु यः सोऽयं स्वस्वरूपे विकस्वरे ॥२३३॥

ज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते /

कर्मकालनियत्यादि यतः सङ्कोचजीवितम् ॥२३४॥

सङ्कोचहानिरूपेऽस्मिन्कथं हेतुरनुग्रहे ।
अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते ॥२३५॥

प्राक् चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः ।
तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः ॥२३६॥

देहान्ते शिव एवेति नास्य देहान्तरस्थितिः ।
येऽपि तत्त्वावतीर्णानां शंकराज्ञानुवर्तिनाम् ॥२३७॥

स्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे ।
मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् ॥२३८॥

मर्त्येऽवतीर्य वा नो वा शिवं यान्त्यपुनर्भवाः ।
तत्र स्वयम्भुवो द्वेधा केऽप्यनुग्रहतत्पराः ॥२३९॥

केऽपि स्वकृत्यायातांशस्थानमात्रोपसेविनः ।
येऽनुग्रहार्थमाज्ञप्तास्तेषु यो म्रियते नरः ॥२४०॥

सोऽनुग्रहं स्फुटं याति विना मर्त्यावतारतः ।
यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नांशतस्त्यजेत् ॥२४१॥

यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता ।
तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः ॥२४२॥

वितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः ।
सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः ॥२४३॥

तपस्यन्तौ बदर्यां च नरनारायणौ तथा ।
इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा ॥२४४॥

आराधिताः स्वोचितं तच्छीघ्रं विदधते फलम् ।
स्वकृत्यांशस्थितानां च धाम्नि येऽन्तं व्रजन्ति ते ॥२४५॥

तत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि ।
मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः ॥२४६॥

तद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम् ।
स्थावराद्यास्तिर्यगन्ताः पशवोऽस्मिन्द्वये मृताः ॥२४७॥

स्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः ।
पुंसां च पशुमात्राणां सालोक्यमविवेकतः ॥२४८॥

अविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा ।
स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा ॥२४९॥

प्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः ।
हंसकारण्डवाकीर्णे नानातरुकुलाकुले ॥२५०॥

इत्येतदागमेषूक्तं तत एव पुरे पुरे ।
क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम् ॥२५१॥

लिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति ।
स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते ॥२५२॥

तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् ।
अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा ॥२५३॥

पुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः ।
अहमन्यः परात्मान्यः शिवोऽन्य इति चेन्मतिः ॥२५४॥

न मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः ।
तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम् ॥२५५॥

तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये ।
उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् ॥२५६॥

मोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः ।
तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये ॥२५७॥

अयोगिनामयं पन्था योगी योगेन वञ्चयेत् ।
वञ्चने त्वसमर्थः सन् क्षेत्रमायतनं व्रजेत् ॥२५८॥

तीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते ।
अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः ॥२५९॥

तावत्सिद्धिजुषोऽप्युक्ता मुक्त्यै क्षेत्रोपयोगिता ।
सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते ॥२६०॥

पशूनामेष वृत्तान्तो ये तु तत्तत्त्वदीक्षिताः ।
ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः ॥२६१॥

योग्यतावशसंजाता यस्य यत्रैव वासना ।
स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक् ॥२६२॥

इति श्रीपूर्वकथितं श्रीमत्स्वायम्भुवेऽपिच ।
यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः ॥२६३॥

सिद्धिभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम् ।
ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः ॥२६४॥

मृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः ।
तेषां सयुक्त्वं यातानामपि संस्कारतो निजात् ॥२६५॥

तथा तथा विचित्रः स्यादवतारस्तदंशतः ।
सिद्धान्तादौ पुराणेषु तथाच श्रूयते बहु ॥२६६॥

तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः ।
अनेकशक्तिखचितं यतो भावस्य यद्वपुः ॥२६७॥

शक्तिभ्योऽर्थान्तरं नैष तत्समूहादृते भवेत् ।
तेन शक्तिसमूहाख्यात् तस्माद्रुद्राद्यदंशतः ॥२६८॥

कृत्यं तदुचितं सिद्ध्येत् सोंऽशोऽवतरति स्फुटम् ।
ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे ॥२६९॥

तत्त्वे मृताः काष्ठवत्तेऽधरेऽप्युत्कर्षभागिनः ।
ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः ॥२७०॥

येऽप्यूर्ध्वतत्त्वदीक्षास्ते विना तावद्विवेकतः ।
प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः ॥२७१॥

अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् ।
विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः ॥२७२॥

पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु ।
तत्परस्य तु सायुज्यमित्युक्तं परमेशिना ॥२७३॥

यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः ।
व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते ॥२७४॥

उक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा ।
दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम् ॥२७५॥

यस्तु तावदयोग्योऽपि तथास्ते स शिवालये ।
पश्चादास्थानिबन्धेन तावदेव फलं भजेत् ॥२७६॥

नदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ ।
उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता ॥२७७॥

ये पुनः प्राप्तविज्ञानविवेका मरणान्तिके ।
अधरायतनेष्वास्थां श्रितास्तेऽत्र तिरोहिताः ॥२७८॥

तज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम् ।
तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः ॥२७९॥

दीक्षायतनविज्ञानदूषिणो ये तु चेतसा ।
आचरन्ति च तत्तेऽत्र सर्वे निरयगामिनः ॥२८०॥

ज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः ।
व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च ॥२८१॥

यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः ।
अस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम् ॥२८२॥

धातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः ।
छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः ॥२८३॥

ये तु कैवल्यभागीयाः स्वास्थ्येऽनुन्मिषिताः सदा ।
अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः ॥२८४॥

यतः सांसारिकाः पूर्वगाढाभ्यासोपसंस्कृताः ।
इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः ॥२८५॥

ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् ।
अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः ॥२८६॥

व्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः ।
अप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः ॥२८७॥

विपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः ।
तिरोभावो न विज्ञेयो हृदये रूढ्यभावतः ॥२८८॥

अत एव प्रबुद्धोऽपि कर्मोत्थान्भोगरूपिणः ।
यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत् ॥२८९॥

नैतावता न मुक्तोऽसौ मृतिर्भोगो हि जन्मवत् ।
स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा ॥२९०॥

अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः ।
स्थितौ न घ्नन्ति मुक्तत्वं मरणेऽपि तथैव ताः ॥२९१॥

ये पुनर्योगिनस्तेऽपि यस्मिंस्तत्त्वे सुभाविताः ।
चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः ॥२९२॥

श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः ।
इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् ॥२९३॥

एतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम् ।
धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् ॥२९४॥

एतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा ।
ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते ॥२९५॥

तथाहि मानसं यत्नं तावत्समधितिष्ठति ।
अहंरूढ्या परे देहे यावत्स्याद्बुद्धिसंचरः ॥२९६॥

प्राणचक्रं तदायत्तमपि संचरते पथा ।
तेनैवातः प्रबुद्ध्येत परदेहेऽक्षचक्रकम् ॥२९७॥

मक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः ।
स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः ॥२९८॥

अतोऽस्य परदेहादिसंचारे नास्ति मेलनम् ।
अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः ॥२९९॥

एवं परशरीरादिचारिणामिव योगिनाम् ।
तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति मूढता ॥३००॥

ते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा ।
पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः ॥३०१॥

दीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात् ।
भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी ॥३०२॥

ये तु विज्ञानिनस्तेऽत्र द्वेधा कम्प्रेतरत्वतः ।
तत्र ये कम्प्रविज्ञानास्ते देहान्तेद् शिवाः स्फुटम् ॥३०३॥

यतो विज्ञानमेतेषामुत्पन्नं नच सुस्फुटम् ।
विकल्पान्तरयोगेन नचाप्युन्मूलितात्मकम् ॥३०४॥

अतो देहे प्रमादोत्थो विकल्पो देहपाततः ।
नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम् ॥३०५॥

संस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा ।
प्राप्तपाकं संवरीतुरपाये भासते हि तत् ॥३०६॥

ये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा ।
जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा ॥३०७॥

यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा ।
सुखिदुःखिविमूढत्वे मृतावपि तथा न सा ॥३०८॥

श्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः ।
स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः ॥३०९॥

रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने ।
सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं लभतेऽपि चान्ते ॥३१०॥

अपिचेति ध्वनिर्जीवन्मुक्ततामस्य भाषते ।
सचिन्ताचिन्तकत्वोक्तिरेतावत्संभवस्थितिम् ॥३११॥

तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम् ।
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥३१२॥

अनन्तकारिका चैषा प्राहेदं बन्धकं किल ।
सुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत् ॥३१३॥

अपिशब्दादलुप्तस्मृत्या वा संभाव्यते किल ।
मृतिर्नष्टस्मृतेरेव मृतेः प्राक् सास्तु किं तया ॥३१४॥

लिङ्च संभावनायां स्यादियत्संभाव्यते किल ।
सच कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम् ॥३१५॥

कैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः ।
भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता ॥३१६॥

परदेहादिसंबन्धो यथा नास्य विभेदकः ।
तथा स्वदेहसंबन्धो जीवन्मुक्तस्य यद्यपि ॥३१७॥

अतश्च न विशेषोऽस्य विश्वाकृतिनिराकृतेः ।
शिवाभिन्नस्य देहे वा तदभावेऽपि वा किल ॥३१८॥

तथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः ।
अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात् ॥३१९॥

तान्येनं न विदुर्भिन्नं तैः स मुक्तोऽभिधीयते ।
श्रीमत्त्रैशिरसेऽप्युक्तं सूर्येन्दुपुटवर्जिते ॥३२०॥

जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते ।
सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे ॥३२१॥

तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः ।
प्रधानं घट आकाश आत्मा मष्टे घटेऽपि खम् ॥३२२॥

न नश्येत्तद्वदेवासावात्मा शिवमयो भवेत् ।
स्वतन्त्रोऽवस्थितो ज्ञानी प्रसरेत्सर्ववस्तुषु ॥३२३॥

तस्य भावो नचाभावः संस्थानं नच कल्पना ।
एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत ॥३२४॥

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥३२५॥

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा ॥३२६॥

क्रमाद्रजस्तमोलीनः कर्मयोनिविमूढगः ।
तत्रेन्द्रियाणां संमोहश्वासायासपरीतता ॥३२७॥

इत्यादिमृतिभोगोऽयं देहे न त्यजनं तनोः ।
यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः ॥३२८॥

यदनन्तरमेवैष देहः स्यात्काष्ठकुड्यवत् ।
सा देहत्यागकालांशकला देहवियोगिनी ॥३२९॥

तत एव हि तद्देहसुखदुःखादिकोज्झिता ।
तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः ॥३३०॥

अदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात् ।
तदेव रूपमभ्येति सुखिदुःखिविमूढकम् ॥३३१॥

यद्वा निःसुखदुःखादि यदि वानन्दरूपकम् ।
कस्मादेति तदेवैष यतः स्मरति संविदि ॥३३२॥

प्राक् प्रस्फुरेद्यदधिकं देहोऽसौ चिदधिष्ठितेः ।
यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः ॥३३३॥

सैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे ।
नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम् ॥३३४॥

अधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम् ।
अतोऽधिष्ठेयमात्रस्य शरीरत्वेऽपि कुड्यतः ॥३३५॥

देहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता ।
तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते ॥३३६॥

वेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः ।
सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना ॥३३७॥

स्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया ।
युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत् ॥३३८॥

देहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम् ।
तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः ॥३३९॥

देहत्वस्याविशेषेऽपीत्येष प्रश्नो न शाम्यति ।
स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते ॥३४०॥

प्राक् स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन् ।
अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु ॥३४१॥

न जातु गोचरो यस्माद्देहान्तरविनिश्चयः ।
यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम् ॥३४२॥

न तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत् ।
कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते ॥३४३॥

देहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः ।
यथा पुराणे कथितं मृगपोतकतृष्णया ॥३४४॥

मुनिः कोऽपि मृगीभावमभ्युवाहाधिवासितः ।
तत्र सोऽनुभवो हेतुर्न जन्मान्तरसूतये ॥३४५॥

तस्यैतद्वासना हेतुः काकतालीयवत् स तु ।
ननु कस्मात्तदेवैष स्मरति इत्याह यत्सदा ॥३४६॥

तद्भावभावितस्तेन तदेवैष स्मरत्यलम् ।
एवमस्मि भविष्यामीत्येष तद्भाव उच्यते ॥३४७॥

भविष्यतो हि भवनं भाव्यते न सतः क्वचित् ।
क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते ॥३४८॥

स्फुटस्य चानुभवनं न भावनमिदं स्फुटम् ।
तदहर्जातबालस्य पशोः कीटस्य वा तरोः ॥३४९॥

मूढत्वेऽपि तदानीं प्राग्भावना ह्यभवत्स्फुटा ।
सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात् ॥३५०॥

स्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी ।
देशादिव्यवधानेऽपि वासनानामुदीरितात् ॥३५१॥

आनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः ।
तथानुभवनारूढ्या स्फुटस्यापि तु भाविता ॥३५२॥

भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः ।
तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह ॥३५३॥

भासतेऽपि परे लोके स्वप्नवद्वासनाक्रमात् ।
ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम् ॥३५४॥

वेद्यते क इदं प्राह स तावद्वेद वेद्यताम् ।
व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे ॥३५५॥

स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता ।
य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः ॥३५६॥

स्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात् ।
यानपश्यमहं स्वप्ने प्रमातॄंस्ते न केचन ॥३५७॥

न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा ।
यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ ॥३५८॥

प्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः ।
घटादेरस्तिता संविन्निष्ठिता नतु तद्गता ॥३५९॥

तद्वन्मात्रन्तरेऽप्येषा संविन्निष्ठा न तद्गता ।
तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि ॥३६०॥

देहान्ते बुध्यते नो चेत् स्यादन्यादृक्प्रबोधनम् ।
तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः ॥३६१॥

मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः ।
निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः ॥३६२॥

पादाच्च निखिलादर्धश्लोकाच्च समनन्तरात् ।
लीनशब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम् ॥३६३॥

अज्ञात्वैतत्तु सर्वेऽपि कुशकाशावलम्बिनः ।
यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम् ॥३६४॥

भिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम् ।
व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने ॥३६५॥

नच तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम् ।
तदित्थंप्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः ॥३६६॥

अधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति ।
विदितमृतिसतत्त्वाः संविदम्भोनिधानादचलहृदयवीर्याकर्षनिष्पीडनोत्थम् ।
अमृतमिति निगीर्णे कालकूटेऽत्र देवा यदि पिवथ तदानीं निश्चितं वः शिवत्वम् ॥३६७॥

उत्सवोऽपि हि यः कश्चिल्लौकिकः सोऽपि संमदम् ।
संविदब्धितरङ्गाभं सूते तदपि पर्ववत् ॥३६८॥

एतेन च विपद्ध्वंसप्रमोदादिषु पर्वता ।
व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् ॥३६९॥

पुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः ।
दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम् ॥३७०॥

योगिनीमेलको द्वेधा हठतः प्रियतस्तथा ।
प्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे ॥३७१॥

स च द्वयोऽपि मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते ।
योगिनीमेलकाच्चैषोऽवश्यं ज्ञानं प्रपद्यते ॥३७२॥

तेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम् ।
संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा ॥३७३॥

मेलकेऽन्योन्यसङ्घट्टप्रतिबिम्बाद्विकस्वरा ।
उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः ॥३७४॥

बहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः ।
अत एव गीतगीतप्रभृतौ बहुपर्षदि ॥३७५॥

यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः ।
आनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम् ॥३७६॥

नृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते ।
ईर्ष्यासूयादिसङ्कोचकारणाभावतोऽत्र सा ॥३७७॥

विकस्वरा निष्प्रतिघं संविदानन्दयोगिनी ।
अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते ॥३७८॥

स्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते ।
अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम् ॥३७९॥

नैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम् ।
यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम् ॥३८०॥

एकां संविदमाविश्य चक्रे तावन्ति पूजयेत् ।
प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः ॥३८१॥

प्रस्तुतं स्वसमाचारं तेन साकं समाचरेत् ।
स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत् ॥३८२॥

वामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि ।
श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत् ॥३८३॥

प्रवेशं संपविष्टस्य न विचारं तु कारयेत् ।
लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः ॥३८४॥

अकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत् ।
अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम् ॥३८५॥

देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना ।
कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् ॥३८६॥

सर्वशास्त्रार्थविच्चेति गुरुर्भिन्नोऽपदिश्यते ।
यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः ॥३८७॥

नान्यथा तदभावश्चेत्सर्वथा सोऽप्यथाचरेत् ।
श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम् ॥३८८॥

गुरोर्लक्षणमेतावत्संपूर्णज्ञानतैव या ।
तत्रापि यास्य चिद्वृत्तिकर्मिभित् साप्यवान्तरा ॥३८९॥

देव्यायामल उक्तं तद्द्वापञ्चाशाह्व आह्निके ।
देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत् ॥३९०॥

उच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः ।
क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे ॥३९१॥

ते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय ।
अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः ॥३९२॥

सर्वेऽलिमांसनिधुवनदीक्षार्चनशास्त्रसेवने निरताः ।
अभिमानशमक्रोधक्षमादिरवान्तरो भेदः ॥३९३॥

इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् ।
व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान् ॥३९४॥

सोऽपि स्वशासनीये परशिष्येऽपिवापि तादृशं शास्त्रम् ।
श्रोतुं योग्ये कुर्याद्व्याख्यानं वैष्णवाद्यधरे ॥३९५॥

करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् ।
अधमेऽपि हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम् ॥३९६॥

लिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे ।
कुर्याद्विद्यापीठं स्याद्रसवह्न्यङ्गुलं त्वेतत् ॥३९७॥

मध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च ।
अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः ॥३९८॥

सामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक् ।
सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् ॥३९९॥

सूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात् ।
अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि ॥४००॥

मण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः ।
अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम् ॥४०१॥

तन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः ।
वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत् ॥४०२॥

यद्यद्व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः ।
बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात् ॥४०३॥

दृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम् ।
शिष्यमतावारोहति तदाशु संशयविपर्ययैर्विकलम् ॥४०४॥

भाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य ।
सम्बोधोपायत्वं तथैव गुरुराश्रयेद्व्याख्याम् ॥४०५॥

वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे ।
पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत् ॥४०६॥

व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले ।
शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् ॥४०७॥

विशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ ।
अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि ॥४०८॥

तथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत् ।
श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो ॥४०९॥

प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते ।
सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत् ॥४१०॥

सर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः ।
तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः ॥४११॥

अतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः ।
तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते ॥४१२॥

तस्माद्विकल्परहितः संवृत्युपरतो यदि ।
शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत् ॥४१३॥

सङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत् ।
यथा तेषां न शास्त्रार्थे दोलारूढा मतिर्भवेत् ॥४१४॥

यत्स्वयं शिवहस्ताख्ये विधौ संचोदितं पुरा ।
शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते ॥४१५॥

शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये ।
इति श्रीरत्नमालायां समयोल्लङ्घने कृते ॥४१६॥

कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी ।
श्रीपूर्वे समयानां तु शोधनायोदितं यथा ॥४१७॥

मालिनी मातृका वापि जप्या लक्षत्रयान्तकम् ।
प्रतिष्ठितस्य पूरादेर्दर्शनेऽनधिकारिणा ॥४१८॥

प्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले ।
ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा ॥४१९॥

देवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः ।
नित्यादिलोपकृद्भ्रष्टस्वकमात्रापरिच्छदः ॥४२०॥

शक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः ।
नैमित्तिकानां लक्षादिक्रमाद्द्विद्विगुणं जपेत् ॥४२१॥

व्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान् ।
दूतीपरिग्रहेऽन्यत्र गतश्चेत्काममोहितः ॥४२२॥

लक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले ।
दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम् ॥४२३॥

अपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते ।
पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् ॥४२४॥

स गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि ।
मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् ॥४२५॥

कृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम् ।
ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् ॥४२६॥

स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः ।
समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात् ॥४२७॥

आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः ।
सर्वस्वमस्मै संदद्यादात्मानमपि भावितः ॥४२८॥

अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः ।
तत्त्वज्ञोऽप्यृणबन्धेन तेन यात्यधिकारिताम् ॥४२९॥

गुरुपूजामकुर्वाणः शतं जन्मानि जायते ।
अधिकारी ततो मुक्तिं यातीति स्कन्दयामले ॥४३०॥

तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः ।
पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् ॥४३१॥

तज्जुष्टमथ तस्याज्ञां प्राप्याश्नीयात्स्वयं शिशुः ।
ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम् ॥४३२॥

अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः ।
तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम् ॥४३३॥

अतत्रस्थोऽपि हि गुरुः पूज्यः संकल्प्य पूर्ववत् ।
तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ ॥४३४॥

पर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म ॥