प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तन्त्रालोकः

अथ श्रीतन्त्रालोके एकादशमाह्निकम्

कलाध्वा वक्ष्यते श्रीमच्छांभवाज्ञानुसारतः ॥१॥

यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम् ।
अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते ॥२॥

तथा तेष्वपि तत्त्वेषु स्ववर्गेऽनुगमात्मकम् ।
व्यावृत्तं परवर्गाच्च कलेति शिवशासने ॥३॥

केचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका ।
तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा ॥४॥

अत्र पक्षद्वये वस्तु न भिन्नं भासते यतः ।
अनुगामि न सामान्यमिष्टं नैयायिकादिवत् ॥५॥

अन्ये वदन्ति दीक्षादौ सुखसंग्रहणार्थतः ।
शिवेन कल्पितो वर्गः कलेति समयाश्रयः ॥६॥

कृतश्च देवदेवेन समयोऽपरमार्थताम् ।
न गच्छतीति नासत्यो न चान्यसमयोदयः ॥७॥

निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे ।
विद्या निशान्ते शान्ता च शक्त्यन्तेऽण्डमिदं चतुः ॥८॥

शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः ।
नह्यत्र वर्गीकरणं समयः कलनापि वा ॥९॥

युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि ।
स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम् ॥१०॥

उपदेशतदावेशपरमार्थत्वसिद्धये ।
बोध्यतामानयन्देवः स्फुटमेव विभाव्यते ॥११॥

यतोऽतः शिवतत्त्वेऽपि कलासंगतिरुच्यते ।
अण्डं च नाम भुवनविभागस्थितिकारणम् ॥१२॥

प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि ।
यद्यपि प्राक् शिवाख्येऽपि तत्त्वे भुवनपद्धतिः ॥१३॥

उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसंभवः ।
नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः ॥१४॥

अपि चाप्रतिघत्वेऽपि कथमण्डस्य संभवः ।
अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम् ॥१५॥

प्रत्यक्षमिदमाभाति ततोऽन्यन्नास्ति किंचन ।
मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः ॥१६॥

कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम् ।
त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता ॥१७॥

कार्यत्वकरणत्वादिविभागगलने सति ।
विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः ॥१८॥

श्रीमत्कालोत्तरादौ च कथितं भूयसा तथा ।
पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् ॥१९॥

पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते ।
ईशानान्तं तत्र तत्र धरादिगगनान्तकम् ॥२०॥

शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम् ।
यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् ॥२१॥

सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् ।
तस्याप्युक्तनयाद्वेद्यभावेऽत्र परिकल्पिते ॥२२॥

यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते ।
न चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः ॥२३॥

यद्वेद्यं किंचिदाभाति तत्क्षये यत्प्रकाशते ।
तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते ॥२४॥

तत्किं न किंचिद्वा किंचिदित्याकाङ्क्षावशे वपुः ।
चिदानन्दस्वतन्त्रैकरूपं तदिति देशने ॥२५॥

सप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा ।
तच्चापि क्लृप्तवेद्यत्वं यत्र भाति स चिन्मयः ॥२६॥

अष्टात्रिंशत्तमः सोऽपि भावनायोपदिश्यते ।
यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत् ॥२७॥

अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता ।
समैव वेद्यीकरणं केवलं त्वधिकं यतः ॥२८॥

धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः ।
गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु ॥२९॥

इति स्थिते नये शक्तितत्त्वान्तेऽप्यस्ति सौक्ष्म्यभाक् ।
स्पर्शः कोऽपि सदा यस्मै योगिनः स्पृहयालवः ॥३०॥

तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी ।
यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम् ॥३१॥

अतो विन्दुरतो नादो रूपमस्मादतो रसः ।
इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा ॥३२॥

मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत ।
धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा ॥३३॥

एभिः शब्दैर्व्यवहरन् निवृत्त्यादेर्निजं वपुः ।
पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते ॥३४॥

विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम् ।
शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम् ॥३५॥

इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति ।
तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः ॥३६॥

प्रकृत् पुमान्यतिः कालो माया विद्येशसौशिवौ ।
शिवश्च नवतत्त्वेऽपि विधौ तत्त्वाध्वरूपता ॥३७॥

एवमष्टादशाख्येऽपि विधौ न्यायं वदेत्सुधीः ।
यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः ॥३८॥

अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक् ।
तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत् ॥३९॥

तत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः ।
एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति ॥४०॥

शिष्यं च गतभोगाशमुदितः शंभुना यतः ।
भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया ॥४१॥

स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन् स्थितः ।
इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः ॥४२॥

मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः ।
अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते ॥४३॥

यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम् ।
पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते ॥४४॥

तदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा ।
गुप्तभाषी यतो माता तूष्णींभूतो व्यवस्थितः ॥४५॥

तथापि न विमर्शात्म रूपं त्यजति तेन सः ।
प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु ॥४६॥

मन्त्राणां च पदानां च तेनोक्तं त्रिकशासने ।
अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम् ॥४७॥

औदासीन्यपरित्यागे प्रक्षोभानवरोहणे ।
वर्णाध्वा मातृभागे स्यात् पूर्वं या कथिता प्रमा ॥४८॥

सा तु पूर्णस्वरूपत्वादविभागमयी यतः ।
तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः ॥४९॥

कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः ।
तत्र शक्तिपरिस्पन्दस्तावान् प्राक् च निरूपितः ॥५०॥

संकलय्योच्यते सर्वमधुना सुखसंविदे ।
पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः ।
तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या ॥५१॥

मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला ।
अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या ॥५२॥

षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम् ।
अभिनवगुप्तेनार्यात्रयमुक्तं संग्रहाय शिष्येभ्यः ॥५३॥

सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् ।
तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानोऽवभासते ॥५४॥

तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः ।
तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा ॥५५॥

शिवज्ञानक्रियायत्तमननत्राणतत्परा ।
अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् ॥५६॥

च्युता मानमयाद्रूपात् संविन्मन्त्राध्वतां गता ।
प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम् ॥५७॥

तथा हि मातुर्विश्रान्तिर्वर्णान्संघट्य तान्बहून् ।
संघट्टनं च क्रमिकं संजल्पात्मकमेव तत् ॥५८॥

विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम् ।
अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ ॥५९॥

प्रमाणरूपतावेशमपरित्यज्य मेयताम् ॥६०॥

गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः ।
शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि ॥६१॥

तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः ।
प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम् ॥६२॥

प्रमात्मात्र स्थितोऽध्वायं वर्णात्मा दृश्यतां किल ।
उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः ॥६३॥

सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः ।
सृष्टाः स्वात्मसहोत्थेऽर्थे धरापर्यन्तभागिनि ॥६४॥

आमृशन्तः स्वचिद्भूमौ तावतोऽर्थानभेदतः ।
वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम् ॥६५॥

बालास्तिर्यक्प्रमातारो येऽप्यसंकेतभागिनः ।
तेऽप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम् ॥६६॥

भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् ।
अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम् ॥६७॥

संकेता यान्ति चेत्तेऽपि यान्त्यसंकेतवृत्तिताम् ।
अनया तु विना सर्वे संकेता बहुशः कृताः ॥६८॥

अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम् ।
बालो व्युत्पाद्यते येन तत्र संकेतमार्गणात् ॥६९॥

अङ्गुल्यादेशनेऽप्यस्य नाविकल्पा तथा मतिः ।
विकल्पः शब्दमूलश्च शब्दः संकेतजीवितः ॥७०॥

तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः ।
संविद्विमर्शसचिवः सदैव स हि जृम्भते ॥७१॥

यत एव च मायीया वर्णाः सूतिं वितेनिरे ।
ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः ॥७२॥

संकेतनिरपेक्षास्ते प्रमेति परिगृह्यताम् ।
तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा ॥७३॥

प्रमा यस्य जडोऽसौ नो तत्रार्थेऽभ्येति मातृताम् ।
शुकवत्स पठत्येव परं तत्क्रमितैकभाक् ॥७४॥

स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता ।
यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात् ॥७५॥

वाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत् ।
यथा यथा चाकृतकं तद्रूपमतिरिच्यते ॥७६॥

तथा तथा चमत्कारतारतम्यं विभाव्यते ।
आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे ॥७७॥

सकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः /

आद्योद्रेकमहत्त्वेऽपि प्रतिभात्मनि निष्ठिताः ॥७८॥

ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः ।
यावद्धामनि संकेतनिकारकलनोज्झिते ॥७९॥

विश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा ।
अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता ॥८०॥

सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी ।
तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते ॥८१॥

तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम् ।
एवं मामातृमानत्वमेयत्वैर्योऽवभासते ॥८२॥

षड्विधः स्ववपुःशुद्धौ शुद्धिं सोऽध्वाधिगच्छति ।
एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् ॥८३॥

अन्तर्भाव्याचरेच्छुद्धिमनुसंधानवान् गुरुः ।
अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत् ॥८४॥

तद्विशुद्धं बीजभावात् सूते नोत्तरसंततिम् ।
शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता ॥८५॥

तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम् ।
तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात् ॥८६॥

अत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः ।
सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते ॥८७॥

अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल ।
ते सर्वे सर्वदाः किन्तु कस्याचित् क्वापि मुख्यता ॥८८॥

अतः शोधकभावेन शास्त्रे श्रीपूर्वसंज्ञिते ।
परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः ॥८९॥

शोधकत्वं च मालिन्या देवीनां त्रितयस्य च ।
देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च ॥९०॥

किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे ।
लोकपास्त्रविधौ मन्त्रान् मुक्त्वा सर्वं विशोधकम् ॥९१॥

यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या ।
सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने ॥९२॥

सर्वमेतद्विभात्येव परमेशितरि ध्रुवे ।
प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ॥९३॥

चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी ।
भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत् ॥९४॥

यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः ।
देहान्तरादिर्मरणे कीदृग्वा देहसंभवः ॥९५॥

स्वप्नेऽपि प्रतिभामात्रसामान्यप्रथनाबलात् ।
विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते यथा ॥९६॥

शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा ।
तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः ॥९७॥

नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः ।
न स्वयं सदसन्तो नो कारणाकारणात्मकाः ॥९८॥

नियतेश्चिररूढायाः समुच्छेदात्प्रवर्तनात् ।
अरूढायाः स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः ॥९९॥

एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि ।
एवमस्मीत्यनामर्शो भेदको भावमण्डले ॥१००॥

सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा ।
स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम् ॥१०१॥

चित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः ।
अहमेव स्थितो भूतभावतत्त्वपुरैरिति ॥१०२॥

एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः ।
अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः ॥१०३॥

परेहसंविदामात्रं परलोकेहलोकते ।
वस्तुतः संविदो देशः कालो वा नैव किंचन ॥१०४॥

अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः ।
तदवेक्ष्यत तन्मध्यात् केनैकोऽपि धराधरः ॥१०५॥

भूततन्मात्रवर्गादेराधाराधेयताक्रमे ।
अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ॥१०६॥

तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः ।
ततो भावास्तत्र भावाः शक्तिराधारिका ततः ॥१०७॥

सांकल्पिकं निराधारमपि नैव पतत्यधः ।
स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम् ॥१०८॥

अस्या घनाहमित्यादिरूढिरेव धरादिता ।
यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥१०९॥

मणाविन्द्रायुधे भास इव नीलादयः शिवे ।
परमार्थत एषां तु नोदयो न व्ययः क्वचित् ॥११०॥

देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम् ।
चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि ॥१११॥

जागराभिमते सार्धहस्तत्रितयगोचरे ।
प्रहरे च पृथक् स्वप्नाश्चित्रदिक्कालमानिनः ॥११२॥

अत एव क्षणं नाम न किंचिदपि मन्महे ।
क्रियाक्षणे वाप्येकस्मिन् बह्व्यः संस्युर्द्रुताः क्रियाः ॥११३॥

तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे ।
ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः ॥११४॥

तद्य एष सतो भावाञ् शून्यीकर्तुं तथासतः ।
स्फुटीकर्तुं स्वतन्त्रत्वादीशः सोऽस्मत्प्रभुः शिवः ॥११५॥

तदित्थं परमेशानो विश्वरूपः प्रगीयते ।
न तु भिन्नस्य कस्यापि धरादेरुपपन्नता ॥११६॥

उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते ।
भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत ॥११७॥

तदित्थमेष निर्णीतः कलादेर्विस्तरोऽध्वनः ॥११८॥