तन्त्रालोकः चतुर्दशमाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके चतुर्दशमाह्निकम्


तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम् ।
स्वभावात् परमेशानो नियत्यनियतिक्रमम् ॥१॥

स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते ।
नियतिं कर्मफलयोराश्रित्यैष महेश्वरः ॥२॥

सृष्टिसंस्थितिसंहारान्विधत्तेऽवान्तरस्थितीन् ।
महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि ॥३॥

एकः स देवो विश्वात्मा नियतित्यागतः प्रभुः ।
अवान्तरे या च सृष्टिः स्थितिश्चात्राप्ययन्त्रितम् ॥४॥

नोज्झत्येष वपुस्त्यक्तनियतिश्च स्थितोऽत्र तत् ।
नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात् ॥५॥

भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः ।
त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम् ॥६॥

बिभासयिषुरास्तेऽयं तिरोधानेऽनपेक्षकः ।
यथा प्रकाशस्वातन्त्र्यात् प्रतिबुद्धोऽप्यबुद्धवत् ॥७॥

आस्ते तद्वदनुत्तीर्णोऽप्युत्तीर्ण इव चेष्टते ।
यथा च बुद्धस्तां मूढचेष्टां कुर्वन्नपि द्विषन् ॥८॥

हृद्यास्ते मूढ एवं हि प्रबुद्धानां विचेष्टितम् ।
श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम् ॥९॥

ये यौष्माके शासनमार्गे कृतदीक्षाः संगच्छन्तो मोहवशाद्विप्रतिपत्तिम् ।
नूनं तेषा नास्ति भवद्भानुनियोगः सङ्कोचः किं सूर्यकरैस्तामरसानाम् ॥१०॥

ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये त्वन्मार्गात्कापथगास्तेऽपि न सम्यक ।
प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः ॥११॥

यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात् ।
नो तैः पीतं भूतलसंस्थैरमृतं तद्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन् ॥१२॥

ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका ।
द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः ॥१३॥

न चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः ।
किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः ॥१४॥

तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा ।
अनन्तकालसंवेद्यदुःखपात्रत्वमीहते ॥१५॥

तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः ।
दुःखस्यापि विभेदोऽस्ति चिरशैघ्र्यकृतस्तथा ॥१६॥

कालकामान्धकादीनां पौलस्त्यपुरवासिनाम् ।
तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र च ॥१७॥

अन्योऽपि च तिरोभावः समयोल्लङ्घनात्मकः ।
यदुक्तं परमेशेन श्रीमदानन्दगह्वरे ॥१८॥

समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः ।
तत्रापि मन्दतीव्रादिभेदाद्बहुविधः क्रमः ॥१९॥

स्वातन्त्र्याच्च महेशस्य तिरोभूतोऽप्यसौ स्वयम् ।
परद्वारेण वाभ्येति भूयोऽनुग्रहमप्यलम् ॥२०॥

भूयोऽनुग्रहतः प्रायश्चित्ताद्याचरणे सति ।
अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः ॥२१॥

तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून् ।
आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते ॥२२॥

तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम् ।
तथैति शक्तिपातोऽसौ येनायाति शिवात्मताम् ॥२३॥

इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः ।
इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः ॥२४॥

पञ्चकृत्यस्वतन्त्रत्वसंपूर्णस्वात्ममानिनः ।
योगिनोऽर्चाजपध्यानयोगाः संस्युः सदोदिताः ॥२५॥

ऐन्द्रजालिकवृत्तान्ते न रज्येत कदाचन ।
सादाशिवोऽपि यो भोगो बन्धः सोऽप्युचितात्मनाम् ॥२६॥

ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते ।
कुलालवत्तु कर्तृत्वं न मुख्यं तदधिष्ठितेः ॥२७॥

इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना ।
शिवोऽहं चेन्मदिच्छानुवर्ति किं न जगत्त्विति ॥२८॥

ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत् ।
शिवो वा परमेशानो देहादिरथ निर्मितः ॥२९॥

शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया ।
कृतः कान्या देहतास्य तत्किं स्याद्वाच्यतापदम् ॥३०॥

उक्तं च सिद्धसन्तानश्रीमदूर्मिमहाकुले ।
पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः ॥३१॥

कुहकादिषु ये भ्रान्तास्ते भ्रान्ताः परमे पदे ।
सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये ॥३२॥

प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता ।
यदि सर्वगता देवो वदोत्क्रम्य क्व यास्यति ॥३३॥

अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत् ।
उत्क्रान्तिविधियोगोऽयमेकदेशेन कथ्यते ॥३४॥

निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसंगतिः ।
यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः ॥३५॥

आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना ।
तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया ॥३६॥

श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं न तत् ।
मुक्त्युपायतया किंतु भोगहान्यै तथैषणात् ॥३७॥

जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः ।
भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति ॥३८॥

स्वच्छन्दमृत्योरपि यद् भीष्मादेः श्रूयते किल ।
भोगवैरस्यसंप्राप्तौ जीवितान्तोपसर्पणम् ॥३९॥

योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः ।
हातुं नह्यन्यथा शक्या विनोक्तक्रमयोगतः ॥४०॥

उक्तं च मालिनीतन्त्रे परमेशेन तादृशम् ।
सर्वमप्यथवा भोगं मन्यमानो विरूपकम् ॥४१॥

इत्यादि वदता सर्वैरलक्ष्यान्तःसतत्त्वकम् ।
एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम् ॥४२॥

यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी ।
उक्तं श्रीनिशिचारे च भैरवीयेण तेजसा ॥४३॥

व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः ।
विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ॥४४॥

बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः ।
अविकल्पस्तथाद्यैव जीवन्मुक्तो न संशयः ॥४५॥

संसारजीर्णतरुमूलकलापकल्पसंकल्पसान्तरतया परमार्थवह्नेः ।
स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः ॥४६॥

इत्थं दीक्षोपक्रमोऽयं दर्शितः शास्त्रसंमतः ॥