तन्त्रालोकः तृतीयमाह्निकम्

तन्त्रालोकः

अथ श्रीतन्त्रालोकस्य तृतीयमाह्निकम्

अथ परौपयिकं प्रणिगद्यते पदमनुत्तरमेव महेशितुः ॥

प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः ।
तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते ॥१॥

यः प्रकाशः स सर्वस्य प्रकाशत्वं प्रयच्छति ।
न च तद्व्यतिरेक्यस्ति विश्वं सद्वावभासते ॥२॥

अतो ऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः ।
इयतः सृष्टिसंहाराडम्बरस्य प्रदर्शकः ॥३॥

निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः ।
अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ॥४॥

सदृशं भाति नयनदर्पणाम्बरवारिषु ।
तथा हि निर्मले रूपे रूपमेवावभासते ॥५॥

प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम् ।
दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति ॥६॥

न हि स्पर्शो ऽस्य विमलो रूपमेव तथा यतः ।
नैर्मल्यं चातिनिविडसजातीयैकसंगतिः ॥७॥

स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या ।
अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् ॥८॥

नैर्मल्यं मुख्यमेकस्य संविन्नाथस्य सर्वतः ।
अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया ॥९॥

भावानां यत्प्रतीघाति वपुर्मायात्मकं हि तत् ।
तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् ॥१०॥

तदेवमुभयाकारमवभासं प्रकाशयन् ।
विभाति वरदो बिम्बप्रतिबिम्बदृशाखिले ॥११॥

यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् ।
विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते ॥१२॥

देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः ।
तेनैव तेजसा ज्ञत्वे को ऽर्थः स्याद्दर्पणेन तु ॥१३॥

विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः ।
रूपं दृश्येत वदने निजे न मकुरान्तरे ॥१४॥

स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् ।
न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः ॥१५॥

रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः ।
न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् ॥१६॥

न्यग्भावो ग्राह्यताभावात्तदभावो ऽप्रमाणतः ।
स चार्थसंगमाभावात्सो ऽप्यादर्शे ऽनवस्थितेः ॥१७॥

अत एव गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते ।
नह्यादर्शे संस्थितो ऽसौ तद्दृष्टौ स उपायकः ॥१८॥

तस्मात्तु नैष भेदेन यद्भाति तत उच्यते ।
आधारस्तत्र तूपाया दीपदृक्संविदः क्रमात् ॥१९॥

दीपचक्षुर्विबोधानां काठिन्याभावतः परम् ।
सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् ॥२०॥

एतच्च देवदेवेन दर्शितं बोधवृद्धये ।
मूढानां वस्तु भवति ततो ऽप्यन्यत्र नाप्यलम् ॥२१॥

प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न ।
स्वच्छस्यैवैष कस्यापि महिमेति कृपालुना ॥२२॥

न देशों नो रूपं न च समययोगो न परिमा न चान्योन्यासंगो न च तदपहानिर्न घनता ।
न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः ॥२३॥

इत्थं प्रदर्शिते ऽमुत्र प्रतिबिम्बनवर्त्मनि ।
शब्दस्य प्रतिबिम्बं यत् प्रतिश्रुत्केति भण्यते ॥२४॥

न चासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात् ।
तेनैव वक्त्रा दूरस्थैः शब्दस्याश्रवणादपि ॥२५॥

पिठिरादिपिधानांशविशिष्टछिद्रसंगतौ ।
चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् ॥२६॥

इदमन्यस्य वेद्यस्य रूपमित्यवभासते ।
यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति ॥२७॥

नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य यत्ततः ।
तन्मध्यगाः प्रमातारः शृण्वन्ति प्रतिशब्दकम् ॥२८॥

मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत् ।
स्वपश्चात्स्थं प्रियं पश्येट्टङ्कितं मुकुरे वपुः ॥२९॥

सांमुख्यं चोच्यते तादृग्दर्पणाभेदसंस्थितेः ॥३०॥

अतः कूपादिपिठिराकाशे तत्प्रतिबिम्बितम् ।
वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तवत् ॥३१॥

यथा चादर्शपाश्चात्यभागस्थो वेत्ति नो मुखम् ।
तथा तथाविधाकाशपश्चात्स्थो वेत्ति न ध्वनिम् ॥३२॥

शब्दो न चानभिव्यक्तः प्रतिबिम्बति तद्ध्रुवम् ।
अभिव्यक्तिश्रुती तस्य समकालं द्वितीयके ॥३३॥

क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालिका ।
तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः ॥३४॥

इत्थं प्रदर्शिते ऽमुत्र प्रतिबिम्बसतत्त्वके ।
प्रकृतं ब्रूमहे तत्र प्रतिबिम्बनमर्हति ॥३५॥

शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः ।
स्पर्शो ऽन्यो ऽपि दृढाघातशूलशीतादिकोद्भवः ।
परस्थः प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः ॥३६॥

न चैष मुख्यस्तत्कार्यपारम्पर्याप्रकाशनात् ॥३७॥

एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः ॥३८॥

यथा च रूपं प्रतिबिम्बितं दृशोर्न चक्षुषान्येन विना हि लक्ष्यते ।
तथा रसस्पर्शनसौरभादिकं न लक्ष्यते ऽक्षेण विना स्थितं त्वपि ॥३९॥

न चान्तरे स्पर्शनधामनि स्थितं बहिःस्पृशोन्याक्षधियः स गोचरः ॥४०॥

अतो ऽन्तिकस्थस्वकतादृगिन्द्रियप्रयोजनान्तःकरणैर्यदा कृता ।
तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वकां क्रियां सूयत एव तादृशीम् ॥४१॥

न तु स्मृतान्मानसगोचरादृता भवेत्क्रिया सा किल वर्तमानतः ।
अतः स्थितः स्पर्शवरस्तदिन्द्रिये समागतः सन्विदितस्तथाक्रियः ॥४२॥

असंभवे बाह्यगतस्य तादृशः स्व एव तस्मिन्प्रतिबिम्बितस्तथा ।
करोति तां स्पर्शवरः सुखात्मिकां स चापि कस्यामपि नाडिसंततौ ॥४३॥

तेन संवित्तिमकुरे विश्वमात्मानमर्पयत् ।
नाथस्य वदते ऽमुष्य विमलां विश्वरूपताम् ॥४४॥

यथा च गन्धरूपस्पृग्रसाद्याः प्रतिबिम्बिताः ।
तदाधारोपरागेण भान्ति खङ्गे मुखादिवत् ॥४५॥

तथा विश्वमिदं बोधे प्रतिबिम्बितमाश्रयेत् ।
प्रकाशत्वस्वतन्त्रत्वप्रभृतिं धर्मविस्तरम् ॥४६॥

यथा च सर्वतः स्वच्छे स्फटिके सर्वतो भवेत् ।
प्रतिबिम्बं तथा बोधे सर्वतः स्वच्छताजुषि ॥४७॥

अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम् ।
अतः स्वच्छतमो बोधो न रत्नं त्वाकृतिग्रहात् ॥४८॥

प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते ।
तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् ॥४९॥

यद्वापि कारणं किंचिद्बिम्बत्वेनाभिषिच्यते ।
तदपि प्रतिबिम्बत्वमेति बोधे ऽन्यथा त्वसत् ॥५०॥

इत्थमेतत्स्वसंवित्तिदृढन्यायास्त्ररक्षितम् ।
साम्राज्यमेव विश्वत्र प्रतिबिम्बस्य जृम्भते ॥५१॥

ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत् ।
किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् ॥५२॥

नैवं तल्लक्षणाभावाद्बिम्बं किल किमुच्यते ।
अन्यामिश्रं स्वतन्त्रं सद्भासमानं मुखं यथा ॥५३॥

स्वरूपानपहानेन पररूपसदृक्षताम् ।
प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् ॥५४॥

उक्तं च सति बाह्ये ऽपि धीरेकानेकवेदनात् ।
अनेकसदृशाकारा न त्वनेकेति सौगतैः ॥५५॥

नन्वित्थं प्रतिबिम्बस्य लक्षणं किं तदुच्यते ।
अन्यव्यामिश्रणायोगात्तद्भेदाशक्यभासनम् ।
प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा ॥५६॥

बोधमिश्रमिदं बोधाद्भेदेनाशक्यभासनम् ।
परतत्त्वादि बोधे किं प्रतिबिम्बं न भण्यते ॥५७॥

लक्षणस्य व्यवस्थैषाकस्माच्चेद्बिम्बमुच्यताम् ।
प्राज्ञा वस्तुनि युज्यन्ते न तु सामयिके ध्वनौ ॥५८॥

ननु न प्रतिबिम्बस्य विना बिम्बं भवेत्स्थितिः ।
किं ततः प्रतिबिम्बे हि बिम्बं तादात्म्यवृत्ति न ॥५९॥

अतश्च लक्षणस्यास्य प्रोक्तस्य तदसंभवे ।
न हानिर्हेतुमात्रे तु प्रश्नो ऽयं पर्यवस्यति ॥६०॥

तत्रापि च निमित्ताख्ये नोपादाने कथंचन ।
निमित्तकारणानां च कदाचित्क्वापि संभवः ॥६१॥

अत एव पुरोवर्तिन्यालोके स्मरणादिना ।
निमित्तेन घनेनास्तु संक्रान्तदयिताकृतिः ॥६२॥

अन्यथा संविदारूढा कान्ता विच्छेदयोगिनी ।
कस्माद्भाति न वै संविद् विच्छेदं पुरतो गता ॥६३॥

अत एवान्तरं किंचिद्धीसंज्ञं भवतु स्फुटम् ।
यत्रास्य विच्छिदा भानं संकल्पस्वप्नदर्शने ॥६४॥

अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे ।
इत्थं विश्वमिदं नाथे भैरवीयचिदम्बरे ।
प्रतिबिम्बमलं स्वच्छे न खल्वन्यप्रसादतः ॥६५॥

अनन्यापेक्षिता यास्य विश्वात्मत्वं प्रति प्रभोः ।
तां परां प्रतिभां देवीं संगिरन्ते ह्यनुत्तराम् ॥६६॥

अकुलस्यास्य देवस्य कुलप्रथनशालिनी ।
कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः ॥६७॥

तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः ।
आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते ॥६८॥

परापरात्परं तत्त्वं सैषा देवी निगद्यते ।
तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः ॥६९॥

देवीयामलशास्त्रे सा कथिता कालकर्षिणी ।
महाडामरके यागे श्रीपरा मस्तके तथा ॥७०॥

श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता ।
संघट्टे ऽस्मिंश्चिदात्मत्वाद्यत्तत्प्रत्यवमर्शनम् ॥७१॥

इच्छाशक्तिरघोराणां शक्तीनां सा परा प्रभुः ।
सैव प्रक्षुब्धरूपा चेदीशित्री संप्रजायते ॥७२॥

तदा घोराः परा देव्यो जाताः शैवाध्वदैशिकाः ।
स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः ॥७३॥

ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तितया स्थितः ।
इयं परापरा देवी घोरां या मातृमण्डलीम् ॥७४॥

सृजत्यविरतं शुद्धाशुद्धमार्गैकदीपिकाम् ।
ज्ञेयांशः प्रोन्मिषन्क्षोभं यदैति बलवत्त्वतः ॥७५॥

ऊनताभासनं संविन्मात्रत्वे जायते तदा ।
रूढं तज्ज्ञेयवर्गस्य स्थितिप्रारम्भ उच्यते ॥७६॥

रूढिरेषा विबोधाब्धेश्चित्राकारपरिग्रहः ।
इदं तद्बीजसंदर्भबीजं चिन्वन्ति योगिनः ॥७७॥

इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताक्षुभिता च या ।
इष्यमाणं हि सा वस्तुद्वैरूप्येणात्मनि श्रयेत् ॥७८॥

अचिरद्युतिभासिन्या शक्त्या ज्वलनरूपया ।
इष्यमाणसमापत्तिः स्थैर्येणाथ धरात्मना ॥७९॥

उन्मेषशक्तावस्त्येतज्ज्ञेयं यद्यपि भूयसा ।
तथापि विभवस्थानं सा न तु प्राच्यजन्मभूः ॥८०॥

इच्छाशक्तेरतः प्राहुश्चातूरूप्यं परामृतम् ।
क्षोभान्तरस्यासद्भावान्नेदं बीजं च कस्यचित् ॥८१॥

प्रक्षोभकत्वं बीजत्वं क्षोभाधारश्च योनिता ।
क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि ॥८२॥

क्षोभः स्याज्ज्ञेयधर्मत्वं क्षोभणा तद्बहिष्कृतिः ।
अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता ॥८३॥

क्षोभो ऽतदिच्छे तत्त्वेच्छाभासनं क्षोभणां विदुः ।
यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् ॥८४॥

क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः ।
संविदामीषणादीनामनुद्भिन्नविशेषकम् ॥८५॥

यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे ।
तस्य बीजस्य सैवोक्ता विसिसृक्षा य उद्भवः ।
यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः ॥८६॥

एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम् ।
हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् ॥८७॥

जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः ।
कृतार्था जायते क्षोभाधारो ऽत्रैतत्प्रकीर्तितम् ॥८८॥

ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति ।
विश्वबीजादतः सर्व बाह्यं बिम्बं विवर्त्स्यति ॥८९॥

क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया ।
श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः ॥९०॥

प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम् ।
नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति ॥९१॥

आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् ।
इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् ॥९२॥

उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात् ।
यो ऽनुत्तरः परः स्पन्दो यश्चानन्दः समुच्छलन् ॥९३॥

ताविच्छोन्मेषसंघट्टाद्गच्छतो ऽतिविचित्रताम् ।
अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते ॥९४॥

त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् ।
अनुत्तरानन्दशक्ती तत्र रूढिमुपागते ॥९५॥

त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम् ।
त एवोन्मेषयोगे ऽपि पुनस्तन्मयतां गते ॥९६॥

क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम् ।
इच्छोन्मेषगतः क्षोभो यः प्रोक्तस्तद्गतेरपि ॥९७॥

ते एव शक्ती ताद्रूप्यभागिन्यौ नान्यथास्थिते ।
नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ ॥९८॥

कथमेतावतीमेनां वैचित्रीं स्वात्मनि श्रितौ ।
शृणु तावदयं संविन्नाथो ऽपरिमितात्मकः ॥९९॥

अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः ।
अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ॥१००॥

महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्धटादिवत् ।
परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ॥१०१॥

जडाद्विलक्षणो बोधो यतो न परिमीयते ।
तेन बोधमहसिन्धोरुल्लासिन्यः स्वशक्तयः ॥१०२॥

आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम् ।
स्वात्मसंघट्टवैचित्र्यं शक्तीनां यत्परस्परम् ॥१०३॥

एतदेव परं प्राहुः क्रियाशक्तेः स्फुटं वपुः ।
अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके ॥१०४॥

त्रिशूलत्वमतः प्राह शास्ता श्रीपूर्वशासने ।
निरञ्जनमिदं चोक्तं गुरुभिस्तत्त्वदर्शिभिः ॥१०५॥

शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् ।
इच्छा ज्ञानं क्रिया चेति यत्पृथक्पृथगञ्ज्यते ॥१०६॥

तदेव शक्तिमत्स्वैः स्वैरिष्यमाणादिकैः स्फुटम् ।
एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा ॥१०७॥

न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः ।
लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् ।
यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः ॥१०८॥

इत्थं परामृतपदादारभ्याष्टकमीदृशम् ।
ब्राह्म्यादिरूपसंभेदाद्यात्यष्टाष्टकतां स्फुटम् ॥१०९॥

अत्रानुत्तरशक्तिः सा स्वं वपुः प्रकटस्थितम् ।
कुर्वन्त्यपि ज्ञेयकलाकालुष्याद्विन्दुरूपिणी ॥११०॥

उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि ।
अविभागः प्रकाशो यः स बिन्दुः परमो हि नः ॥१११॥

तत्त्वरक्षाविधाने च तदुक्तं परमेशिना ।
हृत्पद्ममण्डलान्तःस्थो नरशक्तिशिवात्मकः ॥११२॥

बोद्धव्यो लयभेदेन विन्दुर्विमलतारकः ।
यो ऽसौ नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः ॥११३॥

अधऊर्ध्वविभागेन निष्क्रियेणावतिष्ठते ।
ह्लादतैक्ष्ण्यादि वैचित्र्यं सितरक्तादिकं च यत् ॥११४॥

स्वयं तन्निरपेक्षो ऽसौ प्रकाशो गुरुराह च ।
यन्न सूर्यो न वा सोमो नाग्निर्भासयते ऽपि च ॥११५॥

न चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः ।
किमप्यस्ति निजं किं तु संविदित्थं प्रकाशते ॥११६॥

स्वस्वातन्त्र्यप्रभावोद्यद्विचित्रोपाधिसंगतः ।
प्रकाशो याति तैक्ष्ण्यादिमवान्तरविचित्रताम् ॥११७॥

दुर्दर्शनो ऽपि घर्मांशुः पतितः पाथसां पथि ।
नेत्रानन्दत्वमभ्येति पश्योपाधेः प्रभाविताम् ॥११८॥

सूर्यादिषु प्रकाशो ऽसावुपाधिकलुषीकृतः ।
संवित्प्रकाशं माहेशमत एव ह्यपेक्षते ॥११९॥

प्रकाशमात्रं सुव्यक्तं सूर्य इत्युच्यते स्फुटम् ।
प्रकाश्यवस्तुसारांशवर्षि तत्सोम उच्यते ॥१२०॥

सूर्य प्रमाणमित्याहुः सोमं मेयं प्रचक्षते ।
अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ ॥१२१॥

भोक्तृभोग्योभयात्मैतदन्योन्योन्मुखतां गतम् ।
ततो ज्वलनचिद्रूपं चित्रभानुः प्रकीर्तितः ॥१२२॥

यो ऽयं वह्नेः परं तत्त्वं प्रमातुरिदमेव तत् ।
संविदेव तु विज्ञेयतादात्म्यादनपेक्षिणी ॥१२३॥

स्वतन्त्रत्वात्प्रमातोक्ता विचित्रो ज्ञेयभेदतः ।
सोमांशदाह्यवस्तूत्थवैचित्र्याभासबृंहितः ॥१२४॥

तत एवाग्निरुदितश्चित्रभानुर्महेशिना ।
ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः ।१२५

स्थितिर्माताहमस्मीति ज्ञाता शास्त्रज्ञवद्यतः ।
अज्ञ एव यतो ज्ञातानुभवात्मा न रूपतः ॥१२६॥

न तु सा ज्ञातृता यस्यां शुद्धज्ञेयाद्यपेक्षते ।
तस्यां दशायां ज्ञातृत्वमुच्यते योग्यतावशात् ॥१२७॥

मानतैव तु सा प्राच्यप्रमातृपरिकल्पिता ।
उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् ॥१२८॥

उदितैव सती पूर्णा मातृमेयादिरूपिणी ।
पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता ॥१२९॥

मतान्त्यक्षणवन्ध्यापि न पाकत्वं प्रपद्यते ।
इत्थं प्रकाशतत्त्वस्य सोमसूर्याग्निता स्थिता ॥१३०॥

अपि मुख्यं तत्प्रकाशमात्रत्वं न व्यपोह्यते ।
एषां यत्प्रथमं रूपं ह्रस्वं तत्सूर्य उच्यते ॥१३१॥

क्षोभानन्दवशाद्दीर्घविश्रान्त्या सोम उच्यते ।
यत्तत्परं प्लुतं नाम सोमानन्दात्परं स्थितम् ॥१३२॥

प्रकाशरूपं तत्प्राहुराग्नेयं शास्त्रकोविदाः ।
अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति ॥१३३॥

उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः ।
मकारादन्य एवायं तच्छायामात्रधृद्यथा ॥१३४॥

रलहाः षण्ठवैसर्गवर्णरूपत्वसंस्थिताः ।
इकार एव रेफांशच्छाययान्यो यथा स्वरः ॥१३५॥

तथैव महलेशादः सो ऽन्यो द्वेधास्वरो ऽपि सन् ।
अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ॥१३६॥

सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् ।
उक्तं च त्रिशिरःशास्त्रे कलाव्याप्त्यन्तचर्चने ॥१३७॥

कला सप्तदशी तस्मादमृताकाररूपिणी ।
परापरस्वस्वरूपबिन्दुगत्या विसर्पिता ॥१३८॥

प्रकाश्यं सर्ववस्तूनां विसर्गरहिता तु सा ।
शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा ॥१३९॥

विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च ।
शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते ॥१४०॥

विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः ।
स्वात्मनः स्वात्मनि स्वात्मक्षेपो वैसर्गिकी स्थितिः ॥१४१॥

विसर्ग एवमुत्सृष्ट आश्यानत्वमुपागतः ।
हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते ॥१४२॥

अनुत्तरं परं धाम तदेवाकुलमुच्यते ।
विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ॥१४३॥

विसर्गता च सैवास्या यदानन्दोदयक्रमात् ।
स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः ॥१४४॥

विसर्ग एव तावान्यदाक्षिप्तैतावदात्मकः ।
इयद्रूपं सागरस्य यदनन्तोर्मिसंततिः ॥१४५॥

अत एव विसर्गो ऽयमव्यक्तहकलात्मकः ।
कामतत्त्वमिति श्रीमत्कुलगुह्वर उच्यते ॥१४६॥

यत्तदक्षरमव्यक्त कान्ताकण्ठे व्यवस्थितम् ।
ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् ॥१४७॥

तत्र चित्तं समाधाय वशयेद्युगपज्जगत् ।
अत एव विसर्गस्य हंसे यद्वत्स्फुटा स्थितिः ॥१४८॥

तद्वत्सानुत्तरादीनां कादिसान्ततया स्थितिः ।
अनुत्तरात्कवर्गस्य सूतिः पञ्चात्मनः स्फुटम् ॥१४९॥

पञ्चशक्त्यात्मतोवश एकैकत्र यथा स्फुटः ।
इच्छाशक्तेः स्वस्वरूपसंस्थाया एकरूपतः ॥१५०॥

चवर्गः पञ्चशक्त्यात्मा क्रमप्रस्फुटतात्मकः ।
या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रचरयोगतः ॥१५१॥

द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् ।
उन्मेषात्पादिवर्गस्तु यतो विश्वं समाप्यते ॥१५२॥

ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम् ।
ज्ञेयत्वात्स्फुटतः प्रोक्तमेतावत्स्पर्शरूपकम् ॥१५३॥

इच्छाशक्तिश्च या द्वेधा क्षुभिताक्षुभितत्वतः ।
सा विजातीयशक्त्यंशप्रोन्मुखी याति यात्मताम् ॥१५४॥

सैव शीघ्रतरोपात्तज्ञेयकालुष्यरूषिता ।
विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति ॥१५५॥

तद्वदुन्मेषशक्तिर्द्विरूपा वैजात्यशक्तिगा ।
वकारत्वं प्रपद्येत सृष्टिसारप्रवर्षकम् ॥१५६॥

इच्छैवानुत्तरानन्दयाता शीघ्रत्वयोगतः ।
वायुरित्युच्यते वह्निर्भासनात्स्थैर्यतो धरा ॥१५७॥

इदं चतुष्कमन्तःस्थमत एव निगद्यते ।
इच्छाद्यन्तर्गतत्वेन स्वसमाप्तौ च संस्थितेः ॥१५८॥

सजातीयकशक्तीनामिच्छाद्यानां च योजनम् ।
क्षोभात्मकमिदं प्राहुः क्षोभाक्षोभात्मनामपि ॥१५९॥

अनुत्तरस्य साजात्ये भवेत्तु द्वितयी गतिः ।
अनुत्तरं यत्तत्रैकं तच्चेदानन्दसूतये ॥१६०॥

प्रभविष्यति तद्योगे योगः क्षोभात्मकः स्फुटः ।
अत्राप्यनुत्तरं धाम द्वितीयमपि सूतये ॥१६१॥

न पर्याप्तं तदा क्षोभं विनैवानुत्तरात्मता ।
इच्छा या कर्मणा हीना या चैष्टव्येन रूषिता ॥१६२॥

शीघ्रस्थैर्यप्रभिन्नेन त्रिधा भावमुपागता ।
अनुन्मिषितमुन्मीलत्प्रोन्मीलितमिति स्थितम् ॥१६३॥

इष्यमाणं त्रिधैतस्यां ताद्रूप्यस्यापरिच्युतेः ।
तदेव स्वोष्मणा स्वात्मस्वातन्त्र्यप्रेरणात्मना ॥१६४॥

बहिर्भाव्य स्फुटं क्षिप्तं श-ष-सत्रितयं स्थितम् ।
तत एव सकारे ऽस्मिन्स्फुटं विश्वं प्रकाशते ॥१६५॥

अमृतं च परं धाम योगिनस्तत्प्रचक्षते ।
क्षोभाद्यन्तविरामेषु तदेव च परामृतम् ॥१६६॥

सीत्कारसुखसद्भावसमावेशसमाधिषु ।
तदेव ब्रह्म परममविभक्तं प्रचक्षते ॥१६७॥

उवाच भगवानेव तच्छ्रीमत्कुलगुह्करे ।
शक्तिशक्तिमदैकात्म्यलब्धान्वर्थाभिधानके ॥१६८॥

काकचञ्चुपुटाकारं ध्यानधारणवर्जितम् ।
विषतत्त्वमनच्काख्यं तव स्नेहात्प्रकाशितम् ॥१६९॥

कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाव्यते ।
विषस्य चामृतं तत्त्वं छाद्यत्वे ऽणोश्च्युते सति ॥१७०॥

व्याप्त्री शक्तिर्विषं यस्मादव्याप्तुश्छादयेन्महः ।
निरञ्जनं परं धाम तत्त्वं तस्य तु साञ्जनम् ॥१७१॥

क्रियाशक्त्यात्मकं विश्वमयं तस्मात्स्फुरेद्यतः ।
इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् ॥१७२॥

एतत्त्रयसमावेशः शिवो भैरव उच्यते ।
अत्र रूढिं सदा कुर्यादिति नो गुरवो जगुः ॥१७३॥

विषतत्त्वे संप्रविश्य न भूतं न विषं न च ।
ग्रहः केवल एवाहमिति भावनया स्फुरेत् ॥१७४॥

नन्वत्र षण्ठवर्णेभ्यो जन्मोक्तं तेन षण्ठता ।
कथं स्यादिति चेद्ब्रूमो नात्र षण्ठस्य सोतृता ॥१७५॥

तथाहि तत्रगा यासाविच्छाशक्तिरुदीरिता ।
सैव सूते स्वकर्तव्यमन्तःस्थं स्वेष्टरूपकम् ॥१७६॥

यत्त्वत्र रूषणाहेतुरेषितव्यं स्थितं ततः ।
भागान्न प्रसवस्तज्जं कालुष्यं तद्वपुश्च तत् ॥१७७॥

ज्ञेयारूषणया युक्तं समुदायात्मकं विदुः ।
षण्ठं क्षोभकताक्षोभधामत्वाभावयोगतः ॥१७८॥

एतद्वर्णचतुष्कस्य स्वोष्मणाभासनावशात् ।
ऊष्मेति कथितं नाम भैरवेणामलात्मना ॥१७९॥

कादि-हान्तमिदं प्रहुः क्षोभाधारतया बुधाः ।
योनिरूपेण तस्यापि योगे क्षोभान्तरं व्रजेत् ॥१८०॥

तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता ।
पञ्चविंशकसंज्ञेयप्राग्वद्भूमिसुसंस्थितम् ॥१८१॥

चतुष्कं च चतुष्कं च भेदाभेदगतं क्रमात् ।
आद्यं चतुष्कं संवित्तेर्भेदसंधानकोविदम् ॥१८२॥

भेदस्याभेदरूढ्येकहेतुरन्यच्चतुष्टयम् ।
इत्थं यद्वर्णजातं तत्सर्व स्वरमयं पुरा ॥१८३॥

व्यक्तियोगाद्व्यञ्जनं तत्स्वरप्राणं यतः किल ।
स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ ॥१८४॥

षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः ।
सौराणामेव रश्मीनामन्तश्चान्द्रकला यतः ॥१८५॥

अतो ऽत्र दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः ।
चन्द्रश्च नाम नैवान्यो भोग्यं भोक्तुश्च नापरम् ॥१८६॥

भोक्तैव भोग्यभावेन द्वैविध्यात्संव्यवस्थितः ।
घटस्य न हि भोग्यत्वं स्वं वपुर्मातृगं हि तत् ॥१८७॥

अतो मातरि या रूढिः सास्य भोग्यत्वमुच्यते ।
अनुत्तरं परामृश्यपरामर्शकभावतः ॥१८८॥

संघट्टरूपतां प्राप्तं भोग्यमिच्छादिकं तथा ।
अनुत्तरानन्दभुवामिच्छाद्ये भोग्यतां गते ॥१८९॥

संध्यक्षराणामुदयो भोक्तृरूपं च कथ्यते ।
अनुत्तरानन्दमयो देवो भोक्तैव कथ्यते ॥१९०॥

इच्छादिकं भोग्यमेव तत एवास्य शक्तिता ।
भोग्यं भोक्तरि लीनं चेद् भोक्ता तद्वस्तुतः स्फुटः ॥१९१॥

अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् ।
तदेव त्रितयं प्राहुर्भैरवस्य परं महः ॥१९२॥

तत्त्रिकं परमेशस्य पूर्णा शक्तिः प्रगीयते ।
तेनाक्षिप्तं यतो विश्वमतो ऽस्मिन्समुपासिते ॥१९३॥

विश्वशक्ताववच्छेदवन्ध्ये जातमुपासनम् ।
इत्येष महिमैतावानिति तावन्न शक्यते ॥१९४॥

अपरिच्छिन्नशक्तेः कः कुर्याच्छक्तिपरिच्छिदाम् ।
तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः ॥१९५॥

विसर्गशक्तियुक्तत्वात्संपन्नो विश्वरूपकः ।
एवं पञ्चाशदामर्शपूर्णशक्तिर्महेश्वरः ॥१९६॥

विमर्शात्मैक एवान्याः शक्तयो ऽत्रैव निष्ठिताः ।
एकाशीतिपदा देवी ह्यत्रान्तर्भावयिष्यते ॥१९७॥

एकामर्शस्वभावत्वे शब्दराशिः स भैरवः ।
आमृश्यच्छायया योगात्सैव शक्तिश्च मातृका ॥१९८॥

सा शब्दराशिसंघट्टाद्भिन्नयोनिस्तु मालिनी ।
प्राग्वन्नवतयामर्शात्पृथग्वर्गस्वरूपिणी ॥१९९॥

एकैकामर्शरूढौ तु सैव पञ्चाशदात्मिका ।
इत्थं नादानुवेधेन परामर्शस्वभावकः ॥२००॥

शिवो मातापितृत्वेन कर्ता विश्वत्र संस्थितः ।
विसर्ग एव शाक्तो ऽयं शिवबिन्दुतया पुनः ॥२०१॥

गर्भीकृतानन्तविश्वः श्रयते ऽनुत्तरात्मताम् ।
अपरिच्छिन्नविश्वान्तःसारे स्वात्मनि यः प्रभोः ॥२०२॥

परामर्शः स एवोक्तो द्वयसंपत्तिलक्षणः ।
अनुत्तरविसर्गात्मशिवशक्त्यद्वयात्मनि ॥२०३॥

परामर्शो निर्भरत्वादहमित्युच्यते विभोः ।
अनुत्तराद्या प्रसृतिर्हान्ता शक्तिस्वरूपिणी ॥२०४॥

प्रत्याहृताशेषविश्वानुत्तरे सा निलीयते ।
तदिदं विश्वमन्तःस्थं शक्तौ सानुत्तरे परे ॥२०५॥

तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः ।
तेन श्रीत्रीशिकाशास्त्रे शक्तेः संपुटिताकृतिः ॥२०६॥

संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा ।
तदेतत्त्रितयं द्वन्द्वयोगात्संघाततां गतम् ॥२०७॥

एकमेव परं रूपं भैरवस्याहमात्मकम् ।
विसर्गशक्तिर्या शंभोः सेत्थं सर्वत्र वर्तते ॥२०८॥

तत एवसमस्तो ऽयमानन्दरसविभ्रमः ।
तथाहि मधुरे गीते स्पर्शे वा चन्दनादिके ॥२०९॥

माध्यस्थ्यविगमे यासौ हृदये स्पन्दमानता ।
आनन्दशक्तिः सैवोक्ता यतः सहृदयो जनः ॥२१०॥

पूर्व विसृज्यसकलं कर्तव्यं शून्यतानले ।
चित्तविश्रान्तिसंज्ञो ऽयमाणवस्तदनन्तरम् ॥२११॥

दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि ।
चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः ॥२१२॥

तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि ।
रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे ॥२१३॥

प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात् ।
चित्तप्रलयनामासौ विसर्गः शाम्भवः परः ॥२१४॥

तत्त्वरक्षाविधाने ऽतो विसर्गत्रैधमुच्यते ।
हृत्पद्मकोशमध्यस्थस्तयोः संघट्ट इष्यते ॥२१५॥

विसर्गो ऽन्तः स च प्रोक्तश्चित्तविश्रान्तिलक्षणः ।
द्वितीयः स विसर्गस्तु चित्तसंबोधलक्षणः ॥२१६॥

एकीभूतं विभात्यत्र जगदेतच्चराचरम् ।
ग्राह्यग्राहकभेदो वै किंचिदत्रेष्यते यदा ॥२१७॥

तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः ।
ग्राह्यग्राहकविच्छित्तिसंपूर्णग्रहणात्मकः ॥२१८॥

तृतीयः स विसर्गस्तु चित्तप्रलयलक्षणः ।
एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः ॥२१९॥

निरूपितो ऽयमर्थः श्रीसिद्धयोगीश्वरीमते ।
सात्र कुण्डलिनी बीजं जीवभूता चिदात्मिका ॥२२०॥

तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः ।
आ इत्यवर्णादित्यादियावद्वैसर्गिकी कला ॥२२१॥

ककारादिसकारान्ता विसर्गात्पञ्चधा स च ।
बहिश्चान्तश्च हृदये नादे ऽथ परमे पदे ॥२२२॥

बिन्दुरात्मनि मूर्धान्तं हृदयाद्व्यापको हि सः ।
आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् ॥२२३॥

गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् ।
पूज्यः सो ऽहमिव ज्ञानी भैरवो देवतात्मकः ॥२२४॥

श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं ततः ।
तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ॥२२५॥

विसर्गशक्तिर्विश्वस्य कारणं च निरूपिता ।
ऐतरेयाख्यवेदान्ते परमेशेन विस्तरात् ॥२२६॥

यल्लोहितं तदग्निर्यद्वीर्यं सूर्येन्दुविग्रहम् ।
अ इति ब्रह्म परमं तत्संघट्टोदयात्मकम् ॥२२७॥

तस्यापि च परं वीर्य पञ्चभूतकलात्मकम् ।
भोग्यत्वेनान्नरूपं च शब्दस्पर्शरसात्मकम् ॥२२८॥

शब्दो ऽपि मधुरो यस्माद्वीर्योपचयकारकः ।
तद्धि वीर्यं परं शुद्धं विसिसृक्षात्मकं मतम् ॥२२९॥

तद्बलं च तदोजश्च ते प्राणाः सा च कान्तता ।
तस्माद्वीर्यात्प्रजास्ताश्च वीर्य कर्मसु कथ्यते ॥२३०॥

यज्ञादिकेषु तद्वृष्टौ सौषधीष्वथ ताः पुनः ।
वीर्ये तच्च प्रजास्वेवं विसर्गे विश्वरूपता ॥२३१॥

शब्दराशिः स एवोक्तो मातृका साच कीर्तिता ।
क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते ॥२३२॥

बीजयोनिसमापत्तिविसर्गोदयसुन्दरा ।
मालिनी हि परा शक्तिर्निर्णीता विश्वरूपिणी ॥२३३॥

एषा वस्तुत एकैव परा कालस्य कर्षिणी ।
शक्तिमद्भेदयोगेन यामलत्वं प्रपद्यते ॥२३४॥

तस्य प्रत्यवमर्शो यः परिपूर्णो ऽहमात्मकः ।
स स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् ॥२३५॥

विभागाभासने चास्य त्रिधा वपुरुदाहृतम् ।
पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् ॥२३६॥

तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः ।
तत्र या स्वरसन्दर्भसुभगा नादरूपिणी ॥२३७॥

सा स्थूला खलु पश्यन्ती वर्णाद्यप्रविभागतः ।
अविभागैकरूपत्वं माधुर्यं शक्तिरुच्यते ॥२३८॥

स्थानवाय्वादिघर्षोत्था स्फुटतैव च पारुषी ।
तदस्यां नादरूपायां संवित्सविधवृत्तितः ॥२३९॥

साजात्यान्तर्म[त्तम] यीभूतिर्झगित्येवोपलभ्यते ।
येषां न तन्मयीभूतिस्ते देहादिनिमज्जनम् ॥२४०॥

अविदन्तो मग्नसंविन्मानास्त्वहृदया इति ।
यत्तुचर्मावनद्धादि किंचित्तत्रैष यो ध्वनिः ॥२४१॥

स स्फुटास्फुटरूपत्वान्मध्यमा स्थूलरूपिणी ।
मध्यायाश्चाविभागांशसद्भाव इति रक्तता ॥२४२॥

अविभागस्वरमयी यत्र स्यात्तत्सुरञ्जकम् ।
अविभागो हि निर्वृत्यै दृश्यतां तालपाठतः ॥२४३॥

किलाव्यक्तध्वनौ तस्मिन्वादने परितुष्यति ।
या तु स्फुटानां वर्णानामुत्पत्तौ कारणं भवेत् ॥२४४॥

सा स्थूला वैखरी यस्याः कार्यं वाक्यादि भूयसा ।
अस्मिन्स्थूलत्रये यत्तदनुसन्धानमादिवत् ॥२४५॥

पृथक्पृथक्तत्त्रितयं सूक्ष्ममित्यभिशब्द्यते ।
षड्जं करोमि मधुरं वादयामि ब्रुवे वचः ॥२४६॥

पृथगेवानुसन्धानत्रयं संवेद्यते किल ।
एतस्यापि त्रयस्याद्यं यद्रुपमनुपाधिमत् ॥२४७॥

तत्परं त्रितयं तत्र शिवः परचिदात्मकः ।
विभागाभासनायां च मुख्यास्तिस्रो ऽत्र शक्तयः ॥२४८॥

अनुत्तरा परेच्छा च परापरतया स्थिता ।
उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते ॥२४९॥

क्षोभरूपात्पुनस्तासामुक्ताः षट् संविदो ऽमलाः ।
आसामेव समावेशात्क्रियाशक्तितयोदितात् ॥२५०॥

संविदो द्वादश प्रोक्ता यासु सर्वं समाप्यते ।
एतावद्देवदेवस्य मुख्यं तच्छक्तिचक्रकम् ॥२५१॥

एतावता देवदेवः पूर्णशक्तिः स भैरवः ।
परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः ॥२५२॥

इयत्ताकलनाज्ज्ञानात्ताः प्रोक्ताः कालिकाः क्वचित् ।
श्रीसारशास्त्रे चाप्युक्तं मध्य एकाक्षरां पराम् ॥२५३॥

पूजयेद्भैरवात्माख्यां योगिनीद्वादशावृताम् ।
ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम् ॥२५४॥

एकारतः समारभ्य सहस्रारं प्रवर्तते ।
तासां च कृत्यभेदेन नामानि बहुधागमे ॥२५५॥

उपासाश्च द्वयाद्वैतव्यामिश्राकारयोगतः ।
श्रीमत्त्रैशिरमे तच्च कथितं विस्तराद्बहु ॥२५६॥

इह नो लिखितं व्यासभयाच्चानुपयोगतः ।
ता एव निर्मलाः शुद्धा अघोराः परिकीर्तिताः ॥२५७॥

घोरघोरतराणां तु सोतृत्वाच्च तदात्मिकाः ।
सृष्टौ स्थितौ च संहारे तदुपाधित्रयात्यये ॥२५८॥

तासामेव स्थितं रूपं बहुधा प्रविभज्यते ।
उपाध्यतीतं यद्रूपं तद्द्विधा गुरवो जगुः ॥२५९॥

अनुल्लासादुपाधीनां यद्वा प्रशमयोगतः ।
प्रशमश्च द्विधा शान्त्या हठपाकक्रमेण तु ॥२६०॥

अलं ग्रासरसाख्येन सततं ज्वलनात्मना ।
हठपाकप्रशमनं यत्तृतीयं तदेव च ।
उपदेशाय युज्येत भेदेन्धनविदाहकम् ॥२६१॥

निजबोधजठरहुतभुजि भावाः सर्वे समर्पिता हठतः ।
विजहति भेदविभागं निजशक्त्या तं समिन्धानाः ॥२६२॥

हठपाकेन भावानां रूपे भिन्ने विलापिते ।
अश्नन्त्यमृतसाद्भूतं विश्वं संवित्तिदेवताः ॥२६३॥

तास्तृप्ताः स्वात्मनः पूर्ण हृदयैकान्तशायिनम् ।
चिद्व्योमभैरवं देवमभेदेनाधिशेरते ॥२६४॥

एवं कृत्यक्रियावेशान्नामोपासाबहुत्वतः ।
आसां बहुविधं रूपमभेदे ऽप्यवभासते ॥२६५॥

आसामेव च देवीनामावापोद्वापयोगतः ।
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवोत्तरैः ॥२६६॥

रुद्रार्कान्यकलासेनाप्रभृतिर्भेदविस्तरः ।
अलमन्येन बहुना प्रकृते ऽथ नियुज्यते ॥२६७॥

संविदात्मनि विश्वो ऽयं भाववर्गः प्रपञ्चवान् ।
प्रतिबिम्बतया भाति यस्य विश्वेश्वरो हि सः ॥२६८॥

एवमात्मनि यस्येदृगविकल्पः सदोदयः ।
परामर्शः स एवासौ शांभवोपायमुद्रितः ॥२६९॥

पूर्णाहन्तापरामर्शो यो ऽस्यायं प्रविवेचितः ।
मन्त्रमुद्राक्रियोपासास्तदन्या नात्र काश्चन ॥२७०॥

भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः ।
अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम् ॥२७१॥

इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते ।
यत्र सूत्रणयापीयमुपायोपेयकल्पना ॥२७२॥

प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो ।
तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः ॥२७३॥

निर्विकल्पे परामर्शे शाम्भवोपायनामनि ।
पञ्चाशद्भेदतां पूर्वसूत्रितां योजयेद्बुधः ॥२७४॥

धरामेवाविकल्पेन स्वात्मनि प्रतिबिम्बिताम् ।
पश्यन्भैरवतां याति जलादिष्वप्ययं विधिः ॥२७५॥

यावदन्ते परं तत्त्वं समस्तावरणोर्ध्वगम् ।
व्यापि स्वतन्त्रं सर्वज्ञं यच्छिवं परिकल्पितम् ॥२७६॥

तदप्यकल्पितोदारसंविद्दर्पणबिम्बितम् ।
पश्यन्विकल्पविकलो भैरवीभवति स्वयम् ॥२७७॥

यथा रक्तं पुरः पश्यन्निर्विकल्पकसंविदा ।
तत्तद्द्वारनिरंशैकघटसंवित्तिसुस्थितः ॥२७८॥

तद्वद्धरादिकैकैकसंघातसमुदायतः ।
परामृशन्स्वमात्मानं पूर्ण एवावभासते ॥२७९॥

मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् ।
मदभिन्नमिदं चेति त्रिधोपायः स शाम्भवः ॥२८०॥

सृष्टेः स्थितेः संहृतेश्च तदेतत्सूत्रणं कृतम् ।
यत्र स्थितं यतश्चेति तदाह स्पन्दशासने ॥२८१॥

एतावतैव ह्यैश्वर्य संविदः ख्यापितं परम् ।
विश्वात्मकत्वं चेत्यन्यल्लक्षणं किं नु कथ्यताम् ॥२८२॥

स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन् ।
स्रष्टा विश्वात्मक इति प्रथया भैरवात्मता ॥२८३॥

षडध्वजातं निखिलं मय्येव प्रतिबिम्बितम् ।
स्थितिकर्ताहमस्मीति स्फुटेयं विश्वरूपता ॥२८४॥

सदोदितमहाबोधज्वालाजटिलतात्मनि ।
विश्वं द्रवति मय्येतदिति पश्यन्प्रशाम्यति ॥२८५॥

अनन्तचित्रसद्गर्भसंसारस्वप्नसद्मनः ।
प्लोषकः शिव एवाहमित्युल्लासी हुताशनः ॥२८६॥

जगत्सर्वं मत्तः प्रभवति विभेदेन बहुधा तथाप्येतद्रूढं मयि विगलिते त्वत्र न परः ।
तदित्थं यः सृष्टिस्थितिविलयभेकीकृतिवशादनंशं पश्येत्स स्फुरति हि तुरीयं पदभितः ॥२८७॥

तदस्मिन्परमोपाये शाम्भवाद्वैतशालिनि ।
के ऽप्येव यान्ति विश्वासं पस्मेशेन भाविताः ॥२८८॥

स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना ।
अध्वक्लृप्तिर्यागविधिर्होमजप्यसमाधयः ॥२८९॥

इत्यादिकल्पना कापि नात्र भेदेन युज्यते ।
परानुग्रहकारित्वमत्रस्थस्य स्फुटं स्थितम् ॥२९०॥

यदि तादृगनुग्राह्यो दैशिकस्योपसर्पति ।
अथासौ तादृशो न स्याद्भवभक्त्या च भावितः ॥२९१॥

तं चाराधयते भावितादृशानुग्रहेरितः ।
तदा विचित्रं दीक्षादिविधिं शिक्षेत कोविंदः ॥२९२॥

भाविन्यो ऽपि ह्युपासास्ता स्त्रैवायान्ति निष्ठितिम् ।
एतन्मयत्वं परमं प्राप्यं निर्वर्ण्यतेशिवम् ॥२९३॥

इति कथितमिदं सुविस्तरं परमं शाम्भवमात्मवेदनम् ॥२९४॥