तन्त्रालोकः त्रयोदशमाह्निकम्

तन्त्रालोकः

अथ श्रीतन्त्रालोके त्रयोदशमाह्निकम्


अथाधिकृतिभाहनं क इह वा कथं वेत्यलं विवेचयितुमुच्यते विविधशक्तिपातक्रमः ॥१॥

तत्र केचिदिह प्राहुः शक्तिपात इमं विधिम् ।
तं प्रदर्श्य निराकृत्य स्वमतं दर्शयिष्यते ॥२॥

तत्रेदं दृश्यमानं सत्सुखदुःखविमोहभाक् ।
विषमं सत्तथाभूतं समं हेतुं प्रकल्पयेत् ॥३॥

सोऽव्यक्तं तच्च सत्त्वादिनानारूपमचेतनम् ।
घटादिवत्कार्यमिति हेतुरेकोऽस्य सा निशा ॥४॥

सा जडा कार्यताद्रूप्यात्कार्यं चास्यां सदेव हि ।
कलादिधरणीप्रान्तं जाड्यात्सा सूतयेऽक्षमा ॥५॥

तेनेशः क्षोभयेदेनां क्षोभोऽस्याः सूतियोग्यता ।
पुंसः प्रति च सा भोग्यं सूतेऽनादीन् पृथग्विधान् ॥६॥

पुंसश्च निर्विशेषत्वे मुक्ताणून् प्रति किं न तत् ।
निमित्तं कर्मसंस्कारः स च तेषु न विद्यते ॥७॥

इति चेत्कर्मसंस्काराभावस्तेषां कुतः किल ।
न भोगादन्यकर्मांशप्रसङ्गो हि दुरत्ययः ॥८॥

युगपत्कर्मणां भोगो नच युक्तः क्रमेण हि ।
फलेद्यत्कर्म तत्कस्मात्स्वं रूपं संत्यजेत्क्वचित् ॥९॥

ज्ञानात्कर्मक्षयश्चेत्तत्कुत ईश्वरचोदितात् ।
धर्माद्यदि कुतः सोऽपि कर्मतश्चेत्तदुच्यताम् ॥१०॥

नहि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते ।
कर्मजत्वे च तज्ज्ञानं फलराशौ पतेद्ध्रुवम् ॥११॥

अन्यकर्मफलं प्राच्यं कर्मराशिं च किं दहेत् ।
ईशस्य द्वेषरागादिशून्यस्यापि कथं क्वचित् ॥१२॥

तथाभिसंधिर्नान्यत्र भेदहेतोरभावतः ।
नन्वित्थं प्रदहेज्ज्ञानं कर्मजालानि कर्म हि ॥१३॥

अज्ञानसहकारीदं सूते स्वर्गादिकं फलम् ।
अज्ञानं ज्ञानतो नश्येदन्यकर्मफलादपि ॥१४॥

उपवासादिकं चान्यद्दुष्टकर्मफलं भवेत् ।
निष्फलीकुरुते दुष्टं कर्मेत्यङ्गीकृतं किल ॥१५॥

अज्ञानमिति यत्प्रोक्तं ज्ञानाभावः स चेत्स किम् ।
प्रागभावोऽथवा ध्वंस आद्ये किं सर्वसंविदाम् ॥१६॥

कस्यापि वाथ ज्ञानस्य प्राच्यः पक्षस्त्वसंभवी ।
न किंचिद्यस्य विज्ञानमुदपादि तथाविधः ॥१७॥

नाणुरस्ति भवे ह्यस्मिन्ननादौ कोऽन्वयं क्रमः ।
भाविनः प्रागभावश्च ज्ञानस्येति स्थिते सति ॥१८॥

मुक्ताणोरपि सोऽस्त्येव जन्मतः प्रागसौ नच ।
ज्ञानं भावि विमुक्तेऽस्मिन्निति चेच्चर्च्यतामिदम् ॥१९॥

कस्माज्ज्ञानं न भाव्यत्र ननु देहाद्यजन्मतः ।
तत्कस्मात्कर्मणः क्षैण्यात्तत्कुतोऽज्ञानहानितः ॥२०॥

अज्ञानस्य कथं हानिः प्रागभावे हि संविदः ।
अज्ञानं प्रागभावोऽसौ न भाव्युत्पत्त्यसंभवात् ॥२१॥

कस्मान्न भावि तज्ज्ञानं ननु देहाद्यजन्मतः ।
इत्येष सर्वपक्षघ्नो निशितश्चक्रकभ्रमः ॥२२॥

अथ प्रध्वंस एवेदमज्ञानं तत्सदा स्थितम् ।
मुक्ताणुष्विति तेष्वस्तु मायाकार्यविजृम्भितम् ॥२३॥

अथाज्ञानं नह्यभावो मिथ्याज्ञानं तु तन्मतम् ।
तदेव कर्मणां स्वस्मिन्कर्तव्ये सहकारणम् ॥२४॥

वक्तव्यं तर्हि किं कर्म यदा सूते स्वकं फलम् ।
तदैव मिथ्याज्ञानेन सता हेतुत्वमाप्यते ॥२५॥

अथ यस्मिन्क्षणे कर्म कृतं तत्र स्वरूपसत् ।
मिथ्याज्ञानं यदि ततस्तादृशात्कमर्णः फलम् ॥२६॥

प्राक्पक्षे प्रलये वृत्ते प्राच्यसृष्टिप्रवर्तने ।
देहाद्यभावान्नो मिथ्याज्ञानस्य क्वापि संभवः ॥२७॥

उत्तरस्मिन्पुनः पक्षे यदा यद्येन यत्र वा ।
क्रियते कर्म तत्सर्वमज्ञानसचिवं तदा ॥२८॥

अवश्यमिति कस्यापि न कर्मप्रक्षयो भवेत् ।
यद्यपि ज्ञानवान्भूत्वा विधत्ते कर्म किंचन ॥२९॥

विफलं स्यात्तु तत्पूर्वकर्मराशौ तु का गतिः ।
अथ प्रलयकालेऽपि चित्स्वभावत्वयोगतः ॥३०॥

अणूना संभवत्येव ज्ञानं मिथ्येति तत्कुतः ।
स्वभावादिति चेन्मुक्ते शिवे वा किं तथा नहि ॥३१॥

यच्चादर्शनमाख्यातं निमित्तं परिणामिनि ।
प्रधाने तद्धि संकीर्णवैवित्तयोभययोगतः ॥३२॥

दर्शनाय पुमर्थैकयोग्यतासचिवं धियः ।
आरभ्य सते धरणीपर्यन्तं तत्र यच्चितः ।३३॥

बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रयाशर्प्रसादतः ।
प्रकाशनाद्धियोऽर्थेन सह भोगः स भण्यते ॥३४॥

बुद्धिरेवास्मि विकृतिधर्मिकान्यस्तु कोऽप्यसौ ।
मद्विलक्षण एकात्मेत्येवं वैवि यसंविदि ॥३५॥

पुमर्थस्य कृतत्वेन सहकारिवियोगतः ।
तं पुमांसं प्रति नैव सूते किंत्वन्यमेव हि ॥३६॥

अत्र पुंसोऽथ मूलस्य धर्मोऽदर्शनता द्वयोः ।
अथवेति विकल्पोऽयमास्तामेतत्तु भण्यताम् ॥३७॥

भोगो विवेकपर्यन्त इति यत्तत्र कोऽवधिः ।
विवेकलाभे निखिलसूतिदृग्यदि सापि किम् ॥३८॥

सामान्येन विशेषैर्वा प्राच्ये स्यादेकजन्मतः ।
उत्तरे न कदाचित्स्याद्भाविकालस्य योगतः ॥३९॥

कैश्चिदेव विशेषैश्चेत्सर्वेषां युगपद्भवेत् ।
विवेकोऽनादिसंयोगात्का ह्यन्योन्यं विचित्रता ॥४०॥

तस्मात्सांख्यदृशापीदमज्ञानं नैव युज्यते ।
अज्ञानेन विना बन्धमोक्षौ नैव व्यवस्थया ॥४१॥

युज्येते तच्च कथितयुक्तिभिर्नोपपद्यते ।
भायाकर्माणुदेवेच्छासद्भावेऽपि स्थिते ततः ॥४२॥

न बन्धमोक्षयोर्योगो भेदहेतोरसंभवात् ।
तस्मादज्ञानशब्देन ज्ञत्वकर्तृत्वधर्मणाम् ॥४३॥

चिदणूनामावरणं किंचिद्वाच्यं विपश्चिता ।
आवारणात्मना सिद्धं तत्स्वरूपादभेदवत् ॥४४॥

भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु ।
तच्च कस्मात्प्रसूतं स्यान्मायातश्चेत्कथं नु सा ॥४५॥

क्वचिदेव सुवीतैतन्न तु मुक्तात्मनीत्ययम् ।
प्राच्यः पर्यनुयोगः स्यान्निमित्तं चेन्न लभ्यते ॥४६॥

उत्पत्त्यभावतस्तेन नित्यं नच विनश्यति ।
तत एवैकतायां चान्यात्मसाधारणत्वतः ॥४७॥

न वावस्त्वर्थकारित्वान्न चित्तत्संवृतित्वतः ।
न चैतेनात्मनां योगो हेतुमांस्तदसंभवात् ॥४८॥

तेनैकं वस्तु सन्नित्यं नित्यसंबद्धमात्मभिः ।
जडं मलं तदज्ञानं संसाराङ्कुरकारणम् ॥४९॥

तस्य रोद्ध्री यदा शक्तिरुदास्ते शिवरश्मिभिः ।
तदाणुः स्पृश्यते स्पृष्टः स्वके ज्ञानक्रिये स्फुटे ॥५०॥

समाविशेदयं सूर्यकान्तोऽर्केणेव चोदितः ।
रोद्ध्र्याश्च शक्तेर्माध्यस्थ्यतारतम्यवशक्रमाअत् ॥५१॥

विचित्रत्वमतः प्राहुरभिव्यक्तौ स्वसंविदः ।
स एष शक्तिपाताख्यः शास्त्रेषु परिभाष्यते ॥५२॥

अत्रोच्यते मलस्तावदित्थमेष न युज्यते ।
इति पूर्वाह्णिके प्रोक्तं पुनरुक्तौ तु किं फलम् ॥५३॥

मलस्य पाकः कोऽयं स्यान्नाशश्चेदितरात्मनाम् ।
स एको मल इत्युक्तेर्नैर्मल्यमनुषज्यते ॥५४॥

अथ प्रत्यात्मनियतोऽनादिश्च प्रागभाववत् ।
मलो नश्येत्तथाप्येष नाशो यदि सहेतुकः ॥५५॥

हेतुः कर्मेश्वरेच्छा वा कर्म तावन्न तादृशम् ।
ईश्वरेच्छा स्वतन्त्रा च क्वचिदेव तथैव किम् ॥५६॥

अहेतुकोऽस्य नाशश्चेत्प्रागेवैष विनश्यतु ।
क्षणान्तरं सदृक् सूते इति चेत्स्थिरतैव सा ॥५७॥

न च नित्यस्य भावस्य हेत्वनायत्तजन्मनः ।
नाशो दृष्टः प्रागभावस्त्ववस्त्विति तथास्तु सः ॥५८॥

अथास्य पाको नामैष स्वशक्तिप्रतिबद्धता ।
सर्वान्प्रति तथैष स्याद्रुद्धशक्तिर्विषाग्निवत् ॥५९॥

पुनरुद्भूतशक्तौ च स्वकार्यं स्याद्विषाग्निवत् ।
मुक्ता अपि न मुक्ताः स्युः शक्तिं चास्य न मन्महे ॥६०॥

रोद्ध्रीति चेत्कस्य नृणां ज्ञत्वकर्तृत्वयोर्यदि ।
सद्भावमात्राद्रोद्धृत्वे शिवमुक्ताण्वसंभवः ॥६१॥

संनिधानातिरिक्तं च न किंचित्कुरुते मलः ।
आत्मना परिणामित्वादनित्यत्वप्रसङ्गतः ॥६२॥

ज्ञत्वकर्तृत्वमात्रं च पुद्गला न तदाश्रयाः ।
तच्चेदावारितं हन्त रूपनाशः प्रसज्यते ॥६३॥

आवारणं चादृश्यत्वं न च तद्वस्तुनोऽन्यताम् ।
करोति घटवज्ज्ञानं नावरीतुं च शक्यते ॥६४॥

ज्ञानेनावरणीयेन तदेवावरणं कथम् ।
न ज्ञायते तथा च स्यादावृतिर्नाममात्रतः ॥६५॥

रोद्ध्र्याश्च शक्तेः कस्तस्य प्रतिबन्धक ईश्वरः ।
यद्यपेक्षाविरहितस्तत्र प्राग्दत्तमुत्तरम् ॥६६॥

कर्मसाम्यमपेक्ष्याथ तस्येच्छा संप्रवर्तते ।
तस्यापि रूपं वक्तव्यं समता कर्मणां हि का ॥६७॥

भोगपर्यायमाहात्म्यात्काले क्वापि फलं प्रति ।
विरोधात्कर्मणी रुद्धे तिष्ठतः साम्यमीदृशम् ॥६८॥

तं च कालांशकं देवः सर्वज्ञो वीक्ष्य तं मलम् ।
रुन्द्धे लक्ष्यः स कालश्च सुखदुःखादिवर्जनैः ॥६९॥

नैतत्क्रमिकसंशुद्धव्यामिश्राकारकर्मभिः ।
तथैव देये स्वफले केयमन्योन्यरोद्धृता ॥७०॥

रोधे तयोश्च जात्यायुरपि न स्यादतः पतेत् ।
देहो भोगदयोरेव निरोध इति चेन्ननु ॥७१॥

जात्यायुष्प्रदकर्मांशसंनिधौ यदि शंकरः ।
मलं रुन्द्धे भोगदातुः कर्मणः किं बिभेति सः ॥७२॥

शतशोऽपि ह्लादतापशून्यां संचिन्वते दशाम् ।
न च भक्तिरसावेशमिति भूम्ना विलोकितम् ॥७३॥

अथापि कालमाहात्म्यमपेक्ष्य परमेश्वरः ।
तथा करोति वक्तव्यं कालोऽसौ कीदृशस्त्विति ।७४॥

किं चानादिरयं भोगः कर्मानादि सपुद्गलम् ।
ततश्च भोगपर्यायकालः सर्वस्य निःसमः ॥७५॥

आदिमत्त्वे हि कस्यापि वर्गादस्माद्भवेदियम् ।
वैचित्री भुक्तमेतेन कल्पमेतेन तु द्वयम् ॥७६॥

इयतो भोगपर्यायात्स्यात्साम्यं कर्मणामिति ।
अनेन नयबीजेन मन्ये वैचित्र्यकारणम् ॥७७॥

जगतः कर्म यत्क्लप्तं तत्तथा नावकल्पते ।
अनादिमलसंच्छन्ना अणवो दृक्क्रियात्मना ॥७८॥

सर्वे तुल्याः कथं चित्रां श्रिताः कर्मपरम्पराम् ।
भोगलोलिकया चेत्सा विचित्रेति कुतो ननु ॥७९॥

अनादि कर्मसंस्कारवैचित्र्यादिति चेत्पुनः ।
वाच्यं तदेव वैचित्र्यं कुतो नियतिरागयोः ॥८०॥

महिमा चेदयं तौ किं नासमञ्जस्यभागिनौ ।
ईश्वरेच्छानपेक्षा तु भेदहेतुर्न कल्पते ॥८१॥

अथानादित्वमात्रेण युक्तिहीनेन साध्यते ।
व्यवस्थेयमलं तर्हि मलेनास्तु वृथामुना ॥८२॥

तथाहि कर्म तावन्नो यावन्माया न पुद्गले ।
व्याप्रियेत न चाहेतुस्तद्वृत्तिस्तन्मितो मलः ॥८३॥

इत्थं च कल्पिते मायाकार्ये कर्मणि हेतुताम् ।
अनादि कर्म चेद्गच्छेत्किं मलस्योपकल्पनम् ॥८४॥

ननु माभून्मलस्तर्हि चित्राकारेषु कर्मसु ।
सन्तत्यावर्तमानेषु व्यवस्था न प्रकल्पते ॥८५॥

आदौ मध्ये च चित्रत्वात्कर्मणां न यथा समः ।
आत्माकारोऽपि कोऽप्येष भाविकाले तथा भवेत् ॥८६॥

इत्थमुच्छिन्न एवायं बन्धमोक्षादिकः क्रमः ।
अज्ञानाद्बन्धनं मोक्षो ज्ञानादिति परीक्षितम् ॥८७॥

विरोधे स्वफले चैते कर्मणी समये क्वचित् ।
उदासाते यदि ततः कर्मैतत्प्रतिबुध्यताम् ॥८८॥

शिवशक्तिनिपातस्य कोऽवकाशस्तु तावता ।
क्वापि काले तयोरेतदौदासीन्यं यदा ततः ॥८९॥

कालान्तरे तयोस्तद्वद्विरोधस्यानिवृत्तितः ।
अतश्च न फलेतान्ते ताभ्यां कर्मान्तरणि च ॥९०॥

रुद्धानि प्राप्तकालत्वाद्गताभ्यामुपभोग्यताम् ।
एवं सदैव वार्तायां देहपाते तथैव च ॥९१॥

जाते विमोक्ष इत्यास्तां शक्तिपातादिकल्पना ।
अथोदासीनतत्कर्मद्वययोगक्षणान्तरे ॥९२॥

कर्मान्तरं फलं सूते तत्क्षणेऽपि तथा न किम् ।
क्षणान्तरेऽथ ते एव प्रतिबन्धविवर्जिते ॥९३॥

फलतः प्रतिबन्धस्य वर्जनं किंकृतं तयोः ।
कर्मसाम्यं स्वरूपेण न च तत्तारतम्यभाक् ॥९४॥

न शिवेच्छेति तत्कार्ये शक्तिपाते न तद्भवेत् ।
तिरोभावश्च नामायं स कस्मादुद्भवेत्पुनः ॥९५॥

कर्मसाम्येन यत्कृत्यं प्रागेवैतत्कृतं किल ।
हेतुत्वे चेश्वरेच्छाया वाच्यं पूर्ववदेव तु ॥९६॥

एतेनान्येऽपि येऽपेक्ष्या ईशेच्छायां प्रकल्पिताः ।
ध्वस्तास्तेऽपि हि नित्यान्यहेत्वहेत्वादिदूषणात् ॥९७॥

वैराग्यं भोगवैरस्यं धर्मः कोऽपि विवेकिता ।
सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता ॥९८॥

आपत्प्राप्तिस्तन्निरीक्षा देहे किंचिच्च लक्षणम् ।
शास्त्रसेवा भोगसंघपूर्णता ज्ञानमैश्वरम् ॥९९॥

इत्यपेक्ष्यं यदीशस्य दूष्यमेतच्च पूर्ववत् ।
व्यभिचारश्च सामस्त्यव्यस्तत्वाभ्यां स्वरूपतः ॥१००॥

अन्योन्यानुप्रवेशश्चानुपपत्तिश्च भूयसी ।
तस्मान्न मन्महे कोऽयं शक्तिपातविधेः क्रमः ॥१०१॥

इत्थं भ्रान्तिविषावेशमूर्च्छानिर्मोकदायिनीम् ।
श्रीशंभुवदनोद्गीर्णां वच्म्यागममहौषधीम् ॥१०२॥

देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः ।
रूपप्रच्छादनक्रीडायोगादणुरनेककः ॥१०३॥

स स्वयं कल्पिताकारविकल्पात्मककर्मभिः ।
बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम् ॥१०४॥

स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः ।
स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः ॥१०५॥

न वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा ।
नहि नाम पुमान्कश्चिद्यस्मिन्पर्यनुयुज्यते ॥१०६॥

देव एव तथासौ चेत् स्वरूपं चास्य तादृशम् ।
तादृक्प्रथास्वभावस्य स्वभावे कानुयोज्यता ॥१०७॥

आहास्मत्परमेष्ठी च शिवदृष्टौ गुरूत्तमः ।
पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे ॥१०८॥

प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् ।
छन्नस्वरूपताभासे पुंसि यद्यादृशं फलम् ॥१०९॥

तत्राणोः सत एवास्ति स्वातन्त्र्यं कर्मतोहि तत् ।
ईश्वरस्य च या स्वात्मतिरोधित्सा निमित्तताम् ॥११०॥

साभ्येति कर्ममलयोरतोऽनादिव्यवस्थितिः ।
तिरोधिः पूर्णरूपस्यापूर्णत्वं तच्च पूरणम् ॥१११॥

प्रति भिन्नेन भावेन स्पृहातो लोलिका मलः ।
विशुद्धस्वप्रकाशात्मशिवरूपतया विना ॥११२॥

न किंचिद्युज्यते तेन हेतुरत्र महेश्वरः ।
इत्थं सृष्टिस्थितिध्वंसत्रये मायामपेक्षते ॥११३॥

कृत्यै मलं तथा कर्म शिवेच्छैवेति सुस्थितम् ।
यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते ॥११४॥

तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी ।
अणुस्वरूपताहानौ तद्गतं हेतुतां कथम् ॥११५॥

व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् ।
तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् ॥११६॥

स च स्वाच्छन्द्यमात्रेण तारतम्यप्रकाशकः ।
कुलजातिवपुष्कर्मवयोनुष्ठानसंपदः ॥११७॥

अनपेक्ष्य शिवे भक्तिः शक्तिपातोऽफलार्थिनाम् ।
या फलार्थितया भक्तिः सा कर्माद्यमपेक्षते ॥११८॥

ततोऽत्र स्यात्फले भेदो नापवर्गे त्वसौ तथा ।
भोगापवर्गद्वितयाभिसंधातुरपि स्फुटम् ॥११९॥

प्राग्भागेऽपेक्षते कर्म चित्रत्वान्नोत्तरे पुनः ।
अनाभासितरूपोऽपि तदाभासितयेव यत् ॥१२०॥

स्थित्वा मन्त्रादि संगृह्य त्यजेत्सोऽस्य तिरोभवः ।
श्रीसारशास्त्रे भगवान्वस्त्वेतत्समभाषत ॥१२१॥

धर्माधर्मात्मकैर्भावैरनेकैर्वेष्टयेत्स्वयम् ।
असन्देहं स्वमात्मानमवीच्यादिशिवान्तके ॥१२२॥

तद्वच्छक्तिसमूहेन स एव तु विवेष्टयेत् ।
स्वयं बध्नाति देवेशः स्वयं चैव विमुञ्चति ॥१२३॥

स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत् ।
स्वयं भुक्तिश्च मुक्तिश्च स्वयं देवी स्वयं प्रभुः ॥१२४॥

स्वयमेकाक्षरा चैव यथोष्मा कृष्णवर्त्मनः ।
वस्तूक्तमत्र स्वातन्त्र्यात्स्वात्मरूपप्रकाशनम् ॥१२५॥

श्रीमन्निशाकुलेऽप्युक्तं मिथ्याभावितचेतसः ।
मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः ॥१२६॥

स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये ।
व्योम्नीव नीलं हि मलं मलशंकां ततस्त्यजेत् ॥१२७॥

श्रीमान्विद्यागुरुश्चाह प्रमाणस्तुतिदर्शने ।
धर्माधर्मव्याप्तिविनाशान्तरकाले शक्तेः पातो गाहनिकैर्यः प्रतिपन्नः ॥१२८॥

तं स्वेच्छातः संगिरमाणाः स्तवकाद्याः स्वातन्त्र्यं तत्त्वय्यनपेक्षं कथयेयुः ।
तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः ॥१२९॥

ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः ।
तीव्रतीव्रः शक्तिपातो देहपातवशात्स्वयम् ॥१३०॥

मोक्षप्रदस्तदैवान्यकाले वा तारतम्यतः ।
मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते ॥१३१॥

स्वयमेव यतो वेत्ति बन्धमोक्षतयात्मताम् ।
तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत्. ॥१३२॥

प्रतिभाचन्द्रिकाशान्तध्वान्तश्चाचार्यचन्द्रमाः ।
तमस्तापौ हन्ति दृशं विस्फार्यानन्दनिर्भराम् ॥१३३॥

स शिष्टः कर्मकर्तृत्वाच्छिष्योऽन्यः कर्मभावतः ।
शिष्टः सर्वत्र च स्मार्तपदकालकुलादिषु ॥१३४॥

उक्तः स्वयंभूः शास्त्रार्थप्रतिभापरिनिष्ठितः ।
यन्मूलं शासनं तेन न रिक्तः कोऽपि जन्तुकः ॥१३५॥

तत्रापि तारतम्योत्थमानन्त्यं दार्ढ्यकम्प्रते ।
युक्तिः शास्त्रं गुरुर्वादोऽभ्यास इत्याद्यपेक्षते ॥१३६॥

कम्पमानं हि विज्ञानं स्वयमेव पुनर्व्रजेत् ।
कस्यापि दार्ढ्यमन्यस्य युक्त्याद्यैः केवलेतरैः ॥१३७॥

यथा यथा परापेक्षातानवं प्रातिभे भवेत् ।
तथा तथा गुरुरसौ श्रेष्ठो विज्ञानपारगः ॥१३८॥

अन्यतः शिक्षितानन्तज्ञानोऽपि प्रतिभाबलात् ।
यद्वेत्ति तत्र तत्रास्य शिवता ज्यायसी च सा ॥१३९॥

न चास्य समयित्वादिक्रमो नाप्यभिषेचनम् ।
न सन्तानादि नो विद्याव्रतं प्रातिभवर्त्मनः ॥१४०॥

आदिविद्वान्महादेवस्तेनैषोऽधिष्ठितो यतः ।
संस्कारास्तदधिष्ठानसिद्ध्यै तत्तस्य तु स्वतः ॥१४१॥

देवीभिर्दीक्षितस्तेन सभक्तिः शिवशासने ।
दृढताकम्प्रताभेदैः सोऽपि स्वयमथ व्रतात् ॥१४२॥

तपोजपादेर्गुरुतः स्वसंस्कारं प्रकल्पयेत् ।
यतो वाजसिनेयाख्य उक्तं सिञ्चेत्स्वयं तनुम् ॥१४३॥

इत्याद्युपक्रमं यावदन्ते तत्परिनिष्ठितम् ।
अभिषिक्तो भवेदेवं न बाह्यकलशाम्बुभिः ॥१४४॥

श्रीसर्ववीरश्रीब्रह्मयामलादौ च तत्तथा ।
निरूपितं महेशेन कियद्वा लिख्यतामिदम् ॥१४५॥

इत्थं प्रातिभविज्ञानं किं किं कस्य न साधयेत् ।
यत्प्रातिभाद्वा सर्वं चेत्यूचे शेषमहामुनिः ॥१४६॥

अन्ये त्वाहुरकामस्य प्रातिभो गुरुरीदृशः ।
सामग्रीजन्यता काम्ये तेनारिमन्संस्कृतो गुरुः ॥१४७॥

नियतेर्महिमा नैव फले साध्ये निवर्तते ।
अभिषिक्तश्चीर्णविद्याव्रतस्तेन फलप्रदः ॥१४८॥

असदेतदिति प्राहुर्गुरवस्तत्त्वदर्शिनः ।
श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः ॥१४९॥

तथाहि त्रीशिकाशास्त्रविवृतौ तेऽभ्यधुर्बुधाः ।
सांसिद्धिकं यद्विज्ञानं तच्चिन्तारत्नमुच्यते ॥१५०॥

तदभावे तदर्थं तदाहृतं ज्ञानमादृतम् ।
एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी ॥१५१॥

दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता ।
अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः ॥१५२॥

स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः ।
अविधिज्ञो विधानज्ञो जायते यजनं प्रति ॥१५३॥

इत्यादिभिस्त्रीशिकोक्तैर्वाक्यैर्माहेश्वरैः स्फुटम् ।
ज्ञानं दीक्षादिसंस्कारसतत्त्वमिति वर्णितम् ॥१५४॥

ज्ञानोपायस्तु दीक्षादिक्रिया ज्ञानवियोगिनाम् ।
इत्येतदधुनैवास्ता स्वप्रस्तावे भविष्यति ॥१५५॥

गुरुशास्त्रप्रमाणादेरप्युपायत्वमंजसा ।
प्रतिभा परमेवैषा सर्वकामदुघा यतः ॥१५६॥

उपाययोगक्रमतो निरुपायमथाक्रमम् ।
यद्रूपं तत्परं तत्त्वं तत्र तत्र सुनिश्चितम् ॥१५७॥

यस्तु प्रातिभबाह्यात्मसंस्कारद्वयसुन्दरः ।
उक्तोऽनन्योपकार्यत्वात्स साक्षाद्वरदो गुरुः ॥१५८॥

स्वमुक्तिमात्रे कस्यापि यावद्विश्वविमोचने ।
प्रतिभोदेति खद्योतरत्नतारेन्दुसूर्यवत् ॥१५९॥

ततः प्रातिभसंवित्त्यै शास्त्रमस्मत्कृतं त्विदम् ।
योऽभ्यस्येत्स गुरुर्नैव वस्त्वर्था हि विडम्बकाः ॥१६०॥

परोपजीविताबुद्ध्या सर्व इत्थं न भासते ।
तदुक्त्या न विना वेत्ति शक्तिपातस्य मान्द्यतः ॥१६१॥

स्फुटमेतच्च शास्त्रेषु तेषु तेषु निरूप्यते ।
किरणायां तथोक्तं च गुरुतः शास्त्रतः स्वतः ॥१६२॥

ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे ।
श्रीमन्नन्दिशिखातन्त्रे वितत्यैतन्निरूपितम् ॥१६३॥

प्रश्नोत्तरमुखेनेति तदभग्नं निरूप्यते ।
अनिर्देश्यः शिवस्तत्र कोऽभ्युपायो निरूप्यताम् ॥१६४॥

इति प्रश्ने कृते देव्या श्रीमाञ्छंभुर्न्यरूपयम् ।
उपायोऽत्र विवेकैकः स हि हेयं विहापयन् ॥१६५॥

ददात्यस्य च सुश्रोणि प्रातिभं ज्ञानमुत्तमम् ।
यदा प्रतिभया युक्तस्तदा मुक्तश्च मोचयेत् ॥१६६॥

परशक्तिनिपातेन ध्वस्तमायामलः पुमान् ।
ननु प्राग्दीक्षया मोक्षोऽधुना तु प्रातिभात्कथम् ॥१६७॥

इति देव्या कृते प्रश्ने प्रावर्तत विभोर्वचः ।
दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये ॥१६८॥

गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे ।
प्रातिभोऽस्य स्वभावस्तु केवलीभावसिद्धिदः ॥१६९॥

केवलस्य ध्रुवं मुक्तिः परतत्त्वेन सा ननु ।
नृशक्तिशिवमुक्तं हि तत्त्वत्रयमिदं त्वया ॥१७०॥

ना बध्यो बन्धने शक्तिः करणं कर्तृतां स्पृशत् ।
शिवः कर्तेति तत्प्रोक्तं सर्वं गुर्वागमादणोः ॥१७१॥

पुनर्विवेकादुक्तं तदुत्तरोत्तरमुच्यताम् ।
कथं विवेकः किं वास्य देवदेव विविच्यते ॥१७२॥

इत्युक्ते परमेशान्या जगादादिगुरुः शिवः ।
शिवादितत्त्वत्रितयं तदागमवशाद्गुरोः ॥१७३॥

अध्रोत्तरगैर्वाक्यैः सिद्धं प्रातिभतां व्रजेत् ।
दीक्षासिच्छिन्नपाशत्वाद्भावनाभावितस्य हि ॥१७४॥

विकासं तत्त्वमायाति प्रातिभं तदुदाहृतम् ।
भस्मच्छन्नाग्निवत्स्फौट्यं प्रातिभे गौरवागमात् ॥१७५॥

बीजं कालोप्तसंसिक्तं यथा वर्धेत तत्तथा ।
योगयागजपैरुक्तैर्गुरुणा प्रातिभं स्फुटेत् ॥१७६॥

विवेकोऽतीन्द्रियस्त्वेष यदायाति विवेचनम् ।
पशुपाशपतिज्ञानं स्वयं निर्भासते तदा ॥१७७॥

प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम् ।
वागक्षिश्रुतिगम्यं चाप्यन्यापेक्षं वरानने ॥१७८॥

तत्त्यजेद्बुद्धिमास्थाय प्रदीपं तु यथा दिवा ।
प्रादुर्भूतविवेकस्य स्याच्चिदिन्द्रियगोचरे ॥१७९॥

दूराच्छ्रुत्यादिवेधादिवृद्धिक्रीडाविचित्रिता ।
सर्वभावविवेकात्तु सर्वभावपराङ्मुखः ॥१८०॥

क्रीडासु सुविरक्तात्मा शिवभावैकभावितः ।
माहात्म्यमेतत्सुश्रोणि प्रातिभस्य विधीयते ॥१८१॥

स्वच्छायादर्शवत्पश्येद्बहिरन्तर्गतं शिवम् ।
हेयोपादेयतत्त्वज्ञस्तदा ध्यायेन्निजां चितिम् ॥१८२॥

सिद्धिजालं हि कथितं परप्रत्ययकारणम् ।
इहैव सिद्धाः कायान्ते मुच्येरन्निति भावनात् ॥१८३॥

परभावनदार्ढ्यात्तु जीवन्मुक्तो निगद्यते ।
एतत्ते प्रातिभे भेदे लक्षणं समुदाहृतम् ॥१८४॥

शापानुग्रहकार्येषु तथाभ्यासेन शक्तया ।
तेषूदासीनतायां तु मुच्यते मोचयेत्परान् ॥१८५॥

भूतेन्द्रियादियोगेन बद्धोऽणुः संसरेद्ध्रुवम् ।
स एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते ॥१८६॥

तत्पातावेशतो मुक्तः शिव एव भवार्णवात् ।
नन्वाचार्यात्सेन्द्रियं तज्ज्ञानमुक्तमतीन्द्रियम् ॥१८७॥

विवेकजं च तद्बुद्ध्या तत्कथं स्यान्निरिन्द्रियम् ।
इति पृष्टोऽभ्यधात्स्वान्तधियोर्जाड्यैकवासनात् ॥१८८॥

अक्षत्वं प्रविवेकेन तच्छित्तौ भासकः शिवः ।
संस्कारः सर्वभावानां परता परिकीर्तिता ॥१८९॥

मनोबुद्धी न भिन्ने तु कस्मिंश्चित्कारणान्तरे ।
विवेके कारणे ह्येते प्रभुशक्त्युपवृंहिते ॥१९०॥

न मनोबुद्धिहीनस्तु ज्ञानस्याधिगमः प्रिये ।
परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते ॥१९१॥

विवेकः सर्वभावानां शुद्धभावान्महाशयः ।
बुद्धितत्त्वं तु त्रिगुणमुत्तमाधममध्यमम् ॥१९२॥

अणिमादिगतं चापि बन्धकं जडमिन्द्रियम् ।
ननु प्रातिभतो मुक्तौ दीक्षया किं शिवाध्वरे ॥१९३॥

ऊचेऽज्ञाना हि दीक्षायां बालवालिशयोषितः ।
पाशच्छेदाद्विमुच्यन्ते प्रबुद्ध्यन्ते शिवाध्वरे ॥१९४॥

तस्माद्दीक्षा भवत्येषु कारणत्वेन सुन्दरि ।
दीक्षया पाशमोक्षे तु शुद्धभावाद्विवेकजम् ॥१९५॥

इत्येष पठितो ग्रन्थः स्वयं ये बोद्धुमक्षमाः ।
तेषां शिवोक्तिसंवादाद्बोधो दार्ढ्यं व्रजेदिति ॥१९६॥

श्रीमन्निशाटने चात्मगुरुशास्त्रवशात्त्रिधा ।
ज्ञानं मुख्यं स्वोपलब्धि विकल्पार्णवतारणम् ॥१९७॥

मन्त्रात्मभूतद्रव्याशदिव्यतत्त्वादिगोचरा ।
शंका विकल्पमूला हि शाम्येत्स्वप्रत्ययादिति ॥१९८॥

एनमेवार्थमन्तःस्थं गृहीत्वा मालिनीमते ।
एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् ॥१९९॥

शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा ।
तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ॥२००॥

इत्युक्त्वा तीव्रतीव्राख्यविषयं भाषते पुनः ।
अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते ॥२०१॥

रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया ।
भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥२०२॥

तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् ।
तत्क्षणाद्वोपभोगाद्वा देहपाताच्छिवं व्रजेत् ॥२०३॥

अस्यार्था आत्मनः काचित्कलनामर्शनात्मिका ।
स्वं रूपं प्रति या सैव कोऽपि काल इहोदितः ॥२०४॥

योग्यता शिवतादात्म्ययोगार्हत्वमिहोच्यते ।
पूर्वं किं न तथा कस्मात्तदैवेति न संगतम् ॥२०५॥

तथाभासनमुज्झित्वा न हि कालोऽस्ति कश्चन ।
स्वातन्त्र्यात्तु तथाभासे कालशक्तिर्विजृम्भताम् ॥२०६॥

नतु पर्यनुयुक्त्यै सा शिवे तन्महिमोदिता ।
ननु शैवी महाशक्तिः संबद्धैवात्मभिः स्थिता ।
सत्यं साच्छादनात्मा तु शान्ता त्वेषा स्वरूपदृक् ॥२०७॥

क्षोभो हि भेद एवैक्यं प्रशमस्तन्मयी ततः ॥२०८॥

तया शान्त्या तु संबद्धः स्थितः शक्तिस्वरूपभाक् ।
त्यक्ताणुभावो भवति शिवस्तच्छक्तिदार्ढ्यतः ॥२०९॥

तत्रापि तारतम्यादिवशाच्छीघ्रचिरादितः ।
देहपातो भवेदस्य यद्वा काष्ठादितुल्यता ॥२१०॥

समस्तव्यवहारेषु पराचीनितचेतनः ।
तीव्रतीव्रमहाशक्तिसमाविष्टः स सिध्यति ॥२११॥

एवं प्राग्विषयो ग्रन्थ इयानन्यत्र तु स्फुटम् ।
ग्रन्थान्तरं मध्यतीव्रशक्तिपातांशसूचकम् ॥२१२॥

अज्ञानरूपता पुंसि बोधः संकोचिते हृदि ।
संकोचे विनिवृत्ते तु स्वस्वभावः प्रकाशते ॥२१३॥

रुद्रशक्तिसमाविष्ट इत्यनेनास्य वर्ण्यते ।
चिह्नवर्गो य उक्तोऽत्र रुद्रे भक्तिः सुनिश्चला ॥२१४॥

मन्त्रसिद्धिः सर्वतत्त्ववशित्वं कृत्यसंपदः ।
कवित्वं सर्वशास्त्रार्थबोद्धृत्वमिति तत्क्रमात् ॥२१५॥

स्वतारतम्ययोगात्स्यादेषां व्यस्तसमस्तता ।
तत्रापि भुक्तौ मुक्तौ च प्राधान्यं चर्चयेद्बुधः ॥२१६॥

स इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः ।
अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति ॥२१७॥

मन्दतीव्राच्छक्तिबलाद्यियासास्योपजायते ।
शिवेच्छावशयोगेन सद्गुरुं प्रति सोऽपि च ॥२१८॥

अत्रैव लक्षितः शास्त्रे यदुक्तं परमेष्ठिना ।
यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ॥२१९॥

स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ।
दृष्टाः संभावितास्तेन स्पृष्टाश्च प्रीतचेतसा ॥२२०॥

नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि ।
ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः ॥२२१॥

ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम् ।
किं तत्त्वं तत्त्ववेदी क इत्यामर्शनयोगतः ॥२२२॥

प्रतिभानात्सुःृत्सङ्गाद्गुरौ जिगमिषुर्भवेत् ।
एवं जिगमिषायोगादाचार्यः प्राप्यते स च ॥२२३॥

तारतम्यादियोगेन संसिद्धः संस्कृतोऽपि च ।
प्राग्भेदभागी झटिति क्रमात्सामस्त्यतोंशतः ॥२२४॥

इत्यादिभेदभिन्नो हि गुरोर्लाभ इहोदितः ।
तस्माद्दीक्षां स लभते सद्य एव शिवप्रदाम् ॥२२५॥

ज्ञानरूपां यथा वेत्ति सर्वमेव यथार्थतः ।
जीवन्मुक्तः शिवीभूतस्तदैवासौ निगद्यते ॥२२६॥

देहसंबन्धिताप्यस्य शिवतायै यतः स्फुटा ।
अस्यां भेदो हि कथनात्सङ्गमादवलोकनात् ॥२२७॥

शास्त्रात्संक्रमणात्साम्यचर्यासंदर्शनाच्चरोः ।
मन्त्रमुद्रादिमाहात्म्यात्समस्तव्यस्तभेदतः ॥२२८॥

क्रियया वान्तराकाररूपप्राणप्रवेशतः ।
तदा च देहसंस्थोऽपि स मुक्त इति भण्यते ॥२२९॥

उक्तं च शास्त्रयोः श्रीमद्रत्नमालागमाख्ययोः ।
यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम् ॥२३०॥

तदैव किल मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् ।
प्रारब्धृकर्मसंबन्धाद्देहस्य सुखिदुःखिते ॥२३१॥

न विशङ्केत तच्च श्रीगमशास्त्रे निरूपितम् ।
अविद्योपासितो देहो ह्यन्यजन्मसमुद्भुवा ॥२३२॥

कर्मणा तेन बाध्यन्ते ज्ञानिनोऽपि कलेवरे ।
जात्यायुर्भोगदस्यैकप्रघट्टकतया स्थितिः ॥२३३॥

उक्तैकवचनाद्धिश्च यतस्तेनेतिसंगतिः ।
अभ्यासयुक्तिसंक्रान्तिवेधघट्टनरोधतः ॥२३४॥

हुतेर्वा मन्त्रसामर्थ्यात्पाशच्छेदप्रयोगतः ।
सद्योनिर्वाणदां कुर्यात्सद्यःप्राणवियोजिकाम् ॥२३५॥

तत्र त्वेषोऽस्ति नियम आसन्ने मरणक्षणे ।
तां कुर्यान्नान्यथारब्धृ कर्म यस्मान्न शुद्ध्यति ॥२३६॥

उक्तं च पूर्वमेवैतन्मंत्रसामर्थ्ययोगतः ।
प्राणैर्वियोजितोऽप्येष भुङ्क्ते शेषफलं यतः ॥२३७॥

तज्जन्मशेषं विविधमतिवाह्य ततः स्फुटम् ।
कर्मान्तरनिरोधेन शीघ्रमेवापवृज्यते ॥२३८॥

तस्मात्प्राणहरीं दीक्षां नाज्ञात्वा मरणक्षणम् ।
विदध्यात्परमेशाज्ञालङ्घनैकफला हि सा ॥२३९॥

एकस्त्रिकोऽयं निर्णीतः शक्तिपातेऽप्यथापरः ।
तीव्रमध्ये तु दीक्षायां कृतायां न तथा दृढाम् ॥२४०॥

स्वात्मनो वेत्ति शिवतां देहान्ते तु शिवो भवेत् ।
उक्तं च निशिसंचारयोगसंचारशास्त्रयोः ॥२४१॥

विकल्पात्तु तनौ स्थित्वा दहान्ते शिवतां व्रजेत् ।
मध्यमध्ये शक्तिपाते शिवलाभोत्सुकोऽपि सन् ॥२४२॥

बुभुक्षुर्यत्र युक्तस्तद्भुक्त्वा देहक्षये शिवः ।
मन्दमध्ये तु तत्रैव तत्त्वे क्वापि नियोजितः ॥२४३॥

देहान्ते तत्त्वगं भोगं भुक्त्वा पश्चाच्छिवं व्रजेत् ।
तत्रापि तारतम्यस्य संभवाच्चिरशीघ्रता ॥२४४॥

बह्वल्पभोगयोगश्च देहभूमाल्पताक्रमः ।
तीव्रमन्दे मध्यमन्दे मन्दमन्दे बुभुक्षुता ॥२४५॥

क्रमान्मुख्यातिमात्रेण विधिनैत्यन्ततः शिवम् ।
अन्ये यियासुरित्यादिग्रन्थं प्राग्ग्रन्थसंगतम् ॥२४६॥

कुर्वन्ति मध्यतीव्राख्यशक्तिसंपातगोचरम् ।
यदा प्रतिभयाविष्टोऽप्येष संवादयोजनाम् ॥२४७॥

इच्छन्यियासुर्भवति तदा नीयेत सद्गुरुम् ।
न सर्वः प्रतिभाविष्टः शक्त्या नीयेत सद्गुरुम् ॥२४८॥

इति ब्रूते यियासुत्वं वक्तव्यं नान्यथा ध्रुवम् ।
रुद्रशक्तिसमाविष्टो नीयते सद्गुरुं प्रति ॥२४९॥

तेन प्राप्तविवेकोत्थज्ञानसंपूर्णमानसः ।
दार्ढ्यसंवादरूढ्यादेर्यियासुर्भवति स्फुटम् ॥२५०॥

उक्तं नन्दिशिखातन्त्रे प्राच्यषट्के महेशिना ।
अभिलाषः शिवे देवे पशूनां भवते तदा ॥२५१॥

यदा शैवाभिमानेन युक्ता वै परमाणवः ।
तदैव ते विमुक्तास्तु दीक्षिता गुरुणा यतः ॥२५२॥

प्राप्तिमात्राच्च ते सिद्धसाध्या इति हि गम्यते ।
तमाराध्येति तु ग्रन्थो मन्दतीव्रैकगोचरः ॥२५३॥

नवधा शक्तिपातोऽयं शंभुनाथेन वर्णितः ।
इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः ॥२५४॥

प्रकाशः परमः शक्तिपातोऽवच्छेदवर्जितः ।
तथाविधोऽपि भोगांशावच्छेदेनोपलक्षितः ॥२५५॥

अपरः शक्तिपातोऽसौ पर्यन्ते शिवताप्रदः ।
उभयत्रापि कर्मादेर्मायान्तर्वर्तिनो यतः ॥२५६॥

नास्ति व्यापार इत्येवं निरपेक्षः स सर्वतः ।
तेन मायान्तराले ये रुद्रा ये च तदूर्ध्वतः ॥२५७॥

स्वाधिकारक्षये तैस्तैर्भैरवीभूयते हठात् ।
ये मायया ह्यनाक्रान्तास्ते कर्माद्यनपेक्षिणः ॥२५८॥

शक्तिपातवशादेव तां तां सिद्धिमुपाश्रिताः ।
ननु पूजाजपध्यानशंकरासेवनादिभिः ॥२५९॥

ते मन्त्रादित्वमापन्नाः कथं कर्मानपेक्षिणः ।
मैवं तथाविधोत्तीर्णशिवध्यानजपादिषु ॥२६०॥

प्रवृत्तिरेव प्रथममेषां कस्माद्विविच्यताम् ।
कर्मतत्साम्यवैराग्यमलपाकादि दूषितम् ॥२६१॥

ईश्वरेच्छा निमित्तं चेच्छक्तिपातैकहेतुता ।
जपादिका क्रियाशक्तिरेवेत्थं नतु कर्म तत् ॥२६२॥

कर्म तल्लोकरूढं हि यद्भोगमवरं ददत् ।
तिरोधत्ते भोक्तृरूपं संज्ञाया तु न नो भरः ॥२६३॥

तेषां भोगोत्कता कस्मादिति चेद्दत्तमुत्तरम् ।
चित्राकारप्रकाशोऽयं स्वतन्त्रः परमेश्वरः ॥२६४॥

स्वातन्त्र्यात्तु तिरोभावबन्धो भोगेऽस्य भोक्तृताम् ।
पुष्णन्स्वं रूपमेव स्यान्मलकर्मादिवर्जितम् ॥२६५॥

उक्तं सेयं क्रियाशक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्रीति तत्कर्म कथ्यते रूपलोपकृत् ॥२६६॥

ज्ञाता सा च क्रियाशक्तिः सद्यः सिद्ध्युपपादिका ।
अविच्छिन्नस्वात्मसंवित्प्रथा सिद्धिरिहोच्यते ॥२६७॥

सा भोगमोक्षस्वातन्त्र्यमहालक्ष्मीरिहाक्षया ।
विष्ण्वादिरूपता देवे या काचित्सा निजात्मना ॥२६८॥

भेदयोगवशान्मायापदमध्यव्यवस्थिता ।
तेन तद्रूपतायोगाच्छक्तिपातः स्थितोऽपि सन् ॥२६९॥

तावन्तं भोगमाधत्ते पर्यन्ते शिवतां नतु ।
यथा स्वातन्त्र्यतो राजाप्यनुगृह्णाति कंचन ॥२७०॥

ईशशक्तिसमावेशात्तथा विष्ण्वादयोऽप्यलम् ।
मायागर्भाधिकारीयशक्तिपातवशात्ततः ॥२७१॥

कोऽपि प्रधानपुरुषविवेकी प्रकृतेर्गतः ।
उत्कृष्टात्तत एवाशु कोऽपि बुद्धा विवेकिताम् ॥२७२॥

क्षणात्पुंसः कलायाश्च पुंमायान्तरवेदकः ।
कलाश्रयस्याप्यत्यन्तं कर्मणो विनिवर्तनात् ॥२७३॥

ज्ञानाकलः प्राक्तनस्तु कर्मी तस्याश्रयस्थितेः ।
स परं प्रकृतेर्बुध्ने सृष्टिं नायाति जातुचित् ॥२७४॥

मायाधरे तु सृज्येतानन्तेशेन प्रचोदनात् ।
विज्ञानाकलतां प्राप्तः केवलादधिकारतः ॥२७५॥

मलान्मन्त्रतदीशादिभावमेति सदा शिवात् ।
पत्युः परस्माद्यस्त्वेष शक्तिपातः स वै मलात् ॥२७६॥

अज्ञानाख्याद्वियोक्तेति शिवभावप्रकाशकः ।
नान्येन शिवभावो हि केनचित्संप्रकाशते ॥२७७॥

स्वच्छन्दशास्त्रे तेनोक्तं वादिनां तु शतत्रयम् ।
त्रिषष्ट्यभ्यधिकं भ्रान्तं वैष्णवाद्यं निशान्तरे ॥२७८॥

शिवज्ञानं केवलं च शिवतापत्तिदायकम् ।
शिवतापत्तिपर्यन्तः शक्तिपातश्च चर्च्यते ॥२७९॥

अन्यथा किं हि तत्स्याद्यच्छैव्या शक्त्यानधिष्ठितम् ।
तेनेह वैष्णवादीनां नाधिकारः कथंचन ॥२८०॥

ते हि भेदैकवृत्तित्वादभेदे दूरवर्जिताः ।
स्वातन्त्र्यात्तु महेशस्य तेऽपि चेच्छिवतोन्मुखाः ॥२८१॥

द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया ।
दुष्टाधिवासविगमे पुष्पैः कुम्भोऽधिवास्यते ॥२८२॥

द्विगुणोऽस्य स संस्कारो नेत्थं शुद्धे घटे विधिः ।
इत्थं श्रीशक्तिपातोऽयं निरपेक्ष इहोदितः ॥२८३॥

अनयैव दिशा नेयं मतङ्गकिरणादिकम् ।
ग्रन्थगौरवभीत्या तु तल्लिखित्वा न योजितम् ॥२८४॥

पुराणेऽपि च तस्यैव प्रसादाद्भक्तिरिष्यते ।
यया यान्ति परां सिद्धिं तद्भावगतमानसाः ॥२८५॥

एवकारेण कर्मादिसापेक्षत्वं निषिध्यते ।
प्रसादो निर्मलीभावस्तेन संपूर्णरूपता ॥२८६॥

आत्मना तेन हि शिवः स्वयं पूर्णः प्रकाशते ।
शिवीभावमहासिद्धिस्पर्शवन्ध्ये तु कुत्रचित् ॥२८७॥

वैष्णवादौ हि या भक्तिर्नासौ केवलतः शिवात् ।
शिवो भवति तत्रैष कारणं न तु केवलः ॥२८८॥

निर्मलश्चापि तु प्राप्तावच्छित्कर्माद्यपेक्षकः ।
यया यान्ति परां सिद्धिमित्यस्येदं तु जीवितम् ॥२८९॥

श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः ।
शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् ॥२९०॥

अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे ।
कर्हिचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान् ॥२९१॥

दुर्लभत्वमरागित्वं शक्तिपातविधौ विभोः ।
अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम् ॥२९२॥

व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितैः ।
श्रीमताप्यनिरुद्धेन शक्तिमुन्मीलिनीं विभोः ॥२९३॥

व्याचक्षाणेन मातङ्गे वर्णिता निरपेक्षता ।
स्थावरान्तेऽपि देवस्य स्वरूपोन्मीलनात्मिका ॥२९४॥

शक्तिः पतन्ती सापेक्षा न क्वापीति सुविस्तरात् ।
एवं विचित्रेऽप्येतस्मिञ्छक्तिपाते स्थिते सति ॥२९५॥

तारतम्यादिभिर्भेदैः समय्यादिविचित्रता ।
कश्चिद्रुद्राशतामात्रापादनात्तत्प्रसादतः ॥२९६॥

शिवत्वं क्रमशो गच्छेत् समयी यो निरूप्यते ।
कश्चिच्छुद्धाध्वबन्धः सन् पुत्रकः शीघ्रमक्रमात् ॥२९७॥

भोगव्यवधिना कोऽपि साधकश्चिरशीघ्रतः ।
कश्चित्संपूर्णकर्तव्यः कृत्यपञ्चकभागिनि ॥२९८॥

रूपे स्थितो गुरुः सोऽपि भोगमोक्षादिभेदभाक् ।
समय्यादिचतुष्कस्य समासव्यासयोगतः ॥२९९॥

क्रमाक्रमादिभिर्भेदैः शक्तिपातस्य चित्रता ।
क्रमिकः शक्तिपातश्च सिद्धान्ते वामके ततः ॥३००॥

दक्षे मते कुले कौले षडर्धे हृदये ततः ।
उल्लङ्घनवशाद्वापि झटित्यक्रममेव वा ॥३०१॥

उक्तं श्रीभैरवकुले पञ्चदीक्षासुसंस्कृतः ।
गुरुरुल्लङ्घिताधःस्थस्रोता वै त्रिकशास्त्रगः ॥३०२॥

ज्ञानाचारादिभेदेन ह्युत्तराधरता विभुः ।
शास्त्रेष्वदीदृशच्छ्रीमत्सर्वाचारहृदादिषु ॥३०३॥

वाममार्गाभिषिक्तस्तु दैशिकः परतत्त्ववित् ।
तथापि भैरवे तन्त्रे पुनः संस्कारमर्हति ॥३०४॥

शैववैमलसिद्धान्ता आर्हताः कारुकाश्च ये ।
सर्वे ते पशवो ज्ञेया भैरवे मातृमण्डले ॥३०५॥

कुलकालीविधौ चोक्तं वैष्णवाना विशेषतः ।
भस्मनिष्ठाप्रपन्नानामित्यादौ नैव योग्यता ॥३०६॥

स्वच्छन्दशास्त्रे संक्षेपादुक्तं च श्रीमहेशिना ।
अन्यशास्त्ररतो यस्तु नासौ सिद्धिफलप्रदः ॥३०७॥

समय्यादिक्रमाल्लब्धाभिषेको हि गुरुर्मतः ।
स च शक्तिवशादित्थं वैष्णवादिषु कोऽन्वयः ॥३०८॥

छद्मापश्रवणाद्यैस्तु तज्ज्ञानं गृह्णतो भवेत् ।
प्रायश्चित्तमतस्तादृगधिकार्यत्र किं भवेत् ॥३०९॥

फलाकाङ्क्षायुतः शिष्यस्तदेकायत्तसिद्धिकः ।
ध्रुवं पच्येत नरके प्रायश्चित्त्युपसेवनात् ॥३१०॥

तिरोभावप्रकारोऽयं यत्तादृशि नियोजितः ।
गुरौ शिवेन तद्भक्तिः शक्तिपातोऽस्य नोच्यते ॥३११॥

यदातु वैचित्र्यवशाज्जानीयात्तस्य तादृशम् ।
विपरीतप्रवृत्तत्वं ज्ञानं तस्मादुपाहरेत् ॥३१२॥

तं च त्यजेत्पापवृत्तिं भवेत्तु ज्ञानतत्परः ।
यथा चौराद्गृहीत्वार्थं तं निगृह्णाति भूपतिः ॥३१३॥

वैष्णवादेस्तथा शैवं ज्ञानमाहृत्य सन्मतिः ।
स हि भेदैकवृत्तित्वं शिवज्ञाने श्रुतेऽप्यलम् ॥३१४॥

नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः ।
शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात् ॥३१५॥

कथङ्कारं पतिपदं प्रयातु परतन्त्रितः ।
स्वच्छन्दशास्त्रे प्रोक्तं च वैष्णवादिषु ये रताः ॥३१६॥

भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।
वैष्णवादिः शैवशास्त्रं मेलयन्निजशासने ॥३१७॥

ध्रुवं संशयमापन्न उभयभ्रष्टतां व्रजेत् ।
स्वदृष्टौ परदृष्टौ च समयोल्लङ्घनादसौ ॥३१८॥

प्रत्यवायं यतोऽभ्येति चरेत्तन्नेदृशं क्रमम् ।
उक्तं श्रीमद्गह्वरे च परमेशेन तादृशम् ॥३१९॥

नान्यशास्त्राभियुक्तषु शिवज्ञानं प्रकाशते ।
तन्न सैद्धान्तिको वामे नासौ दक्षे स नो मते ॥३२०॥

कुलकौले त्रिके नासौ पूर्वः पूर्वः परत्र तु ।
अवच्छिन्नोऽनवच्छेदं नो वेत्त्यानन्त्यसंस्थितः ॥३२१॥

सर्वंसहस्ततोऽधःस्थ ऊर्ध्वस्थोऽधिकृतो गुरुः ।
स्वात्मीयाधरसंस्पर्शात्प्राणयन्नधराः क्रियाः ॥३२२॥

सफलीकुरुते यत्तदूर्ध्वस्थो गुरुरुत्तमः ।
अधःस्थदृक्स्थोऽप्येतादृग्गुरुसेवी भवेत्स यः ॥३२३॥

तादृक्शक्तिनिपातेद्धो यो द्रागूर्ध्वमिमं नयेत् ।
तत्तद्गिरिनदीप्रायावच्छिन्ने क्षेत्रपीठके ॥३२४॥

उत्तरोत्तरविज्ञाने नाधिकार्यधरोऽधरः ।
उत्तरोत्तरमाचार्यं विदन्नप्यधरोऽधरः ॥३२५॥

कुर्वन्नधिक्रियां शास्त्रलङ्घी निग्रहभाजनम् ।
शक्तिपातबलादेव ज्ञानयोग्यविचित्रता ॥३२६॥

श्रौतं चिन्तामयं द्व्यात्म भावनामयमेव च ।
ज्ञानं तदुत्तरं ज्यायो यतो मोक्षैककारणम् ॥३२७॥

तत्त्वेभ्य उद्धृतिं क्वापि योजनं सकलेऽकले ।
कथं कुर्याद्विना ज्ञानं भावनामयमुत्तमम् ॥३२८॥

योगी तु प्राप्ततत्तत्त्वसिद्धिरप्युत्तमे पदे ।
सदाशिवाद्ये स्वभ्यस्तज्ञानित्वादेव योजकः ॥३२९॥

अधरेषु च तत्त्वेषु या सिद्धिर्योगजास्य सा ।
विमोचनायां नोपायः स्थितापि धनदारवत् ॥३३०॥

यस्तूत्पन्नसमस्ताध्वसिद्धिः सहि सदाशिवः ।
साक्षादेष कथं मर्त्यान्मोचयेद्गुरुतां व्रजन् ॥३३१॥

तेनोक्तं मालिनीतन्त्रे विचार्य ज्ञानयोगिते ।
यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः ॥३३२॥

तस्मात्स्वभ्यस्तविज्ञानतैवैकं गुरुलक्षणम् ।
विभागस्त्वेष मे प्रोक्तः शंभुनाथेन दर्श्यते ॥३३३॥

मोक्षज्ञानपरः कुर्याद्गुरुं स्वभ्यस्तवेदनम् ।
अन्यं त्यजेत्प्राप्तमपि तथाचोक्तं शिवेन तत् ॥३३४॥

आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥३३५॥

शक्तिहीनं गुरुं प्राप्य मोक्षज्ञाने कथं श्रयेत् ।
नष्टमूले द्रुमे देवि कुतः पुष्पफलादिकम् ॥३३६॥

उत्तरोत्तरमुत्कर्षलक्ष्मीं पश्यन्नपि स्थितः ।
अधमे यः पदे तस्मात्कोऽन्यः स्याद्दैवदग्धकः ॥३३७॥

यस्तु भोगं च मोक्षं च वाञ्छेद्विज्ञानमेव च ।
स्वभ्यस्तज्ञानिनं योगसिद्धं स गुरुमाश्रयेत् ॥३३८॥

तदभावे तु विज्ञानमोक्षयोर्ज्ञानिनं श्रयेत् ।
भुक्त्यंशे योगिनं यस्तत्फलं दातुं भवेत्क्षमः ॥३३९॥

फलदानाक्षमे योगिन्यपायैकोपदेशिनि ।
वरं ज्ञानी योऽभ्युपायं दिशेदपिच मोचयेत् ॥३४०॥

ज्ञानी न पूर्ण एवैको यदि ह्यंशांशिकाक्रमात् ।
ज्ञानान्यादाय विज्ञानं कुर्वीताखण्डमण्डलम् ॥३४१॥

तेनासंख्यान्गुरून्कुर्यात्पूरणाय स्वसंविदः ।
धन्यस्तु पूर्णविज्ञानं ज्ञानार्थी लभते गुरुम् ॥३४२॥

नानागुर्वागमस्रोतःप्रतिभामात्रमिश्रितम् ।
कृत्वा ज्ञानार्णवं स्वाभिर्विप्रुङ्गिः प्लावयेन्न किम् ॥३४३॥

आ तपनान्मोटकान्तं यस्य मेऽस्ति गुरुक्रमः ।
तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ॥३४४॥

श्रीमता कल्लटेनेत्थं गुरुणा तु न्यरूप्यत ।
अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात् ॥३४५॥

तार्किकश्रौतबौद्धार्हद्वैष्णवादीन्नसेविषि ।
लोकाध्यात्मातिमार्गादिकर्मयोगविधानतः ॥३४६॥

संबोधोत्कर्षबाहुल्यात्क्रमोत्कृष्टान्विभावयेत् ।
श्रीपूर्वशास्त्रे प्रष्टारो मुनयो नारदादयः ॥३४७॥

प्राग्वैष्णवाः सौगताश्च सिद्धान्तादिविदस्ततः ।
क्रमात्त्रिकार्थविज्ञानचन्द्रोत्सुकितदृष्टयः ॥३४८॥

तस्मान्न गुरुभूयस्त्वे विशङ्केत कदाचन ।
गुर्वन्तररते मूढे आगमान्तरसेवके ॥३४९॥

प्रत्यवायो य आम्नातः स इत्थमिति गृह्यताम् ।
यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुरुच्यते ॥३५०॥

तत्रानधिकृतो यस्तु तद्गुर्वन्तरमुच्यते ।
यथा तन्मण्डलासीनो मण्डलान्तरभूपतिम् ॥३५१॥

स्वमण्डलजिगीषुः सन्सेवमानो विनश्यति ।
तथोत्तरोत्तरज्ञानसिद्धिप्रेप्सुः समाश्रयन् ॥३५२॥

अधराधरमाचार्यं विनाशमधिगच्छति ।
एवमेवोर्ध्ववर्तिष्णोरागमात्सिद्धिवाञ्छकः ॥३५३॥

मायीयशास्त्रनिरतो विनाशं प्रतिपद्यते ।
उक्तं च श्रीमदानन्दे कर्म संश्रित्य भावतः ॥३५४॥

जुगुप्सते तत्तस्मिंश्च विफलेऽन्यत्समाश्रयेत् ।
दिनाद्दिनं ह्रसंस्त्वेवं पच्यते रौरवादिषु ॥३५५॥

यस्तूर्ध्वोर्ध्वपथप्रेप्सुरधरं गुरुमागमम् ।
जिहासेच्छक्तिपातेन स धन्यः प्रोन्मुखीकृतः ॥३५६॥

अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते ।
शास्त्रान्तरार्थानाश्वस्तान्प्रति संस्कारको विधिः ॥३५७॥

अतश्चाप्युत्तमं शैवं योऽन्यत्र पतितः सहि ।
इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित् ॥३५८॥

अत एव हि सर्वज्ञैर्ब्रह्मविष्ण्वादिभिर्निजे ।
न शासने समाम्नातं लिङ्गोद्धारादि किंचन ॥३५९॥

इत्थं विष्ण्वादयः शैवपरमार्थैकवेदिनः ।
कांश्चित्प्रति तथादिक्षुस्ते मोहाद्विमतिं श्रिताः ॥३६०॥

तथाविधामेव मतिं सत्यसंस्पर्शनाक्षमाम् ।
दृष्ट्वैषां ब्रह्मविष्ण्वाद्यैर्बुद्धैरपि तथोदितम् ॥३६१॥

इत्येष युक्त्यागमतः शक्तिपातो विवेचितः ॥