प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तन्त्रालोकः त्रयोविंशतितममाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके त्रयोविंशतितममाह्निकम्


अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः ॥१॥

यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि ।
सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात् ॥२॥

स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम् ।
योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत् ॥३॥

यो नैवं वेद नैवासावभिषिक्तोऽपि दैशिकः ।
समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते ॥४॥

यो न वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम् ।
स गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते ॥५॥

सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरिष्यते ।
ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे ॥६॥

पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः ।
समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः ॥७॥

न स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना ।
अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः ॥८॥

पश्चात्मना स्वयंभूष्णुर्नाधिकारी स कुत्रचित् ।
भस्माङ्कुरो व्रतिसुतो दुःशीलातनयस्तथा ॥९॥

कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले ।
पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः ॥१०॥

श्रीपूर्वशास्त्रे न त्वेष नियमः कोऽपि चोदितः ।
यथार्थतत्त्वसंघज्ञस्तथा शिष्ये प्रकाशकः ॥११॥

यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम् ।
योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत् ॥१२॥

तथैव सिद्धये सेयमाज्ञेति किल वर्णितम् ।
यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम् ॥१३॥

यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित् ।
देव्या यामलशास्त्रे च काञ्च्यादिपरिवर्जनम् ॥१४॥

तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः ।
गुरवस्तु स्वयंभ्वादि वर्ज्यं यद्यामलादिषु ॥१५॥

कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे ।
अतो देशकुलाचारदेहलक्षणकल्पनाम् ॥१६॥

अनादृत्यैव संपूर्णज्ञानं कुर्याद्गुरुर्गुरुम् ।
प्राग्वत्संपूज्य हुत्वा च श्रावयित्वा चिकीर्षितम् ॥१७॥

ततोऽभिषिञ्चेत्तं शिष्यं चतुःषष्ट्या ततः सकृत् ।
तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः ॥१८॥

विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम् ।
सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः ॥१९॥

अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः ।
उक्तं ज्ञानोत्तरे चैतद्ब्राह्मणाः क्षत्रिया विशः ॥२०॥

नपुंसकाः स्त्रियः शूद्रा ये चान्येऽपि तदर्थिनः ।
ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् ॥२१॥

ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत् ।
दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता ॥२२॥

अन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम् ।
अभिषेकविधौ चास्मै करणीखटिकादिकम् ॥२३॥

सर्वोपकरणव्रातमर्पणीयं विपश्चिते ।
सोऽभिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत् ॥२४॥

ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो ।
दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः ॥२५॥

इत्येवं श्रावयेत्सोऽपि नमस्कृत्याभिनन्दयेत् ।
ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः ॥२६॥

यथेच्छं विचरेद्व्याख्यादीक्षादौ यन्त्रणोज्झितः ।
कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः ॥२७॥

सन्तानो नाधिकारस्य च्यवोऽकुर्वन्न बाध्यते ।
प्राक् च कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते ॥२८॥

यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते ।
न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति ॥२९॥

न दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः ।
योऽस्य स्यान्नरके वास इह च व्याधितो भवेत् ॥३०॥

प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम् ।
सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः ॥३१॥

यदैव तन्मयीभूतस्तदा वीर्यमुपागतः ।
छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ ॥३२॥

हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा ।
लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तिगा ॥३३॥

द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे ।
तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् ॥३४॥

चक्षुर्लोमादिरन्ध्रौघवहज्ज्वालौर्वसंनिभम् ।
यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम् ॥३५॥

तदाज्यधारासंतृप्तमानाभिकुहरान्तरम् ।
एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः ॥३६॥

मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम् ।
अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम् ॥३७॥

समनोन्मनशुद्धात्मपरचक्रसमाश्रितम् ।
यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात् ॥३८॥

तत्र तत्र महामन्त्र इति देव्याख्ययामले ।
विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये ॥३९॥

तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने ।
तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ॥४०॥

प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ।
कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः ॥४१॥

कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन ।
रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः ॥४२॥

आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने ।
नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले ॥४३॥

चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत्प्रिये ।
देहसंबन्धसंछन्नसार्वज्ञ्यो दम्भभाजनम् ॥४४॥

अविदन्दीक्षमाणोऽपि न दुष्येद्दैशिकः क्वचित् ।
ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् ॥४५॥

बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ च तं पुनः ।
भूय एव परीक्षेत तत्तदौचित्यशालिनम् ॥४६॥

तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात् ।
ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः ॥४७॥

तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत् ।
सत्यं कापि प्रबुद्धासाविच्छा रूढिं न गच्छति ॥४८॥

विद्युद्वत्पापशीलस्य यथा पापापवर्जने ।
रूढ्यरूढी तदिच्छाया अपि शंभुप्रसादतः ॥४९॥

अप्ररूढतथेच्छाकस्तत एव न भाजनम् ।
यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः ॥५०॥

लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत् ।
अज्ञातेऽपि पुनर्ज्ञाते विज्ञानहरणं चरेत् ॥५१॥

पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः ।
तदा तमग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत् ॥५२॥

ततो निजहृदम्भोजबोधाम्बरतलोदिताम् ।
स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम् ॥५३॥

वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम् ।
चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत् ॥५४॥

अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः ।
विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् ॥५५॥

ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत् ।
अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते ॥५६॥

उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम् ।
तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः ॥५७॥

किंत्वेष वामया शक्त्या मूढो गाढं विभोः कृतः ।
स्वभावादेव तेनास्य विद्याद्यमपकारकम् ॥५८॥

गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम् ।
कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत् ॥५९॥

अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये ।
योजनानुग्रहे कार्यचतुष्केऽधिकृतो गुरुः ॥६०॥

शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम् ।
तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः ॥६१॥

अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम् ।
गुरोर्मूढतया कोपधामापि न तिरोहितः ॥६२॥

गुरुर्हि कुपितो यस्य स तिरोहित उच्यते ।
संसारी सतु देवो हि गुरुर्न च मृषाविदः ॥६३॥

तत एव च शास्त्रादिदूषको यद्यपि क्रुधा ।
न दह्यतेऽसौ गुरुणा तथाप्येष तिरोहितः ॥६४॥

अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ ।
न कुप्येन्न शपेद्धीमान् स ह्यनुग्राहकः सदा ॥६५॥

ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत् ।
किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता ॥६६॥

शिवाभिन्नोऽपि हि गुरुरनुग्रहमयीं विभोः ।
मुख्यां शक्तिमुपासीनोऽनुगृह्णीयात्स सर्वथा ॥६७॥

स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम् ।
न कार्यं पततां हस्तालम्बः सह्यो न पातनम् ॥६८॥

अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम् ।
प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः ॥६९॥

ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम् ।
अधःशास्त्रं प्रपद्यापि न श्रेयःपात्रतामियात् ॥७०॥

अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः ।
ऊर्ध्वशासनभाक् पापं तच्चोज्झेच्च शिवीभवेत् ॥७१॥

राज्ञे द्रुह्यन्नमात्याङ्गभूतोऽपि हि विहन्यते ।
विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत् ॥७२॥

श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः ।
अत्र ह्यर्थोऽयमेतावत्पूर्वोक्तज्ञानवृंहितः ॥७३॥

गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते ।
तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना ॥७४॥

अनुद्धृतस्य न श्रेय एतदन्यगुरूद्धृतेः ।
अत एवाम्बुजन्मार्कदृष्टान्तोऽत्र निरूपितः ॥७५॥

त्रिजगज्ज्योतिषो ह्यन्यत्तेजोऽन्यच्च निशाकृतः ।
ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम् ॥७६॥

अत एव पुराभूतगुर्वभावो यदा तदा ।
तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः ॥७७॥

सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम् ।
स्यादन्यतरगो दोषो योऽधिकारापघातकः ॥७८॥

दोषश्चेह न लोकस्थो दोषत्वेन निरूप्यते ।
अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः ॥७९॥

शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता ।
मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः ॥८०॥

न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते ।
असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात् ॥८१॥

एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत् ।
नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति ॥८२॥

अज्ञानादय एवैते दोषा न लौकिका गुरोः ।
इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे ॥८३॥

न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम् ।
स एव तद्विजानाति युक्तं चायुक्तमेव वा ॥८४॥

अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु ।
तदा निवारणीयोऽसौ प्रणतेन विपश्चिता ॥८५॥

विशेषणमकार्याणामुक्ताभिप्रायमेव यत् ।
तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते ॥८६॥

तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत् ।
न ह्यस्य स गुरुत्वे स्याद्दोषो येनोषरे कृषिम् ॥८७॥

कुर्याद्व्रजेन्निशायां वा स त्वर्थप्राणहारकः ।
तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् ॥८८॥

यतस्तदप्रियं नैष शृणुयादिति भाषितम् ।
श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः ॥८९॥

यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम् ।
तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् ॥९०॥

उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात् ।
शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम् ॥९१॥

दृढानुरागसुभगसंरम्भाभोगभागिनः ।
स्वोल्लासि स्मरसर्वस्यं दार्ढ्यायान्यत्र दृश्यते ॥९२॥

नन्वेष कस्माद्दृष्टान्तः किमेतेनाशुभं कृतम् ।
चित्स्पन्दः सर्वगो भिन्नादुपाधेः स तथा तथा ॥९३॥

भवेत्कोऽपि तिरोभूतः पुनरुन्मुखितोऽपि सन् ।
विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते ॥९४॥

प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद्गतः ।
असंभाव्यतया चात्र दृढकोपप्रसादवत् ॥९५॥

इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः ।
अन्यथा न शिवं यायाच्छ्रीमत्सारे च वर्णितम् ॥९६॥

अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम् ।
तेऽर्धनारीशपुरगा गुरवः समयच्युताः ॥९७॥

अन्यत्राप्यधिकारं च नेयाद्विद्येशतां व्रजेत् ।
अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः ॥९८॥

इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः ।
भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः ॥९९॥

षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः ।
एषा कर्मप्रधानानां गुरूणां गतिरुच्यते ॥१००॥

ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम् ।
साधकस्याभिषेकेऽपि सर्वोऽयं कथ्यते विधिः ॥१०१॥

अधिकारार्पणं नात्र नच विद्याव्रतं किल ।
साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे ॥१०२॥

समस्तेऽप्युपदेशः स्यान्निजोपकरणार्पणम् ।
अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः ॥१०३॥