प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तन्त्रालोकः

अथ श्रीतन्त्रालोके दशममाह्निकम्

उच्यते त्रिकशास्त्रेकरहस्यं तत्त्वभेदनम् ॥१॥

तेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम् ।
भेदान्तरमपि प्रोक्तं शास्त्रेऽत्र श्रीत्रिकाभिधे ॥२॥

शक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम् ।
भिद्यते पञ्चदशधा स्वरूपेण सहानरात् ॥३॥

कलान्तं भेदयुग्घीनं रुद्रवत्प्रलयाकलः ।
तद्वन्माया च नवधा ज्ञाकलाः सप्तधा पुनः ॥४॥

मन्त्रास्तदीशाः पाञ्चध्ये मन्त्रेशपतयस्त्रिधा ।
शिवो न भिद्यते स्वैकप्रकाशघनचिन्मयः ॥५॥

शिवो मन्त्रमहेशेशमन्त्रा अकलयुक्कली ।
शक्तिमन्तः सप्त तथा शक्तयस्तच्चतुर्दश ॥६॥

स्वं स्वरूपं पञ्चदशं तद्भूः पञ्चदशात्मिका ।
तथाहि तिस्रो देवस्य शक्तयो वर्णिताः पुरा ॥७॥

ता एव मातृमामेयत्रैरूप्येण व्यवस्थिताः ।
परांशो मातृरूपोऽत्र प्रमाणांशः परापरः ॥८॥

मेयोऽपरः शक्तिमांश्च शक्तिः स्वं रूपमित्यदः ।
तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् ॥९॥

मातृमानाद्युपधिभिरसंजातोपरागकम् ।
सकलादिशिवान्तैस्तु मातृभिर्वेद्यतास्य या ॥१०॥

शक्तिमद्भिरनुद्भूतशक्तिभिः सप्त तद्भिदः ।
सकलादिशिवान्तानां शक्तिषूद्रेचितात्मसु ॥११॥

वेद्यताजनिताः सप्त भेदा इति चतुर्दश ।
सकलस्य प्रमाणांशो योऽसौ विद्याकलात्मकः ॥१२॥

सामान्यात्मा स शक्तित्वे गणितो नतु तद्भिदः ।
लयाकलस्य मानांशः स एव परमस्फुटः ॥१३॥

ज्ञानाकलस्य मानं तु गलद्विद्याकलावृति ।
अशुद्धविद्याकलनाध्वंससंस्कारसंगता ॥१४॥

प्रबुभुत्सुः शुद्धविद्या सन्त्राणां करणं भवेत् ।
प्रबुद्धा शुद्धविद्या तु तत्संस्कारेण संगता ॥१५॥

मानं मन्त्रेश्वराणां स्यात्तत्संस्कारविवर्जिता ।
मानं मन्त्रमहेशानां करणं शक्तिरुच्यते ॥१६॥

स्वातन्त्र्यमात्रसद्भावा या त्विच्छा शक्तिरैश्वरी ।
शिवस्य सैव करणं तया वेत्ति करोति च ॥१७॥

आ शिवात्सकलान्तं ये मातारः सप्त ते द्विधा ।
न्यग्भूतोद्रिक्तशक्तित्वात्तद्भेदो वेद्यभेदकः ॥१८॥

तथाहि वेद्यता नाम भावस्यैव निजं वपुः ।
चैत्रेण वेद्यं वेद्मीति किंह्यत्र प्रतिभासताम् ॥१९॥

ननु चैत्रीयविज्ञानमात्रमत्र प्रकाशते ।
वेद्यताख्यस्तु नो धर्मो भाति भावस्य नीलवत् ॥२०॥

वेद्यता च स्वभावेन धर्मो भावस्य चेत्ततः ।
सर्वान्प्रत्येव वेद्यः स्याद्धटनीलादिधर्मवत् ॥२१॥

अथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक् ।
भावस्तथापि दोषोऽसौ कुविन्दकृतवस्त्रवत् ॥२२॥

वेद्यताख्यस्तु यो धर्मः सोऽवेद्यश्चेत्खपुष्पवत् ।
वेद्यश्चेदस्ति तत्रापि वेद्येतत्यनवस्थितिः ॥२३॥

ततो न किंचिद्वेद्यं स्यान्मूर्छितं तु जगद्भवेत् ।
ननु विज्ञात्रुपाध्यं शो पस्कृतं वपुरुच्यताम् ॥२४॥

भावस्यार्थप्रकाशात्म यथा ज्ञानमिदं त्वसत् ।
एकविज्ञातृवेद्यत्वे न ज्ञात्रन्तरवेद्यता ॥२५॥

समस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता ।
तस्मान्न वेद्यता नाम भावधर्मोऽस्ति कश्चन ॥२६॥

भावस्य वेद्यता सैव संविदो यः समुद्भवः ।
अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि ॥२७॥

समवैति प्रकाश्योऽर्थस्तं प्रत्येषैव वेद्यता ।
अत्र ब्रूमः पदार्थानां न धर्मो यदि वेद्यता ॥२८॥

अवेद्या एव ते संस्युर्ज्ञाने सत्यपि वर्णिते ।
यथाहि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि ॥२९॥

अतदात्मा पटो नैति पृथुबुध्नादिरूपताम् ।
तथा सत्यपि विज्ञाने विज्ञातृसमवायिनि ॥३०॥

अवेद्यधर्मका भावाः कथं वेद्यत्वमाप्नुयुः ।
अनर्थः सुमहांश्चैष दृश्यतां वस्तु यत्स्वयम् ॥३१॥

प्रकाशात्म न तत्संविच्चाप्रकाशा तदाश्रयः ।
अप्रकाशो मनोदीपचक्षुरादि तथैव तत् ॥३२॥

किं तत्प्रकाशतां नाम सुप्ते जगति सर्वतः ।
ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत् ॥३३॥

अपूर्वमत्र विदितं नरीनृत्यामहे ततः ।
अर्थप्रकाशो ज्ञानस्य यद्रूपं तन्निरूप्यताम् ॥३४॥

अर्थः प्रकाशश्चेद्रूपमर्थो वा ज्ञानमेव वा ।
अथार्थस्य प्रकाशो यस्तद्रूपमिति भण्यते ॥३५॥

षष्ठी कर्तरि चेदुक्तो दोष एव दुरुद्धरः ।
अथ कर्मणि षष्ठ्येषा ण्यर्थस्तत्र हृदि स्थितः ॥३६॥

तथा चेदं दर्शयामः किं प्रकाशः प्रकाशते ।
अप्रकाशोऽपि नैवासौ तथापि च न किंचन ॥३७॥

तर्हि लोके कथं ण्यर्थः उच्यते चेतनस्थितौ ।
मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः ॥३८॥

तथाहि गन्तुं शक्तोऽपि चैत्रोऽन्यायत्ततां गतेः ।
मन्वान एव वक्त्यस्मि गमितः स्वामिनेति हि ॥३९॥

स्वाम्यप्यस्य गतौ शक्तिं बुद्ध्वा स्वाधीनतां स्फुटम् ।
पश्यन्निवृत्तिमाशंक्य गमयामीति भाषते ॥४०॥

प्रेर्यप्रेरकयोरेवं मौलिकी ण्यर्थसंगतिः ।
तदभिप्रायतोऽन्योऽपि लोके व्यवहरेत्तथा ॥४१॥

शरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम् ।
विदधत्प्रेरकम्मन्य उपचारेण जायते ॥४२॥

वायुरद्रिं पातयतीत्यत्र द्वावपि तौ जडौ ।
द्रष्टृभिः प्रेरकप्रेर्यवपुषा परिकल्पितौ ॥४३॥

इत्थं जडेन संबन्धे न मुख्या ण्यर्थसंगतिः ।
आस्तामन्यत्र विततमेतद्विस्तरतो मया ॥४४॥

अर्थे प्रकाशना सेयमुपचारस्ततो भवेत् ।
अस्तु चेद्भासते तर्हि स एव पतदद्रिवत् ॥४५॥

उपचारे निमित्तेन केनापि किल भूयते ।
वायुः पातयतीत्यत्र निमित्तं तत्कृता क्रिया ॥४६॥

गिरौ येनैष संयोगनाशाद्भ्रंशं प्रपद्यते ।
इह तु ज्ञानमर्थस्य न किंचित्करमेव तत् ॥४७॥

उपचारः कथं नाम भवेत्सोऽपि ह्यवस्तुसन् ।
अप्रकाशित एवार्थः प्रकाशत्वोपचारतः ॥४८॥

तादृगेव शिशुः किं हि दहत्यग्न्युपचारतः ।
शिशौ वह्न्युपचारे यद्बीजं तैक्ष्ण्यादि तच्च सत् ॥४९॥

प्रकाशत्वोपचारे तु किं बीजं यत्र सत्यता ।
सिद्धे हि चेतने युक्त उपचारः स हि स्फुटम् ॥५०॥

अध्यारोपात्मकः सोऽपि प्रतिसंधानजीवितः ।
न चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः ॥५१॥

अप्रकाशं तदन्येन तत्प्रकाशेऽप्ययं विधिः ।
ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम् ॥५२॥

अत्रापि न वहन्त्येताः किं नु युक्तिविकल्पनाः ।
यादृशा स्वेन रूपेण दीपो रूपं प्रकाशयेत् ॥५३॥

तादृशा स्वयमप्येष भाति ज्ञानं तु नो तथा ।
प्रदीपश्चैष भावानां प्रकाशत्वं ददा[धा]त्यलम् ॥५४॥

अन्यथा न प्रकाशेरन्नभेदे चेदृशो विधिः ।
तस्मात्प्रकाश एवायं पूर्वोक्तः परमः शिवः ॥५५॥

यथा यथा प्रकाशेत तत्तद्भाववपुः स्फुटम् ।
एवं च नीलता नाम यथा काचित्प्रकाशते ॥५६॥

तद्वच्चकास्ति वेद्यत्वं तच्च भावांशपृष्ठगम् ।
फलं प्रकटतार्थस्य संविद्वेति द्वयं ततः ॥५७॥

विपक्षतो रक्षितं च संधानं चापि तन्मिथः ।
तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम् ॥५८॥

बुद्ध्वा नादत्त एवाशु परीप्साविवशोऽपि सन् ।
सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम् ॥५९॥

स्वं देहममृतेनेव सिक्तं पश्यति कामुकः ।
न चैतज्ज्ञानसंवित्तिमात्रं भावांशपृष्ठगम् ॥६०॥

अर्थक्रियाकरं तच्चेन्न धर्मः कोन्वसौ भवेत् ।
यच्चोक्तं वेद्यताधर्मा भावः सर्वानपि प्रति ॥६१॥

स्यादित्येतत्स्वपक्षघ्नं दुष्प्रयोगास्त्रवत्तव ।
अस्माकं तु स्वप्रकाशशिवतामात्रवादिनाम् ।६२॥

अन्यं प्रति चकास्तीति वच एव न विद्यते ।
सर्वान्प्रति च तन्नीलं स घटश्चेति यद्वचः ॥६३॥

तदप्यविदितप्रायं गृहीतं मुग्धबुद्धिभिः ।
नहि कालाग्निरुद्रीयकायावगतनीलिमा ॥६४॥

तव नीलः किं नु पीतो मैवं भून्नतु नीलकः ।
न कंचित्प्रति नीलोऽसौ नीलो वा यं प्रति स्थितः ॥६५॥

तं प्रत्येव स वेद्यः स्यात्संकल्पद्वारकोऽन्ततः ।
यथा चार्थप्रकाशात्म ज्ञानं संगीर्यते त्वया ॥६६॥

तथा तज्ज्ञातृवेद्यत्वं भावीयं रूपमुच्यताम् ।
न च ज्ञातात्र नियतः कश्चिज्ज्ञाने यथा तव ॥६७॥

अर्थे ज्ञाता यदा यो यस्तद्वेद्यं वपुरुच्यताम् ।
तत्तद्विज्ञातृवेद्यत्वं सर्वान्प्रत्येव भासताम् ॥६८॥

इत्येवं चोदयन्मन्ये व्रजेद्बधिरधुर्यताम् ।
नह्यन्यं प्रति वै कंचिद्भाति सा वेद्यता तथा ॥६९॥

भावस्य रूपमित्युक्ते केयमस्थानवैधुरी ।
अनेन नीतिमार्गेण निर्मूलमपसारिता ॥७०॥

अनवस्था तथा ह्यन्यैर्नीलाद्यैः सदृशी न सा ।
वेद्यता किंतु धर्मोऽसौ यद्योगात्सर्वधर्मवान् ॥७१॥

धर्मी वेद्यत्वमभ्येति स सत्तासमवायवत् ।
ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः ॥७२॥

समवायोऽपि संश्लिष्टः श्लिष्टानश्लिष्टताजुषः ।
अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान् ॥७३॥

व्यावृत्तान् श्वेतिमा शुक्लमशुक्लं गमनं तथा ।
तद्वन्नीलादिधर्मांशयुक्तो धर्मी स्वयं स्थितः ॥७४॥

अवेद्यो वेद्यतारूपाद्धर्माद्वेद्यत्वमागतः ।
वेद्यता भासमाना च स्वयं नीलादिधर्मवत् ॥७५॥

अप्रकाशा स्वप्रकाशाद्धर्मादेति प्रकाशताम् ।
प्रकाशे खलु विश्रान्तिं विश्वं श्रयति चेत्ततः ॥७६॥

नान्या काचिदपेक्षास्य कृतकृत्यस्य सर्वतः ।
यथा च शिवनाथेन स्वातन्त्र्याद्भास्यते भिदा ॥७७॥

नीलादिवत्तथैवायं वेद्यता धर्म उच्यते ।
एवं सिद्धं हि वेद्यत्वं भावधर्मोऽस्तु का घृणा ॥७८॥

इदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः ।
वेद्यत्वमेकरूपं स्याच्चातुर्दश्यमतः कुतः ॥७९॥

उच्यते परिपूर्णं चेद्भावीयं रूपमुच्यते ।
तद्विभुर्भैरवो देवो भगवानेव भण्यते ॥८०॥

अथ तन्निजमाहात्म्यकल्पितोंऽशांशिकाक्रमः ।
सह्यते किं कृतं तर्हि प्रोक्तकल्पनयानया ॥८१॥

अत एव यदा येन वपुषा भाति यद्यथा ।
तदा तथा तत्तद्रूपमित्येषोपनिषत्परा ॥८२॥

चैत्रेण वेद्यं जानामि द्वाभ्यां बहुभिरप्यथ ।
मन्त्रेण तन्महेशेन शिवेनोद्रिक्तशक्तिना ॥८३॥

अन्यादृशेन वेत्येवं भावो भाति यथा तथा ।
अर्थक्रियादिवैचित्र्यमभ्येत्यपरिसंख्यया ॥८४॥

तथा ह्येकाग्रसकलसामाजिकजनः खलु ।
नृत्तं गीतं सुधासारसागरत्वेन मन्यते ॥८५॥

तत एवोच्यते मल्लनटप्रेक्षोपदेशने ।
सर्वप्रमातृतादात्म्यं पूर्णरूपानुभावकम् ॥८६॥

तावन्मात्रार्थसंवित्तितुष्टाः प्रत्येकशो यदि ।
कः संभूय गुणस्तेषां प्रमात्रैक्यं भवेच्च किम् ॥८७॥

यदा तु तत्तद्वेद्यत्वधर्मसंदर्भगर्भितम् ।
तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा ॥८८॥

शास्त्रेऽपि तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम् ।
भूयसैव तथाच श्रीमालिनीविजयोत्तरे ॥८९॥

तथा षड्विधमध्वानमनेनाधिष्ठितं स्मरेत् ।
अधिष्ठानं हि देवेन यद्विश्वस्य प्रवेदनम् ॥९०॥

तदीशवेद्यत्वेनेत्थं ज्ञातं प्रकृतकार्यकृत् ।
एवं सिद्धं वेद्यताख्यो धर्मो भावस्य भासते ॥९१॥

तदनाभासयोगे तु स्वरूपमिति भण्यते ।
उपाधियोगिताशङ्कामपहस्तयतोऽस्फुटम् ॥९२॥

स्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः ।
जानामि घटमित्यत्र वेद्यतानुपरागवान् ॥९३॥

घट एव स्वरूपेण भात इत्यपदिश्यते ।
ननु तत्र स्वयंवेद्यभावो मन्त्राद्यपेक्षया ॥९४॥

अपि चास्त्येव नन्वस्तु नतु सन्प्रतिभासते ।
अवेद्यमेव कालाग्निवपुर्मेरोः परा दिशः ॥९५॥

ममेति संविदि परं शुद्धं वस्तु प्रकाशते ।
भातत्वाद्वेद्यमपि तन्न वेद्यत्वेन भासनात् ॥९६॥

अवेद्यमेव भानं हि तथा कमनुयुञ्ज्महे ।
एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः ॥९७॥

अव्यक्तान्ता यतोऽस्त्येषां सकलं प्रति वेद्यता ।
यत्तूच्यते कलाद्येन धरान्तेन समन्विताः ॥९८॥

सकला इति तत्कोशषट्कोद्रेकोपलक्षणम् ।
उद्भूताशुद्धचिद्रागकलादिरसकञ्चुकाः ॥९९॥

सकलालयसंज्ञास्तु न्यग्भूताखिलकञ्चुकाः ।
ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः ॥१००॥

तेन प्रधाने वेद्येऽपि पुमानुद्भूतकञ्चुकः ।
प्रमातास्त्येव सकलः पाञ्चदश्यमतः स्थितम् ॥१०१॥

पाञ्चदश्यं धराधन्तर्निविष्टे सकलेऽपि च ।
सकलान्तरमस्त्येव प्रमेयेऽत्रापि मातृ हि ॥१०२॥

स्थूलावृतादिसंकोचतदन्यव्याप्तृताजुषः ।
पीताद्याः स्थिरकम्प्रत्वाच्चतुर्दश धरादिषु ॥१०३॥

स्वरूपीभूतजडताः प्राणदेहपथे ततः ।
प्रमातृताजुषः प्रोक्ता धारणा विजयोत्तरे ॥१०४॥

यदा तु मेयता पुंसः कलान्तस्य प्रकल्प्यते ।
तदुद्भूतः कञ्चुकांशो मेयो नास्य प्रमातृता ॥१०५॥

अतः सकलसंज्ञस्य प्रमातृत्वं न विद्यते ।
त्रयोदशत्वं तच्छक्तिशक्तिमद्द्वयवर्जनात् ॥१०६॥

न्यग्भूतकञ्चुको माता युक्त[यत]स्तत्र लयाकलः ।
मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु ॥१०७॥

मायातत्त्वे ज्ञेयरूपे कञ्चुकन्यग्भवोऽपि यः ।
सोऽपि मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका ॥१०८॥

विज्ञानाकल एवात्र ततो मातापकञ्चुकः ।
मायानिविष्टेऽप्यकले तथेत्येकादशात्मता ॥१०९॥

विज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते ।
उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता ॥११०॥

तेऽपि मन्त्रा यदा मेयास्तदा माता तदीश्वरः ।
स ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम् ॥१११॥

उद्भूतपूर्णरूपोऽसौ माता मन्त्रमहेश्वरः ।
तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः ॥११२॥

प्रमाता स्वकतादात्म्यभासिताखिलवेद्यकः ।
शिवः प्रमाता नो मेयो ह्यन्याधीनप्रकाशता ॥११३॥

मेयता सा न तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः ।
स्वप्रकाशेऽत्र कस्मिंश्चिदनभ्युपगते सति ॥११४॥

अप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा ।
ततश्च सुप्तं विश्वं स्यान्न चैवं भासते हि तत् ॥११५॥

अन्याधीनप्रकाशं हि तद्भात्यन्यस्त्वसौ शिवः ।
इत्यस्य स्वप्रकाशत्वे किमन्यैर्युक्तिडम्बरैः ॥११६॥

मानानां हि परो जीवः स एवेत्युक्तमादितः ।
नन्वस्ति स्वप्रकाशेऽपि शिवे वेद्यत्वमीदृशः ॥११७॥

उपदेशो[श्यो]पदेष्टृत्वव्यवहारोऽन्यथा कथम् ।
सत्यं स तु तथा सृष्टः परमेशेन वेद्यताम् ॥११८॥

नीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते ।
तथाभूतश्च वेद्योऽसौ नानवच्छिन्नसंविदः ॥११९॥

पूर्णस्य वेद्यता युक्ता परस्परविरोधतः ।
तथा वेद्यस्वभावेऽपि वस्तुतो न शिवात्मताम् ॥१२०॥

कोऽपि भावः प्रोज्झतीति सत्यं तद्भावना फलेत् ।
श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते ॥१२१॥

साक्षात्पदेनायमर्थः समस्तः प्रस्फुटीकृतः ।
नन्वेकरूपतायुक्तः शिवस्तद्वशतो भवेत् ॥१२२॥

त्रिवेदतामन्त्रमहानाथे कात्र विवादिता ।
महेश्वरेशमन्त्राणां तथा केवलिनोर्द्वयोः ॥१२३॥

अनन्तभेदतैकैकं स्थिता सकलवत्किल ।
ततो लयाकले मेये प्रमातास्ति लयाकलः ॥१२४॥

अतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता ।
विज्ञानाकलवेद्यत्वेऽप्यन्यो ज्ञानाकलो भवेत् ॥१२५॥

माता तदेकादशता स्यान्नैव तु नवात्मता ।
एवं मन्त्रतदीशानां मन्त्रेशान्तरसंभवे ॥१२६॥

वेद्यत्वान्नव सप्त स्युः सप्त पञ्च तु ते कथम् ।
उच्यते सत्यमस्त्येषा कलना किंतु सुस्फुटः ॥१२७॥

यथात्र सकले भेदो न तथा त्वकलादिके ।
अनन्तावान्तरेदृक्षयोनिभेदवतः स्फुटम् ॥१२८॥

चतुर्दशविधस्यास्य सकलस्यास्ति भेदिता ।
लयाकले तु संस्कारमात्रात्सत्यप्यसौ भिदा ॥१२९॥

अकलेन विशेषाय सकलस्यैव युज्यते ।
विज्ञानकेवलादीनां तावत्यपि न वै भिदा ।१३०॥

शिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते ।
इत्याशयेन संपश्यन्विशेषं सकलादिह ॥१३१॥

लयाकलादौ नोवाच त्रायोदश्यादिकं विभुः ।
नन्वस्तु वेद्यता भावधर्मः किंतु लयाकलौ ॥१३२॥

मन्वाते नेह वै किंचित्तदपेक्षा त्वसौ कथम् ।
श्रूयतां संविदैकात्म्यतत्त्वेऽस्मिन्संव्यवस्थिते ॥१३३॥

जडेऽपि चितिरस्त्येव भोत्स्यमाने तु का कथा ।
स्वबोधावसरे तावद्भोत्स्यते लयकेवली ॥१३४॥

द्विविधश्च प्रबोधोऽस्य मन्त्रत्वाय भवाय च ।
भावनादिबलादन्यवैष्णवादिनयोदितात् ॥१३५॥

यथास्वमाधरौत्तर्यविचित्रात्संस्कृतस्तथा ।
लीनः प्रबुद्धो मन्त्रत्वं तदीशत्वमथैति वा ॥१३६॥

स्वातन्त्र्यवर्जिता ये तु बलान्मोहवशीकृताः ।
लयाकलात्स्वसंस्कारात्प्रबुद्ध्यन्ते भवाय ते ॥१३७॥

ज्ञानाकलोऽपि मन्त्रेशमहेशत्वाय बुध्यते ।
मन्त्रादित्वाय वा जातु जातु संसृतयेऽपि वा ॥१३८॥

अवतारो हि विज्ञानियोगिभावेऽस्य भिद्यते ।
उक्तं च बोधयामास स सिसृक्षुर्जगत्प्रभुः ॥१३९॥

विज्ञानकेवलानष्टाविति श्रीपूर्वशासने ।
अतः प्रभोत्स्यमानत्वे यानयोर्बोधयोग्यता ॥१४०॥

तद्बलाद्वेद्यतायोग्यभावेनैवात्र वेद्यता ।
तथाहि गाढनिद्रेऽपि प्रियेऽनाशङ्कितागताम् ॥१४१॥

मां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका ।
एवं शिवोऽपि मनुते एतस्यैतत्प्रवेद्यताम् ॥१४२॥

यास्यतीति सृजामीति तदानीं योग्यतैव सा ।
वेद्यता तस्य भावस्य भोक्तृता तावती च सा ॥१४३॥

लयाकलस्य चित्रो हि भोगः केन विकल्प्यते ।
यथा यथा हि सम्वित्तिः स हि भोगः स्फुटोऽस्फुटः ॥१४४॥

स्मृतियोग्योऽप्यन्यथा वा भोग्यभावं न तूज्झति ।
गाढनिद्राविमूढोऽपि कान्तालिङ्गितविग्रहः ॥१४५॥

भोक्तैव भण्यते सोऽपि मनुते भोक्तृतां पुरा ।
उत्प्रेक्षामात्रहीनोऽपि कांचित्कुलवधूं पुरः ॥१४६॥

संभोक्ष्यमाणां दृष्ट्वैव रभसाद्याति संमदम् ।
तामेव दृष्ट्वा च तदा समानाशयभागपि ॥१४७॥

अन्यस्तथा न संवित्ते कमत्रोपलभामहे ।
लोके रूढमिदं दृष्टिरस्मिन्कारणमन्तरा ॥१४८॥

प्रसीदतीव मग्नेव निर्वातीवेतिवादिनि ।
इत्थं विस्तरतस्तत्त्वभेदोऽयं समुदाहृतः ॥१४९॥

शक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि ।
भेदेष्वन्योन्यतो भेदात्तथा तत्त्वान्तरैः सह ॥१५०॥

भेदोपभेदगणनां कर्वतो नावधिः क्वचित् ।
तत एव विचित्रोऽयं भुवनादिविधिः स्थितः ॥१५१॥

पार्थिवत्वेऽपि नो साम्यं रुद्रवैष्णवलोकयोः ।
का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके ॥१५२॥

स च नो विस्तरः साक्षाच्छक्यो यद्यपि भाषितुम् ।
तथापि मार्गमात्रेण कथ्यमानो विविच्यताम् ॥१५३॥

सप्तानां मातृशक्तीनामन्योन्यं भेदने सति ।
रूपमेकान्नपञ्चाशत्स्वरूपं चाधिकं ततः ॥१५४॥

सर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि ।
लयाकलादिशक्तीनां संभवोऽस्त्येव तत्त्वतः ॥१५५॥

स त्वस्फुटोऽस्तु भेदांशं दातुं तावत्प्रभुर्भवेत् ।
तेषामपि च भेदानामन्योन्यं बहुभेदता ॥१५६॥

मुख्यानां भेदभेदानां जलाद्यैर्भेदने सति ।
मुख्यभेदप्रकारेण विधेरानन्त्यमुच्यते ॥१५७॥

सकलस्य समुद्भूताश्चक्षुरादिस्वशक्तयः ।
न्यग्भूताश्च प्रतन्वन्ति भेदान्तरमपि स्फुटम् ॥१५८॥

एवं लयाकलादीनां तत्संस्कारपदोदितात् ।
पाटवात्प्रक्षयाद्वापि भेदान्तरमुदीयते ॥१५९॥

न्यक्कृतां शक्तिमास्थायाप्युदासीनतया स्थितिम् ।
अनाविश्येव यद्वेत्ति तत्रान्या वेद्यता खलु ॥१६०॥

आविश्येव निमज्ज्येव विकास्येव विघूर्ण्य च ।
विदतो वेद्यतान्यैव भेदोऽत्रार्थक्रियोचितः ॥१६१॥

अन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये ।
भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत् ॥१६२॥

तिरोभावोद्भवौ शक्तेः स्वशक्त्यन्तरतोऽन्यतः ।
चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम् ॥१६३॥

एवमेतद्धरादीनां तत्त्वानां यावती दशा ।
काचिदस्ति घटाख्यापि तत्र संदर्शिता भिदः ॥१६४॥

अत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह ।
ततः सकलवेद्योऽसौ घटः सकल एव हि ॥१६५॥

यावच्छिवैकवेद्योऽसौ शिव एवावभासते ।
तावदेकशरीरो हि बोधो भात्येव यावता ॥१६६॥

अधुनात्र समस्तस्य धरातत्त्वस्य दर्श्यते ।
सामस्त्य एवाभिहितं पाञ्चदश्यं पुरोदितम् ॥१६७॥

धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते ।
स एव शिवनाथोऽत्र पृथिवी ब्रह्म तन्मतम् ॥१६८॥

धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान् ।
प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः ॥१६९॥

प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम् ।
धरातत्त्वगतं योगमभ्यस्य शिवविद्यया ॥१७०॥

न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा ।
अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः ॥१७१॥

तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः ।
सौषुप्तावस्थयोपेतास्तेऽत्र प्रलयकेवलाः ॥१७२॥

सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते ।
अन्यथा नियतस्वप्नसंदृष्टिर्जायते कुतः ॥१७३॥

सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते ।
अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् ॥१७४॥

यदैव स क्षणं सूक्ष्मं निद्रायैव प्रबुद्ध्यते ।
तदैव स्मृतिरेषेति नार्थजज्ञानजा स्मृतिः ॥१७५॥

तेन मूढैर्यदुच्येत प्रबुद्धस्यान्तरान्तरा ।
तूलिकादिसुखस्पर्शस्मृतिरेषेति तत्कुतः ॥१७६॥

माहाकर्मसमुल्लाससंमिश्रितमलाबिलाः ।
धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः ॥१७७॥

अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने ।
प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं स्फुटम् ॥१७८॥

शिवो ह्यच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः ।
ताः स्वातन्त्र्यवशोपात्तग्रहीत्राकारतावशात् ॥१७९॥

त्रिधा मन्त्रावसानाः स्युरुदासीना इव स्थिताः ।
ग्राह्याकारोपरागात्तु ग्रहीत्राकारतावशात् ॥१८०॥

सकलान्तास्तु तास्तिस्र इच्छाज्ञानक्रिया मताः ।
सप्तधेत्थं प्रमातृत्वं तत्क्षोभो मानता तथा ॥१८१॥

यत्तु ग्रहीतृतारूपसंवित्संस्पर्शवर्जितम् ।
शुद्धं जडं तत्स्वरूपमित्थं विश्वं त्रिकात्मकम् ॥१८२॥

एवं जलाद्यपि वदेद्भेदैर्भिन्नं महामतिः ।
अनया तु दिशा प्रायः सर्वभेदेषु विद्यते ॥१८३॥

भेदो मन्त्रमहेशान्तेष्वेष पञ्चदशात्मकः ।
तथापि स्फुटताभावात्सन्नप्येष न चर्चितः ॥१८४॥

एतच्च सूत्रितं धात्रा श्रीपूर्वे यद्ब्रवीति हि ।
सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम् ॥१८५॥

अभिन्नेऽपि शिवेऽन्तःस्थसूक्ष्मबोधानुसारतः ।
अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते ॥१८६॥

भेदोऽयं पाञ्चदश्यादिर्यथा श्रीशंभुरादिशत् ।
समस्तेऽर्थेऽत्र निर्ग्राह्ये तुटयः षोडश क्षणाः ॥१८७॥

षट्त्रिंशदङ्गुले चारे सांशद्व्यङ्गुलकल्पिताः ।
तत्राद्यः परमाद्वैतो निर्विभागरसात्मकः ॥१८८॥

द्वितीयो ग्राहकोल्लासरूपः प्रतिविभाव्यते ।
अन्त्यस्तु ग्राह्यतादात्म्यात्स्वरूपीभावमागतः ॥१८९॥

प्रविभाव्यो न हि पृथगुपान्त्यो ग्राहकः क्षणः ।
तृतीयं क्षणमारभ्य क्षणषट्कं तु यत्स्थितम् ॥१९०॥

तन्निर्विकल्पं प्रोद्गच्छद्विकल्पाच्छादनात्मकम् ।
तदेव शिवरूपं हि परशक्त्यात्मकं विदुः ॥१९१॥

द्वितीयं मध्यमं षट्कं परापरपदात्मकम् ।
विकल्परूढिरप्येषा क्रमात्प्रस्फुटतां गता ॥१९२॥

षट्केऽत्र प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम् ।
निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः ॥१९३॥

एवं द्वितीयषट्केऽपि किं त्वत्र ग्राह्यवर्त्मना ।
उपरागपदं प्राप्य परापरतया स्थिताः ॥१९४॥

आद्येऽत्र षट्के ता देव्यः स्वातन्त्र्योल्लासमात्रतः ।
जिघृक्षितेऽप्युपाधौ स्युः पररूपादविच्युताः ॥१९५॥

अस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम् ।
यो विवेकधनैर्धीरैः स्फुटीकृत्यापि दर्श्यते ॥१९६॥

केचित्त्वेकां तुटिं ग्राह्ये चैकामपि ग्रहीतरि ।
तादात्म्येन विनिक्षिप्य सप्तकं सप्तकं विदुः ॥१९७॥

तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः ।
संवेदयन्ते यद्रूपं तत्र किं वाग्विकत्थनैः ॥१९८॥

एवं धरादिमूलान्तं प्रक्रिया प्राणगामिनी ।
गुरुपर्वक्रमात्प्रोक्ता भेदे पञ्चदशात्मके ॥१९९॥

क्रमात्तु भेदन्यूनत्वे न्यूनता स्यात्तुटिष्वपि ।
तस्यां ह्रासो विकल्पस्य स्फुटता चाविकल्पिनः ॥२००॥

यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः ।
विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना ॥२०१॥

तथा गतविकल्पेऽपि रूढाः संवेदने जनाः ।
विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते ॥२०२॥

विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या ।
संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः ॥२०३॥

ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता ।
इयं सा तत्र तत्रोक्ता सर्वकामदुघा यतः ॥२०४॥

एवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम् ।
तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम् ॥२०५॥

अत एव शिवावेशे द्वितुटिः परिगीयते ।
एका तु सा तुटिस्तत्र पूर्णा शुद्धैव केवलम् ॥२०६॥

द्वितीया शिव(शक्ति)रूपैव सर्वज्ञानक्रियात्मिका ।
तस्यामवहितो योगी किं न वेत्ति करोति वा ॥२०७॥

तथा चोक्तं कल्लटेन श्रीमता तुटिपातगः ।
लाभः सर्वज्ञकर्तृत्वे तुटेः पातोऽपरा तुटिः ॥२०८॥

आद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम् ।
गतं किं तत्र वेद्यं वा कार्यं वा व्यपदेशभाक् ॥२०९॥

अतो भेदसमुल्लासकलां प्राथमिकीं बुधाः ।
चिन्वन्ति प्रतिभां देवीं सर्वज्ञत्वादिसिद्धये ॥२१०॥

सैव शक्तिः शिवस्योक्ता तृतीयादितुटिष्वथ ।
मन्त्रादि(धि)नाथतच्छक्तिमन्त्रेशाद्याः क्रमोदिताः ॥२११॥

तासु संदधतश्चित्तमवधानैकधर्मकम् ।
तत्तत्सिद्धिसमावेशः स्वयमेवोपजायते ॥२१२॥

अत एव यथा भेदबहुत्वं दूरता तथा ।
संवित्तौ तुटिबाहुल्यादक्षार्थासंनिकर्षवत् ॥२१३॥

यथा यथा हि न्यूनत्वं तुटीनां ह्रासतो भिदः ।
तथा तथातिनैकट्यं संविदः स्याच्छिवावधि ॥२१४॥

शिवतत्त्वमतः प्रोक्तमन्तिकं सर्वतोऽमुतः ।
अत एव प्रयत्नोऽयं तत्प्रवेशे न विद्यते ॥२१५॥

यथा यथा हि दूरत्वं यत्नयोगस्तथा तथा ।
भावनाकरणादीनां शिवे निरवकाशताम् ॥२१६॥

अत एव हि मन्यन्ते संप्रदायधना जनाः ।
तथा हि दृश्यतां लोको घटादेर्वेदने यथा ॥२१७॥

प्रयत्नवानिवाभाति तथा किं सुखवेदने ।
आन्तरत्वमिदं प्राहुः संविन्नैकट्यशालिताम् ॥२१८॥

तां च चिद्रूपतोन्मेषं बाह्यत्वं तन्निमेषताम् ।
भविनां त्वन्तिकोऽप्येवं न भातीत्यतिदूरता ॥२१९॥

दूरेऽपि ह्यन्तिकीभूते भानं स्यात्त्वत्र तत्कथम् ।
न च बीजाङ्कुरलतादलपुष्पफलादिवत् ॥२२०॥

क्रमिकेयं भवेत्संवित्सूतस्तत्र किलाङ्कुरः ।
बीजाल्लता त्वङ्कुरान्नो बीजादिह सर्वतः ॥२२१॥

संवित्तत्त्वं भासमानं परिपूर्णं हि सर्वतः ।
सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः ॥२२२॥

तत एव घटेऽप्येषा प्राणवृत्तिर्यदि स्फुरेत् ।
विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत् ॥२२३॥

न तु क्रमिकता काचिच्छिवात्मत्वे कदाचन ।
अन्यन्मन्त्रादि(धि)नाथादि कारणं तत्तु संनिधेः ॥२२४॥

शिवाभेदाच्च किं चाथ द्वैते नैकट्यवेदनात् ।
अनया च दिशा सर्व सर्वदा प्रविवेचयन् ॥२२५॥

भैरवायत एव द्राक् चिच्चक्रेश्वरतां गतः ।
स इत्थं प्राणगो भेदः खेचरीचक्रगोपितः ॥२२६॥

मया प्रकटितः श्रीमच्छाम्भवाज्ञानुवर्तिना ।
अत्रैवाध्वनि वेद्यत्वं प्राप्ते या संविदुद्भवेत् ॥२२७॥

तस्याः स्वकं यद्वैचित्र्यं तदवस्थापदाभिधम् ।
जाग्रत्स्वप्नः सुषुप्तं च तुर्यं च तदतीतकम् ॥२२८॥

इति पञ्च पदान्याहुरेकस्मिन्वेदके सति ।
तत्र यैषा धरातत्त्वाच्छिवान्ता तत्त्वपद्धतिः ॥२२९॥

तस्यामेकः प्रमाता चेदवश्यं जाग्रदादिकम् ।
तद्दर्श्यते शंभुनाथप्रसादाद्विदितं मया ॥२३०॥

यदधिष्ठेयमेवेह नाधिष्ठातृ कदाचन ।
संवेदनगतं वेद्यं तज्जाग्रत्समुदाहृतम् ॥२३१॥

चैत्रमैत्रादिभूतानि तत्त्वानि च धरादितः ।
अभिधाकरणीभूताः शब्दाः किं चाभिधा प्रमा ॥२३२॥

प्रमातृमेयतन्मानप्रमारूपं चतुष्टयम् ।
विश्वमेतदधिष्ठेयं यदा जाग्रत्तदा स्मृतम् ॥२३३॥

तथा हि भासते यत्तन्नीलमन्तः प्रवेदने ।
संकल्परूपे बाह्यस्य तदधिष्ठातृ बोधकम् ॥२३४॥

यत्तु बाह्यतया नीलं चकास्त्यस्य न विद्यते ।
कथंचिदप्यधिष्ठातृभावस्तज्जाग्रदुच्यते ॥२३५॥

तत्र चैत्रे भासमाने यो देहांशः स कथ्यते ।
अबुद्धो यस्तु मानांशः स बुद्धो मितिकारकः ॥२३६॥

प्रबुद्धः सुप्रबुद्धश्च प्रमामात्रेति च क्रमः ।
चातुर्विध्यं हि पिण्डस्थनाम्नि जाग्रति कीर्तितम् ॥२३७॥

जाग्रदादि चतुष्कं हि प्रत्येकमिह विद्यते ।
जाग्रज्जाग्रदबुद्धं तज्जाग्रत्स्वप्नस्तु बुद्धता ॥२३८॥

इत्यादि तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः ।
उक्तं च पिण्डगं जाग्रदबुद्धं बुद्धमेव च ॥२३९॥

प्रबुद्धं सुप्रबुद्धं च चतुर्विधमिदं स्मृतम् ।
मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा ॥२४०॥

भूततत्त्वाभिधानानां योंऽशोऽधिष्ठेय उच्यते ।
पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते ॥२४१॥

लौकिकी जाग्रदित्येषा संज्ञा पिण्डस्थमित्यपि ।
योगिनां योगसिद्ध्यर्थं संज्ञेयं परिभाष्यते ॥२४२॥

अधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः ।
तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् ॥२४३॥

प्रसंख्यानैकरूढानां ज्ञानिनां तु तदुच्यते ।
सर्वतोभद्रमापूर्णं सर्वतो वेद्यसत्तया ॥२४४॥

सर्वसत्तासमापूर्ण विश्वं पश्येद्यतो यतः ।
ज्ञानी ततस्ततः संवित्तत्वमस्य प्रकाशते ॥२४५॥

लोकयोगप्रसंख्यानत्रैरूप्यवशतः किल ।
नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः ॥२४६॥

यत्त्वधिष्ठानकरणभावमध्यास्य वर्तते ।
वेद्यं सत्पूर्वकथितं भूततत्त्वाभिधामयम् ॥२४७॥

तत्स्वप्नो मुख्यतो ज्ञेयं तच्च वैकल्पिके पथि ।
वैकल्पिकपथारूढवेद्यसाम्यावभासनात् ॥२४८॥

लोकरूढोऽप्यसौ स्वप्नः साम्यं चाबाह्यरूपता ।
उत्प्रेक्षास्वप्नसंकल्पस्मृत्युन्मादादिदृष्टिषु ॥२४९॥

विस्पष्टं यद्वेद्यजातं जाग्रन्मुख्यतयैव तत् ।
यत्तु तत्राप्यविस्पष्टं स्पष्टाधिष्ठातृ भासते ॥२५०॥

विकल्पान्तरगं वेद्यं तत्स्वप्नपदमुच्यते ।
तदैव तस्य वेत्त्येव स्वयमेव ह्यबाह्यताम् ॥२५१॥

प्रमात्रन्तरसाधारभावहान्यस्थिरात्मते ।
तत्रापि चातुर्विध्यं तत् प्राग्दिशैव प्रकल्पयेत् ॥२५२॥

गतागतं सुविक्षिप्तं संगतं सुसमाहितम् ।
अत्रापि पूर्ववन्नाम लौकिकं स्वप्न इत्यदः ॥२५३॥

बाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम् ।
सर्वाध्वनः पदं प्राणः संकल्पोऽवगमात्मकः ॥२५४॥

पदं च तत्समापत्ति पदस्थं योगिनो विदुः ।
वेद्यसत्तां बहिर्भूतामनपेक्ष्यैव सर्वतः ॥२५५॥

वेद्ये स्वातन्त्र्यभाग् ज्ञानं स्वप्नं व्याप्तितया भजेत् ।
मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः ॥२५६॥

वेद्यच्छायोऽवभासो हि मेयेऽधिष्ठानमुच्यते ।
यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्ध्रुवम् ॥२५७॥

बीजं विश्वस्य तत्तूष्णींभूतं सौषुप्तमुच्यते ।
अनुभूतौ विकल्पे च योऽसौ द्रष्टा स एव हि ॥२५८॥

न भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते ।
तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः ॥२५९॥

बीजभावोऽथाग्रहणं साम्यं तूष्णींस्वभावता ।
मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते ॥२६०॥

रूपकत्वाच्च रूपं तत्तादात्म्यं योगिनः पुनः ।
रूपस्थं तत्समापत्त्यौदासीन्यं रूपिणां विदुः ॥२६१॥

प्रसंख्यानवतः कापि वेद्यसंकोचनात्र यत् ।
नास्ति तेन महाव्याप्तिरियं तदनुसारतः ॥२६२॥

उदासीनस्य तस्यापि वेद्यं येन चतुर्विधम् ।
भूतादि तदुपाध्युत्थमत्र भेदचतुष्टयम् ॥२६३॥

उदितं विपुलं शान्तं सुप्रसन्नमथापरम् ।
यत्तु प्रमात्मकं रूपं प्रमातुरुपरि स्थितम् ॥२६४॥

पूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिः ।
तत्तुर्यमुच्यते शक्तिसमावेशो ह्यसौ मतः ॥२६५॥

सा संवित्स्वप्रकाशा तु कैश्चिदुक्ता प्रमेयतः ।
मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः ॥२६६॥

मेयं माने मातरि तत् सोऽपि तस्यां मितौ स्फुटम् ।
विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम् ॥२६७॥

रूपं दृशाहमित्यंशत्रयमुत्तीर्य वर्तते ।
द्वारमात्राश्रितोपाया पश्यामीत्यनुपायिका ॥२६८॥

प्रमातृता स्वतन्त्रत्वरूपा सेयं प्रकाशते ।
संवित्तुरीयरूपैवं प्रकाशात्मा स्वयं च सा ॥२६९॥

तत्समावेशतादात्म्ये मातृत्वं भवति स्फुटम् ।
तत्समावेशोपरागान्मानत्वं मेयता पुनः ॥२७०॥

तत्समावेशनैकट्यात्त्रयं तत्तदनुग्रहात् ।
वेद्यादिभेदगलनादुक्ता सेयमनामया ॥२७१॥

मात्राद्यनुग्रहादा(धा)नात्सव्यापारेति भण्यते ।
जाग्रदाद्यपि देवस्य शक्तित्वेन व्यवस्थितम् ॥२७२॥

अपरं परापरं च द्विधा तत्सा परा त्वियम् ।
रूपकत्वादुदासीनाच्च्युतेयं पूर्णतोन्मुखी ॥२७३॥

दशा तस्यां समापत्ती रूपातीतं तु योगिनः ।
पूर्णतौन्मुख्ययोगित्वाद्विश्वं पश्यति तन्मयः ॥२७४॥

प्रसंख्याता प्रचयतस्तेनेयं प्रचयो मता ।
नैतस्यामपरा तुर्यदशा संभाव्यते किल ॥२७५॥

संविन्न किल वेद्या सा वित्त्वेनैव हि भासते ।
जाग्रदाद्यास्तु संभाव्यास्तिस्रोऽस्याः प्राग्दशा यतः ॥२७६॥

त्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने ।
मनोन्मनमनन्तं च सर्वार्थमिति भेदतः ॥२७७॥

यत्तु पूर्णानवच्छिन्नवपुरानन्दनिर्भरम् ।
तुर्यातीतं तु तत्प्राहुस्तदेव परमं पदम् ॥२७८॥

नात्र योगस्य सद्भावो भावनादेरभावतः ।
अप्रमेयेऽपरिच्छिन्ने स्वतन्त्रे भाव्यता कुतः ॥२७९॥

योगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः ।
प्रसंख्यानबलात्त्वेतद्रूपं पूर्णत्वयोगतः ॥२८०॥

अनुत्तरादिह प्रोक्तं महाप्रचयसंज्ञितम् ।
पूर्णत्वादेव भेदानामस्यां संभावना न हि ॥२८१॥

तन्निरासाय नैतस्यां भेद उक्तो विशेषणम् ।
सततोदितमित्येतत्सर्वव्यापित्वसूचकम् ॥२८२॥

न ह्येक एव भवति भेदः क्वचन कश्चन ।
तुर्यातीते भेद एकः सततोदित इत्ययम् ॥२८३॥

मूढवादस्तेन सिद्धमविभेदित्वमस्य तु ।
श्रीपूर्वशास्त्रे तेनोक्तं पदस्थमपरं विदुः ॥२८४॥

मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते ।
रूपातीतं परा शक्तिः सव्यापाराप्यनामया ॥२८५॥

निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः ।
सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥२८६॥

इति श्रीसुमतिप्रज्ञाचन्द्रिकाशान्ततामसः ।
श्रीशंभुनाथः सद्भावं जाग्रदादौ न्यरूपयत् ॥२८७॥

अन्ये तु कथयन्त्येषां भङ्गीमन्यादृशीं श्रिताः ।
यद्रूपं जाग्रदादीनां तदिदानीं निरूप्यते ॥२८८॥

तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः ।
तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः ॥२८९॥

आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः ।
लयाकलस्य भोगोऽसौ मलकर्मवशान्नतु ॥२९०॥

स्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने ।
ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः ॥२९१॥

भेदवन्तः स्वतोऽभिन्नाश्चिकीर्ष्यन्ते जडाजडाः ।
तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः ॥२९२॥

यावद्भैरवबोधान्तःप्रवेशनसहिष्णवः ।
भावा विगलदात्मीयसाराः स्वयमभेदिनः ॥२९३॥

तुर्यातीतपदे संस्युरिति पञ्चदशात्मके ।
यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम् ॥२९४॥

यदेवास्थिरमाभाति सपूर्वं स्वप्न ईदृशः ।
अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरोऽपि यत् ॥२९५॥

त्रयस्यास्यानुसंधिस्तु यद्वशादुपजायते ।
स्रक्सूत्रकल्पं तत्तुर्यं सर्वभेदेषु गृह्यताम् ॥२९६॥

यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम् ।
तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् ॥२९७॥

लयाकले तु स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु ।
स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः ॥२९८॥

एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते ।
आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता ॥२९९॥

ज्ञानशक्तिः स्वप्न उक्तः क्रियाशक्तिस्तु जागृतिः ।
न चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः ॥३००॥

न चेन्न क्वापि मुख्यत्वं नोपचारोऽपि तत्क्वचित् ।
एतच्छ्रीपूर्वशास्त्रे च स्फुटमुक्तं महेशिना ॥३०१॥

तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् ।
इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके ॥३०२॥

अकलौ स्वप्नसौषुप्ते तुर्यं मन्त्रादिवर्गभाक् ।
तुर्यातीतं शक्तिशंभू त्रयोदशाभिधे पुनः ॥३०३॥

स्वरूपं जाग्रदन्यत्तु प्राग्वत्प्रलयकेवले ।
स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र च पूर्ववत् ॥३०४॥

विज्ञानाकलभेदेऽपि स्वं मन्त्रा मन्त्रनायकाः ।
तदीशाः शक्तिशंभ्वित्थं पञ्च स्युर्जाग्रदादयः ॥३०५॥

सप्तभेदे तु मन्त्राख्ये स्वं मन्त्रेशा महेश्वराः ।
शक्तिः शंभुश्च पञ्चोक्ता अवस्था जाग्रदादयः ॥३०६॥

स्वरूपं मन्त्रमाहेशी शक्तिर्मन्त्रमहेश्वरः ।
शक्तिः शंभुरिमाः पञ्च मन्त्रेशे पञ्चभेदके ॥३०७॥

स्वं क्रिया ज्ञानमिच्छा च शंभुरत्र च पञ्चमी ।
महेशभेदे त्रिविधे जाग्रदादि निरूपितम् ॥३०८॥

व्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः ।
इच्छानिवृत्तेः स्वस्थत्वाच्छिव एकोऽपि पञ्चधा ॥३०९॥

इत्येष दर्शितोऽस्माभिस्तत्त्वाध्वा विस्तरादथ ॥