प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तन्त्रालोकः द्वादशमाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके द्वादशमाह्निकम्


अथाध्वनोऽस्य प्रकृत उपयोगः प्रकाश्यते ॥१॥

इत्थमध्वा समस्तोऽयं यथा संविदि संस्थितः ।
तद्द्वारा शून्यधीप्राणनाडीचक्रतनुष्वथो ॥२॥

बहिश्च लिङ्गमूर्त्यग्निस्थण्डिलादिषु सर्वतः ।
तथा स्थितः समस्तश्च व्यस्तश्चैष क्रमाक्रमात् ॥३॥

आसंवित्तत्त्वमाबाह्यं योऽयमध्वा व्यवस्थितः ।
तत्र तत्रोचितं रूपं स्वं स्वातन्त्र्येण भासयेत् ॥४॥

सर्वं सर्वत्र रूपं च तस्यापि न न भासते ।
नह्यवच्छेदितां क्वापि स्वप्नेऽपि विषहामहे ॥५॥

एवं विश्वाध्वसंपूर्णं कालव्यापारचित्रितम् ।
देशकालमयस्पन्दसद्म देहं विलोकयेत् ॥६॥

तथा विलोक्यमानोऽसौ विश्वान्तर्देवतामयः ।
ध्येयः पूज्यश्च तर्प्यश्च तदाविष्टो विमुच्यते ॥७॥

इत्थं घटं पटं लिङ्गं स्थण्डिलं पुस्तकं जलम् ।
यद्वा किंचित्क्वचित्पश्येत्तत्र तन्मयतां व्रजेत् ॥८॥

तत्रार्पणं हि वस्तूनामभेदेनार्चनं मतम् ।
तथा संपूर्णरूपत्वानुसंधिर्ध्यानमुच्यते ॥९॥

संपूर्णत्वानुसंधानमकम्पं दार्ढ्यमानयन् ।
तथान्तर्जल्पयोगेन विमृशञ्जपभाजनम् ॥१०॥

तत्रार्पितानां भावानां स्वकभेदविलापनम् ।
कुर्वंस्तद्रश्मिसद्भावं दद्याद्धोमक्रियापरः ॥११॥

तथैवंकुर्वतः सर्वं समभावेन पश्यतः ।
निष्कम्पता व्रतं शुद्धं साम्यं नन्दिशिखोदितम् ॥१२॥

तथार्चनजपध्यानहोमव्रतविधिक्रमात् ।
परिपूर्णां स्थितिं प्राहुः समाधिं गुरवः पुरा ॥१३॥

अत्र पूजाजपाद्येषु बहिरन्तर्द्वयस्थितौ ।
द्रव्यौघे न विधिः कोऽपि न कापि प्रतिषिद्धता ॥१४॥

कल्पनाशुद्धिसंध्यादेर्नोपयोगोऽत्र कश्चन ।
उक्तं श्रीत्रिकसूत्रे च जायते यजनं प्रति ॥१५॥

अविधिज्ञो विधिज्ञश्चेत्येवमादि सुविस्तरम् ।
यदा यथा येन यत्र स्वा सम्वित्तिः प्रसीदति ॥१६॥

तदा तथा तेन तत्र तत्तद्भोग्यं विधिश्च सः ।
लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् ॥१७॥

निष्कम्पत्वे सकम्पस्तु कम्पं निर्ह्रासयेद्बलात् ।
यथा येनाभ्युपायेन क्रमादक्रमतोऽपि वा ॥१८॥

विचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत् ।
धीकर्माक्षगता देवीर्निषिद्धैरेव तर्पयेत् ॥१९॥

वीरव्रतं चाभिनन्देदिति भर्गशिखावचः ।
तथाहि शङ्का मालिन्यं ग्लानिः संकोच इत्यदः ॥२०॥

संसारकारागारान्तः स्थूलस्थूणाघटायते ।
मन्त्रा वर्णस्वभावा ये द्रव्यं यत्पाञ्चभौतिकम् ॥२१॥

यच्चिदात्म प्राणिजातं तत्र कः संकरः कथम् ।
संकराभावतः केयं शङ्का तस्यामपि स्फुटम् ॥२२॥

न शङ्केत तथा शङ्का विलीयेतावहेलया ।
श्रीसर्वाचारवीरालीनिशाचरक्रमादिषु ॥२३॥

शास्त्रेषु विततं चैतत्तत्र तत्रोच्यते यतः ।
शङ्कया जायते ग्लानिः शङ्कया विघ्नभाजनम् ॥२४॥

उवाचोत्पलदेवश्च श्रीमानस्मद्गुरोर्गुरुः ।
सर्वाशङ्काशनिं मार्गं नुमो माहेश्वरं त्विति ॥२५॥

अनुत्तरपदाप्तये तदिदमाणवं दर्शिताभ्युपायमतिविस्तरान्ननु विदांकुरुध्वं बुधाः ॥२६॥