तन्त्रालोकः द्वाविंशतितममाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके द्वाविंशतितममाह्निकम्


लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् ॥१॥

उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम् ।
उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते ॥२॥

योग्यतावशसंजाता यस्य यत्रैव शासना ।
स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ ॥३॥

फलं सर्वं समासाद्य शिवे युक्तोऽपवृज्यते ।
अयुक्तोऽप्यूर्ध्वसंशुद्धिं संप्राप्य भुवनेशतः ॥४॥

शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः ।
उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया ॥५॥

कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा ।
अनेन क्रमयोगेन संप्राप्तः परमं पदम् ॥६॥

न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति ।
अतो हि ध्वन्यतेऽर्थोऽयं शिवतत्त्वाधरेष्वपि ॥७॥

तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता ।
समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः ॥८॥

शिवागमस्य सर्वेभ्योऽप्यागमेभ्यो विशिष्टता ।
शिवज्ञानेन च विना भूयोऽपि पशुतोद्भवः ॥९॥

क्रमश्च शक्तिसंपातो मलहानिर्यियासुता ।
दीक्षा बोधो हेयहानिरुपादेयलयात्मता ॥१०॥

भोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः ।
स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः ॥११॥

प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि ।
अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् ॥१२॥

यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम् ।
लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् ॥१३॥

प्राग्लिङ्गान्तरसंस्थोऽपि दीक्षातः शिवतां व्रजेत् ।
तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः ॥१४॥

स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम् ।
एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया ॥१५॥

प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् ।
स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत् ॥१६॥

अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम् ।
एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत् ॥१७॥

अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः ।
स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् ॥१८॥

पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत् ।
ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत् ॥१९॥

प्रणवो मातृका माया व्योमव्यापी षडक्षरः ।
बहुरूपोऽथ नेत्राख्यः सप्त साधारणा अमी ॥२०॥

तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत् ।
सोऽप्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक् ॥२१॥

मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते ।
वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् ॥२२॥

पूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम् ।
प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः ॥२३॥

शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा ।
प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम् ॥२४॥

तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत् ।
श्रावयेच्च त्वया नास्य कार्यं किंचिच्छिवाज्ञया ॥२५॥

ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः ।
क्षमयित्वा विसृज्यः स्यात्ततोऽग्नेश्च विसर्जनम् ॥२६॥

तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम् ।
ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः ॥२७॥

अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः ।
प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता ॥२८॥

साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः ।
पुनर्भुवोऽपि ज्ञानेद्धा भवन्ति गुरुतास्पदम् ॥२९॥

मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः ।
इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः ॥३०॥

श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः ।
गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् ॥३१॥

कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल ।
अन्यतन्त्राभिषिक्तेऽपि रहस्यं न प्रकाशयेत् ॥३२॥

स्वतन्त्रस्थोऽपि गुर्वन्तो गुरुमज्ञमुपाश्रितः ।
तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् ॥३३॥

अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत् ।
जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् ॥३४॥

ततोऽस्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत् ।
अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा ॥३५॥

तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम् ।
तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः ॥३६॥

दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः ।
प्राप्तोऽपि सद्गुरुर्योग्यभावमस्य न वेत्ति चेत् ॥३७॥

विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम् ।
सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम् ॥३८॥

अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत् ।
न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना ॥३९॥

अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम् ।
सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि ॥४०॥

भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके ।
सिद्धवीरावलीसारे भैरवीये कुलेऽपि च ॥४१॥

पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता ।
तेन सर्वोऽधरस्थोऽपि लिङ्गोद्धृत्यानुगृह्यते ॥४२॥

योऽपि हृत्स्थमहेशानचोदनातः सुविस्तृतम् ।
शास्त्रज्ञानं समन्विच्छेत्सोऽपि यायाद्बहून्गुरून् ॥४३॥

तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः ।
ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः ॥४४॥

उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा ।
आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ॥४५॥

विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति ।
गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् ॥४६॥

प्राप्तं सोऽस्य गुरुर्दीक्षा नात्र मुख्या हि संविदि ।
सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः ॥४७॥

तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः ।
इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः ॥४८॥