तन्त्रालोकः नवममाह्निकम्

तन्त्रालोकः

श्रीतन्त्रालोकस्य नवममाह्निकम्

अथ तत्त्वप्रविभागो विस्तरतः कथ्यते क्रमप्राप्तः ॥१॥

यान्युक्तानि पुराण्यमूनि विविधैभदैर्यदेष्वन्वितं रूपं भाति परं प्रकाशनिविडं देवः स एकः शिवः ।
तत्स्वातन्त्र्यरसात्पुनः शिवपदाद्भेदे विभाते परं यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥२॥

तथाहि कालसदनाद्वीरभद्रपुरान्तगम् ।
धृतिकाठिन्यगरिमाद्यवभासाद्धरात्मता ॥३॥

एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे ।
स्वस्मिन्कार्येऽथ धर्मौघे यद्वापि स्वसदृग्गुणे ॥४॥

आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः ।
तत्तत्त्वं क्रमशः पृथ्वीप्रधानं पुंशिवादयः ॥५॥

देहानां भुवनानां च न प्रसङ्गस्ततो भवेत् ।
श्रीमन्मतङ्गशास्त्रादौ तदुक्तं परमेशिना ॥६॥

तत्रैषां दर्श्यते दृष्टः सिद्धयोगीश्वरीमते ।
कार्यकारणभावो यः शिवेच्छापरिकल्पितः ॥७॥

वस्तुतः सर्वभावानां कर्तेशानः परः शिवः ।
अस्वतन्त्रस्य कर्तृत्वं नहि जातूपपद्यते ॥८॥

स्वतन्त्रता च चिन्मात्रवपुषः परमेशितुः ।
स्वतन्त्रं च जडं चेति तदन्योन्यं विरुध्यते ॥९॥

जाड्यं प्रमातृतन्त्रत्वं स्वात्मसिद्धिमपि प्रति ।
न कर्तृत्वादृते चान्यत् कारणत्वं हि लभ्यते ॥१०॥

तस्मिन्सति हि तद्भाव इत्यपेक्षैकजीवितम् ।
निरपेक्षेषु भावेषु स्वात्मनिष्ठतया कथम् ॥११॥

स पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ ।
स्वभावेऽनतिरिक्तौ चेत्सम इत्यवशिष्यते ॥१२॥

बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः ।
घटः पटश्चेति भवेत् कार्यकारणता न किम् ॥१३॥

बीजमङ्कुरपत्रादितया परिणमेत चेत् ।
अतत्स्वभाववपुषः स स्वभावो न युज्यते ॥१४॥

स तत्स्वभाव इति चेत् तर्हि बीजाङ्कुरा निजे ।
तावत्येव न विश्रान्तौ तदन्यात्यन्तसंभवात् ॥१५॥

ततश्च चित्राकारोऽसौ तावान्कश्चित्प्रसज्यते ।
अस्तु चेत् न जडेऽन्योन्यविरुद्धाकारसंभवः ॥१६॥

क्रमेण चित्राकारोऽस्तु जडः किं नु विरुद्ध्यते ।
क्रमोऽक्रमो वा भावस्य न स्वरूपाधिको भवेत् ॥१७॥

तथोपलम्भमात्रं तौ उपलम्भश्च किं तथा ।
उपलब्धापि विज्ञानस्वभावो योऽस्य सोऽपि हि ॥१८॥

क्रमोपलम्भरूपत्वात् क्रमेणोपलभेत चेत् ।
तस्य तर्हि क्रमः कोऽसौ तदन्यानुपलम्भतः ॥१९॥

स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत् ।
स्वरूपानधिकस्यापि क्रमस्य स्वस्वभावतः ॥२०॥

स्वातन्त्र्याद्भासनं स्याच्चेत् किमन्यद्ब्रूमहे वयम् ।
इत्थं श्रीशिव एवैकः कर्तेति परिभाष्यते ॥२१॥

कर्तृत्वं चैतदेतस्य तथामात्रावभासनम् ।
तथावभासनं चास्ति कार्यकारणभावगम् ॥२२॥

यथा हि घटसाहित्यं पटस्याप्यवभासते ।
तथा घटानन्तरता किं तु सा नियमोज्झिता ॥२३॥

अतो यन्नियमेनैव यस्मादाभात्यनन्तरम् ।
तत्तस्य कारणं ब्रूमः सति रूपान्वयेऽधिके ॥२४॥

नियमश्च तथारूपभासनामात्रसारकः ।
बीजादङ्कुर इत्येवं भासनं नहि सर्वदा ॥२५॥

योगीच्छानन्तरोद्भूततथाभूताङ्कुरो यतः ।
इष्टे तथाविधाकारे नियमो भासते यतः ॥२६॥

स्वप्ने घटपटादीनां हेतुतद्वत्स्वभावता ।
भासते नियमेनैव बाधाशून्येन तावति ॥२७॥

ततो यावति याद्रूप्यान्नियमो बाधवर्जितः ।
भाति तावति ताद्रूप्याद्दृढहेतुफलात्मता ॥२८॥

तथाभूते च नियमे हेतुतद्वत्त्वकारिणि ।
वस्तुतश्चिन्मयस्यैव हेतुता तद्धि सर्वगम् ॥२९॥

अत एव घटोद्भूतौ सामग्री हेतुरुच्यते ।
सामग्री च समग्राणां यद्येकं नेष्यते वपुः ॥३०॥

हेतुभेदान्न भेदः स्यात् फले तच्चासमञ्जसम् ।
यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम् ॥३१॥

तत्तस्य हेतु चेत्सोऽयं कुण्ठतर्को न नः प्रियः ।
समग्राश्च यथा दण्डसूत्रचक्रकरादयः ॥३२॥

दूराश्च भाविनश्चेत्थं हेतुत्वेनेति मन्महे ।
यदि तत्र भवेन्मेरुर्भविष्यन्वापि कश्चन ॥३३॥

न जायेत घटो नूनं तत्प्रत्यूहव्यपोहितः ॥

यथा च चक्रं नियते देशे काले च हेतुताम् ॥३४॥

याति कर्किसुमेर्वाद्यास्तद्वत्स्वस्थावधि स्थिताः ।
तथा च तेषां हेतुनां संयोजनवियोजने ॥३५॥

नियते शिव एवैकः स्वतन्त्रः कर्तृतामियात् ।
कुम्भकारस्य या संवित् चक्रदण्डादियोजने ॥३६॥

शिव एव हि सा यस्मात् संविदः का विशिष्टता ।
कौम्भकारी तु संवित्तिरवच्छेदावभासनात् ॥३७॥

भिन्नकल्पा यदि क्षेप्या दण्डचक्रादिमध्यतः ।
तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः ॥३८॥

कर्तेति पुंसः कर्तृत्वाभिमानोऽपि विभोः कृतिः ।
अत एव तथाभानपरमार्थतया स्थितेः ॥३९॥

कार्यकारणभावस्य लोके शास्त्रे च चित्रता ।
मायातोऽव्यक्तकलयोरिति रौरवसंग्रहे ॥४०॥

श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते ।
तत एव निशाख्यानात्कलीभूतादलिङ्गकम् ॥४१॥

इति व्याख्यास्मदुक्तेऽस्मिन्सति न्यायेऽतिनिष्फला ।
लोके च गोमयात्कीटात् संकल्पात्स्वप्नतः स्मृतेः ॥४२॥

योगीच्छातो द्रव्यमन्त्रप्रभावादेश्च वृश्चिकः ।
अन्य एव स चेत् कामं कुतश्चित्स्वविशेषतः ॥४३॥

स तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु ।
तत एव स्वरूपेऽपि क्रमेऽप्यन्यादृशी स्थितिः ॥४४॥

शास्त्रेषु युज्यते चित्रात् तथाभावस्वभावतः ।
पुंरागवित्कलाकालमाया ज्ञानोत्तरे क्रमात् ॥४५॥

नियतिर्नास्ति वैरिञ्चे कलोर्ध्वे नियतिः श्रता ।
पुंरागवित्त्रयादूर्ध्वं कलानियतिसंपुटम् ॥४६॥

कालो मायेति कथितः क्रमः किरणशास्त्रगः ।
पुमान्नियत्या कालश्च रागविद्याकलान्वितः ॥४७॥

इत्येष क्रम उद्दिष्टो मातङ्गे पारमेश्वरे ।
कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते ॥४८॥

श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम् ।
शिवः स्वतन्त्रदृग्रूपः पञ्चशक्तिसुनिर्भरः ॥४९॥

स्वातन्त्र्यभासितभिदा पञ्चधा प्रविभज्यते ।
चिदानन्देषणाज्ञानक्रियाणां सुस्फुटत्वतः ॥५०॥

शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम् ।
एकैकत्रापि तत्त्वेऽस्मिन् सर्वशक्तिसुनिर्भरे ॥५१॥

तत्तत्प्राधान्ययोगेन स स भेदो निरूप्यते ।
तथाहि स्वस्वतन्त्रत्वपरिपूर्णतया विभुः ॥५२॥

निःसंख्यैर्बहुभी रूपैर्भात्यवच्छेदवर्जनात् ।
शांभवाः शक्तिजा मन्त्रमहेशा मन्त्रनायकाह् ॥५३॥

मन्त्रा इति विशुद्धाः स्युरमी पञ्च गणाः क्रमात् ।
स्वस्मिन्स्वस्मिन् गणे भाति यद्यद्रूपं समन्वयि ॥५४॥

तदेषु तत्त्वमित्युक्तं कालाग्न्यादेर्धरादिवत् ।
तेन यत्प्राहुराख्यानसादृश्येन विडम्बिताः ॥५५॥

गुरूपासां विनैवात्तपुस्तकाभीष्टदृष्टयः ।
ब्रह्मा निवृत्त्यधिपतिः पृथक्तत्त्वं न गण्यते ॥५६॥

सदाशिवाद्यास्तु पृथग् गण्यन्त इति को नयः ।
ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि ॥५७॥

षट्के कारणसंज्ञेऽर्धजरतीयमियं कुतः ।
इति तन्मूलतो ध्वस्तं गणितं नहि कारणम् ॥५८॥

यथा पृथिव्यधिपतिर्नृपस्तत्त्वान्तरं नहि ।
तथा तत्तत्कलेशानः पृथक् तत्त्वान्तरं कथम् ॥५९॥

तदेवं पञ्चकमिदं शुद्धोऽध्वा परिभाष्यते ।
तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका ॥६०॥

ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान् ।
संविभक्तुमघोरेशः सृजतीह सितेतरम् ॥६१॥

अणूनां लोलिका नाम निष्कर्मा याभिलाषिता ।
अपूर्णंमन्यताज्ञानं मलं सावच्छिदोज्झिता ॥६२॥

योग्यतामात्रमेवैतद्भाव्यवच्छेदसंग्रहे ।
मलस्तेनास्य न पृथक्तत्त्वभावोऽस्ति रागवत् ॥६३॥

निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा ।
रागः पुंसि धियो धर्मः कर्मभेदविचित्रता ॥६४॥

अपूर्णमन्यता चेयं तथारूपावभासनम् ।
स्वतन्त्रस्य शिवस्येच्छा घटरूपो यथा घटः ॥६५॥

स्वात्मप्रच्छादनेच्छैव वस्तुभूतस्तथा मलः ।
यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता ॥६६॥

तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः ।
व्यतिरिक्तः स्वतन्त्रस्तु न कोऽपि शकटादिवत् ॥६७॥

तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा न किम् ।
मलस्य रोद्ध्री काप्यस्ति शक्तिः स चाप्यमुक्तगा ॥६८॥

इति न्यायोज्झितो वादः श्रद्धामात्रैककल्पितः ।
रोद्ध्री शक्तिर्जडस्यासौ स्वयं नैव प्रवर्तते ॥६९॥

स्वयं प्रवृत्तौ विश्वं स्यात्तथा चेशनिका प्रमा ।
मलस्य रोद्ध्रीं तां शक्तिमीशश्चेत्संयुनक्ति तत् ॥७०॥

कीदृशं प्रत्यणुमिति प्रश्ने नास्त्युत्तरं वचः ।
मलश्चावरणं तच्च नावार्यस्य विशेषकम् ॥७१॥

उपलम्भं विहन्त्येतद्घटस्येव पटावृतिः ।
मलेनावृतरूपाणामणूनां यत्सतत्त्वकम् ॥७२॥

शिव एव च तत्पश्येत्तस्यैवासौ मलो भवेत् ।
विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य च ॥७३॥

तदभावो मलो रूपध्वंसायैव प्रकल्पते ।
धर्माद्धर्मिणि यो भेदः समवायेन चैकता ॥७४॥

न तद्भवद्भिरुदितं कणभोजनशिष्यवत् ।
नामूर्तेन न मूर्तेन प्रावरीतुं च शक्यते ॥७५॥

ज्ञानं चाक्षुषरश्मीनां तथाभावे सरत्यपि ।
स एव च मलो मूर्तः किं ज्ञानेन न वेद्यते ॥७६॥

सर्वगेण ततः सर्वः सर्वज्ञत्वं न किं भजेत् ।
यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः ॥७७॥

मूर्तानां प्रतिघस्तेजोऽणूनां नामूर्त ईदृशम् ।
न च चेतनमात्मानमस्वतन्त्रो मलः क्षमः ॥७८॥

आवरीतुं न चाच्यं च मद्यावृतिनिदर्शनम् ।
उक्तं भवद्भिरेवेत्थं जडः कर्ता नहि स्वयम् ॥७९॥

स्वतन्त्रस्येश्वरस्यैताः शक्तयः प्रेरिकाः किल ।
अतः कर्मविपाकज्ञप्रभुशक्तिबलेरितम् ॥८०॥

मद्यं सूते मदं दुःखसुखमोहफलात्मकम् ।
न चेशप्रेरितः पुंसो मल आवृणुयाद्यतः ॥८१॥

निर्मले पुंसि नेशस्य प्रेरकत्वं तथोचितम् ।
तुल्ये निर्मलभावे च प्रेरयेयुर्न ते कथम् ॥८२॥

तमीशं प्रति युक्तं यद् भूयसां स्यात्सधर्मता ।
तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् ॥८३॥

निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः ।
मलोऽभिलाषश्चाज्ञानमविद्या लोलिकाप्रथा ॥८४॥

भवदोषोऽनुप्लवश्च ग्लानिः शोषो विमूढता ।
अहंममात्मतातङ्को मायाशक्तिरथावृतिः ॥८५॥

दोषबीजं पशुत्वं च संसाराङ्कुरकारणम् ।
इत्याद्यन्वर्थसंज्ञाभिस्तत्र तत्रैष भण्यते ॥८६॥

अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः ।
मञ्चवदस्मिन् दुःखस्रोतोऽणून् वहति यत्प्लवस्तेन ॥८७॥

शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम् ।
संसारकारणं कर्म संसाराङ्कुर उच्यते ॥८८॥

चतुर्दशविधं भूतवैचिअत्र्यं कर्मजं यतः ।
अत एव सांख्ययोगपाञ्चरात्रादिशासने ॥८९॥

अहंममेति संत्यागो नैष्कर्म्यायोपदिश्यते ।
निष्कर्मा हि स्थिते मूलमलेऽप्यज्ञाननामनि ॥९०॥

वैचित्र्यकारणाभावान्नोर्ध्व सरति नाप्यधः ।
केवलं पारिमित्येन शिवाभेदमसंस्पृशन् ॥९१॥

विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः ।
स पुनः शांभवेच्छातः शिवाभेदं परामृशन् ॥९२॥

क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम् ।
ननु कारणमेतस्य कर्मणश्चेन्मलः कथम् ॥९३॥

स विज्ञानाकलस्यापि न सूते कर्मसंततिम् ।
मैवं स हि मलो ज्ञानाकले दिध्वंसिषुः कथम् ॥९४॥

हेतुः स्याद्ध्वंसमानत्वं स्वातन्त्र्यादेव चोद्भवेत् ।
दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ ॥९५॥

दशास्वन्तः कृतावस्थान्तरासु स्वक्रमस्थितेः ।
विज्ञानाकलमन्त्रेशतदीशादित्वकल्पना ॥९६॥

ततश्च सुप्ते तुर्ये च वक्ष्यते बहुभेदता ।
अतः प्रध्वंसनौन्मुख्यखिलीभूतस्वशक्तिकः ॥९७॥

कर्मणो हेतुतामेतु मलः कथमिवोच्यताम् ।
किं च कर्मापि न मलाद्यतः कर्म क्रियात्मकम् ॥९८॥

क्रिया च कर्तृतारूपात् स्वातन्त्र्यान्न पुनर्मलात् ।
या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता ॥९९॥

प्रसिद्धा सा न संकोचं विनात्मनि मलश्च सः ।
विचित्रं हि फलं भिन्नं भोग्यत्वेनाभिमन्यते ॥१००॥

भोक्तर्यात्मनि तेनेयं भेदरूपा व्यवस्थितिः ।
इति स्वकार्यप्रसवे सहकारित्वमाश्रयन् ।१०१॥

सामर्थ्यव्यञ्जकत्वेन कर्मणः कारणं मलः ।
नन्वेवं कर्मसद्भावान्मलस्यापि स्थितेः कथम् ॥१०२॥

विज्ञानाकलता तस्य संकोचो ह्यस्ति तादृशः ।
मैवमध्वस्तसंकोचोऽप्यसौ भावनया दृढम् ॥१०३॥

नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति ।
फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि ॥१०४॥

स संस्कारः फलायेह न तु स्मरणकारणम् ।
अप्रध्वस्तेऽपि संकोचे नाहं कर्तेति भावनात् ॥१०५॥

न फलं क्षीवमूढादेः प्रायश्चित्तेऽथ वा कृते ।
यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम् ॥१०६॥

अभिसंधिमतः कर्म न फलेदभिसन्धितः ।
तथाभिसंधानाख्यां तु मानसे कर्म संस्क्रियाम् ॥१०७॥

फलोपरक्तां विदधत्कल्पते फलसम्पदे ।
यस्तु तत्रापि दार्ढ्येन फलसंस्कारमुज्झति ॥१०८॥

स तत्फलत्यागकृतं विशिष्टं फलमश्नुते ।
अनया परिपाट्या यः समस्तां कर्मसंततिम् ॥१०९॥

अनहंयुतया प्रोज्झेत् ससंकोचोऽपि सोऽकलः ।
नन्वित्थं दुष्कृतं किंचिदात्मीयमभिसंधितः ॥११०॥

परस्मै स्यान्न विज्ञातं भवता तात्त्विकं वचः ।
तस्य भोक्तुस्तथा चेत्स्यादभिसंधिर्यथात्मनि ॥१११॥

तदवश्यं परस्यापि सतस्तद्दुष्कृतं भवेत् ।
पराभिसंधिसंवित्तौ स्वाभिसंधिर्दृढीभवेत् ॥११२॥

अभिसंधानविरहे त्वस्य नो फलयोगिता ।
न मे दुष्कृतमित्येषा रूढिस्तस्याफलाय सा ॥११३॥

पराभिसन्धिविच्छेदे स्वात्मनानभिसंहितौ ।
द्वयोरपि फलं न स्यान्नाशहेतुव्यवस्थितेः ॥११४॥

सुखहेतौ सुखे चास्य सामान्यादभिसंधितः ।
निर्विशेषादपि न्याय्या धर्मादिफलभोक्तृता ॥११५॥

दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु ।
सामान्योऽप्यभिसंधिः स्यात्तदधर्मस्य नागमः ॥११६॥

प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत् ।
अनहंयुतया सर्वा विलीनाः कर्मसंस्क्रियाः ॥११७॥

तस्मादस्य न कर्मास्ति कस्यापि सहकारिताम् ।
मलः करोतु तेनायं ध्वंसमानत्वमश्नुते ॥११८॥

अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः ।
अहंभावपरोऽप्येति न कर्माधीनवृत्तिताम् ॥११९॥

उक्तं श्रीपूर्वशास्त्रे च तदेतत्परमेशिना ।
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ॥१२०॥

धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् ।
लक्षयेत्सुखदुःखादि स्वं कार्य हेतुभावतः ॥१२१॥

नहि हेतुः कदाप्यास्ते विना कार्य निजं क्वचित् ।
हेतुता योग्यतैवासौ फलानन्तर्यभाविता ॥१२२॥

पूर्वकस्य तु हेतुत्वं पारम्पर्येण किं च तत् ।
लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे ॥१२३॥

चित्रैर्हेत्वन्तरं किंचित्तच्च कर्मेह दर्शनात् ।
स्वाङ्गे प्रसादरौक्ष्यादि जायमानं स्वकर्मणा ॥१२४॥

दृष्टमित्यन्यदेहस्थं कारणं कर्म कल्प्याते ।
इहाप्यन्यान्यदेहस्थे स्फुटं कर्मफले यतः ॥१२५॥

कृषिकर्म मधौ भोगः शरद्यन्या च सा तनुः ।
अनुसंधातुरेकस्य संभवस्तु यतस्ततः ॥१२६॥

तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम् ।
क्षीवोऽपि राजा सूदं चेदादिशेत्प्रातरीदृशम् ॥१२७॥

भोजयेत्यनुसंधानाद्विना प्राप्नोति तत्फलम् ।
इत्थं जन्मान्तरोपात्तकर्माप्यद्यानुसंधिना ॥१२८॥

विना भुङ्क्ते फलं हेतुस्तत्र प्राच्या ह्यकम्पता ।
अत एव कृतं कर्म कर्मणा तपसापि वा ॥१२९॥

ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम् ।
आरब्धकार्यं देहेऽस्मिन् यत्पुनः कर्म तत्कथम् ॥१३०॥

उच्छिद्यतामन्त्यदशं निरोद्धुं नहि शक्यते ।
तत्रैव देहे यत्त्वन्यदद्यगं वा पुरातनम् ॥१३१॥

कर्म तज्ज्ञानदीक्षाद्यैः शण्ढीकर्तुं प्रसह्यते ।
तथा संस्कारदार्ढ्य हि फलाय दृढता पुनः ॥१३२॥

यदा यदा विनश्येत कर्मध्वस्तं तदा तदा ।
अतो मोहपराधीनो यद्यप्यकृत किंचन ॥१३३॥

तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते ।
उक्तं च श्रीपरेऽहानादानः सर्वदृगुल्वणः ॥१३४॥

मुहूर्तान्निर्दहेत्सर्व देहस्थमकृतं कृतम् ।
देहस्थमिति देहेन सह तादात्म्यमाश्रिता ॥१३५॥

स्वाच्छन्द्यात्संविदेवोक्ता तत्रस्थं कर्म दह्यते ।
देहैक्यवासनात्यागात् स च विश्वात्मतास्थितेः ॥१३६॥

अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया ।
संकोच एव सानेन सोऽपि देहैकतामयः ॥१३७॥

एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः ।
स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः ॥१३८॥

ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः ।
ब्रह्मादिस्थावरान्तेऽस्मिन् संस्रन्ति पुनः पुनः ॥१३९॥

ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः ।
भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः ॥१४०॥

महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् ।
मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं च कर्मतः ॥१४१॥

अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः ।
प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः ॥१४२॥

क्षोभोऽस्य लोलिकाख्यस्य सहकारितया स्फुटम् ॥

तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् ॥१४३॥

न जडश्चिदधिष्ठानं विना क्वापि क्षमो यतः ।
अणवो नाम नैवान्यत्प्रकाशात्मा महेश्वरः ॥१४४॥

चिदचिद्रूपताभासी पुद्गलः क्षेत्रवित्पशुः ।
चिद्रूपत्वाच्च स व्यापी निर्गुणो निष्क्रियस्ततः ॥१४५॥

योगोपायेप्सको नित्यो मूर्तिवन्ध्यः प्रभाष्यते ।
अचित्त्वादज्ञता भेदो भोग्याद्भोक्त्रन्तरादथ ॥१४६॥

तेषामणूनां स मल ईश्वरेच्छावशाद्भृशम् ।
प्रबुध्यते तथा चोक्तं शास्त्रे श्रीपूर्वनामनि ॥१४७॥

ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते ।
भोगेच्छोरुपकारार्थमाद्यो मन्त्रमहेश्वरः ॥१४८॥

मायां विक्षोभ्य संसारं निर्मिमीते विचित्रकम् ।
माया च नाम देवस्य शक्तिरव्यतिरेकिणी ॥१४९॥

भेदावभासस्वातन्त्र्यं तथाहि स तया कृतः ।
आद्यो भेदावभासो यो विभागमनुपेयिवान् ॥१५०॥

गर्भीकृतानन्तभाविविभासा सा परा निशा ।
सा जडा भेदरूपत्वात् कार्यं चास्या जडं यतः ॥१५१॥

व्यापिनी विश्वहेतुत्वात् सूक्ष्मा कार्यैककल्पनात् ।
शिवशक्त्यविनाभावान्नित्यैका मूलकारणम् ॥१५२॥

अचेतनमनेकात्म सर्व कार्य यथा घटः ।
प्रधानं च तथा तस्मात् कार्य नात्मा तु चेतनः ॥१५३॥

अत एवाध्वनि प्रोक्ता पूर्वं माया द्विधा स्थिता ।
यथा च माया देवस्य शक्तिरभ्येति भेदिनम् ॥१५४॥

तत्त्वभावं तथान्योऽपि कलादिस्तत्त्वविस्तरः ।
निरुद्धशक्तेर्या किंचित्कर्तृतोद्वलनात्मिका ॥१५५॥

नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते ।
एवं विद्यादयोऽप्येते धरान्ताः परमार्थतः ॥१५६॥

शिवशक्तिमया एव प्रोक्तन्यायानुसारतः ।
तथापि यत्पृथग्भानं कलादेरीश्वरेच्छया ॥१५७॥

ततो जडत्वे कार्यत्वे पृथक्तत्त्वस्थितौ ध्रुवम् ।
उपादानं स्मृता माया क्वचित्तत्कार्यमेव च ॥१५८॥

तथावभासचित्रं च रूपमन्योन्यवर्जितम् ।
यद्भाति किल संकल्पे तदस्ति घटवद्वहिः ॥१५९॥

खपुष्पाद्यस्तितां ब्रूमस्ततो न व्यभिचारिता ।
खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः ॥१६०॥

धरादिवत् तथात्यन्ताभावोऽप्येवं विविच्यताम् ।
यत्संकल्प्यं तथा तस्य बहिर्देहोऽस्ति चेतनः ॥१६१॥

चैत्रवत्सौशिवान्तं तत् सर्व तादृशदेहवत् ।
यस्य देहो यथा तस्य तज्जातीयं पुरं बहिः ॥१६२॥

अतः सुशिवपर्यन्ता सिद्धा भुवनपद्धतिः ।
आत्मनाम् तत्पुरं प्राप्यं देशत्वादन्यदेशवत् ॥१६३॥

आत्मनामध्वभोक्तृत्वं ततोऽयत्नेन सिद्ध्यति ।
सा माया क्षोभमापन्ना विश्वं सूते समन्ततः ॥१६४॥

दण्डाहतेवामलकी फलानि किल यद्यपि ।
तथापि तु तथा चित्रपौर्वापर्यावभासनात् ॥१६५॥

मायाकार्येऽपि तत्त्वौघे कार्यकारणता मिथः ।
सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् ॥१६६॥

तथापि मालिनीशास्त्रदृशा तां संप्रचक्ष्महे ।
कलादिवसुधान्तं यन्मायान्तः संप्रचक्षते ॥१६७॥

प्रत्यात्मभिन्नमेवैतत् सुखदुःखादिभेदतः ।
एकस्यामेव जगति भोगसाधनसंहतौ ॥१६८॥

सुखादीनां समं व्यक्तेर्भोगभेदः कुतो भवेत् ।
न चासौ कर्मभेदेन तस्यैवानुपपत्तितः ॥१६९॥

तस्मात् कलादिको वर्गो भिन्न एव कदाचन ।
ऐक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने ।१७०॥

एषां कलादितत्त्वानां सर्वेषामपि भाविनाम् ।
शुद्धत्वमस्ति तेषां ये शक्तिपातपवित्रिताः ॥१७१॥

कला हि शुद्धा तत्तादृक् कर्मत्वं संप्रसूयते ।
मितमप्याशु येनास्मात् संसारादेष मुच्यते ॥१७२॥

रागविद्याकालयतिप्रकृत्यक्षार्थसंचयः ।
इत्थं शुद्ध इति प्रोच्य गुरुर्मानस्तुतौ विभुः ॥१७३॥

एवमेषा कलादीनामुत्पत्तिः प्रविविच्यते ।
मायातत्त्वात् कला जाता किंचित्कर्तृत्वलक्षणा ॥१७४॥

माया हि चिन्मयाद्भेदं शिवाद्विदधती पशोः ।
सुषुप्ततामिवाधत्ते तत एव ह्यदृक्क्रियः ॥१७५॥

कला हि किंचित्कर्तृत्वं सूते स्वालिङ्गनादणोः ।
तस्याश्चाप्यणुनान्योन्यं ह्यञ्जने सा प्रसूयते ॥१७६॥

सद्योनिर्वाणदीक्षोत्थपुंविश्लेषे हि सा सती ।
श्लिष्यन्त्यपि च नो सूते तथापि स्वफलं क्वचित् ॥१७७॥

उच्छूनतेव प्रथमा सूक्ष्माङ्कुरकलेव च ।
बीजस्याम्ब्वग्निमृत्कम्बुतुषयोगात् प्रसूतिकृत् ॥१७८॥

कला मायाणुसंयोगजाप्येषा निर्विकारकम् ।
नाणुं कुर्यादुपादानं किंतु मायां विकारिणीम् ॥१७९॥

मलश्चावारको माया भावोपादानकारणम् ।
कर्म स्यात् सहकार्येव सुखदुःखोद्भवं प्रति ॥१८०॥

अतः संच्छन्नचैतन्यसमुद्बलनकार्यकृत् ।
कलैवानन्तनाथस्य शक्त्या संप्रेरिता जडा ॥१८१॥

न चेशशक्तिरेवास्य चैतन्यं बलयिष्यति ।
तदुपोद्बलितं तद्धि न किंचित्कर्तृतां व्रजेत् ॥१८२॥

सेयं कला न करणं मुख्यं विद्यादिकं यथा ।
पुंसि कर्तरि सा कर्त्री प्रयोजकतया यतः ॥१८३॥

अलक्ष्यान्तरयोरित्थं यदा पुंस्कलयोर्भवेत् ।
मायागर्भेशशक्त्यादेरन्तरज्ञानमान्तरम् ॥१८४॥

तदा मायापुंविवेकः सर्वकर्मक्षयाद्भवेत् ।
विज्ञानाकलता मायाधस्तान्नो यात्यधः पुमान् ॥१८५॥

धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे ।
अपि न क्षीणकर्मा स्यात् कलायां तद्धि संभवेत् ॥१८६॥

अतः सांख्यदृशा सिद्धः प्रधानाधो न संसरेत् ।
कलापुंसोर्विवेके तु मायाधो नैव गच्छति ॥१८७॥

मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत् ।
सर्वत्र चैश्वरः शक्तिपातोऽत्र सहकारणम् ॥१८८॥

मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः ।
सेयं कला कार्यभेदादन्यैव ह्यनुमीयते ॥१८९॥

अन्यथैकं भवेद्विश्वं कार्यायेत्यन्यनिह्नवः ।
इति मतङ्गशास्त्रादौ या प्रोक्ता सा कला स्वयम् ॥१९०॥

किंचिद्रूपतयाक्षिप्य कर्तृत्वमिति भङ्गितः ।
किंचिद्रूपविशिष्टं यत् कर्तृत्वं तत्कथं भवेत् ॥१९१॥

अज्ञस्येति ततः सूते किंचिज्ज्ञत्वात्मिकां विदम् ।
बुद्धिं पश्यति सा विद्या बुद्धिदर्पणचारिणः ॥१९२॥

सुखादीन् प्रत्ययान् मोहप्रभृतीन् कार्यकारणे ।
कर्मजालं च तत्रस्थं विविनक्ति निजात्मना ॥१९३॥

बुद्धिस्तु गुणसंकीर्णा विवेकेन कथं सुखम् ।
दुःखं मोहात्मकं वापि विषयं दर्शयेदपि ॥१९४॥

स्वच्छायां धियि संक्रामन्भावः संवेद्यतां कथम् ।
तया विनैति साप्यन्यत्करणं पुंसि कर्तरि ॥१९५॥

ननु चोभयतः शुभ्रादर्शदशीयधीगतात् ।
पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम् ॥१९६॥

जडमेव हि मुख्योऽथ पुंस्प्रकाशोऽस्य भासनम् ।
बहिःस्थस्यैव तस्यास्तु बुद्धेः किंकल्पना कृता ॥१९७॥

अभेदभूमिरेषा च भेदश्चेह विचार्यते ।
तस्माद्बुद्धिगतो भावो विद्याकरणगोचरः ॥१९८॥

भावानां प्रतिबिम्बं च वेद्यं धीकल्पना ततः ।
किंचित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत् ॥१९९॥

रागतत्त्वमिति प्रोक्तं यत्तत्रैवोपरञ्जकम् ।
न चावैराग्यमात्रं तत्तत्राप्यासक्तिवृत्तितः ॥२००॥

विरक्तावपि तृप्तस्य सूक्ष्मरागव्यवस्थितेः ।
कालस्तुट्यादिभिश्चैतत् कर्तृत्वं कलयत्यतः ॥२०१॥

कार्यावच्छेदि कर्तृत्वं कालोऽवश्यं कलिष्यति ।
नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले ॥२०२॥

विद्या रागोऽथ नियतिः कालश्चैतच्चतुष्टयम् ।
कलाकार्यं भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम् ॥२०३॥

माया कला रागविद्ये कालो नियतिरेव च ।
कञ्चुकानि षडुक्तानि संविदस्तत्स्थितौ पशुः ॥२०४॥

देहपुर्यष्टकाद्येषु वेद्येषु किल वेदनम् ।
एतत्षट्कससंकोचं यदवेद्यमसावणुः ॥२०५॥

उक्तं शिवतनुशास्त्रे तदिदं भङ्ग्यन्तरेण पुनः ।
आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव ॥२०६॥

शिवदहनकिरणजालैर्दाह्यत्वात् सा यतोऽन्यरूपैव ।
अनिदंपूर्वतया यद्रञ्जयति निजात्मना ततोऽनन्या ॥२०७॥

सहजाशुद्धिमतोऽणोरीशगुहाभ्यां हि कञ्चुकस्त्रिविधः ।
तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा ॥२०८॥

अनया विद्वस्य पशोरुपभोगसमर्थता भवति ।
विद्या चास्य कलातः शरणान्तर्दीपकप्रभेवाभूत् ॥२०९॥

सुखदुःखसंविदं या विविनक्ति पशोर्विभागेन ।
रागश्च कलातत्त्वाच्छुचिवस्त्रकषायवत् समुत्पन्नः ॥२१०॥

त्यक्तुं वाञ्छति न यतः संसृतिसुखसंविदानन्दम् ।
एवमविद्यामलिनःसमर्थितस्त्रिगुणकञ्चुकबलेन ॥२११॥

गहनोपभोगगर्भे पशुरवशमधोमुखः पतति ।
एतेन मलः कथितः कम्बुकवदणोः कलादिकं तुषवत् ॥२१२॥

एवं कलाख्यतत्त्वस्य किंचित्कर्तृत्वलक्षणे ।
विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम् ॥२१३॥

विशेषणतया योऽत्र किञ्चिद्भागस्तदोत्थितम् ।
वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला ॥२१४॥

सममेव हि भोग्यं च भोक्तारं च प्रसूयते ।
कला भेदाभिसंधानादवियुक्तं परस्परम् ॥२१५॥

भोक्तृभोग्यात्मता न स्याद्वियोगाच्च परस्परम् ।
विलीनायां च तस्यां स्यान्मायास्यापि न किंचन ॥२१६॥

ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम् ।
सूते कला हि युगपत्ततोऽव्यक्तमिति स्थितिः ॥२१७॥

उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम् ।
रज्यमानो वेद सर्व विदंश्चाप्यत्र रज्यते ॥२१८॥

तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता ।
तस्यां च न क्रमः कोऽपि स्याद्वा सोऽपि विपर्ययात् ॥२१९॥

तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ ।
एवं संवेद्यमात्रं यत् सुखदुःखविमोहतः ॥२२०॥

भोत्स्यते यत्ततः प्रोक्तं तत्साम्यात्मकमादितः ।
सुखं सत्त्वं प्रकाशत्वात् प्रकाशो ह्लाद उच्यते ॥२२१॥

दुःखं रजः क्रियात्मत्वाद् क्रिया हि तदतत्क्रमः ।
मोहस्तमो वरणकः प्रकाशाभावयोगतः ॥२२२॥

त एते क्षोभमापन्ना गुणाः कार्य प्रतन्वते ।
अक्षुब्धस्य विजातीयं न स्यात् कार्यमदः पुरा ॥२२३॥

उक्तमेवेति शास्त्रेऽस्मिन् गुणांस्तत्त्वान्तरं विदुः ।
भुवनं पृथगेवात्र दर्शितं गुणभेदतः ॥२२४॥

ईश्वरेच्छावशक्षुब्धलोलिकं पुरुषं प्रति ।
भोक्तृत्वाय स्वतन्त्रेशः प्रकृतिं क्षोभयेद् भृशम् ॥२२५॥

तेन यच्चोद्यते सांख्यं मुक्ताणुं प्रति किं न सा ।
सूते पुंसो विकारित्वादिति तन्नात्र बाधकम् ॥२२६॥

गुणेभ्यो बुद्धितत्त्वं तत् सर्वतो निर्मलं ततः ।
पुंस्प्रकाशः स वेद्योऽत्र प्रतिबिम्बत्वमार्छति ॥२२७॥

विषयप्रतिबिम्बं च तस्यामक्षकृतं बहिः ।
अतद्द्वारं समुत्प्रेक्षाप्रतिभादिषु तादृशी ॥२२८॥

वृत्तिर्बोधो भवेद्बुद्धेः सा चाप्यालम्बनं ध्रुवम् ।
आत्मसंवित्प्रकाशस्य बोधोऽसौ तज्जडोऽप्यलम् ॥२२९॥

बुद्धेरहंकृत् तादृक्षे प्रतिबिम्बितपुंस्कृतेः ।
प्रकाशे वेद्यकलुषे यदहंमननात्मता ॥२३०॥

तया पञ्चविधश्चैष वायुः संरम्भरूपया ।
प्रेरितो जीवनाय स्यादन्यथा मरणं पुनः ॥२३१॥

अत एव विशुद्धात्मस्वातन्त्र्याहंस्वभावतः ।
अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः ।२३२॥

इत्ययं करणस्कन्धोऽहंकारस्य निरूपितः ।
त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः ॥२३३॥

सत्त्वप्रधानाहंकाराद्भोक्त्रंशस्पर्शिनः स्फुटम् ।
मनोबुद्ध्यक्षषट्कं तु जातं भेदस्तु कथ्यते ॥२३४॥

मनो यत्सर्वविषयं तेनात्र प्रविवक्षितम् ।
सर्वतन्मात्रकर्तृत्वं विशेषणमहंकृतेः ॥२३५॥

बुद्ध्यहंकृन्मनः प्राहुर्बोधसंरभणैषणे ।
करणं बाह्यदेवैर्यन्नैवाप्यन्तर्मुखैः कृतम् ॥२३६॥

प्राणश्च नान्तःकरणं जडत्वात् प्रेरणात्मनः ।
प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम् ॥२३७॥

अवसायोऽभिमानश्च कल्पना चेति न क्रिया ।
एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम् ॥२३८॥

न च बुद्धिरसंवेद्या करणत्वान्मनो यथा ।
प्रधानवदसंवेद्यबुद्धिवादस्तदुज्झितः ॥२३९॥

शब्दतन्मात्रहेतुत्वविशिष्टा या त्वहंकृतिः ।
सा श्रोत्रे करणं यावद्घ्राणे गन्धत्वभोदिता ॥२४०॥

भौतिकत्वमतोऽप्यस्तु नियमाद्विषयेष्वलम् ।
अहं शृणोमि पश्यामि जिघ्रामीत्यादिसंविदि ॥२४१॥

अहंतानुगमादाहंकारिकत्वं स्फुटं स्थितम् ।
करणत्वमतो युक्तं कर्त्रशस्पृक्त्वयोगतः ॥२४२॥

कर्तुर्विभिन्नं करणं प्रेर्यत्वात् करणं कुतः ।
करणान्तरवाञ्छायां भवेत्तत्रानवस्थितिः ॥२४३॥

तस्मात् स्वातन्त्र्ययोगेन कर्ता स्वं भेदयन् वपुः ।
कर्माशस्पर्शिनं स्वांशं करणीकुरुते स्वयम् ॥२४४॥

करणीकृततत्स्वांशतन्मयीभावनावशात् ।
करणीकुरुतेऽत्यन्तव्यतिरिक्तं कुठारवत् ॥२४५॥

तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा ।
ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते ॥२४६॥

ननु श्रीमन्मतङ्गादौ कलायाः कर्तृतोदिता ।
तस्यां सत्यां हि विद्याद्याः करणत्वार्हताजुषः ॥२४७॥

उच्यते कर्तृतैवोक्ता करणत्वे प्रयोजिका ।
तया विना तु नान्येषां करणानां स्थितिर्यतः ॥२४८॥

अतोऽसामान्यकरणवर्गात् तत्र पृथक् कृता ।
विद्यां विना हि नान्येषां करणानां निजा स्थितिः ॥२४९॥

कलां विना न तस्याश्च कर्तृत्वे ज्ञातृता यतः ।
कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः ॥२५०॥

अत एव विहीनेऽपि बुद्धिकर्मेन्द्रियैः क्वचित् ।
अन्धे पङ्गौ रूपगतिप्रकाशो न न भासते ॥२५१॥

किंतु सामान्यकरणबलाद्वेद्येऽपि तादृशि ।
रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते ॥२५२॥

तत एव त्वहंकारात् तन्मात्रस्पर्शिनोऽधिकम् ।
कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रि जज्ञिरे ॥२५३॥

वच्म्याददे त्यजाम्याशु विसृजामि व्रजामि च ।
इति याहंक्रिया कार्यक्षमा कर्मेन्द्रियं तु तत् ॥२५४॥

तेन च्छिन्नकरस्यास्ति हस्तः कर्मेन्द्रियात्मकः ।
तस्य प्रधानाधिष्ठानं परं पञ्चाङ्गुलिः करः ॥२५५॥

मुखेनापि यदादानं तत्र यत् करणं स्थितम् ।
स पाणिरेव करणं विना किं संभवेत् क्रिया ॥२५६॥

तथाभावे तु बुद्ध्यक्षैरपि किं स्यात्प्रयोजनम् ।
दर्शनं करणापेक्षं क्रियात्वादिति चोच्यते ॥२५७॥

परैर्गमौ तु करणं नेष्यते चेति विस्मयः ।
गमनोत्क्षेपणादीनि मुख्यं कर्मोपलम्भनम् ॥२५८॥

पुनर्गुणः क्रिया त्वेषा वैयाकरणदर्शने ।
क्रिया करणपूर्वेति व्याप्त्या करणपूर्वकम् ॥२५९॥

ज्ञानं नादानमित्येतत् स्फुटमान्ध्यविजृम्भितम् ।
तस्मात् कर्मेन्द्रियाण्याहुस्त्वग्वद्व्याप्तॄणि मुख्यतः ॥२६०॥

तत्स्थाने वृत्तिमन्तीति मतङ्गे गुरवो मम ।
नन्वन्यान्यपि कर्माणि सन्ति भूयांसि तत्कृते ॥२६१॥

करणान्यपि वाच्यानि तथा चाक्षेष्वनिष्ठितिः ।
नन्वेतत् खेटपालाद्यैर्निराकारि न कर्मणाम् ॥२६२॥

यत्साधनं तदक्षं स्यात् किंतु कस्यापि कर्मणः ।
एतन्नास्मत्कृतप्रश्नतृष्णासंतापशान्तये ॥२६३॥

नह्यस्वच्छमितप्रायैर्जलैस्तृप्यन्ति बर्हिणः ।
उच्यते श्रीमतादिष्टं शंभुनात्र ममोत्तरम् ॥२६४॥

स्वच्छसंवेदनोदारविकलाप्रबलीकृतम् ।
इह कर्मानुसंधानभेदादेकं विभिद्यते ॥२६५॥

तत्रानुसंधिः पञ्चात्मा पञ्च कर्मेन्द्रियाण्यतः ।
त्यागायादानसंपत्त्यै द्वयाय द्वितयं विना ॥२६६॥

स्वरूपविश्रान्तिकृते चतुर्धा कर्म यद्बहिः ।
पायुपाण्यङ्घ्रिजननं करणं तच्चतुर्विधम् ॥२६७॥

अन्तं प्राणाश्रयं यत्तु कर्मात्र करणं हि वाक् ।
उक्ताः समासतश्चैषां चित्राः कार्येषु वृत्तयः ॥२६८॥

तदेतद्व्यतिरिक्तं हि न कर्म क्वापि दृश्यते /

तत्कस्यार्थे प्रकल्प्येयमिन्द्रियाणामनिष्ठितिः ॥२६९॥

एतत्कर्तव्यचक्रं तदसांकर्येण कुर्वते ।
अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते संकरं जडाः ॥२७०॥

उक्त इन्द्रियवर्गोऽयमहंकारात् तु राजसात् ।
तमःप्रधानाहंकाराद् भोक्त्रंशच्छादनात्मनः ॥२७१॥

भूतादिनाम्नस्तन्मात्रपञ्चकं भूतकारणम् ।
मनोबुद्ध्यक्षकर्माक्षवर्गस्तन्मात्रवर्गकः ॥२७२॥

इत्यत्र राजसाहंकृद्योगः संश्लेषको द्वये ।
अन्ये त्वाहुर्मनो जातं राजसाहंकृतेर्यतः ॥२७३॥

समस्तेन्द्रियसंचारचतुरं लघु वेगवत् ।
अन्ये तु सात्त्विकात् स्वान्तं बुद्धिकर्मेन्द्रियाणि तु ॥२७४॥

राजसाद्ग्राहकग्राह्यभागस्पर्शीनि मन्वते ।
खेटपालास्तु मन्यन्ते कर्मेन्द्रियगणः स्फुटम् ॥२७५॥

राजसाहंकृतेर्जातो रजसः कर्मता यतः ।
श्रीपूर्वशास्त्रे तु मनो राजसात् सात्त्विकात्पुनः ॥२७६॥

इन्द्रियाणि समस्तानि युक्तं चैतद्विभाति नः ।
तथाहि बाह्यवृत्तीनामक्षाणां वृत्तिभासने ॥२७७॥

आलोचने शक्तिरन्तर्योजने मनसः पुनः ।
उक्तं च गुरुणा कुर्यान्मनोऽनुव्यवसायि सत् ॥२७८॥

तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति ।
तान्मात्रस्तु गणो ध्वान्तप्रधानाया अहंकृतेः ॥२७९॥

अत्राविवादः सर्वस्य ग्राह्योपक्रम एव हि ।
पृथिव्यां सौरभान्यादिविचित्रे गन्धमण्डले ॥२८०॥

यत्सामान्यं हि गन्धत्वं गन्धतन्मात्रनाम तत् ।
व्यापकं तत एवोक्तं सहेतुत्वात्तु न ध्रुवम् ॥२८१॥

स्वकारणे तिरोभूतिर्ध्वसो यत्तेन नाध्रुवम् ।
एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना ॥२८२॥

विशेषाणां यतोऽवश्यं दशा प्रागविशेषिणी ।
क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रतीर्दधत् ॥२८३॥

नभः शब्दोऽवकाशात्मा वाच्याध्याससहो यतः ।
तदेतत्स्पर्शतन्मात्रयोगात् प्रक्षोभमागतम् ॥२८४॥

वायुतामेति तेनात्र शब्दस्पर्शोभयात्मता ।
अन्ये त्वाहुर्ध्वनिः खैकगुणस्तदपि युज्यते ॥२८५॥

यतो वायुर्निजं रूपं लभते न विनाम्बरात् ।
उत्तरोत्तरभूतेषु पूर्वपूर्वस्थितिर्यतः ॥२८६॥

तत एव मरुद्व्योम्नोरवियोगो मिथः स्मृतः ।
शब्दस्पर्शौ तु रूपेण समं प्रक्षोभमागतौ ॥२८७॥

तेजस्तत्त्वं त्रिभिर्धर्मैः प्राहुः पूर्ववदेव तत् ।
तैस्त्रिभिः सरसैरापः सगन्धैर्भूरिति क्रमः ॥२८८॥

तत्र प्रत्यक्षतः सिद्धो धरादिगुणसंचयः ।
नहि गन्धादिधर्मौघव्यतिरिक्ता विभाति भूः ॥२८९॥

यथा गुणगुणिद्वैतवादिनामेकमप्यदः ।
चित्रं रूपं पटे भाति क्रमाद्धर्मास्तथा भुवि ॥२९०॥

यथा च विस्तृते वस्त्रे युगपद्भाति चित्रता ।
तथैव योगिनां धर्मसामस्त्येनावभाति भूः ॥२९१॥

गन्धादिशब्दपर्यन्तचित्ररूपा धरा ततः ।
उपायभेदाद्भात्येषा क्रमाक्रमविभागतः ॥२९२॥

तत एव क्रमव्यक्तिकृतो धीभेद उच्यते ।
षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा ॥२९३॥

तेन धर्मातिरिक्तोऽत्र धर्मी नाम न कश्चन ।
तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ ॥२९४॥

संस्पर्शः पाकजोऽनुष्णाशीतः शब्दो विचित्रकः ।
शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि ॥२९५॥

शुक्लभास्वरतोष्णत्वं चित्राः शब्दाश्च पावके ।
अपाकजश्चाशीतोष्णो ध्वनिश्चित्रश्च मारुते ॥२९६॥

वर्णात्मको ध्वनिः शब्दप्रतिबिम्बान्यथाम्बरे ।
यत्तु न स्पर्शवद्धर्मः शब्द इत्यादि भण्यते ॥२९७॥

काणादैस्तत्स्वप्रतीतिविरुद्धं केन गृह्यताम् ।
पटहे ध्वनिरित्येव भात्यबाधितमेव यत् ॥२९८॥

न च हेतुत्वमात्रेण तदादानत्ववेदनात् ।
श्रोत्रं चास्मन्मतेऽहंकृत्कारणं तत्र तत्र तत् ॥२९९॥

वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा ।
यस्त्वाह श्रोत्रमाकाशं कर्णसंयोगभेदितम् ॥३००॥

शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते ।
तस्य मन्देऽपि मुरजध्वनावाकर्णके सति ॥३०१॥

अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम् ।
नहि शब्दजशब्दस्य दूरादूररवोदितेः ॥३०२॥

श्रोत्राकाशगतस्यास्ति दूरादूरस्वभावता ।
न चासौ प्रथमः शब्दस्तावद्व्यापीति युज्यते ॥३०३॥

तत्रस्थैः सह तीव्रात्मा श्रूयमाणस्त्वनेन तु ।
कथं श्रूयेत मन्दःसन्नहि धर्मान्तराश्रयः ॥३०४॥

एतच्चान्यैरपाकारि बहुधेति वृथा पुनः ।
नायस्तं पतिताघातदाने को हि न पण्डितः ॥३०५॥

अमीषां तु धरादीनां यावांस्तत्त्वगणः पुरा ।
गुणाधिकतया तिष्ठन् व्याप्ता तावान् प्रकाशते ॥३०६॥

व्याप्यव्यापकता यैषा तत्त्वानां दर्शिता किल ।
सा गुणाधिक्यतः सिद्धा न हेतुत्वान्न लाघवात् ॥३०७॥

अहेतुनापि रागो हि व्याप्तो विद्यादिना स्फुटम् ।
तद्विना न भवेद्यत्तद्व्याप्तमित्युच्यते यतः ॥३०८॥

न लाघवं च नामास्ति किंचिदत्र स्वदर्शने ।
गुणाधिक्यादतो ज्ञेया व्याप्यव्यापकता स्फुटा ॥३०९॥

यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते ।
ऊर्ध्वता व्याप्तृता श्रीमन्मालिनीविजये स्फुटा ॥३१०॥

अतः शिवत्वात्प्रभृति प्रकाशतास्वरूपमादाय निजात्मनि ध्रुवम् ।
समस्ततत्त्वावलिधर्मसंचयैर्विभाति भूर्व्याप्तृतया स्थितैरलम् ॥३११॥

एवं जलादेरपि शक्तितत्त्वपर्यन्तधाम्नो वपुरस्ति तादृक् ।
किं तूत्तरं शक्तितयैव तत्त्वं पूर्व तु तद्धर्मतयेति भेदः ॥३१२॥

अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम् ।
एतत् तस्मात् ततः पश्येद्विस्तरार्थी विवेचकः ॥३१३॥

इति तत्त्वस्यरूपस्य कृतं सम्यक् प्रकाशनम् ॥३१४॥