प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके पञ्चदशमाह्निकम्


अथैतदुपयोगाय यागस्तावन्निरूप्यते ।
तत्र दीक्षैव भोगे च मुक्तौ चायात्युपायताम् ॥१॥

स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते ।
यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः ॥२॥

सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायंभुवे विभुः ।
योग्यतावशतो यत्र वासना यस्य तत्र सः ॥३॥

योज्यो न च्यवते तस्मादिति श्रीमालिनीमते ।
वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः ॥४॥

न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे ।
न च योगाधिकारित्वमेकमेवानया भवेत् ॥५॥

अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया ।
इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता ॥६॥

दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते ।
पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता ॥७॥

येषामध्यवसायोऽस्ति न विद्यां प्रत्यशक्तितः ।
सुखोपायमिदं तेषां विधानमुदितं गुरोः ॥८॥

इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता ।
सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका ॥९॥

उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः ।
हेयादेयत्वकथने विद्यापाद इति स्फुटम् ॥१०॥

तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः ।
ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः ॥११॥

ज्ञानं च शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः ।
अतोऽस्य संस्क्रियामात्रोपयोगो दीक्षया कृतः ॥१२॥

यत्र तत्रास्तु गुरुणा योजितोऽसौ फलं पुनः ।
स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल ॥१३॥

यस्य त्वीशप्रसादेन दिव्या काचन योग्यता ।
गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता ॥१४॥

ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात् ।
सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥१५॥

इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः ।
स उत्तमाधिकारी स्याज्ज्ञानवान्हि गुरुर्मतः ॥१६॥

आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम् ।
इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम् ॥१७॥

ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे ।
दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ ॥१८॥

तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः ।
उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः ॥१९॥

स च प्रागुक्तशक्त्यन्यतमपातपवित्रितम् ।
परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत् ॥२०॥

उक्तं स्वच्छन्दशास्त्रे च शिष्यं पृच्छेद्गुरुः स्वयम् ।
फलं प्रार्थयसे यादृक्तादृक्साधनमारभे ॥२१॥

वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता ।
मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः ॥२२॥

वासनाभेदतो भिन्नं शिष्याणां च गुरोः फलम् ।
साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः ॥२३॥

लोकधर्मी फलाकांक्षी शुभस्थश्चाशुभोज्झितः ।
द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः ॥२४॥

बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः ।
अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने ॥२५॥

विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका ।
दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः ॥२६॥

अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम् ।
मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं न शाधयेत् ॥२७॥

साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत् ।
शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी ॥२८॥

अधर्मरूपिणामेव न शुभानां तु शोधनम् ।
लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता ॥२९॥

प्रारब्धदेहभेदे तु भुङ्क्तेऽसावणिमादिकम् ।
भुक्त्वोर्ध्वं याति यत्रैष युक्तोऽथ सकलेऽकले ॥३०॥

समयाचारपाशं तु निर्बीजायां विशोधयेत् ।
दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा ॥३१॥

सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते ।
अतीतानागतारब्धपाशत्रयवियोजिका ॥३२॥

दीक्षावसाने शुद्धस्य देहत्यागे परं पदम् ।
देहत्यागे सबीजायां कर्माभावाद्विपद्यते ॥३३॥

समयाचारपाशं तु दीक्षितः पालयेत्सदा ।
एवं पृष्ट्वा परिज्ञाय विचार्य च गुरुः स्वयम् ॥३४॥

उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत् ।
आयातशक्तिपातस्य दीक्षां प्रति न दैशिकः ॥३५॥

अवज्ञां विदधीतेति शंभुनाज्ञा निरूपिता ।
स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम् ॥३६॥

अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः ।
भिक्षोपात्तं निजं वाथ धनं प्राग्गुरवे शिशुः ॥३७॥

दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते ।
तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः ॥३८॥

स एव हि गुरुः कार्यस्ततोऽसौ दीक्षणे क्षमः ।
शिवतावेशिता चास्य बहूपाया प्रदर्शिता ॥३९॥

क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः ।
बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि ॥४०॥

संदधद्दृढमभ्येति शिवभावं प्रसन्नधीः ।
शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते ॥४१॥

शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः ।
शिवोऽयं शिव एवास्मीत्येवमाचार्यशिष्ययोः ॥४२॥

हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः ।
नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम् ॥४३॥

सिद्ध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं संप्रकाशते ।
श्रीब्रह्मयामले देव इति तेन न्यरूपयत् ॥४४॥

श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः ।
किन्तु स्नानं सुवस्त्रत्वं तुष्टिसंजननं भवेत् ॥४५॥

तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात् ।
अयत्नतोऽन्तरन्तः स्यान्नैर्मल्य स्नायतां ततः ॥४६॥

स्नानं च देवदेवस्य यन्मूर्त्यष्टकमुच्यते ।
तत्रैवं मन्त्रदीप्तेऽन्तर्मलदाहे निमज्जनम् ॥४७॥

तत्रेष्टमन्त्रहृदयो गोरजोऽन्तः पदत्रयम् ।
गत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम् ॥४८॥

अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः ।
जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः ॥४९॥

निमज्जेत्साङ्गमूलाख्यं जपन्ना तन्मयत्वतः ।
उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे ॥५०॥

सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम् ।
देवान्पितॄन्मुनीन्यक्षान् रक्षांस्यन्यच्च भौतिकम् ॥५१॥

सर्वं संतर्पयेत्प्राणो वीर्यात्मा स च भास्करः ।
ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः ॥५२॥

आ तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम् ।
अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम् ॥५३॥

कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम् ।
भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः ॥५४॥

हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम् ।
तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम् ॥५५॥

गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक् ।
गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत् ॥५६॥

अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः ।
स्मरन्मन्त्रं यदासीत कान्या निर्मलता ततः ॥५७॥

यदि वा निर्मलाद्व्योम्नः पतता वारिणा तनुम् ।
स्पर्शयेन्मन्त्रजपयुङ् नाभसं स्नानमीदृशम् ॥५८॥

एवं सोमार्कतेजःसु शिवभावेन भावनात् ।
निमज्जन्धौतमालिन्यः क्व वा योग्यो न जायते ॥५९॥

आत्मैव परमेशानो निराचारमहाह्रदः ।
विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः ॥६०॥

इति स्नानाष्टकं शुद्धावुत्तरोत्तरमुत्तमम् ।
सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत् ॥६१॥

घृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः ।
अभेदं च क्रमादेति स्नानाष्टकपरो मुनिः ॥६२॥

एता ह्यनुग्रहात्मानो मूर्तयोऽष्टौ शिवात्मिकाः ।
स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः ॥६३॥

अनेन विधिनार्चायां कन्दाधारादियोजनाम् ।
कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत् ॥६४॥

तथाहि योगसंचारे मन्त्राः स्युर्भुवि पार्थिवाः ।
आप्ये आप्या यावदमी शिवे शिवमया इति ॥६५॥

श्रीनिर्मर्यादशास्त्रेऽपि तदित्थं सुनिरूपितम् ।
धरादेश्च विशेषोऽस्ति वीरसाधकसंमतः ॥६६॥

रणरेणुर्वीरजलं वीरभस्म महामरुत् ।
श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ ॥६७॥

आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः ।
स्नानार्चादावित्युपास्यं वीराणां विग्रहाष्टकम् ॥६८॥

श्रीमन्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना ।
सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना ॥६९॥

कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम् ।
कृत्वा निरीक्षणं प्रोक्ष्य ताडनाप्यायगुण्ठनम् ॥७०॥

मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम् ।
तेनात्मसेकः कलशमुद्रया चाभिषेचनम् ॥७१॥

देवतातर्पणं देहप्राणोभयपथाश्रितम् ।
सर्वतीर्थतपोयज्ञदानादि फलमश्नुते ॥७२॥

मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत् ।
यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः ॥७३॥

शिवशक्त्योर्न भेदोऽस्ति शक्त्युत्थास्तु मरीचयः ।
तासामानन्दजनकं मद्यं शिवमयं ततः ॥७४॥

प्रबुद्धे संविदः पूर्णे रूपेऽधिकृतिभाजनम् ।
मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत् ॥७५॥

युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम् ।
अस्य स्नानाष्टकस्यास्ति बाह्यान्तरतया द्विता ॥७६॥

आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः ।
यतो रन्ध्रोर्ध्वगाः सार्धमङ्गुलं व्याप्य संस्थिताः ॥७७॥

मूर्तयोऽष्टावपि प्रोक्ताः प्रत्येकं द्वादशान्ततः ।
एषामेकतमं स्नानं कुर्याद्द्वित्र्यादिशोऽपिवा ॥७८॥

इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ ।
स्नानानन्तरकर्तव्यमथेदमुपदिश्यते ॥७९॥

भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः ।
पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते ॥८०॥

तद्बाह्यमिह तत्सिद्धिविशेषाय न मुक्तये ।
आभ्यन्तरं नगाग्रादि देहान्तः प्राणयोजनम् ॥८१॥

साधकानामुपायः स्यात्सिद्धये नतु मुक्तये ।
पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते ॥८२॥

तच्च बाह्यान्तराद्रूपाद्बहिर्देहे च सुस्फुटम् ।
यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत् ॥८३॥

तस्येच्छा पीठमाधारो यत्रस्थं सचराचरम् ।
अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः ॥८४॥

नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः ।
पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम् ॥८५॥

ज्ञेयं संकल्पनारूपमर्धपीठमतः परम् ।
शाक्तं कुण्डलिनी वेदकलं च त्र्युपपीठकम् ॥८६॥

देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः ।
लालनं बैन्दवं व्याप्तिरिति संदोहकत्रयम् ॥८७॥

पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः ।
नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् ॥८८॥

क्षेत्राष्टकं क्षेत्रविदो हृदम्भोजदलाष्टकम् ।
प्रयागो वरणा पश्चादट्टहासो जयन्तिका ॥८९॥

वाराणसी च कालिङ्गं कुलूता लाहुला तथा ।
उपक्षेत्राष्टकं प्राहुर्हृत्पद्माग्रदलाष्टकम् ॥९०॥

विरजैरुडिका हाला एला पूः क्षीरिका पुरी ।
मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः ॥९१॥

हृत्पद्मदलसन्धीनामुपसंदोहकाष्टता ।
जालन्धरं च नैपालं कश्मीरा गर्गिका हरः ॥९२॥

म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं च खेटकम् ।
द्विपथं द्वयसंघट्टात्त्रिपथं त्रयमेलकात् ॥९३॥

चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते ।
नासान्ततालुरन्ध्रान्तमेतद्देहे व्यवस्थितम् ॥९४॥

भ्रूमध्यकण्ठहृत्संज्ञं मध्यमं तदुदाहृतम् ।
नाभिकन्दमहानन्दधाम तत्कौलिकं त्रयम् ।९५॥

पर्वताग्रं नदीतीरमेकलिङ्गं तदेव च ।
किं वातिबहुना सर्वं संवित्तौ प्राणगं ततः ॥९६॥

ततो देहस्थितं तस्माद्देहायतनगो भवेत् ।
बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः ॥९७॥

देव्यः स्वभावाज्जायन्ते पीठं तद्वाह्यमुच्यते ।
यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः ॥९८॥

तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित् ।
यथाचातन्मयोऽप्येति पापितां तैः समागमात् ॥९९॥

तथा पीठस्थितोऽप्येति ज्ञानयोगादिपात्रताम् ।
मुख्यत्वेन शरीरेऽन्तः प्राणे संविदि पश्यतः ॥१००॥

विश्वमेतत्किमन्यैः स्याद्बहिर्भ्रमणडम्बरैः ।
इत्येवमन्तर्बाह्ये च तत्तच्चक्रफलार्थिनाम् ॥१०१॥

स्थानभेदो विचित्रश्च स शास्त्रे संख्ययोज्झितः ।
श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम् ॥१०२॥

सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ च ।
इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः ॥१०३॥

तदधिष्ठिते च चक्रे शारीरे बहिरथो भवेद्यागः ।
मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते ॥१०४॥

देशोपाया न सा यस्मात्सा हि भावप्रसादतः ।
उक्तं च श्रीनिशाचारे सिद्धिसाधनकाङ्क्षिणाम् ॥१०५॥

स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम् ।
मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम् ॥१०६॥

गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम् ।
यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते ॥१०७॥

तत्रैव धाम्नि बाह्येऽन्तर्यागश्रीः प्रतितिष्ठति ।
नान्यत्रगत्या मोक्षोऽस्ति सोऽज्ञानग्रन्थिकर्तनात् ॥१०८॥

तच्च संविद्विकासेन श्रीमद्वीरावलीपदे ।
गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः ॥१०९॥

हेतुरित्युभयत्रापि यागौको यन्मनोरमम् ।
नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि ॥११०॥

सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम् ।
विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत् ॥१११॥

साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते ।
उक्तं श्रीसारशास्त्रे च निर्विकल्पो हि सिध्यति ॥११२॥

क्लिश्यन्ते सविकल्पास्तु कल्पोक्तेऽपि कृते सति ।
तदाक्रम्य बलं मन्त्रा अयमेवोदयः स्फुटः ॥११३॥

इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम् ।
तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु ॥११४॥

तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत् ।
यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः ॥११५॥

न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये ।
मातृकां मालिनीं वाथ द्वितयं वा क्रमाक्रमात् ॥११६॥

सृष्ट्यप्ययद्वयैः कुर्यादेकैकं संघशो द्विशः ।
ललाटवक्त्रे दृक्कर्णनासागण्डरदौष्ठगे ॥११७॥

द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश ।
दक्षान्ययोः स्कन्धबाहुकराङ्गुलिनखे कचौ ॥११८॥

वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत् ।
पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव ॥११९॥

त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान् ।
इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते ॥१२०॥

न शिखा ऋ ॠ ऌ ऌऌ च शिरोमाला थ मस्तकम् ।
नेत्राणि चोर्ध्वे धोऽन्ये ई घ्राणं मुद्रे णु णू श्रुती ॥१२१॥

बकवर्गैआ वक्त्रदन्तजिह्वागिरि क्रमात् ।
वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ ॥१२२॥

ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके ।
प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक् ॥१२३॥

प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ ।
मशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा ॥१२४॥

एऐकारौ तत्परौ तु जङ्घे चरणगौ दफौ ।
इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः ॥१२५॥

कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः ।
अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात् ॥१२६॥

कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् ।
योनिबीजार्णसांकर्यं बहुधा यद्यपि स्थितम् ॥१२७॥

तथापि नादिफान्तोऽयं क्रमो मुख्यः प्रकीर्तितः ।
फकारादिसमुच्चारान्नकारान्तेऽध्वमण्डलम् ॥१२८॥

संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम् ।
अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः ॥१२९॥

भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी ।
शब्दराशेर्भैरवस्य यानुच्छूनतयान्तरी ॥१३०॥

सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता ।
मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः ॥१३१॥

फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी ।
संहारदानादानादिशक्तियुक्ता यतो रलौ ॥१३२॥

एकत्वेन स्मरन्तीति शंभुनाथो निरूचिवान् ।
शब्दराशिर्मालिनी च शिवशक्त्यात्मकं त्विदम् ॥१३३॥

एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता ।
तेन भ्रष्टे विधौ वीर्ये स्वरूपे वानया परम् ॥१३४॥

मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः ।
उक्तं श्रीपूर्वतन्त्रे च विशेषविधिहीनिते ॥१३५॥

न्यस्येच्छाक्तशरीरार्थं भिन्नयोनि तु मालिनीम् ।
विशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः ॥१३६॥

यथेष्टफलसिद्ध्यै चेत्यत्रैवेदमभाषत ।
साञ्जना अपि ये मन्त्रा गारुडाद्या न ते परम् ॥१३७॥

मालिन्या पूरिताः सिध्द्यै बलादेव तु मुक्तये ।
तस्मात्फलेप्सुरप्यन्य मन्त्रं न्यस्यात्र मालिनीम् ॥१३८॥

न्यस्येज्जप्त्वापिच जपेदयत्नादपवृक्तये ।
इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद्द्वयम् ॥१३९॥

सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद्द्वयोः ।
अक्षह्रीं नफह्रीमेतौ पिण्डौ संघाविहानयोः ॥१४०॥

वाचकौ न्यास एताभ्यां कृते न्यासेऽथवैककः ।
एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः ॥१४१॥

सामुदायिकविन्यासे पृथक् पिण्डाविमौ क्रमात् ।
अक्रमादथवा न्यस्येदेकमेवाथ योजयेत् ॥१४२॥

क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत् ।
अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा ॥१४३॥

यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः स क्रियां परम् ।
संस्कृत्यै स्वेच्छया कुर्यात् प्राङ्नयेनाथ भूयसीम् ॥१४४॥

मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत् ।
शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम् ॥१४५॥

एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत् ।
उक्तनीत्यैव तत्पश्चात् पूजयेन्न्यस्तवाचकैः ॥१४६॥

यतः समस्तभावानां शिवात्सिद्धिमयादथो ।
पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया ॥१४७॥

समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम् ।
पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि ॥१४८॥

यथाहि वाहकटकभ्रमस्वातन्त्र्यमागतः ।
अश्वः संग्रामरूढोऽपि तां शिक्षां नातिवर्तते ॥१४९॥

तथार्चनक्रियाभ्यासशिवीभावितकारकः ।
गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति ॥१५०॥

तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात् ।
संपूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत् ॥१५१॥

उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः ।
अहो स्वादुरसः कोऽपि शिवपूजामयोत्सवः ॥१५२॥

षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् ।
तदेतादृक्पूर्णशिवविश्वावेशाय येऽर्चनम् ॥१५३॥

कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम् ।
विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका ॥१५४॥

इत्थमैक्यसमापत्तिदानात्परफलप्रदा ।
साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम् ॥१५५॥

विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत् ।
उक्तं च परमेशेन न विधिर्नार्चनक्रमः ॥१५६॥

केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु ।
तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः ॥१५७॥

समस्तकारकैकात्म्यं तेनास्याः परमं वपुः ।
यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात् ॥१५८॥

यष्टृयाज्यतदाधारकरणादानसंप्रदाः ।
न्यासक्रमेण शिवतातादात्म्यमधिशेरते ॥१५९॥

अर्घपात्रमपादानं तस्मादादीयते यतः ।
यच्च तत्स्थं जलाद्येतत्करणं शोधनेऽर्चने ॥१६०॥

अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति ।
शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति ॥१६१॥

ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः ।
न चासंशोधितं वस्तु किंचिदप्युपकल्पयेत् ॥१६२॥

तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि ।
अशुद्धता च विज्ञेया पशुतच्छासनाशयात् ॥१६३॥

स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात् ।
तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात् ॥१६४॥

कियतोऽपि तदत्यन्तं योग्यं यागेऽत्र जीववत् ।
अनेन नययोगेन यदासत्तिविदूरते ॥१६५॥

संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत् ।
वीराणामत एवेह मिथः स्वप्रतिमामृतम् ॥१६६॥

तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः ।
उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत् ॥१६७॥

अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः ।
तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम् ॥१६८॥

आनन्दजननं पूजायोग्यं हृदयहारि यत् ।
अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु ॥१६९॥

मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम् ।
लोकस्थितिं रचयितुं मद्यादेः पशुशासने ॥१७०॥

प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता ।
पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः ॥१७१॥

विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता ।
न पत्न्या च विना यागः सर्वदैवततुल्यता ॥१७२॥

सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः ।
पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना ॥१७३॥

घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत् ।
भक्ष्यो हंसो न भक्ष्योऽसाविति रिप्रतिपत्तिषु ॥१७४॥

स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः ।
अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी ॥१७५॥

मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः ।
वेदेऽपि यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते ॥१७६॥

न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम् ।
अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः ॥१७७॥

एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः ।
क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि ॥१७८॥

तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम् ।
प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः ॥१७९॥

सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम् ।
यागोपकरणं पश्चाद्बाह्ययागं समाचरेत् ॥१८०॥

प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि ।
त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत् ॥१८१॥

योगिनीश्च पृथङ्मन्त्रैरोंनमोनामयोजितैः ।
एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः ॥१८२॥

तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः ।
एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत् ॥१८३॥

त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते ।
गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः ॥१८४॥

मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा ।
क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च ॥१८५॥

एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम् ।
कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः ॥१८६॥

अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत् ।
द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी ॥१८७॥

पद्माधारगताः सर्वेऽप्युदिता विघ्ननाशकाः ।
पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः ॥१८८॥

अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः ।
पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः ॥१८९॥

एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम् ।
रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम् ॥१९०॥

द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात् ।
क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत् ॥१९१॥

प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत् ।
दिशोऽस्त्रेण च बध्नीयाच्छादयेद्वर्मणाखिलाः ॥१९२॥

तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा ।
विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान् ॥१९३॥

यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका ।
प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः ॥१९४॥

उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा ।
उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत् ॥१९५॥

तस्मात्संवित्प्रकाशोऽयं मूर्त्याभासनभागतः ।
पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः ॥१९६॥

तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम् ।
तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः ॥१९७॥

किंचित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः ।
किंचित्प्रकाशयोग्यस्य संमुखं प्रसरत्पुरः ॥१९८॥

पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम् ।
प्रकाशः संमुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः ॥१९९॥

यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः ।
दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते ॥२००॥

तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि ।
एवमाशाचतुष्केऽस्मिन्मध्यविश्रान्तियोगतः ॥२०१॥

चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः ।
एवं प्रकाशमात्रेऽस्मिन्वरदे परमे शिवे ॥२०२॥

दिग्विभागः स्थितो लोके शास्त्रेऽपिच तथोच्यते ।
क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः ॥२०३॥

ईशन्रघोरवामाख्यसद्योऽधोभेदतो दिशः ।
ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत् ॥२०४॥

पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः ।
पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते ॥२०५॥

पातालवक्त्रमधरमप्रकाशतया स्थितेः ।
खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि ॥२०६॥

मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते ।
तदेव मुख्यतोऽधस्तादप्रकाशं यतः स्फुटम् ॥२०७॥

मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत् ।
प्रकाशत्वाद्दिश्यमानमतोऽस्मिन्दिक्चतुष्टयम् ॥२०८॥

पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः ।
ततोऽपीशस्तथा रुद्रो विष्णुर्ब्रह्मा तथा स्थितः ॥२०९॥

ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम् ।
न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः ॥२१०॥

दिग्विभागस्तु तज्जोऽस्ति वदनानां चतुष्टयात् ।
पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ ॥२११॥

ततो ब्रह्माण्डमध्येऽपि ज्ञानशक्तिर्विभो रविः ।
दिशां विभागं कुरुते प्रकाशघनवृत्तिमान् ॥२१२॥

तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते ।
तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम् ॥२१३॥

तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम् ।
तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत् ॥२१४॥

तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक् ।
तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम् ॥२१५॥

यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः ।
तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम् ॥२१६॥

तदेव पूर्वमेतेषां यथाध्वनि निरूपितम् ।
सा सा दिक्च तथा तस्य फलदापि विपर्यये ॥२१७॥

विचित्रे फलसंपत्तिः प्रकाशाधीनिका यतः ।
इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी ॥२१८॥

अधिष्ठिता महेशेन चित्रतद्रूपधारिणा ।
किं वातिबहुना योऽसौ यष्टा तत्संमुखादितः ॥२१९॥

दिशोऽपि प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः ।
स्वानुसारकृतं तं च दिग्विभागं सदा शिवः ॥२२०॥

अधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः ।
स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते ॥२२१॥

ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः ।
प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः ॥२२२॥

सोऽग्निर्यन्तृत्वभीमत्वे यमो रक्षस्तदूनिमा ।
प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते ॥२२३॥

भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः ।
अदृष्टविग्रहोऽनन्तो ब्रह्मोर्ध्वे वृंहको विभुः ॥२२४॥

प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः ।
इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते ॥२२५॥

तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते ।
सर्वगोऽप्यनिलो यद्वद्व्यजनेनोपवीजितः ॥२२६॥

प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम् ।
तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम् ॥२२७॥

साधकाश्वाससंबुद्धास्तत्तत्स्वेष्टफलप्रदाः ।
एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः ॥२२८॥

अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा ।
साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत् ॥२२९॥

स्थितस्तदनुसारेण मध्यीभवति शंकरः ।
स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः ॥२३०॥

सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः ।
तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः ॥२३१॥

उदङ्मुखः स्यात् पाश्चात्यं ग्रहीतुं पूर्वतोमुखः ।
उपविश्य निजस्थाने देहशुद्धिं समाचरेत् ॥२३२॥

अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम् ।
अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम् ॥२३३॥

दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसंज्ञितम् ।
तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम् ॥२३४॥

तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा ।
देहपुर्यष्टकाहन्ताविध्वंसादेव जायते ॥२३५॥

नहि सद्भावमात्रेण देहोऽसावन्यदेहवत् ।
अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम् ॥२३६॥

तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः ।
तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि ॥२३७॥

तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः ।
संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् ॥२३८॥

सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका ।
ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः ॥२३९॥

अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत् ।
अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः ॥२४०॥

त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते ।
ततोऽघोराष्टकन्यासः शिरस्तच्चरणात्मकम् ॥२४१॥

ततोऽपि शिवसद्भावन्यासः स्वांगस्य संयुतः ।
इत्थ कृते पञ्चकेऽस्मिन्यत्तन्मुख्यतया भवेत् ॥२४२॥

उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत् ।
तेनात्र न्यासयोग्योऽसौ भगवान्रतिशेखरः ॥२४३॥

ऊर्ध्वे न्यास्यो नवाख्यस्य मुख्यत्वेऽन्योन्यधामता ।
एवं भैरवसद्भावनाथे मुख्यतया यदि ॥२४४॥

उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः ।
इत्थं श्रीपूर्वशास्त्रे मे संप्रदायं न्यरूपयत् ॥२४५॥

शंभुनाथो न्यासविधौ देवो हि कथमन्यथा ।
न्यास विवर्ज्यतेऽमुष्मिन्नङ्गान्यप्यस्य सन्ति हि ॥२४६॥

मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः ।
शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः ॥२४७॥

अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम् ।
परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम् ॥२४८॥

पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात् ।
ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य-ऊरुतः ॥२४९॥

जानुपादेऽप्यघोर्याद्यं ततो विद्याङ्गपञ्चकम् ।
ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम् ॥२५०॥

योगेश्वरीं परां पूर्णां कालसंकर्षिणीं ध्रुवाम् ।
अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम् ॥२५१॥

साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः ।
परैव देवीत्रितयमध्ये याभेदिनी स्थिता ॥२५२॥

सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता ।
सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः ॥२५३॥

मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम् ।
पञ्चाङ्गानि परा शक्तिर्न्यासः शाक्तोऽपि षड्विधः ॥२५४॥

यामलोऽयं महान्यासः सिद्धिमुक्तिफलप्रदः ।
मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत् ॥२५५॥

गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम् ।
मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात् ॥२५६॥

यावन्तः कीर्तिता भेदाः शंभुशक्त्यणुवाचकाः ।
तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः ॥२५७॥

किंत्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः ।
षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः ॥२५८॥

मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा ।
पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका ॥२५९॥

षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम् ।
एवं षोढामहान्यासे कृते विश्वमिदं हठात् ॥२६०॥

देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत् ।
मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा ॥२६१॥

अभेदमानीय कृता शुद्धा न्यासबलक्रमात् ।
तेन येऽचोदयन्मूढाः पाशदाहविधूनने ॥२६२॥

कृते शान्ते शिवे रूढः पुनः किमवरोहति ।
इति ते दूरतो ध्वस्ताः परमार्थं हि शांभवम् ॥२६३॥

न विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः ।
न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् ॥२६४॥

सर्वेतराध्वव्यावृत्तो घटतुल्योऽस्ति कुत्रचित् ।
महाप्रकाशरूपा हि येयं संविद्विजृम्भते ॥२६५॥

स शिवः शिवतैवास्य वैश्वरूप्यावभासिता ।
तथाभासनयोगोऽतः स्वरसेनास्य जृम्भते ॥२६६॥

भास्यमानोऽत्र चाभेदः स्वात्मनो भेद एव च ।
भेदे विजृम्भिते माया मायामातुर्विजृम्भते ॥२६७॥

अभेदे जृम्भतेऽस्यैव मायामातुः शिवात्मता ।
मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात् ॥२६८॥

शिव एव तदभ्यासफलं न्यासादि कीर्तितम् ।
यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा ॥२६९॥

तथा शिवोऽहं नान्योऽस्मीत्येवं भावयतस्तथा ।
एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम् ॥२७०॥

शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता ।
अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः ॥२७१॥

कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः ।
तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम् ॥२७२॥

भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत् ।
प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम् ॥२७३॥

विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति ।
ततः संसारभागीयतथानिश्चयशातिनीम् ॥२७४॥

नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत् ।
ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः ॥२७५॥

न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम् ।
एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम् ॥२७६॥

न्यासमात्रात् तथाभूतं देहं पुष्पादिनार्चयेत् ।
पृथङ्मन्त्रैर्विस्तरेण संक्षेपान्मूलमन्त्रतः ॥२७७॥

धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः ।
संसारवामाचारत्वात्सर्वं वामकरेण तु ॥२७८॥

कुर्यात्तर्पणयोगं च दैशिकस्तदनामया ।
वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम् ॥२७९॥

वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम् ।
श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने ॥२८०॥

सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।
तत्फलं कोटिगुणितमनामातर्पणात्प्रिये ॥२८१॥

श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने ।
तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत् ॥२८२॥

शेषं वामकरेणैव पूजाहोमजपादिकम् ।
एवमानन्दसंपूर्णं सर्वौन्मुख्यविवर्जितम् ॥२८३॥

यागेन देहं मिष्पाद्य भावयेत शिवात्मकम् ।
गलिते विषयौन्मुख्ये पारिमित्ये विलापिते ॥२८४॥

देहे किमवशिष्येत शिवानन्दरसादृते ।
शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम् ॥२८५॥

देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः ।
विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः ॥२८६॥

बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति ।
तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः ॥२८७॥

उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता ।
ततोऽर्घपात्रं कर्तव्यं शिवाभेदमयं परम् ॥२८८॥

आनन्दरससंपूर्णं विश्वदैवततर्पणम् ।
यथैव देहे दाहादिपूजान्तं तद्वदेव हि ॥२८९॥

अर्घपात्रेऽपि कर्तव्यं समासव्यासयोगतः ।
कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम् ॥२९०॥

सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम् ।
मुक्तिकामस्य नो किंचिन्निषिद्धं विहितं च नो ॥२९१॥

यदेव हृद्यं तद्योग्यं शिवसंविदभेदने ।
कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम् ॥२९२॥

कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम् ।
अर्घपात्रार्चनादत्तपुष्पसंकीर्णताभयात् ॥२९३॥

नार्घपात्रेऽत्र कुसुमं कुर्याद्देवार्चनाकृते ।
अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम् ॥२९४॥

मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम् ।
एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान् ॥२९५॥

अन्योन्यतन्मयीभूतान् पूजयेच्छिवतादृशे ।
तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति ॥२९६॥

शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते ।
न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् ॥२९७॥

धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः ।
पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात् ॥२९८॥

प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम् ।
ईषत्समन्तादमलमिदमामलसारकम् ॥२९९॥

ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि ।
तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः ॥३००॥

तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम् ।
वह्निप्रागादि माया हि तत्सूतिर्विभवस्तु धीः ॥३०१॥

मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम् ।
शुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम् ॥३०२॥

तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्रयोः ।
प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः ॥३०३॥

दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम् ।
विद्यापद्मेऽत्र तच्चोक्तमपि प्राग्दर्श्यते पुनः ॥३०४॥

वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी ।
भूतदमनी च मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात् ॥३०५॥

विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा ।
ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः ॥३०६॥

दलकेसरमध्येषु सूर्येन्दुदहनत्रयम् ।
निजाधिपैर्ब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत् ॥३०७॥

मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम् ।
आसनं त्वेतदेव स्यान्नतु मायाञ्जनाञ्जितम् ॥३०८॥

रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे च सदाशिवम् ।
न्यस्येत्स च महाप्रेत इति शास्त्रेषु भण्यते ॥३०९॥

समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः ।
प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् ॥३१०॥

विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः ।
सदाशिवीभूय ततः परं शिवमुपाश्रिताः ॥३११॥

अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः ।
कृशो मेयत्वदौर्बल्यात्प्रेतोऽट्टहसनादितः ॥३१२॥

तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम् ।
नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम् ॥३१३॥

अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम् ।
पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम् ॥३१४॥

अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः ।
आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः ॥३१५॥

एतान्येव तु तत्त्वानि लीनानि परभैरवे ।
तादात्म्येनाथ सृष्टानि भिदेवार्च्यत्वयोजने ॥३१६॥

श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु ।
एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम् ॥३१७॥

पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम् ।
सृष्टत्वादपरं तत्त्वजालमासनतास्पदम् ॥३१८॥

विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः ।
सदाशिवान्तं समनापर्यन्तं मतयामले ॥३१९॥

उन्मनान्तमिहाख्यातमित्येतत्परमासनम् ।
अर्चयित्वासनं पूज्या गुरुपङ्क्तिस्तु भाविवत् ॥३२०॥

तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम् ।
न्यस्येद्व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते ॥३२१॥

सदाशिवं महाप्रेतं मूर्तिं सार्धाक्षरां यजेत् ।
परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति ॥३२२॥

विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत् ।
मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् ॥३२३॥

नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम् ।
मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः ॥३२४॥

परापरां रक्तवर्णां किंचिदग्रां न भीषणाम् ।
अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् ॥३२५॥

प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः ।
ततः सांकल्पिकं युक्तं वपुरासां विचिन्तयेत् ॥३२६॥

कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम् ।
कपालशूलखट्वाङ्गवराभयघटादिकम् ॥३२७॥

वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत् ।
वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः ॥३२८॥

अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये ।
सर्वं ततोऽङ्गवक्त्रादि लोकपालास्त्रपश्चिमम् ॥३२९॥

मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम् ।
ततो मध्यगतात्तस्माद्बोधराशेः सदैवतात् ॥३३०॥

अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक् ।
मध्यगा किल या देवी सैव सद्भावरूपिणी ॥३३१॥

कालसंकर्षिणी घोरा शान्ता मिश्रा च सर्वतः ।
सिद्धातन्त्रे च सैकार्णा परा देवीति कीर्तिता ॥३३२॥

परा तु मातृका देवी मालिनी मध्यगोदिता ।
मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम् ॥३३३॥

तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति ।
ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे ॥३३४॥

स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत् ।
श्रीदेव्यायामले चोक्तं यागे डामरसंज्ञिते ॥३३५॥

नासाग्रे त्रिविधं कालं कालसंकर्षिणी सदा ।
मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति ॥३३६॥

पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु ।
कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् ॥३३७॥

इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी ।
याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् ॥३३८॥

इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके ।
स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः ॥३३९॥

शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु ।
प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते ॥३४०॥

भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु ।
भिन्नाभिन्ने तदियान् सुशिवान्तोऽध्वोदितः प्रेते ॥३४१॥

ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः ।
अन्योन्यासंकीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः ॥३४२॥

पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन ।
ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया ॥३४३॥

किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः ।
भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम् ॥३४४॥

बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत ।
संभाव्यवेद्यकालुष्ययोगतोऽन्योन्यलब्धसंकरतः ॥३४५॥

प्राक् प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा न ।
अन्योन्यात्मकभेदावच्छेदनकलनसंग्रसिष्णुतया ।
स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता ॥३४६॥

सैव च भूयः स्वस्मात्संकर्षति कालमिह बहिष्कुरुते ।
संकर्षिणीति कथिता मातृष्वेतेषु सद्भावः ॥३४७॥

तत्त्वं सत्ता प्राप्तिर्मातृषु मेयोऽनया संश्च ।
विश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम् ॥३४८॥

एषणविदिक्रियात्मकमेतत्पूज्यं यतोऽनवच्छिन्नम् ।
यस्मिन्सर्वावच्छेददिशोऽपि स्युः समाक्षिप्ताः ॥३४९॥

अविकल्पमिह न याति हि पूज्यत्वं नच विकल्प एकत्र ।
बहवो धर्मास्तस्माद् यो धर्मस्तावतो धर्मान् ॥३५०॥

आक्षिपति तत्र रूढः सर्वोत्कृष्टोऽधरस्थितास्त्वन्ये ।
इति भैरवपरपूजातत्त्वं श्रीडामरे महायागे ॥३५१॥

स्वयमेव सुप्रसन्नः श्रीमान् शंभुर्ममादिक्षत् ।
बाह्ययागे तु पद्मानां त्रितयेऽपि प्रपूजयेत् ॥३५२॥

अस्त्रान्तं परिवारौघमिति नो दैशिकागमः ।
अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम् ॥३५३॥

शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये ।
अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसंज्ञकम् ॥३५४॥

पत्राष्टकेऽष्टकयुगमघोरादेः स्वयामलम् ।
तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः ॥३५५॥

सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत् ।
लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात् ॥३५६॥

इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः ।
तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम् ॥३५७॥

ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा ।
एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः ॥३५८॥

नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन् ।
मन्त्रचक्रं तत्र विश्वं ज्वह्वन्संपादयेद्धुतिम् ॥३५९॥

दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः ।
चिकीर्षुर्देह एवादौ भूयस्तं मुख्यतोऽर्पयेत् ॥३६०॥

द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन् ।
देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् ॥३६१॥

मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका ।
खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् ॥३६२॥

अमुष्माच्छाम्भवाच्छूलाद्ध्रासयेच्चतुरङ्गुलम् ।
शाक्ते ततोऽप्याणवे तत्त्रिशूलत्रितयं स्थितम् ॥३६३॥

तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः ।
किं किं न जायते किं वा न वेत्ति न करोति वा ॥३६४॥

एकैकामथवा देवीं मन्त्रं वा पद्मगं यजेत् ।
यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः ॥३६५॥

इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजम् ।
शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत् ॥३६६॥

बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते ।
अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः ॥३६७॥

यस्तु सिद्ध्यादिविमुखः स बहिर्यजति प्रभुम् ।
अन्तर्महायागरूढ्यै तयैवासौ कृतार्थकः ॥३६८॥

कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम् ।
दिक्षु क्षिपेद्विघ्ननुदे संहृत्यैशीं दिशं नयेत् ॥३६९॥

निरीक्षणं प्रोक्षणं च ताडनाप्यायने तथा ।
विगुण्ठनं च संस्काराः साधारास्त्रिशिरोमते ॥३७०॥

गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः ।
ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत् ॥३७१॥

भूमिं शेषं च शिष्यार्थं स्थापयेत्पञ्चगव्यकम् ।
पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते ॥३७२॥

पञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम् ।
लौकिक्यामविशुद्धौ हि मृदितायामथान्तरीम् ॥३७३॥

अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम् ।
फादिनान्तां स्मरेद्देवीं पृथिव्यादिशिवान्तगाम् ॥३७४॥

पुष्पाञ्जलिं क्षिपेन्मध्ये धूपगन्धासवादि च ।
तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम् ॥३७५॥

समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते ।
अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके ॥३७६॥

षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत् ।
अत्थितं विघ्नसंशान्त्यै पूजयित्वा विसर्जयेत् ॥३७७॥

(॰) ।
ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम् ॥३७८॥

पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम् ।
असिना कर्करीं पूर्वमस्त्रयागो न चेत्कृतः ॥३७९॥

तमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम् ।
ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत् ॥३८०॥

गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम् ।
ततः शिष्योऽसिकलशीहस्तो धारां प्रपातयन् ॥३८१॥

गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम् ।
भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ॥३८२॥

सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया ।
त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम् ॥३८३॥

अपासयेद्यतो मन्त्रश्छन्दोबद्धोऽयमीरितः ।
तत ऐश्यां दिशि स्थाप्यः स कुम्भो विकिरोपरि ॥३८४॥

दक्षिणे चास्त्रवार्धानी स्थाप्या कुम्भस्य सांप्रतम् ।
कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम् ॥३८५॥

तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम् ।
अतः कुम्भे मन्त्रगणं सर्वं संपूजयेद्गुरुः ॥३८६॥

पूर्वेण विधिनास्त्रं च कर्कर्यां विघ्ननुद्यजेत् ।
मध्येगृहं ततो गन्धमण्डले पूजयेद्गुरुः ॥३८७॥

त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम् ।
अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत् ॥३८८॥

शुद्धमन्त्रादिसंजल्पसंकल्पोत्थमपूर्वकम् ।
शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात् ॥३८९॥

परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः ।
एवं देहे स्थण्डिले वा लिङ्गे पात्रे जलेऽनले ॥३९०॥

पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे ।
उक्तं श्रीयोगसंचारे तथाहि परमेशिना ॥३९१॥

चतुर्दशविधे भूते पुष्पे धूपे निवेदने ।
दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका ॥३९२॥

जुहोति जपति प्रेद्धे पूजयेद्विहसेद्व्रजेत् ।
आहारे मैथुने सैव देहस्था कर्मकारिणी ॥३९३॥

तादृशीं ये तु नो रूढां संवित्तिमधिशेरते ।
अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते ॥३९४॥

अहं शिवो मन्त्रमयः संकल्पा मे तदात्मकाः ।
तज्जं च कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत् ॥३९५॥

अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात् ।
क्रियमाणे कृते वापि संस्क्रियाल्पेतरापिवा ॥३९६॥

यथाहि कश्चित्प्रतिभादरिद्रोऽभ्यासपाटवात् ।
वाक्यं गृह्णाति कोऽप्यादौ तथात्राप्यवबुध्यताम् ॥३९७॥

उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम् ।
स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः ॥३९८॥

मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम् ।
प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः ॥३९९॥

शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च ।
सद्मासादनमस्त्राग्नितेजसा रक्षणं च कुण्डस्य ॥४००॥

भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः ।
ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम् ॥४०१॥

मातृकां मालिनीं वापि न्यस्येत्संकल्परूपिणीम् ।
संकल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम् ॥४०२॥

ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत् ।
इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे ॥४०३॥

रूढं ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम् ।
तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत् ॥४०४॥

जन्माद्यखिलसंस्कारशुद्धोऽग्निस्तावता भवेत् ।
पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः ॥४०५॥

शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः ।
ततोऽखिलाध्वसद्देवीचक्रगर्भां परापराम् ॥४०६॥

स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः ।
तथा मन्त्रेशयुक्सत्यसंकल्पमहसा ज्वलन् ॥४०७॥

वह्निस्तच्छिवसंकल्पतादात्म्याच्छिवतात्मकः ।
इत्येतत्संस्क्रियातत्त्वं श्रीशंभुर्मे न्यरूपयत् ॥४०८॥

मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम् ।
तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया ॥४०९॥

बह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः ।
ते निरुत्थानविहता नयेऽस्मिन्गुरुदर्शने ॥४१०॥

जातेऽग्नौ संस्कृते शैवे शब्दराशिं च मालिनीम् ।
पितरौ पूजयित्वा स्वं शुद्धं धाम विसर्जयेत् ॥४११॥

शुद्धाग्नेर्भागमादाय चर्वर्थं स्थापयेत्पृथक् ।
अथवाग्नेः शिखां वामप्राणेनादाय हृज्जुषा ॥४१२॥

चिदग्निनैक्यमानीय क्षिपेद्दक्षेण संस्कृताम् ।
शिव इत्यभिमानेन दृढेन हि विलोकनम् ॥४१३॥

सर्वस्य संस्क्रिया तत्त्वं तत्तस्मै यद्यतोऽमलम् ।
नवाहुतीरथो दद्यान्नवात्मसहितेन तु ॥४१४॥

शिवाग्नये तारपूर्वं स्वाहान्तं संस्क्रिया भवेत् ।
शिवचैतन्यसामान्यव्योपरूपेऽनले ततः ॥४१५॥

प्राग्वदाधारमाधेयं देवीचक्रं च योजयेत् ।
स्रुवं स्रुचं च संपश्येदधोवक्त्रौ क्रमाद्गुरुः ॥४१६॥

शिवशक्तितयाभ्यर्च्यौ तथेत्थं संस्क्रियानयोः ।
तत्त्वसंदर्शनान्नान्यत्संस्कारस्यास्ति जीवितम् ॥४१७॥

इति वक्तुं स्रुवादीशः श्रीपूर्वे न समस्करोत् ।
ततस्तिलैर्मृगीं मध्यानामाङ्गुष्ठवशाद्गुरुः ॥४१८॥

कृत्वा मूलं तर्पयेत् शतेनाज्यस्रुवैस्तथा ।
अङ्गवक्त्रं षडंशेन शेषांश्चापि दशांशतः ॥४१९॥

सहस्रादिकहोमोऽपि तृप्त्यै वित्तानुसारतः ।
सति वित्तेऽपि लोभादिग्रस्तो बाह्यप्रधानताम् ॥४२०॥

प्रथयंश्चिद्गुणीभावाच्छक्तिपातं न विन्दति ।
उक्तं स्वच्छन्दतन्त्रे तद्दीक्षितोऽपि न मोक्षभाक् ॥४२१॥

ननु यत्तस्य दीक्षायां कृतं कर्मास्य किं फलम् ।
तत्राहुर्गमशास्त्रज्ञा वामाशक्तिमयास्तदा ॥४२२॥

मन्त्रा बध्नन्ति तं सम्यग्भवकारामहागृहे ।
या त्वनुग्राहिका शक्तिस्तेषां सा गुरुदीपिता ॥४२३॥

शोधयेत स्वशास्त्रस्थनिष्कामोल्लङ्घनक्रियाम् ।
तत ऊर्ध्वाधरन्यासादन्योन्यौन्मुख्यसुन्दरम् ॥४२४॥

स्रुक्स्रुवं शिवशक्त्यात्मादायाज्यामृतपूरितम् ।
समचित्तप्राणतनुरैकात्म्यविधियोगतः ॥४२५॥

वामं स्रुग्दण्डगं हस्तं दक्षिणं सोपयामकम् ।
कण्ठाधोगं विनिक्षिप्य दृढमापीड्य यत्नवान् ॥४२६॥

अधः कुर्यात्स्रुचं प्राणमूर्ध्वोर्ध्वं संनियोजयन् ।
यावद्द्विषट्कपर्यन्ते बोधाग्नौ चन्द्रचक्रतः ॥४२७॥

स्रुगग्रात्परमं ह्लादि पतेदमृतमुत्तमम् ।
तावद्वह्नौ मन्त्रमुखे वौषडन्तां हुतिं क्षिपेत् ॥४२८॥

य ऊर्ध्वे किल संबोधः कुण्डे स प्रतिबिम्बितः ।
वह्निः प्राणः स्रुक्स्रुवौ च स्नेहः संकल्पचिद्रसः ॥४२९॥

इत्थं ज्ञात्वादितः कुण्डस्रुक्स्रुवाज्यमनून्भृशम् ।
द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत् ॥४३०॥

यथा यथा हि गगनमुत्पतेत्कलहंसकः ।
जले बिन्बं ब्रुडत्यस्य तथेत्यत्राप्ययं विधिः ॥४३१॥

स्वाभाविकं स्थिरं चैव द्रवं दीप्तं चलं नभः ।
माया बिन्दुस्तथैवात्मा नादः शक्तिः शिवस्तथा ॥४३२॥

इत्थं व्याप्यव्यापकतो विभेद्याभ्यन्तरान्तम् ।
तदधःस्थानि पृथ्व्यादिमूलान्तानि तथा पुमान् ॥४३३॥

अविद्यारागनियतिकालमायाकलास्तथा ।
अणुर्विद्या तदीशेशौ सादाख्यं शक्तिकुण्डली ॥४३४॥

व्यापिनी समनौन्मन्यं ततोऽनामनि योजयेत् ।
रेचकस्थो मध्यनाडीसन्धिविद्गुरुरित्यदः ॥४३५॥

प्रोक्तं त्रैशिरसे तन्त्रे परयोजनवर्णने ।
ततः प्राक्स्थापितान्यस्तमन्त्रसंस्कृतवह्निना ॥४३६॥

चरुः साध्योऽथवा शिष्यैर्होमेन समकालकः ।
चरौ च वीरद्रव्याणि लौकिकान्यथवेच्छया ॥४३७॥

चरुसिद्धौ समस्ताश्च क्रिया हृन्मन्त्रयोगतः ।
ततश्चरुं समादाय गुरुराज्येन पूरिताम् ॥४३८॥

स्रुचं स्रुवं वा कृत्वैव भुक्तिमुक्त्यनुसारतः ।
देवानामथ शक्तीनां यन्त्राणां तु त्रयं त्रयम् ॥४३९॥

सप्तमं मातृसद्भावं क्रमादेकैकशः पठन् ।
स्वा इत्यमृतवर्णेन वह्नौ हुत्वाज्यशेषकम् ॥४४०॥

चरौ हेत्यग्निरूपेण जुहुयात्तत्पुनः पुनः ।
भोज्यभोजकचर्वग्न्योरित्थमेकानुसन्धितः ॥४४१॥

स्वाहाप्रत्यवमर्शात्स्यात्समन्त्रादद्वयं परम् ।
एष संपातसंस्कारश्चरोर्भोक्ता ह्यधिष्ठितः ॥४४२॥

भोग्यस्य परमं सारं भोग्यं नर्नर्ति यत्नतः ।
सममेकानुसन्धानात्पाततो भोक्तृभोग्ययोः ॥४४३॥

अन्योऽन्यत्र च संपातात्संगमाच्चेत्थमुच्यते ।
स्थण्डिले कुभ्भकर्कर्योर्भागं भागं निवेदयेत् ॥४४४॥

भागेनाग्नौ मन्त्रतृप्तिर्द्वयं शिष्यात्मनोरथ ।
इत्थं विहितकर्तव्यो विज्ञाप्येशं तदीरितः ॥४४५॥

शक्तिपातक्रमाच्छिष्यान्संस्कर्तुं निःसरेद्बहिः ।
तत्रैषां पञ्चगव्यं च चरुं दशनमार्जनम् ॥४४६॥

तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः ।
अशुभोऽन्यत्र तत्रास्त्रहोमोऽप्यष्टशतं भवेत् ॥४४७॥

नेत्रमन्त्रितसद्वस्त्रबद्धनेत्रानचञ्चलान् ।
अनन्यहृदयीभूतान्बलादित्थं निरोधतः ॥४४८॥

मुक्तारत्नादिकुसुमसंपूर्णाञ्जलिकान्गुरुः ।
प्रवेश्य स्थण्डिलोपाग्र उपवेश्यैव जानुभिः ॥४४९॥

प्रक्षेपयेदञ्जलिं तं तैः शिष्यैर्भावितात्मभिः ।
अञ्जलि पुनरापूर्य तेषां लाघवतः पटम् ॥४५०॥

दृशोर्निवारयेत्सोऽपि शिष्यो झटिति पश्यति ।
झटित्यालोकिते मान्त्रप्रभावोल्लासिते स्थले ॥४५१॥

तदावेशवशाच्छिष्यस्तन्मयत्वं प्रपद्यते ।
यथा हि रक्तहृदयस्तांस्तान्कान्तागुणान्स्वयम् ॥४५२॥

पश्यत्येवं शक्तिपातसंस्कृतो मन्त्रसन्निधिम् ।
चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे ॥४५३॥

सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता ।
कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलम् ॥४५४॥

प्रतिमादि च पश्यन्तो विदुः संनिध्यसंनिधी ।
न्यस्तमन्त्रांशुसुभगात्किंचिद्भूतादिमुद्रिताः ॥४५५॥

त्रस्यन्तीवेति तत्तच्चिदक्षैस्तत्सहकारिभिः ।
ततः स दक्षिणे हस्ते दीप्तं सर्वाध्वपूरितम् ॥४५६॥

मन्त्रचक्रं यजेद्वामपाणिना पाशदाहकम् ।
तं शिष्यस्य करं मूर्ध्नि देहन्यस्ताध्वसंततेः ॥४५७॥

न्यस्येत्क्रमेण सर्वांङ्गं तेनैवास्य च संस्पृशेत् ।
उक्तं दीक्षोत्तरे चैतज्ज्वालासंपातशोभिना ॥४५८॥

दत्तेन शिवहस्तेन समयी स विधीयते ।
सायुज्यमीश्वरे तत्त्वे जीवतोऽधीतियोग्यता ॥४५९॥

श्रीदेव्याथामले तूक्तमष्टारान्तस्त्रिशूलके ।
चक्रे भैरवसन्नाभावघोराद्यष्टकारके ॥४६०॥

बाह्यापरे परानेमौ मध्यशूलपरापरे ।
ज्वालाकुलेऽरुणे भ्राम्यन्मातृप्रणवभीषणे ॥४६१॥

चिन्तिते तु बहिर्हस्ते संदृष्टे समयी भवेत् ।
पाशस्तोभाद्यस्तु सद्य उच्चिक्रमिषुरस्य तम् ॥४६२॥

प्राणैर्वियोजकं मूर्ध्नि क्षिपेत्संपूज्य तद्बहिः ।
अनेन शिवहस्तेन समयी भवति स्फुटम् ॥४६३॥

तस्यैव भाविविधिवत्तत्त्वपाशवियोजने ।
पुत्रकत्वं स च परे तत्त्वे योज्यस्तु दैशिकैः ॥४६४॥

स एव मन्त्रजातिज्ञो जपहोमादितत्त्ववित् ।
निर्वाणकलशेनादौ तत ईश्वरसंज्ञिना ॥४६५॥

अभिषिक्तः साधकः स्याद्भोगान्तेऽस्य परे लयः ।
एतैर्गुणैः समायुक्तो दीक्षितः शिवशासने ॥४६६॥

चतुष्पात्संहिताभिज्ञस्तन्त्राष्टादशतत्परः ।
दशतन्त्रातिमार्गज्ञ आचार्यः स विधीयते ॥४६७॥

पृथिवीमादितः कृत्वा निर्वाणान्तेऽस्य योजनाम् ।
अभिषेकविधौ कुर्यादाचार्यस्य गुरूत्तमः ॥४६८॥

एतैर्वाक्यैरिदं चोक्तं समयी राजपुत्रवत् ।
सर्वत्रैवाधिकारी स्यात्पुत्रकादिपदत्रये ॥४६९॥

पुत्रको दैशिकत्वे तु तुल्ययोजनिको भवेत् ।
अधिकारी स न पुनः साधने भिन्नयोजने ॥४७०॥

एतत्तन्त्रे समय्यादिक्रमादाप्तोत्तरक्रियः ।
आचार्यो न पुनर्बौद्धवैष्णवादिः कदाचन ॥४७१॥

एवं प्रसङ्गान्निर्णीतं प्रकृतं तु निरूप्यते ।
शिवहस्तविधिं कृत्वा तेन संप्लुष्टपाशकम् ॥४७२॥

शिष्यं विधाय विश्रान्तिपर्यन्तं ध्यानयोगतः ।
ततः कुम्भेऽस्त्रकलशे वह्नौ स्वात्मनि तं शिशुम् ॥४७३॥

प्रणामं कारयेत्पश्चाद्भूतमातृबलिं क्षिपेत् ।
ततः शंकरमभ्यर्च्य शय्यामस्त्राभिमन्त्रिताम् ॥४७४॥

कृत्वास्यां शिष्यमारोप्य न्यस्तमन्त्रं विधाय च ।
शिष्यहृच्चक्रविश्रान्तिं कृत्वा तद्द्वादशान्तगः ॥४७५॥

भवेत्क्षीणकलाजालः स्वरद्वादशकोदयात् ।
ततः प्रवेशप्रचितकलाषोडशकोज्ज्वलः ॥४७६॥

संपूर्णस्वात्मचिच्चन्द्रो विश्राम्येद्धृदये शिशोः ।
स्वयं व्युत्थानपर्यन्तं द्वादशान्तं ततो व्रजेत् ॥४७७॥

पुनर्विशेच्च हृच्चक्रमित्थं निद्राविधिक्रमः ।
आयातनिद्रः शिष्योऽसौ निर्मलौ शशिभास्करौ ॥४७८॥

हृच्चक्रे प्रतिसंधत्ते बलात्पूर्णकृशात्मकौ ।
हठनिर्मलचन्द्रार्कप्रकाशः सत्यमीक्षते ॥४७९॥

स्वप्नं भाविशुभान्यत्वस्फुटीभावनकोविदम् ।
उक्तं च पूर्णां च कृशां ध्यात्वा द्वादशगोचरे ॥४८०॥

प्रविश्य हृदये ध्याये त्सुप्तः स्वाच्छन्द्यमाप्नुयात् ।
आयातनिद्रे च शिशौ गुरुरभ्यर्च्य शङ्करम् ॥४८१॥

चरुं भुञ्जीत ससखा ततोऽद्याद्दन्तधावनम् ।
स्वप्याच्च मन्त्ररश्मीद्धहृच्चक्रार्पितमानसः ॥४८२॥

प्रातर्गुरुः कृताशेषनित्योऽभ्यर्चितशंकरः ।
शिष्यात्मनोः स्वप्नदृष्टावर्थौ वित्ते बलाबलात् ॥४८३॥

स्वदृष्टं बलवन्नान्यत्संबोधोद्रेकयोगतः ।
बोधसाम्ये पुनः स्वप्नसाम्यं स्याद्गुरुशिष्ययोः ॥४८४॥

देवाग्निगुरुतत्पूजाकारणोपस्करादिकम् ।
हृद्या स्त्री मद्यपानं चाप्याममांसस्य भक्षणम् ॥४८५॥

रक्तपानं शिरश्छेदो रक्तविण्मूत्रलेपनम् ।
पर्वताश्वगजप्रायहृद्ययुग्याधिरोहणम् ॥४८६॥

यत्प्रीत्यै स्यादपि प्रायस्तत्तच्छुभमुदाहृतम् ।
तं ख्यापयेत्तुष्टिवृद्ध्यै ह्लादो हि परमं फलम् ॥४८७॥

अतोऽन्यदशुभं तत्र होमोऽष्टशतकोऽस्त्रतः ।
अशुभं नाशुभमिति शिष्येभ्यो कथयेद्गुरुः ॥४८८॥

रूढां हि शङ्कां विच्छेत्तुं यत्नः संघटते महान् ।
येषां तु शङ्काविलयस्तेषां स्वप्नवशोत्थितम् ॥४८९॥

शुभाशुभं न किंचित्स्यात् स्युश्चेत्थं चित्रतावशात् ।
स्फुटं पश्यति सत्त्वात्मा राजसो लिङ्गमात्रतः ॥४९०॥

न किंचित्तामसस्तस्य सुखदुःखाच्छुभाशुभम् ।
नन्वत्र तामसो नाम कथं योग्यो विधौ भवेत् ॥४९१॥

मैव मा विग्रहं कश्चित्क्वचित्कस्यापि वै गुणः ।
सर्वसात्त्विकचेष्टोऽपि भोजने यदि तामसः ॥४९२॥

किं ततः सोऽधमः किवाप्युत्कृष्टस्तद्विपर्ययः ।
आयातशक्तिपातोऽपि दीक्षितोऽपि गुणस्थितेः ॥४९३॥

विचित्रात्मा भवेदेव मुख्ये त्वर्थे समाहितः ।
ततो गुरुः शिशोर्मन्त्रपूर्वकं देवतार्चनम् ॥४९४॥

देशयेत्स च तत्कुर्यात्संस्कुर्यात्तं ततो गुरुः ।
हृदादिचक्रषट्कस्थान्ब्रह्मादीन् षट् समाहितः ॥४९५॥

स्पृशेच्छिशोः प्राणवृत्त्या प्रत्येकं चाष्ट संस्क्रियाः ।
हृदयादिद्विषट्कान्तं बोधस्पर्शपवित्रितः ॥४९६॥

आहारबीजभावादिदोषध्वंसाद्भवेद्द्विजः ।
वसुवेदाख्यसंस्कारपूर्ण इत्थं द्विजः स्थितः ॥४९७॥

गर्भाधानं पुंसवनं सीमन्तो जातकर्म च ।
नाम निष्क्रामणं चान्नप्रशश्चूडा तथाष्टमी ॥४९८॥

व्रतबन्धैष्टिके मौज्जीभौतिके सौमिकं क्रमात् ।
गोदानमिति वेदेन्दुसंस्क्रिया ब्रह्मचर्यतः ॥४९९॥

प्रत्युद्वाहः पञ्चदशः सप्त पाकमखास्त्वतः ।
अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणीद्वयम् ॥५००॥

चैत्री चाश्वयुजी पश्चात् सप्तैव तु हविर्मखाः ।
आधेयमग्निहोत्रं च पौर्णमासः सदर्शकः ॥५०१॥

चातुर्मास्यं पशूद्बन्धः सौत्रामण्या सह त्वमी ।
अग्निष्टोमोऽतिपूर्वोऽथ सोक्य्यः षोडशिवाजपौ ॥५०२॥

आप्तोर्यामातिरात्रौ च सप्तैताः सोमसंस्थिताः ।
हिरण्यपादादिमखः सहस्रेण समावृतः ॥५०३॥

अष्टत्रिंशस्त्वश्वमेधो गार्हस्थ्यमियता भवेत् ।
वानस्थ्यपारिव्राज्ये च चत्वारिंशदमी मताः ॥५०४॥

दया क्षमानसूया च शुद्धिः सत्कृतिमङ्गले ।
अकार्पण्यास्पृहे चात्मगुणाष्टकमिदं स्मृतम् ॥५०५॥

मेखला दण्डमजिनत्र्यायुषे वह्न्युपासनम् ।
संध्या भिक्षेति संस्काराः सप्त सप्त व्रतानि च ॥५०६॥

भौतेशपाशुपत्ये द्वे गाणेशं गाणपत्यकम् ।
उन्मत्तकासिधाराख्यघृतेशानि चतुर्दश ॥५०७॥

एते तु व्रतबन्धस्य संस्कारा अङ्गिनः स्मृताः ।
पारिव्राज्यस्य गर्भे स्यादन्त्येष्टिरिति संस्कृतः ॥५०८॥

द्विजो भवेत्ततो योग्यो रुद्रांशापादनाय सः ।
एतान्प्राणक्रमेणैव संस्कारान्योजयेद्गुरुः ॥५०९॥

अथवाहुतियोगेन तिलाद्यैर्मन्त्रपूर्वकैः ।
प्रणवो हृदयं नाम शोधयाम्यग्निवल्लभा ॥५१०॥

एवं क्रमेण मूर्धाद्यैरङ्गैरतत्पुनः पुनः ।
यतश्चिद्धर्म एवासौ शान्त्याद्यात्मा द्विजन्मता ॥५११॥

तेन रुद्रतया संवित्तत्क्रमेणैव जायते ।
यथा हेमादिधातूनां पाके क्रमवशाद्भवेत् ॥५१२॥

रजतादि तथा संवित्संस्कारे द्विजतान्तरे ।
योनिर्न कारणं तत्र शान्तात्मा द्विज उच्यते ॥५१३॥

मुनिना मोक्षधर्मादावेतच्च प्रविवेचितम् ।
मुकुटादिषु शास्त्रेषु देवेनापि निरूपितम् ॥५१४॥

संविदो देहसंभेदात्सदृशात्सदृशोदयात् ।
भूमाभिप्रायतः स्मार्ते द्विजन्मा द्विजयोः सुतः ॥५१५॥

अन्त्यजातीयधीवादिजननीजन्मलाभतः ।
उत्कृष्टचित्ता ऋषयः किं ब्राह्मण्येन भाजनम् ॥५१६॥

अत एवार्थसत्तत्त्वदेशिन्यस्मिन्न दिश्यते ।
रहस्यशास्त्रे जात्यादिसमाचारो हि शाम्भवे ॥५१७॥

पाशवानि तु शास्त्राणि वामशक्त्यात्मकान्यलम् ।
सृष्ट्यांचिसिद्धये शंभोः शङ्कातत्फलकॢप्तये ॥५१८॥

आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः ।
स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः ॥५१९॥

रुद्रांशापादनं येन समयी संस्कृतो भवेत् ।
अधीतौ श्रवणे नित्यं पूजायां गुरुसेवने ॥५२०॥

समय्यधिकृतोऽन्यत्र गुरुणा विभुमर्चयेत् ।
तमापादितरुद्रांशं समयान् श्रावयेद्गुरुः ॥५२१॥

अष्टाष्टकात्मकान्देव्यायामलादौ निरूपितान् ।
अवादोऽकरणं गूढिः पूजा तर्पणभावने ॥५२२॥

हननं मोहनं चेति समयाष्टकमष्टधा ।
स्वभावं मन्त्रतन्त्राणां समयाचारमेलकम् ॥५२३॥

असत्प्रलापं परुषमनृतं नाष्टधा वदेत् ।
अफलं चेष्टितं हिंसां परदाराभिमर्शनम् ॥५२४॥

गर्वं दम्भं भूतविषव्याधितन्त्रं नचाचरेत् ।
स्वं मन्त्रमक्षसूत्रं च विद्यां ज्ञानस्वरूपकम् ॥५२५॥

समाचारान्गुणान्क्लेशान्सिद्धिलिङ्गानि गूहयेत् ।
गुरुं शास्त्रं देववह्नी ज्ञानवृद्धांस्त्रियो व्रतम् ॥५२६॥

गुरुवर्गं यथाशक्त्या पूजयेदष्टकं त्विदम् ।
दीनान्क्लिष्टान्पितॄन्क्षेत्रपालान्प्राणिगणान् खगान् ॥५२७॥

श्माशानिकं भूतगणं देहदेवीश्च तर्पयेत् ।
शिवं शक्तिं तथात्मानं मुद्रां मन्त्रस्वरूपकम् ॥५२८॥

संसारभुक्तिमुक्तीश्च गुरुवक्त्रात्तु भावयेत् ।
रागं द्वेषमसूयां च संकोचेर्ष्याभिमानिताः ॥५२९॥

समयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत् ।
पशुमार्गस्थितान्क्रूरान्द्वेषिणः पिशुनाञ्जडान् ॥५३०॥

राज्ञश्चानुचरान्पापान्विघ्नकर्तॄंश्च मोहयेत् ।
शाकिन्यः पूजनीयाश्च ताश्चेत्थं श्रीगमोदिताः ॥५३१॥

साहसं द्विगुणं यासां कामश्चैव चतुर्गुणः ।
लोभश्चाष्टगुणस्तासां शङ्क्यं शाकिन्य इत्यलम् ॥५३२॥

कुलाम्नायस्थिता वीरद्रव्यबाह्यास्तु ये न तैः ।
पशुभिः सह वस्तव्यमिति श्रीमाधवे कुले ॥५३३॥

देवताचक्रगुर्वग्निशास्त्रं साम्यात्सदार्चयेत् ।
अनिवेदितमेतेभ्यो न किंचिदपि भक्षयेत् ॥५३४॥

एतद्द्रव्यं नापहरेद्गुरुवर्गं प्रपूजयेत् ।
स च तद्भ्रातृभार्यातुक्प्रायो विद्याकृतो भवेत् ॥५३५॥

न योनिसंबन्धकृतो लौकिकः स पशुर्यतः ।
तस्याभिष्वङ्गभूमिस्तु गुर्वाराधनसिद्धये ॥५३६॥

अर्च्यो न स्वमहिम्ना तु तद्वर्गो गुरुवत्पुनः ।
गुरोर्निन्दां न कुर्वीत तस्यै हेतुं नचाचरेत् ॥५३७॥

नच तां शृणुयान्नैनं कोपयेन्नाग्रतोऽस्य च ।
विनाज्ञया प्रकुर्वीत किंचित्तत्सेवनादृते ॥५३८॥

लौकिकालौकिकं कृत्यं क्रोधं क्रीडां तपो जपम् ।
गुरूपभुक्तं यत्किंचिच्छय्यावस्त्रासनादिकम् ॥५३९॥

नोपभुञ्जीत तत्पद्भ्यां न स्पृशेत्किंतु वन्दयेत् ।
श्रीमत्त्रैशिरसेऽप्युक्तं कृच्छ्रचान्द्रायणादिभिः ॥५४०॥

अरण्ये काष्ठवत्तिष्ठेदसिधाराव्रतोऽपि सन् ।
नियमस्थो यमस्थोऽपि तत्पदं नाश्नुते परम् ॥५४१॥

गुर्वाराधनसक्तस्तु मनसा कर्मणा गिरा ।
प्राप्नोति गुरुतस्तुष्टात् पूर्णं श्रेयो महाद्भुतम् ॥५४२॥

हिमपातैर्यथा भूमिश्छादिता सा समन्ततः ।
मारुतश्लेषसंयोगादश्मवत्तिष्ठते सदा ॥५४३॥

यमादौ निश्चले तद्वद्भाव एकस्तु गृह्यते ।
गुरोस्त्वाराधितात्पूर्णं प्रसरज्ज्ञानमाप्यते ॥५४४॥

सर्वतोऽवस्थितं चित्त्वं ज्ञेयस्थं यस्य तत्कथा ।
सद्य एव नयेदूर्ध्वं तस्मादाराधयेद्गुरुम् ॥५४५॥

श्रीसारेऽप्यस्य संभाषात्पातकं नश्यति क्षणात् ।
तस्मात्परीक्ष्य यत्नेन शास्त्रोक्त्या ज्ञानलक्षणैः ॥५४६॥

शास्त्राचारेण वर्तेत तेन सङ्गं तथा कुरु ।
स्नेहाज्जातु वदेज्ज्ञानं लोभान्न ह्रियते हि सः ॥५४७॥

तेन तुष्टेन तृप्यन्ति देवाः पितर एवच ।
उत्तीर्य नरकाद्यान्ति सद्यः शिवपुरं महत् ॥५४८॥

भुङ्क्ते तिष्ठेद्यत्र गृहे व्रजेच्छिवपुरं तु सः ।
इति ज्ञात्वा सदा पित्र्ये श्राद्धे स्वं गुरुमर्चयेत् ॥५४९॥

भुञ्जीत स स्वयं चान्यानादिशेत्तत्कृते गुरुः ।
यो दीक्षितस्तु श्राद्धादौ स्वतन्त्रं विधिमाचरेत् ॥५५०॥

तस्य तन्निष्फलं सर्वं समयेन च लङ्घ्यते ।
सैद्धान्तिकार्पितं चण्डीयोग्यं द्रव्यं विवर्जयेत् ॥५५१॥

शाकिनीवाचकं शब्दं न कदाचित्समुच्चरेत् ।
स्त्रियः पूज्या विरूपास्तु वृद्धाः शिल्पोपजीविकाः ॥५५२॥

अन्त्या विकारिताङ्ग्यश्च वेश्याः स्वच्छन्दचेष्टिताः ।
तथाच श्रीगमे प्रोक्तं पूजनीयाः प्रयत्नतः ॥५५३॥

निराचाराः सर्वभक्ष्या धर्माधर्मविवर्जिताः ।
स्वच्छन्दगाः पलाशिन्यो लम्पटा देवता इव ॥५५४॥

वेश्याः पूज्यास्तद्गृहं च प्रयागोऽत्र यजेत्क्रमम् ।
स्त्रीषु तन्नाचरेत्किचिद्येन ताभ्यो जुगुप्सते ॥५५५॥

अतो न नग्नास्ताः पश्येन्नचापि प्रकटस्तनीः ।
वृद्धायाः संस्थिताया वा न जुगुप्सेत मुद्रिकाम् ॥५५६॥

वैकृत्यं तत्र सौरूप्यं मेलकं न प्रकाशयेत् ।
देवमूर्तिं शून्यतनुं पूजयेत्त्रिपथादिषु ॥५५७॥

सर्वपर्वसु सामान्यविशेषेषु विशेषतः ।
पूजा गुरोरनध्यायो मेलके लोभवर्जनम् ॥५५८॥

न जुगुप्सेत मद्यादि वीरद्रव्यं कदाचन ।
न निन्देदथ वन्देत नित्यं तज्जोषिणस्तथा ॥५५९॥

उपदेशाय न दोषा हृदयं चेन्न विद्विषेत् ।
विजातीयविकल्पांशोत्पुंसनाय यतेत च ॥५६०॥

गुरोः शास्त्रस्य देवीनां नाम मन्त्रे यतस्ततः ।
अर्चातोऽन्यत्र नोच्चार्यमाहूतं तर्पयेत्ततः ॥५६१॥

आगतस्य च मन्त्रस्य न कुर्यात्तर्पणं यदि ।
हरत्यर्धशरीरं तदित्यूचे भगवान्यतः ॥५६२॥

श्रीमदूर्मौ च देवीनां वीराणां चेष्टितं न वै ।
प्रथयेन्न जुगुप्सेत वदेन्नाद्रव्यपाणिकः ॥५६३॥

श्रीपूर्वं नाम वक्तव्यं गुरोर्द्रव्यकरेण च ।
गुर्वादीनां न लङ्घ्या च छाया न तैर्थिकैः सह ॥५६४॥

जल्पं कुर्वन्स्वशास्त्रार्थं वदेन्नापिच सूचयेत् ।
नित्याद्विशेषपूजां च कुर्यान्नैमित्तिके विधौ ॥५६५॥

ततोऽपि मध्ये वर्षस्य ततोऽपि हि पवित्रके ।
अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो ॥५६६॥

अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात् ।
गृहोपस्करणास्त्राणि दवतायागयोगतः ॥५६७॥

अर्च्यानीति न पद्भ्यां वै स्पृशेन्नापि विलङ्घ्येत् ।
गुरुवर्गे गृहायाते विशेषं कंचिदाचरेत् ॥५६८॥

दीक्षितानां न निन्दादि कुर्याद्विद्वेषपूर्वकम् ।
उपदेशाय नो दोषः स ह्यविद्वेषपूर्वकः ॥५६९॥

न वष्णवादिकाधःस्थदृष्टिभिः संवसेदलम् ।
सहभोजनशय्याद्यर्नैषां प्रकटयेत्स्थितिम् ॥५७०॥

उक्तं श्रींमाधवकुले शासनान्तरसंस्थितान् ।
वेदोक्तिं वैष्णवोक्तिं च तैरुक्तं वर्जयेत्सदा ॥५७१॥

अकुलीनेषु संपर्कात्तत्कुलात्पतनाद्भयम् ।
एकपात्रे कुलाम्नाये तस्मात्तान्परिवर्जयेत् ॥५७२॥

प्रमादाच्च कृते सख्ये गोष्ठ्यां चक्रं तु पूजयेत् ।
श्रीमदूर्मौ च कथितमागमान्तरसेवके ॥५७३॥

गुर्वन्तररते मूढे देवद्रव्योपजीवके ।
शक्तिहिंसाकरे दुष्टे संपर्कं नैव कारयेत् ॥५७४॥

न विकल्पेन दीक्षादौ व्रजेदायतनादिकम् ।
उक्तास्थाशिथिलत्वे यन्निमित्तं नैव तच्चरेत् ॥५७५॥

शासनस्थान्पुराजात्या न पश्येन्नाप्युदीरयेत् ।
नच व्यवहरेत्सर्वाञ्छिवाभेदेन केवलम् ॥५७६॥

सद्विद्यैः साकमासीत ज्ञानदीप्त्यै यतेत च ।
नासंस्कृतां व्रजेत्तज्जं विफलत्वं नचानयेत् ॥५७७॥

मेलकार्धनिशाचर्या जनवर्जं च तन्नहि ।
मांसादिदाहगन्धं च जिघ्रेद्देवीप्रियो ह्यसौ ॥५७८॥

गुर्वाज्ञां पालयन्सर्वं त्यजेन्मन्त्रमयो भवेत् ।
शास्त्रपूजाजपध्यानविवेकतदुपक्रियाः ॥५७९॥

अकुर्वन्निष्फलां नैव चेष्टेत त्रिविधां क्रियाम् ।
मन्त्रतन्त्रैर्न वादं च कुर्यान्नो भक्षयेद्विषम् ॥५८०॥

समयानां विलोपे च गुरुं पृच्छेदसन्निधौ ।
तद्वर्गं निजसन्तानमन्यं तस्याप्यसंनिधौ ॥५८१॥

तेनोक्तमनुतिष्ठेच्च निर्विकल्पं प्रयत्नतः ।
यतः शास्त्रादिसंबोधतन्मयीकृतमानसः ॥५८२॥

शिव एव गुरुर्नास्य वागसत्या विनिःसरेत् ।
शिवस्य स्वात्मसंस्कृत्यै प्रह्वीभावो गुरोः पुनः ॥५८३॥

ह्लादायेत्युभयार्थाय तत्तुष्टिः फलदा शिशोः ।
गुर्वायत्तैकसिद्धिर्हिसमय्यपि विबोधभाक् ॥५८४॥

तद्बोधबहुमानेन विद्याद्गुरुतमं गुरुम् ।
अतः संप्राप्य विज्ञानं यो गुरौ बाह्यमानवान् ॥५८५॥

नासौ विज्ञानविश्वस्तो नासत्यं भ्रष्ट एव सः ।
ज्ञानानाश्वस्तचित्तं तं वचोमात्रेण शास्त्रितम् ॥५८६॥

भक्तं च नार्चयेज्जातु हृदा विज्ञानदूषकम् ।
तादृक् च न गुरुः कार्यस्तं कृत्वापि परित्यजेत् ॥५८७॥

मुख्यबुद्ध्या न संपश्येद्वैष्णवादिगतान्गुरून् ।
तथाच श्रीमदूर्म्याख्ये गुरोरुक्तं विशेषणम् ॥५८८॥

गुर्वाज्ञा प्राणसंदेहे नोपेक्ष्या नो विकल्प्यते ।
कौलदीक्षा कौलशास्त्रं तत्त्वज्ञानं प्रकाशितम् ॥५८९॥

येनासौ गुरुरित्युक्तो ह्यन्ये वै नामधारिणः ।
श्रीमदानन्दशास्त्रे च तथैवोक्तं विशेषणम् ॥५९०॥

यस्माद्दीक्षा मन्त्रशास्त्रं तत्त्वज्ञानं स वै गुरुः ।
तिष्ठेदव्यक्तलिङ्गश्च न लिङ्गं धारयेत् क्वचित् ॥५९१॥

न लिङ्गिभिः समं कैश्चित्कुर्यादाचारमेलनम् ।
केवलं लिङ्गिनः पाल्या न बीभत्स्या विरूपकाः ॥५९२॥

श्रीमद्रात्रिकुले चोक्तं मोक्षः शङ्कापहानितः ।
अशुद्धवासस्नयैषा मोक्षवार्तापि दुर्लभा ॥५९३॥

न लिखेन्मन्त्रहृदयं श्रीमन्मालोदितं किल ।
तदङ्गादुद्धरेन्मन्त्रं नतु लेखे विलेखयेत् ॥५९४॥

अतत्त्वेऽभिनिवेशं च न कुर्यात्पक्षपाततः ।
जातिविद्याकुलाचारदेहदेशगुणार्थजान् ॥५९५॥

ग्रहान्ग्रहानिवाष्टौ द्राक्त्यजेद्गह्वरर्शितान् ।
तथा श्रीनिशिचारादौ हयत्वेनोपदर्शितान् ॥५९६॥

ब्राह्मणोऽहं मया वेदशास्त्रोक्तादपरं कथम् ।
अनुष्ठेयमयं जातिग्रहः परनिरोधकः ॥५९७॥

एवमन्येऽप्युदाहार्याः कुलगह्वरवर्त्मना ।
अतत्स्वभावे ताद्रूप्यं दर्शयन्नवशेऽपि यः ॥५९८॥

स्वरूपाच्छादकः सोऽत्र ग्रहो ग्रह इवोदितः ।
संवित्स्वभावे नो जातिप्रभृतिः कापि कल्पना ॥५९९॥

रूपं सा त्वस्वरूपेण तद्रूपं छादयत्यलम् ।
या काचित्कल्पना संवित्तत्त्वस्याखण्डितात्मनः ॥६००॥

संकोचकारिणी सर्वः स ग्रहस्तां परित्यजेत् ।
श्रीमदानन्दशास्त्रे च कथितं परमेष्ठिना ॥६०१॥

निरपेक्षः प्रभुर्वामो न शुद्ध्या तत्र कारणम् ।
देवीतृप्तिर्मखे रक्तमांसैर्नो शौचयोजनात् ॥६०२॥

द्विजान्त्यजैः समं कार्या चर्चान्तेऽपि मरीचयः ।
अविकारकृतस्तेन विकल्पान्निरयो भवेत् ॥६०३॥

सर्वदेवमयः कायः सर्वप्राणिष्विति स्फुटम् ।
श्रीमद्भिर्नकुलेशाद्यैरप्येतत्सुनिरूपितम् ॥६०४॥

शरीरमेवायतनं नान्यदायतनं व्रजेत् ।
तीर्थमेकं स्मरेन्मन्त्रमन्यतीर्थानि वर्जयेत् ॥६०५॥

विधिमेनं सुखं ज्ञात्वा विधिजालं परित्यजेत् ।
समाधिर्निश्चयं मुक्त्वा न चान्येनोपलभ्यते ॥६०६॥

इति मत्वा विधानज्ञः संमोहं परिवर्जयेत् ।
मन्त्रस्य हृदयं मुक्त्वा न चान्यत्परमं क्वचित् ॥६०७॥

इति मत्वा विधानज्ञो मन्त्रजालं परित्यजेत् ।
नैवेद्यं प्राशयेन्नद्यास्तच्छेषं च जले क्षिपेत् ॥६०८॥

तैर्भुक्ते न भवेद्दोषो जलजैः पूर्वदीक्षितैः ।
अवयश्पालनीयत्वात्परत्त्वेन संगमात् ॥६०९॥

ज्ञानप्राप्त्यभ्युपायत्वात्समयास्ते प्रकीर्तिताः ।
एवं संश्राव्य समयान्देवं संपूज्य दैशिकः ॥६१०॥

विसर्जयेत्स्वचिद्व्योम्नि शान्ते मूर्तिविलापनात् ।
यदि पुत्रकदीक्षास्य न कार्या समनन्तरम् ॥६११॥

तदाभिषिञ्चेत्सास्त्रेण शिवकुम्भेन तं शिशुम् ।
आत्मानं च ततो यस्माज्जलमूर्तिर्महेश्वरः ॥६१२॥

मन्त्रयुङ्निखिलाप्यायी कार्यं तदभिषेचनम् ।
इति समयदीक्षणमिदं प्रकाशितं विस्तराच्च संक्षेपात् ॥६१३॥