प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तन्त्रालोकः

अथ श्रीतन्त्रालोके पञ्चममाह्निकम्

आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् ॥१॥

विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि ।
अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः ॥२॥

विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः ।
उपायान्तरसापेक्ष्यवियोगेनैव जायते ॥३॥

कस्यचित्तु विकल्पोऽसौ स्वात्मसंस्करणं प्रति ।
उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः ॥४॥

विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः ।
तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः ॥५॥

निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः ।
अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः ॥६॥

तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि ।
अपारमार्थिकेऽप्यस्मिन् परमार्थः प्रकाशते ॥७॥

यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत् ।
तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः ॥८॥

उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना ।
जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा ॥९॥

स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा ।
तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् ॥१०॥

पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् ।
तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् ॥११॥

विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् ।
बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् ॥१२॥

सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः ।
विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते ॥१३॥

निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः ।
अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि ॥१४॥

प्राणे देहेऽथवा कस्मात्संक्रामेत्केन वा कथम् ।
तथापि निर्विकल्पेऽस्मिन्विकल्पो नास्ति तं विना ॥१५॥

दृष्टेऽप्यदृष्टकल्पत्वं विकल्पेन तु निश्चयः ।
बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा ॥१६॥

विकल्प्यं शून्यरूपे न प्रमातरि विकल्पनम् ।
बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः ॥१७॥

उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः ।
आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् ॥१८॥

शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः ।
तत्र ध्यानमयं तावदनुत्तरमिहोच्यते ॥१९॥

यः प्रकाशः स्वतन्त्रोऽयं चित्स्वभावो हृदि स्थितः ।
सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते ॥२०॥

कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् ।
ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् ॥२१॥

सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः ।
तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् ॥२२॥

हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् ।
तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः ॥२३॥

मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् ।
वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् ॥२४॥

परा परापरा चेयमपरा च सदोदिता ।
सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा ॥२५॥

चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् ।
एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः ॥२६॥

एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् ।
एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः ॥२७॥

व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे ।
तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् ॥२८॥

सोमसूर्याग्निभासात्म रूपं समवतिष्ठते ।
एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना ॥२९॥

चक्रेणानेन पतता तादात्म्यं परिभावयेत् ।
अनेन क्रमयोगेन यत्र यत्र पतत्यदः ॥३०॥

चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् ।
इत्थं विश्वाध्वपटलमयत्नेनैव लीयते ॥३१॥

भैरवीयमहाचक्रे संवित्तिपरिवारिते ।
ततः संस्कारमात्रेण विश्वस्यापि परिक्षये ॥३२॥

स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत् ।
ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् ॥३३॥

प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् ।
अनेन ध्यानयोगेन विश्वं चक्रे विलीयते ॥३४॥

तत्संविदि ततः संविद्विलीनार्थैव भासते ।
चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी ॥३५॥

एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् ।
विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् ॥३६॥

एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात् ।
पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् ॥३७॥

चतुष्षष्टिशतारं वा सहस्रारमथापि वा ।
असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः ॥३८॥

संविन्नाथस्य महतो देवस्योल्लासिसंविदः ।
नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः ॥३९॥

शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः ।
इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् ॥४०॥

इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत् ।
श्रीशंभुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः ॥४१॥

अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् ।
अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना ॥४२॥

अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता ।
तदुपायतया ब्रूमोऽनुत्तरप्रविकासनम् ॥४३॥

निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः ।
शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् ॥४४॥

प्राणोदये प्रमेये तु परानन्दं विभावयेत् ।
तत्रानन्तप्रमेयांशपूरणापाननिर्वृतः ॥४५॥

परानन्दगतस्तिष्ठेदपानशशिशोभितः ।
ततोऽनन्तस्फुरन्मेयसंघट्टैकान्तनिर्वृतः ॥४६॥

समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् ।
ततोऽपि मानमेयौघकलनाग्रासतत्परः ॥४७॥

उदानवह्नौ विश्रान्तो महानन्दं विभावयत् ।
तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि ॥४८॥

निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता ।
तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥४९॥

नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः ।
यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥५०॥

यदनाहतसंवित्ति परमामृतबृंहितम् ।
यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ॥५१॥

तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् ।
तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥५२॥

या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः ।
इत्येतद्धृदयाद्येकस्वभावेऽपि स्वधामनि ॥५३॥

षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते ।
प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥५४॥

चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् ।
त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् ॥५५॥

इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः ।
एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् ॥५६॥

श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् ।
तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः ॥५७॥

विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि ।
रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् ॥५८॥

विकाससंकोचमयं प्रविश्य हृदि हृष्यति ।
तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् ॥५९॥

श्रयेद्विकाससंकोचरूढभैरवयामलाम् ।
एकीकृतमहामूलशूलवैसर्गिके हृदि ॥६०॥

परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः ।
अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् ॥६१॥

प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् ।
अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते ॥६२॥

चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत् ।
तत उद्योगसक्तेन स द्वादशकलात्मना ॥६३॥

सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् ।
अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः ॥६४॥

संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् ।
इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् ॥६५॥

तदेवम[तद]मृतं दिव्यं संविद्देवीषु तर्पकम् ।
विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि ॥६६॥

विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् ।
यतोऽनुत्तरनाथस्य विसर्गः कुलनायिका ।
तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः ॥६७॥

अं इति कुलेश्वर्या सहितो हि कुलेशिता ।
परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते ॥६८॥

वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् ।
अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् ॥६९॥

आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः ।
एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते ॥७०॥

शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे ।
व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधीः ॥७१॥

सोमसूर्यकलाजालपरस्परनिघर्षतः ।
अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् ॥७२॥

अलं रहस्यकथया गुप्तमेतत्स्वभावतः ।
योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः ॥७३॥

हानादानतिरस्कारवृत्तौ रूढिमुपागतः ।
अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः ॥७४॥

अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि ।
खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् ॥७५॥

वक्त्रमन्तस्तया सम्यक् संविदः प्रविकासयेत् ।
संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् ॥७६॥

तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते ।
विलीनं तत् त्रिकोणेऽस्मिञ्शक्तिवह्नौ विलीयते ॥७७॥

तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः ।
संहारबीजविश्रान्तो योगी परमयो भवेत् ॥७८॥

अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः ।
संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् ॥७९॥

असंकोचविकासोऽपि तदाभासनतस्तथा ।
अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते ॥८०॥

ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति ।
विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः ॥८१॥

तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले ।
शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः ॥८२॥

दिव्यो यश्चाक्षसंघोऽयं बोधस्वातन्त्र्यसंज्ञकः ।
सोऽनिमीलित एवैतत् कुर्यात्स्वात्ममयं जगत् ॥८३॥

महासाहससंयोगविलीनाखिलवृत्तिकः ।
पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति ॥८४॥

अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् ।
यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः ॥८५॥

तदुक्तं परमेशेन त्रिशिरोभैरवागमे ।
शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् ॥८६॥

मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम् ।
विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् ॥८७॥

अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् ।
महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् ॥८८॥

अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् ।
निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका ॥८९॥

चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला ।
तत्स्थं [त्स्थो] विचारयेत् खं खं खस्थं खस्थेन संविशेत् ॥९०॥

खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति ।
खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः ॥९१॥

भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः ।
भावाभावगती रुद्ध्वा भावाभावावरोधदृक् ॥९२॥

आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः ।
शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् ॥९३॥

एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् ।
धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् ॥९४॥

धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु ।
तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् ॥९५॥

भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः ।
इति प्रवेशोपायोऽयमाणवः परिकीर्तितः ॥९६॥

श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः ।
श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः ॥९७॥

स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च ।
सर्वतश्च विभुर्योऽसौ विभुत्वपददायकः ॥९८॥

जितरावो महायोगी संक्रामेत्परदेहगः ।
परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् ॥९९॥

तावद्यावदरावे सा रावाल्लीयेत राविणी ।
अत्र भावनया देहगतोपायैः परे पथि ॥१००॥

विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते ।
ततोऽपि विद्युदापातसदृशे देहवर्जिते ॥१०१॥

धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः ।
जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः ॥१०२॥

स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात् ।
गलिते देहतादात्म्यनिश्चयेऽन्तर्भुखत्वतः ॥१०३॥

निद्रायते पुरा यावन्न रूढः संविदात्मनि ।
ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् ॥१०४॥

संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता ।
आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि ॥१०५॥

आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः ।
आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि ॥१०६॥

आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते ।
आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् ॥१०७॥

इत्युक्तमत एव श्रीमालिनीविजयोत्तरे ।
प्रदर्शितेऽस्मिन्नानन्दप्रभृतौ पञ्चके यदा ॥१०८॥

योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत् ।
यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् ॥१०९॥

किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम् ।
तथैव चक्रे कुत्रापि प्रवेशात्कोऽपि संभवेत् ॥११०॥

आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते ।
कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली ॥१११॥

एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते ।
एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् ॥११२॥

यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् ।
अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते ॥११३॥

इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः ।
देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः ॥११४॥

अहन्ताच्छादितोन्मेषिभावेदंभावयुक् स च ।
व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् ॥११५॥

नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् ।
यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् ॥११६।
विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम् ।
व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च ।
अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा ॥११७॥

आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः ।
व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् ॥११८॥

तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये ।
अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा ॥११९॥

एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः ।
अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः ॥१२०॥

योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् ।
बीजयोनिसमापत्त्या सूते कामपि संविदम् ॥१२१॥

अत्र प्रयासविरहात्सर्वोऽसौ देवतागणः ।
आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥१२२॥

अत्र भैरवनाथस्य ससंकोचविकासिका ।
भासते दुर्घटा शक्तिरसंकोचविकासिनः ॥१२३॥

एतल्लिङ्गसमापत्तिविसर्गानन्दधारया ।
सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते ॥१२४॥

अनुत्तरेऽभ्युपायोऽत्र ताद्रूप्यादेव वर्णितः ।
ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते ॥१२५॥

अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् ।
अनाविशन्तोऽपि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥१२६॥

सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्तियां तस्मै कुर्वति तत्प्रचारविवशे सत्यक्षवर्गेऽपि च ।
सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् ॥१२७॥

इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते ।
तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् ॥१२८॥

ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः ।
करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् ॥१२९॥

तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता ।
गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् ॥१३०॥

तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते ।
उक्तो य एष उच्चारस्तत्र योऽसौ स्फुरन् स्थितः ॥१३१॥

अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते ।
सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः ॥१३२॥

तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् ।
तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः ॥१३३॥

स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयाते ।
बाह्यार्थसमयापेक्षा घटाद्या ध्वनयोऽपि ये ॥१३४॥

तेऽप्यर्थभावनां कुर्युर्मनोराज्यवदात्मनि ।
तदुक्तं परमेशेन भैरवो व्यापकोऽखिले ॥१३५॥

इति भैरवशब्दस्य संततोच्चारणाच्छिवः ।
श्रीमत्त्रैशिरसेऽप्युक्तं मन्त्रोद्धारस्य पूर्वतः ॥१३६॥

स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः ।
मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् ॥१३७॥

स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका ।
अनेकाकाररूपेण सर्वत्रावस्थितेन तु ॥१३८॥

स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः ।
व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा ॥१३९॥

किं पुनः समयापेक्षां विना ये बीजपिण्डकाः ।
संविदं स्पन्दपन्त्येते नेयुः संविदुपायताम् ॥१४०॥

वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः ।
प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता ॥१४१॥

सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः ।
संवेदनं हि प्रथमं स्पर्शोऽनुत्तरसंविदः ॥१४२॥

हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि ।
चतुर्दशः प्रवेशो य एकीकृततदात्मकः ॥१४३॥

ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ ।
हृदयेन सहैकध्यं नयते जपतत्परः ॥१४४॥

कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः ।
आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् ॥१४५॥

संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि ।
तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः ॥१४६॥

इत्येनया बुधो युक्त्या वर्णजप्यपरायणः ।
अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः ॥१४७॥

वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा ।
संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् ॥१४८॥

हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ ।
विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् ॥१४९॥

जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् ।
दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् ॥१५०॥

स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः ।
शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् ॥१५१॥

उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् ।
यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् ॥१५२॥

तत् संविदाधिक्यवशादभौतिकमिव स्थितम् ।
अतस्तथाविधे रूपे रूढो रोहति संविदि ॥१५३॥

अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः ।
नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् ॥१५४॥

गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता ।
उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः ॥१५५॥

अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः ।
अकिंचिच्चिन्तनं वीर्यं भावनायां च सा पुनः ॥१५६॥

ध्याने तदपि चोच्चारे करणे सोऽपि तद्ध्वनौ ।
स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् ॥१५७॥

लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु ।
वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् ।
मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना ॥१५८॥

इत्याणवेऽनुत्तरताभ्युपायः प्रोक्तो नयः स्पष्टपथेन बाह्यः ॥१५९॥