प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तन्त्रालोकः पञ्चविंशतितममाह्निकम्

तन्त्रालोकः

अथ श्रीतन्त्रालोके पञ्चविंशतितममाह्निकम्


अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते ॥१॥

सिद्धातन्त्रे सूचितोऽसौ मूर्तियागनिरूपणे ।
अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः ॥२॥

त्र्यहे तुर्येऽह्नि दशमे मासि मास्याद्यवत्सरे ।
वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत् ॥३॥

तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा ।
ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे ॥४॥

गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् ।
ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः ॥५॥

ततोऽस्य यः पाशवोंऽशो भोग्यरूपस्तमर्पयेत् ।
भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् ॥६॥

भोग्यतान्या तनुर्देह इति पाशात्मका मताः ।
श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः ॥७॥

एकेनैव विधानेन यद्यपि स्यात्कृतार्थता ।
तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् ॥८॥

बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि ।
हेतु ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् ॥९॥

तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न कोऽप्ययम् ।
अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन ॥१०॥

तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम् ।
तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् ॥११॥

यदाहि बोधस्योद्रेकस्तदा पर्वाह पूरणात् ।
जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः ॥१२॥

पुत्रकोऽपि यदा कस्मैचन स्यादुपकारकः ।
तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः ॥१३॥

नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम् ।
श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् ॥१४॥

तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये ।
स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् ॥१५॥

यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम् ।
सचक्रेष्टि भवेच्छ्रौतो नतु स्यात्पाशवो विधिः ॥१६॥

श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितोऽपि यः ।
प्रत्येति वैदिके भग्नघण्टावन्न स किंचन ॥१७॥

तथोक्तदेवपूजादिचक्रयागान्तकर्मणा ।
रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते ॥१८॥

अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम् ।
या वाहयितुमिष्येत नाडी तामेव भावयेत् ॥१९॥

भावनातन्मयीभावे सा नाडी वहति स्फुटम् ।
यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना ॥२०॥

आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात् ।
एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् ॥२१॥

कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना ।
शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः ॥२२॥

करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते ।
उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः ॥२३॥

उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत् ।
उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् ॥२४॥

मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि ।
चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् ॥२५॥

प्रहस्योचे विभुः कस्माद्भ्रान्तिस्ते परमेशितुः ।
सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल ॥२६॥

प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम् ।
अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् ॥२७॥

मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु ।
इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता ॥२८॥

इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत् ।
उक्तः श्राद्धविधिर्भ्रान्तिगरातङ्कविमर्दनः ॥२९॥