प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तन्त्रालोकः विंशतितममाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके विंशतितममाह्निकम्


अथ दीक्षां ब्रुवे मूढजनाश्वासप्रदायिनीम् ॥१॥

त्रिकोणे वह्निसदने वह्निवर्णोज्ज्वलेऽभितः ।
वायव्यपुरनिर्धूते करे सव्ये सुजाज्वले ॥२॥

बीजं किंचिद्गृहीत्वैतत्तथैव हृदयान्तरे ।
करे च दह्यमानं सच्चिन्तयेत्तज्जपैकयुक् ॥३॥

वह्निदीपितफट्कारधोरणीदाहपीडितम् ।
बीजं निर्बीजतामेति स्वसूतिकरणाक्षमम् ॥४॥

तप्तं नैतत्प्ररोहाय तेनैव प्रत्ययेन तु ।
मलमायाख्यकर्माणि मन्त्रध्यानक्रियाबलात् ॥५॥

दग्धानि न स्वकार्याय निर्बीजप्रत्ययं त्विमम् ।
स श्रीमान्सुप्रसन्नो मे शंभुनाथो न्यरूपयत् ॥६॥

बीजस्याप्यत्र कार्या च योजना कृपया गुरोः ।
यतो दीक्षा सुदीप्तत्वात्स्थावराण्यपि मोचयेत् ॥७॥

यो गुरुर्जपहोमार्चाध्यानसिद्धत्वमात्मनि ।
ज्ञात्वा दीक्षां चरेत्तस्य दीक्षा सप्रत्यया स्मृता ॥८॥

अवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः ।
साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता ॥९॥

निराचारेण दीक्षायां प्रत्ययस्तु न गद्यते ।
ज्ञानं स्वप्रत्ययं यस्मान्न फलान्तरमर्हति ॥१०॥

ध्यानादि तु फलात्साध्यमिति सिद्धामतोदितम् ।
तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् ॥११॥

यथा श्रीतन्त्रसद्भावे कथिता परमेशिना ।
श्रीपूर्वशास्त्रेऽप्येषा च सूचिता परमेशिना ॥१२॥

आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी ।
इत्येवंवदता शक्तितारतम्याभिधायिना ॥१३॥

उद्भवो लघुभावेन देहग्रहतिरोहितेः ।
देहो हि पार्थिवो मुख्यस्तदा मुख्यत्वमुज्झति ॥१४॥

भाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम् ।
कर्माणि तत्राशेषाणि पूर्वोक्तान्याचरेद्गुरुः ॥१५॥

उक्ता सेयं तुलाशुद्धिदीक्षा प्रत्ययदायिनी ।