तन्त्रालोकः षोडशमाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके षोडशमाह्निकम्


अथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितोऽत्र विधिः ।

यदा तु समयस्थस्य पुत्रकत्वे नियोजनम् ।
गुरुत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः ॥१॥

तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत् ।
सामुदायिकयागेऽथ तथान्यत्र यथोदितम् ॥२॥

षडष्टतद्द्विगुणितचतुर्विंशतिसंख्यया ।
चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते ॥३॥

द्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते ।
असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः ॥४॥

तस्माद्यथातथा यागं यावच्चक्रेण संमितम् ।
पूजयेद्येन तेनात्र त्रिशूलत्रयमालिखेत् ॥५॥

त्रिशूलत्रितये देवीत्रयं पर्यायवृत्तितः ।
मध्यसव्यान्यभेदेन पूर्णं संपूजितं भवेत् ॥६॥

वर्तना मण्डलस्याग्रे संक्षेपादुपदेक्ष्यते ।
आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम् ॥७॥

कृत्वा स्नातो गुरुः प्राग्वन्मण्डलाग्रेऽत्र देवताः ।
बाह्यगाः पूजयेद्द्वारदेशे च द्वारदेवताः ॥८॥

मण्डलस्य पुरोभागे तदैशानदिशः क्रमात् ।
आग्नेय्यन्तं गणेशादीन् क्षेत्रपान्तान्प्रपूजयेत् ॥९॥

गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः ।
इति सप्तकमाख्यातं गुरुपङ्क्तिविधौ प्रपूज्यमस्मद्गुरुभिः ॥१०॥

तत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम् ।
पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् ॥११॥

शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात् ।
मध्यशूले मध्यगः स्यात्सद्भावः परया सह ॥१२॥

वामे चापरया साकं नवात्मा दक्षगं परम् ।
त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः ॥१३॥

स्यात्परापरया साकं दक्षे भैरवसत्परे ।
वामे त्रिशूले मध्यस्थो नवात्मापरया सह ॥१४॥

स्यात्परे परया साकं वामारे संश्च भैरवः ।
इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति ॥१५॥

यागो भवेत्सुसंपूर्णस्तदधिष्ठानमात्रतः ।
एकशूलेऽप्यतो यागे चिन्तयेत्तदधिष्ठितम् ॥१६॥

अविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम् ।
ततो मध्ये तथा दक्षे वामे शृङ्गे च सर्वतः ॥१७॥

लोकपालास्त्रपर्यन्तमेकात्मत्वेन पूजयेत् ।
परत्वेन च सर्वासां देवतानां प्रपूजयेत् ॥१८॥

श्रीमन्तं मातृसद्भावभट्टारकमनामयम् ।
ततोऽपि भोगयागेन विद्याङ्गं भैरवाष्टकम् ॥१९॥

यामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः ।
लोकपालानस्त्रयुतान्गन्धपुष्पासवादिभिः ॥२०॥

पूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः ।
ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम् ॥२१॥

पञ्चानामनुसन्धानं कुर्यादद्वयभावनात् ।
ये तु तामद्वयव्याप्तिं न विन्दन्ति शिवात्मिकाम् ॥२२॥

मन्त्रनाडीप्रयोगेण ते विशन्त्यद्वये पथि ।
स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः ॥२३॥

प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते ।
वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः ॥२४॥

मूलानुसन्धानबलात्प्राणतन्तूम्भने सति ।
इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते ॥२५॥

ततो विशेषपूजां च कुर्यादद्वयभाविताम् ।
यच्छिवाद्वयपीयूषसंसिक्तं परमं हि तत् ॥२६॥

तेनार्घपुष्पगन्धादेरासवस्य पशोरथ ।
या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः ॥२७॥

निवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान् ।
सिद्धानसिद्धान्व्यामिश्रान्यद्वा किंचिच्चराचरम् ॥२८॥

दृष्टप्रोक्षितसंद्रष्टृप्रालब्धोपात्तयोजितः ।
निर्वापितो वीरपशुः सोऽष्टधोत्तरतोत्तमः ॥२९॥

यथोत्तरं न दातव्यमयोग्येभ्यः कदाचन ।
शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति ॥३०॥

यस्तु दीक्षाविहीनोऽपि शिवेच्छाविधिचोदितः ।
भक्त्याश्नाति स संपूर्णः समयी स्यात्सुभावितः ॥३१॥

दृष्टोऽवलोकितश्चैव किरणेद्धदृगर्पणात् ।
प्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः ॥३२॥

संद्रष्टा दर्शिताशेषसम्यक्पूजितमण्डलः ।
प्रालब्ध उक्तत्रितयसंस्कृतः सोऽपि धूनयेत् ॥३३॥

कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम् ।
उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः ॥३४॥

योजितः कारणत्यागक्रमेण शिवयोजनात् ।
निर्वापितः कृताभ्यासगुरुप्राणमनोर्पणात् ॥३५॥

दक्षिणेनाग्निना सौम्यकलाजालविलापनात् ।
तथाह्यादौ परं रूपमेकीभावेन संश्रयेत् ॥३६॥

तस्मादाग्नेयचारेण ज्वालामालामुचाविशेत् ।
पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत् ॥३७॥

नाभिचक्रेऽथ विश्राम्येत्प्राणरश्मिगणैः सह ।
परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत् ॥३८॥

स्वचित्सूर्येण संताप्य द्रावयेत् कलां कलाम् ।
ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि ॥३९॥

समस्ततत्त्वसंपूर्णमाप्यायनविधायिनम् ।
उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात् ॥४०॥

तत उन्मूलनोद्वेष्टयोगाद्वामं परिभ्रमन् ।
कुण्डल्यमृतसंपूर्णस्वकप्राणप्रसेवकः ॥४१॥

वामावर्तक्रमोपात्तहृत्पद्मामृतकेसरः ।
हृत्कर्णिकारूढिलाभादोजोधातुं विलापितम् ॥४२॥

शुद्धसोमात्मकं सारमीषल्लोहितपीतलम् ।
आदाय करिहस्ताग्रसदृशे प्राणविग्रहे ॥४३॥

निःसृत्य झटिति स्वात्मवाममार्गेण संविशेत् ।
आप्याययन्नपानाख्यचन्द्रचक्रहृदम्बुजे ॥४४॥

स्थितं तद्देवताचक्रं तेन सारेण तर्पयेत् ।
अनेन विधिना सर्वान्रसरक्तादिकांस्तथा ॥४५॥

धातून्समाहरेत्संघक्रमादेकैकशोऽथवा ।
केवलं त्वथवाग्नीन्दुरविसंघट्टमध्यगम् ॥४६॥

ज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत् ।
जीवं समरसीकुर्याद्देवीचक्रेण भावनात् ॥४७॥

तदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा ।
अग्निसंपुटफुल्लार्णत्र्यश्रकालात्मको महान् ॥४८॥

पिण्डो रक्तादिसारौघचालनाकर्षणादिषु ।
इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति ॥४९॥

आवृत्तिशतयोगेन पशोर्निर्वापणं भवेत् ।
कृत्वा कतिपयं कालं तत्राभ्यासमनन्यधीः ॥५०॥

यथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित् ।
निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम् ॥५१॥

परोक्षेऽपि पशावेवं विधिः स्याद्योजनं प्रति ।
प्रवेशितो यागभुवि हतस्तत्रैव साधितः ॥५२॥

चक्रजुष्टश्च तत्रैव स वीरपशुरुच्यते ।
यस्त्वन्यत्रापि निहतः सामस्त्येनांशतोऽपिवा ॥५३॥

देवाय विनिवेद्येत स वै बाह्यपशुर्मतः ।
राज्यं लाभोऽथ तत्स्थैर्यं शिवे भक्तिस्तदात्मता ॥५४॥

शिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता ।
तत्सायुज्यं पशोः साम्याद्बाह्यादेर्वीरधर्मणः ॥५५॥

पुष्पादयोऽपि तल्लाभभागिनः शिवपूजया ।
एकोपायेन देवेशो विश्वानुग्रहणात्मकः ॥५६॥

यागेनैवानुगृह्णाति किं किं यन्न चराचरम् ।
तेनावीरोऽपि शङ्कादियुक्तः कारुणिकोऽपिच ॥५७॥

न हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित् ।
पशोर्महोपकारोऽयं तदात्वेऽप्यप्रियं भवेत् ॥५८॥

व्याधिच्छेदौषधतपोयोजनात्र निदर्शनम् ।
श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः ॥५९॥

मलत्रयवियोगेन शरीरं न प्ररोहति ।
धर्माधर्मौघविच्छेदाच्छरीरं च्यचते किल ॥६०॥

तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी ।
रूढपाशस्य यः प्राणैर्वियोगो मारणं हि तत् ॥६१॥

इयं तु योजनैव स्यात्पशोर्देवाय तर्पणे ।
तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति ॥६२॥

निवेदितः पुनःप्राप्तदेहो भूयोनिवेदितः ।
षट्कृत्व इत्थं यः सोऽत्र षड्जन्मा पशुरुत्तमः ॥६३॥

यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः ।
कां सिद्धिं नैव वितरेत्स्वयं किंवा न मुच्यते ॥६४॥

उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत् ।
समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान्विना नयात् ॥६५॥

दीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः ।
ततो मनुष्यतामेत्य पुनरेवं करोत्यपि ॥६६॥

इत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात् ।
चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते ॥६७॥

दात्रर्पितोऽसौ तद्द्वारा याति सायुज्यतः शिवम् ।
इति संभाव्य चित्रं तत्पशूनां प्रविचेष्टितम् ॥६८॥

भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम् ।
नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत् ॥६९॥

तं पशुं किंतु काङ्क्षा चेद्विशेषे तं तु ढौकयेत् ।
तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना ॥७०॥

पशोर्वपामेदसी च गालिते वह्निमध्यतः ।
अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम् ॥७१॥

हृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत् ।
कर्णिकाकुण्डलीमज्जपर्शु मुख्यतरं च वा ॥७२॥

ततोऽग्नौ तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः ।
तन्निवेद्य च देवाय ततो विज्ञापयेत्प्रभुम् ॥७३॥

गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर ।
साक्षात्स्वप्नोपदेशाद्यैर्जपैर्गुरुमुखेन वा ॥७४॥

अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः ।
तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम् ॥७५॥

समावेशय मां स्वात्मरश्मिभिर्यदहं शिवः ।
एवं भवत्विति ततः शिवोक्तिमभिनन्दयेत् ॥७६॥

शिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत् ।
स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया ॥७७॥

ततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात् ।
अन्योन्यं पाशदाहाय शुद्धतत्त्वविसृष्टये ॥७८॥

तेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत् ।
गर्भावरणगानङ्गपरिवारासनोज्झितान् ॥७९॥

आत्मानं भावयेत्पश्चादेककं जलचन्द्रवत् ।
कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः ॥८०॥

मण्डलस्थोऽहमेवायं साक्षी चाखिलकर्मणाम् ।
शुद्धा हि द्रष्टृता शम्भोर्मण्डले कल्पिता मया ॥८१॥

होमाधिकरणत्वेन वह्नावहमवस्थितः ।
यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम् ॥८२॥

सामान्यतेजोरूपान्तराहूता भुवनेश्वराः ।
तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते ॥८३॥

आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये ।
सामान्यरूपता येन विशेषाप्यायकारिणी ॥८४॥

शिष्यदेहे च तत्पाशशिथिलत्वप्रसिद्धये ।
स हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते ॥८५॥

साक्षात्स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणाम् ।
ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः ॥८६॥

भिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान् ।
एको यथाहं वह्न्यादिषड्रूपोऽस्मि तथा स्फुटम् ॥८७॥

एवमालोच्य येनैषोऽध्वना दीक्षां चिकीर्षति ।
अनुसंहितये शिष्यवर्जं पञ्चसु तं यजेत् ॥८८॥

अनुसन्धिबलान्ते च समासव्यासभेदतः ।
कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम् ॥८९॥

ततोऽपि चिन्तया भूयोऽनुसन्दध्याच्छिवात्मताम् ।
अहमेव परं तत्त्वं नच पद्धटवत् क्वचित् ॥९०॥

महाप्रकाशस्तत्तेन मयि सर्वमिदं जगत् ।
नच तत्केनचिद्बाह्यप्रतिबिम्बवदर्पितम् ॥९१॥

कर्ताहमस्य तन्नान्याधीनं च मदधिष्ठितम् ।
इत्थंभूतमहाव्याप्तिसंवेदनपवित्रितः ॥९२॥

मत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते ।
तापनिर्घर्षसेकादिपारम्पर्येण वह्निताम् ॥९३॥

यथायोगोलको याति गुरुरेवं शिवात्मताम् ।
ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम् ॥९४॥

परोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते ।
शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम् ॥९५॥

येनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः ।
तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः ॥९६॥

शोध्याध्वनि च विन्यस्ते तत्रैव परिशोधकम् ।
न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः ॥९७॥

क्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः ।
स्वयं शुद्ध्यति संशोध्यं शोधकस्य प्रभावतः ॥९८॥

अपरं परापरं च परं च विधिमिच्छया ।
तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः ॥९९॥

ललाटान्तं वेदवसौ रन्ध्रान्तं रसरन्ध्रके ।
वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः ॥१००॥

क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते ।
तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले ॥१०१॥

धरा जलादिमूलान्तं प्रत्येकं द्व्यङ्गुलं क्रमात् ।
रसश्रुत्यङ्गुलं नाभेरूर्ध्वमित्थं षडङ्गुले ॥१०२॥

पुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत् ।
अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम् ॥१०३॥

सदाशिवान्तं मायादिचतुष्कं चतुरङ्गुले ।
प्रत्येकमित्यब्धिवसुसंख्यमालिकदेशतः ॥१०४॥

शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् ।
सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् ॥१०५॥

जलाद्ध्यन्तं सार्धयुग्मं मूलं त्र्यङ्गुलमित्यतः ।
द्वादशाङ्गुलताधिक्याद्विधिरेष परापरः ॥१०६॥

जलाद्ध्यन्तं त्र्यङ्गुले चेदव्यक्तं तु चतुष्टये ।
तच्चतुर्विंशत्याधिक्यात्परोऽप्यष्टशते विधिः ॥१०७॥

त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात् ।
मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया ॥१०८॥

नवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया ।
न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात् ॥१०९॥

कलापञ्चकवेदाण्डन्यासोऽनेनैव लक्षितः ।
उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम् ॥११०॥

द्वादशाङ्गुलमुत्थानं देहातीतं समं ततः ।
द्वासप्ततिर्दश द्वे च देहस्थं शिरसोऽन्ततः ॥१११॥

पादादारभ्य सुश्रोणि अनाहतपदावधि ।
देहातीतेऽपि विश्रान्त्या संवित्तेः कल्पनावशात् ॥११२॥

देहत्वमिति तस्मात्स्यादुत्थानं द्वादशाङ्गुलम् ।
इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम् ॥११३॥

पुरन्यासोऽथ गुल्फान्तं भूः पुराण्यत्र षोडश ।
तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः ॥११४॥

द्विरण्डान्तं त्र्यङ्गुलं तु च्छगलाण्डमथाब्धिषु ।
देवयोगाष्टके द्वे हि प्रत्येकाङ्गुलपादतः ॥११५॥

इति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम् ।
षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश ॥११६॥

ततोऽप्यर्धाङ्गुलव्याप्त्या षट्पुराण्यङ्गुलत्रये ।
चत्वारि युग्म एकस्मिन्नेकं च पुरमङ्गुले ॥११७॥

सरागे पुंस्पुराणीशसंख्यानीत्थं षडङ्गुले ।
क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं च वित् ॥११८॥

संवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात् ।
शूरपञ्चान्तपुरयोर्नियतौ चैकयुग्मता ॥११९॥

श्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शंभुना ।
उत्तरादिक्रमादद्व्येकभेदो विद्यादिके त्रये ॥१२०॥

असारत्वात्क्रमस्यादौ नियतिः परतः कला ।
अथवान्योन्यसंज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता ॥१२१॥

एकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये ।
कालस्य पूर्वं विन्यासो नियतेरभिधीयते ॥१२२॥

अथवान्योन्यसंज्ञाभिर्व्यपदेशो हि दृश्यते ।
एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशाङ्गुले ॥१२३॥

ततोऽप्यङ्गुष्ठमात्रान्तं मायातत्त्वस्थमष्टकम् ।
प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये ॥१२४॥

इत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि ।
पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात् ॥१२५॥

द्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरङ्गुले ।
तत ऐशपुराण्यष्टौ चतुष्केऽर्धाङ्गुलक्रमात् ॥१२६॥

ततस्त्रीणि द्वये द्वे च द्वयोरित्थं चतुष्टये ।
सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ ॥१२७॥

षोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः ।
वेदा रसाब्धि युग्माक्षि च रवयस्तत्र चाङ्गुलाः क्रमशः ॥१२८॥

अष्टादशाधिकशतं पुराणि देहेऽत्र चतुरशीतिमिते ।
विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम् ॥१२९॥

इति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने ।
अष्टशरं संख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम् ॥१३०॥

लकुलादेर्योगाष्टकपर्यन्तस्यात्र भुवनपूगस्य ।
अधिकीकुर्याद्गणनावशेन भागं विधिद्वये क्रमशः ॥१३१॥

अपरादिविधित्रैतादथ न्यासः पदाध्वनः ।
पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा ॥१३२॥

तयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना ।
तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली ॥१३३॥

तत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा ।
स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम् ॥१३४॥

न्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम् ।
चतुर्ष्वष्टासु चाष्टासु दशस्वथ दशस्वथ ॥१३५॥

दशस्वथो पञ्चदशस्वथ वेदशरेन्दुषु ।
धरापदान्नवपदीं मातृकामालिनीगताम् ॥१३६॥

योजयेद्व्याप्तृ दशमं पदं तु शिवसंज्ञितम् ।
धरापदं वर्जयित्वा पञ्च यानि पदानि तु ॥१३७॥

विधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशाङ्गुलान् ।
मन्त्राध्वनोऽप्येष एव विधिर्विन्यासयोजने ॥१३८॥

व्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा ।
वर्णाध्वनोऽथ विन्यासः कथ्यतेऽत्र विधित्रये ॥१३९॥

एकं चतुर्षु प्रत्येकं द्वयोरङ्गुलयोः क्रमात् ।
त्रयोविंशतिवर्णी स्यात् षड्वर्ण्येकैकशस्त्रिषु ॥१४०॥

प्रत्येकमथ चत्वारश्चतुर्ष्विति विलोमतः ।
मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः ॥१४१॥

वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्नवीन् ।
तां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम् ॥१४२॥

श्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम् ।
अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम् ॥१४३॥

द्विविधोऽपि हि वर्णानां षड्विधो भेद उच्यते ।
तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः ॥१४४॥

उपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु ।
भूयोऽतिदिष्टं तत्रैव शास्त्रेऽस्मद्धृदयेश्वरे ॥१४५॥

पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः ।
त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना ॥१४६॥

उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते ।
चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ ॥१४७॥

निवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका ।
द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान् ॥१४८॥

क्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम् ।
चतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते ॥१४९॥

कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम् ।
एवं षड्विधमध्वानं शोध्यशिष्यतनौ पुरा ॥१५०॥

न्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसंमतम्।
अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः ॥१५१॥

शब्दराशिर्मालिनी च समस्तव्यस्ततो द्विधा ।
एकवीरतया यद्वा षट्कं यामलयोगतः ॥१५२॥

पञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा ।
एकाकियामलत्वेनेत्येवं सा द्वादशात्मिका ॥१५३॥

षडङ्गी सकलान्यत्वाद्द्विविधा वक्त्रवत्पुनः ।
द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका ॥१५४॥

अघोराद्यष्टके द्वे च तृतीयं यामलोदयात् ।
मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः ॥१५५॥

एकद्वित्रिचतुर्भेदात्त्रयोदशभिदात्मकः ।
एकवीरतया सोऽयं चतुर्दशतया स्थितः ॥१५६॥

अनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम् ।
देवताभिर्निजाभिस्तन्मातृसद्भाववृंहितम् ॥१५७॥

इत्थं शोधकवर्गोऽयं मन्त्राणां सप्ततिः स्मृता ।
षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे च कथ्यते ॥१५८॥

अघोराद्यष्टकेनेह शोधनीयं विपश्चिता ।
अथवैकाक्षरामन्त्रैरथवा मातृकाक्रमात् ॥१५९॥

भैरवीयहृदा वापि खेचरीहृदयेन वा ।
भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः ॥१६०॥

येन येन हि मन्त्रेण तन्त्रेऽस्मिन्नुद्भवः कृतः ।
तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी ॥१६१॥

एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः ।
शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत् ॥१६२॥

तदा सप्ततिधा ज्ञेया जननादिविवर्जिता ।
शोध्यभेदोऽथ वक्तव्यः संक्षेपात्सोऽपि कथ्यते ॥१६३॥

एकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः ।
पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम् ॥१६४॥

एवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात् ।
शोध्यशोधकभेदेन शतानि त्वेकविंशतिः ॥१६५॥

अत्रापि न्यासयोगेन शोध्येऽध्वनि तथाकृतेः ।
शतैकविंशतिभिदा जननाद्युज्झिता भवेत् ॥१६६॥

जननादिमयी तावत्येवं शतदृशि श्रुतिः ।
स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः ॥१६७॥

द्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका ।
भोगमोक्षानुसन्धानाद्द्विविधा सा प्रकीर्तिता ॥१६८॥

अशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात् ।
द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि ॥१६९॥

एकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः ।
गुरुशिष्यक्रमात्सोऽपि द्विधेत्येवं विभिद्यते ॥१७०॥

प्रत्यक्षदीक्षणे यस्माद्द्वयोरेकानुसन्धितः ।
तादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः ॥१७१॥

परोक्षमृतदीक्षादौ गुरुरेवानुसन्धिमान् ।
क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत् ॥१७२॥

अविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते ।
अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम् ॥१७३॥

श्रीमत्स्वच्छन्दशास्त्रे च वासनाभेदतः फलम् ।
शिष्याणां च गुरोश्चोक्तमभिन्नेऽपि क्रियादिके ॥१७४॥

भोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात् ।
वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः ॥१७५॥

तथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः ।
भोक्तुमिष्टे क्वचित्तत्त्वे स भोक्ता तद्बलान्वितः ॥१७६॥

शुभानां कर्मणां चात्र सद्भावे भोगचित्रता ।
तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता ॥१७७॥

भोगश्च सद्य उत्क्रान्त्या देहेनैवाथ संगतः ।
तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः ॥१७८॥

प्राक्तनाष्टभिदा योगाद्द्वात्रिंशद्भेद उच्यते ।
मोक्ष एकोऽपि बीजस्य समयाख्यस्य तादृशम् ॥१७९॥

बालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम् ।
वृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद्द्विधा ॥१८०॥

सद्य उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः ।
कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता ॥१८१॥

दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् ।
उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥१८२॥

पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः ।
उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः ॥१८३॥

एतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः ।
हत्वा वदेत्प्रसंख्यानं स्वभ्यस्तज्ञानसिद्धये ॥१८४॥

पञ्चाशीतिशती या चत्वारिंशत्समुत्तरा कथिता ।
तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत् ॥१८५॥

पञ्चकमिह लक्षाणां च सप्तनवतिः सहस्रपरिसंख्या ।
अष्टौ शतानि दीक्षाभेदोऽयं मालिनीतन्त्रे ॥१८६॥

सप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः ।
साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा ॥१८७॥

द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता ।
पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात् ॥१८८॥

यस्माद्द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा ।
मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः ॥१८९॥

शोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा ।
दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा ॥१९०॥

मन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसंकलनात् ।
श्योध्यस्य च तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात् ॥१९१॥

भेदानां परिगणना न शक्यते कर्तुमित्यसंकीर्णाः ।
भेदाः संकीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा ॥१९२॥

शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात् ।
भोगे साध्ये यद्यद्बहु कर्तव्यं तदाश्रयेन्मतिमान् ॥१९३॥

कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम् ।
अपवर्गे नतु भेदस्तेनास्मिन्वासनादृढत्वजुषा ॥१९४॥

अल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा ।
अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ ॥१९५॥

अपवर्गेऽपि हि विस्तीर्णकर्मविज्ञानसंग्रहः कार्यः ।
चिद्वृत्तेर्वैचित्र्याच्चाञ्चल्येऽपि क्रमेण सन्धानात् ॥१९६॥

तस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति ।
तत्त्वमिदमेतदात्मकमेतस्मात्प्रोद्धृतो मया शिष्यः ॥१९७॥

इत्थं क्रमसंवित्तौ मूढोऽपि शिवात्मको भवति ।
क्रमिकतथाविधशिवतानुग्रहसुभगं च दैशिकं पश्यन् ॥१९८॥

शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम् ।
यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते ॥१९९॥

शास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता ।
मोक्षेऽप्यस्ति विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः ॥२००॥

इति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात् ।
संस्कारशेषवर्तनजीवितमध्येऽस्य समयलोपाद्यम् ॥२०१॥

नायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत् ।
यस्मात् सबीजदीक्षासंस्कृतपुरुषस्य समयलोपाद्ये ॥२०२॥

भुक्ते भोगान्मोक्षो नैवं निर्बीजदीक्षायाम् ।
इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे ॥२०३॥

समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः ॥२०४॥

तस्मादुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम् ।
क्रमिकं तत्त्वोद्धरणादि कर्म मोक्षेऽपि युक्तमतिविततम् ॥२०५॥

यस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः स शिशोः ।
अपवर्गाय यथेच्छं यं कंचिदुपायमनुतिष्ठेत् ॥२०६॥

एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम् ।
शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः ॥२०७॥

द्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा ।
कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये ॥२०८॥

वर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः ।
मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः ॥२०९॥

उवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत् ।
बाढमेको हि पाशात्मा शब्दोऽन्यश्च शिवात्मकः ॥२१०॥

तस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता ।
श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति ॥२११॥

सद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च च ।
षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः ॥२१२॥

परापराया वैलोम्याद्धरायां स्यात्पदत्रयम् ।
ततो जलादहङ्कारे पञ्चाष्टकसमाश्रयात् ॥२१३॥

पदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम् ।
एकं त्वशुद्धवित्कालद्वये चैकं नियामके ॥२१४॥

कलामायाद्वये चैकं पदमुक्तमिह क्रमात् ।
विद्येश्वरसदाशक्तिशिवेषु पदपञ्चकम् ॥२१५॥

एकोनविंशतिः सेयं पदानां स्यात्परापरा ।
सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम् ॥२१६॥

त्राणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः ।
एकान्नविंशतौ स्यादक्षरसंख्या पदेष्वियं देव्याः ॥२१७॥

हल्द्वययुतवसुचित्रगुपरिसंख्यातस्ववर्णायाः ।
मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम् ॥२१८॥

शक्त्यन्तमेकमपरान्यासे विधिरुदीरितः ।
मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते ॥२१९॥

निष्कले शिवतत्त्वे वै परो न्यासः परोदितः ।
परापरापदान्येव ह्यघोर्याद्यष्टकद्वये ॥२२०॥

मन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत् ।
पिण्डाक्षराणां सर्वेषां वर्णसंख्या विभेदतः ॥२२१॥

अव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत् ।
बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् ॥२२२॥

पिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे ।
अकृते वाथ शोध्यस्य न्यासे वस्तुबलात् स्थितेः ॥२२३॥

शोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति ।
श्रीमन्मृत्युञ्जयादौ च कथितं परमेष्ठिना ॥२२४॥

अधुना न्यासमात्रेण भूतशुद्धिः प्रजायते ।
देहशुद्ध्यर्थमप्येतत्तुल्यमेतेन वस्तुतः ॥२२५॥

अन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे ।
ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते ॥२२६॥

मालिनीमातृकाङ्गस्य न्यासो योऽर्चाविधौ पुरा ।
प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे स एव तु ॥२२७॥

त्रिपदी द्वयोर्द्वयोः स्यात्प्रत्येकमथाष्टसु श्रुतिपदानि ।
दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने ॥२२८॥

अङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत् ।
अपरं मानमिदं स्यात् केवलशोधकमनुन्यासे ॥२२९॥

तुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम् ।
द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् ॥२३०॥

केवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः ।
तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि ॥२३१॥

निष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे ।
इत्यादिना तत्त्वगतक्रमन्यास उदीरितः ॥२३२॥

पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः ।
द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः ॥२३३॥

एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् ।
अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम् ॥२३४॥

द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम् ।
द्वादशाङ्गुलमन्यच्च द्वेऽन्ये पञ्चाङ्गुले पृथक् ॥२३५॥

पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी ।
एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते ॥२३६॥

विद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत् ।
इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् ॥२३७॥

एवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः ।
पाशजालं विलीयेत तद्ध्यानबलतो गुरोः ॥२३८॥

शोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः ।
जननाद्भोगतः कर्मक्षये स्यादपवृक्तता ॥२३९॥

देहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम् ।
मनोऽनुसन्धिर्नो विश्वसंयोगप्रविभागवत् ॥२४०॥

नियत्या मनसो देहमात्रे वृत्तिस्ततः परम् ।
नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता ॥२४१॥

प्रदेशवृत्ति च ज्ञानमात्मनस्तत्र तत्र तत् ।
भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति ॥२४२॥

यदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम् ।
योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा ॥२४३॥

यथामलं मनो दूरस्थितमप्याशु पश्यति ।
तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम् ॥२४४॥

जननादिवियुक्तां तु यदा दीक्षां चिकीर्षति ।
तदास्मादुद्धरामीति युक्तमूहप्रकल्पनम् ॥२४५॥

यदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः ।
जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम् ॥२४६॥

एकाकिशोद्धृन्यासे च जननादिविवर्जने ।
तच्छोद्धृसंपुटं नाम केवलं परिकल्पयेत् ॥२४७॥

द्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम् ।
तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः ॥२४८॥

यदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम् ।
तन्मन्त्रसंजल्पबलात् पश्येदा चाविकल्पकात् ॥२४९॥

विकल्पः किल संजल्पमयो यत्स विमर्शकः ।
मन्त्रात्मासौ विमर्शश्च शुद्धोऽपाशवतात्मकः ॥२५०॥

नित्यश्चानादिवरदशिवाभेदोपकल्पितः ।
तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत् ॥२५१॥

श्रीसारशास्त्रे तदिदं परमेशेन भाषितम् ।
अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी ॥२५२॥

सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ ।
परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता ॥२५३॥

परामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः ।
उक्तं श्रीपौष्करेऽन्ये च ब्रह्मविष्ण्वादयोऽण्डगाः ॥२५४॥

प्राधानिकाः साञ्जनास्ते सात्त्वराजसतामसाः ।
तैरशुद्धपरामर्शात्तन्मयीभावितो गुरुः ॥२५५॥

वैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने ।
ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः ॥२५६॥

श्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः ।
ननु स्वतन्त्रसंजल्पयोगादस्तु विमर्शिता ॥२५७॥

प्राक्कुतः स विमर्शाच्चेत्कुतः सोऽपि निरूपणे ।
आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः ॥२५८॥

यः संक्रान्तोऽभिजल्पः स्यात्तस्याप्यन्योपदेष्टृतः ।
पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा ॥२५९॥

संजल्पो ह्यभिसंक्रान्तः सोऽद्याप्यस्तीति गृह्यताम् ।
यस्तथाविधसंजल्पबलात्कोऽपि स्वतन्त्रकः ॥२६०॥

विमर्शः कल्प्यते सोऽपि तदात्मैव सुनिश्चितः ।
घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते ॥२६१॥

सोऽप्यन्यकल्पनादायी ह्यनादृत्यः प्रयत्नतः ।
पणायते करोतीति विकल्पस्योचितौ स्फुटम् ॥२६२॥

करपाण्यभिजल्पौ तौ संकीर्येतां कथं किल ।
शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः ॥२६३॥

व्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी ।
तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत् ॥२६४॥

यावद्बालस्य संवित्तिरकृत्रिमविमर्शने ।
तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम् ॥२६५॥

शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः ।
यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम् ॥२६६॥

तत्तस्यैव कुतोऽन्यस्य तत्कस्मादन्यकल्पना ।
एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत् ॥२६७॥

लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः ।
तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् ॥२६८॥

ऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत् ।
मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् ॥२६९॥

गुरुं कुर्यात् तदभ्यासात्तत्संकल्पमयो ह्यसौ ।
तत्समानाभिसंजल्पो यदा मन्त्रार्थभावनात् ॥२७०॥

गुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम् ।
अंशेनाप्यथ वैषम्ये न ततोऽर्थक्रिया हि सा ॥२७१॥

गोमयात्कीटतः कीट इत्येवं न्यायतो यदा ।
संजल्पान्तरतोऽप्यर्थक्रियां तामेव पश्यति ॥२७२॥

तदैष सत्यसंजल्पः शिव एवेति कथ्यते ।
स यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः ॥२७३॥

नैषोऽभिनवगुप्तस्य पक्षो मन्त्रार्पितात्मनः ।
योऽर्थक्रियामाह भिन्नां कीटयोरपि तादृशोः ॥२७४॥

मन्त्रार्पितमनाः किंचिद्वदन्यत्तु विषं हरेत् ।
तन्मन्त्र एव शब्दः स परं तत्र घटादिवत् ॥२७५॥

कान्तासंभोगसंजल्पसुन्दरः कामुकः सदा ।
तत्संस्कृतोऽप्यन्यदेष कुर्वन्स्वात्मनि तृप्यति ॥२७६॥

तथा तन्मन्त्रसंजल्पभावितोऽन्यदपि ब्रुवन् ।
अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम् ॥२७७॥

विकल्पयन्नप्येकार्थं यतोऽन्यदपि पश्यति ।
विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने ॥२७८॥

यदि वा विषनाशेऽपि हेतुभेदाद्विचित्रता ।
धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति ॥२७९॥

तदेवं मन्त्रसंजल्पविकल्पाभ्यासयोगतः ।
भाव्यवस्तुस्फुटीभावः संजल्पह्रासयोगतः ॥२८०॥

वस्त्वेव भावयत्येष न संजल्पमिमं पुनः ।
गृह्णाति भासनोपायं भाते तत्र तु तेन किम् ॥२८१॥

एवं संजल्पनिर्ह्रासे सुपरिस्फुटतात्मकम् ।
अकृत्त्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् ॥२८२॥

निर्विकल्पा च सा संविद्यद्यथा पश्यति स्फुटम् ।
तत्तथैव तथात्मत्वाद्वस्तुनोऽपि बहिःस्थितेः ॥२८३॥

विशेषतस्त्वमायीयशिवताभेदशालिनः ।
मोक्षेऽभ्युपायः संजल्पो बन्धमोक्षौ ततः किल ॥२८४॥

विकल्पेऽपि गुरोः सम्यगभिन्नशिवताजुषः ।
अविकल्पकपर्यन्तप्रतीक्षा नोपयुज्यते ॥२८५॥

तद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता ।
महासंवित्समासन्नेत्युक्तं श्रीगमशासने ॥२८६॥

निकटस्था यथा राज्ञामन्येषां साधयन्त्यलम् ।
सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम् ॥२८७॥

उक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते ।
मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल ॥२८८॥

योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना ।
तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये ॥२८९॥

तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् ।
सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् ॥२९०॥

न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे ।
क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते ॥२९१॥

द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् ।
नच योगाधिकारित्वमेकमेवानया भवेत् ॥२९२॥

अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया ।
अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये ॥२९३॥

मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः ।
मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् ॥२९४॥

तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात् ।
तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत् ॥२९५॥

तत्स्यादस्यान्यतत्त्वेऽपि युक्तस्य गुरुणा शिशोः ।
दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः ॥२९६॥

स्वबलेनैव भोगं वा मोक्षं वा लभते बुधः ।
तेन विज्ञानयोगादिबली प्राक् समयी भवन् ॥२९७॥

पुत्रको वा न तावान्स्यादपितु स्वबलोचितः ।
यस्तु विज्ञानयोगादिवन्ध्यः सोऽन्धो यथा पथि ॥२९८॥

दैशिकायत्त एव स्याद्भोगे मुक्तौ च सर्वथा ।
दीक्षा च केवला ज्ञानं विनापि निजमान्तरम् ॥२९९॥

मोचिकैवेति कथितं युक्त्या चागमतः पुरा ।
यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः ॥३००॥

स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः ।
सोऽपि यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते ॥३०१॥

गुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस्ततः ।
दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् ॥३०२॥

कर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम् ।
यः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः ॥३०३॥

त्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि ।
तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः ॥३०४॥

कर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः ।
ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः ॥३०५॥

गुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत् ।
यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् ॥३०६॥

स्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम् ।
शुभपाकक्रमोपात्तफलभोगसमाप्तितः ॥३०७॥

यत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते ।
भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम् ॥३०८॥

अशुभांशविशुद्धौ स्याद्भोगस्यैवानुपक्षयः ।
भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः ॥३०९॥

न दुःखफलदं देहाद्यध्वमध्येऽपि किंचन ।
ततो मायालये भुक्तसमस्तसुखभोगकः ॥३१०॥

निष्कले सकले वैति लयं योजनिकाबलात् ।
इति प्रमेयं कथितं दीक्षा काले गुरोर्यथा ॥३११॥