तन्त्रालोके एकत्रिंशमाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके एकत्रिंशमाह्निकम्


अथ मण्डलसद्भावः संक्षेपेणाभिधीयते ।
साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् ॥१॥

तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः ।
ततोऽप्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ ॥२॥

अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् ।
मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् ॥३॥

तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये ।
यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे ॥४॥

अङ्कयेदपरादङ्कात् पूर्वादपि तथैव ते ।
मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे ॥५॥

मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः ।
सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः ॥६॥

मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् ।
एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः ॥७॥

सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते ।
यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् ॥८॥

मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् ।
तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः ॥९॥

तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् ।
वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् ॥१०॥

भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् ।
ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् ॥११॥

कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः ।
ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे ॥१२॥

कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः ।
तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् ॥१३॥

कोष्ठकार्धेऽपरं चेति युग्ममन्तर्मुखं भवेत् ।
ब्रह्मसूत्राद्द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् ॥१४॥

कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः ।
ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके ॥१५॥

कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् ।
भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् ॥१६॥

तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः ।
कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् ॥१७॥

सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते ।
द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः ॥१८॥

मध्यशृङ्गेऽथ कर्तव्ये तृतीये ऊर्ध्वकोष्ठके ।
चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् ॥१९॥

तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा ।
अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते ॥२०॥

एवं द्वितीयपार्श्वेऽस्य खण्डेन्दुद्वयवर्तनात् ।
मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् ॥२१॥

सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् ।
पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् ॥२२॥

अवधानेन संग्राह्यमाचार्येणोहवेदिना ।
भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके ॥२३॥

मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः ।
ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् ॥२४॥

ततो द्वयेन कर्तव्या गण्डिकान्तःसुसंगता ।
द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् ॥२५॥

अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् ।
ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् ॥२६॥

मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा ।
पद्मं वाथ षडरं वा वियद्द्वादशकं च वा ॥२७॥

त्रित्रिशूलेऽत्र सप्तारे श्लिष्टमात्रेण मध्यतः ।
पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ॥२८॥

मिश्रितं वाथ संकीर्णं समासव्यासभेदतः ।
ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् ॥२९॥

तत्र दण्डः स्मृतो भागः षडरामलसारकः ।
सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः ॥३०॥

या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी ।
सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका ॥३१॥

अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः ।
ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् ॥३२॥

वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः ।
स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः ॥३३॥

उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् ।
कुटिलो मध्यतः स्पष्टोऽधोमुखः पार्श्वगः स्थितः ॥३४॥

उत्तानोऽर्धोऽसमः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा ।
चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी ॥३५॥

अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता ।
तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः ॥३६॥

पीठवीथीबहिअर्भूमिकण्ठकर्णकपोलतः ।
शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः ॥३७॥

स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः ।
भावाभावविकल्पेन मण्डलानामनन्तता ॥३८॥

ततो रजांसि देयानि यथाशोभानुसारतः ।
सिन्दूरं राजवर्तं च खटिका च सितोत्तमा ॥३९॥

उत्तमानि रजांसीह देवतात्रययोगतः ।
परा चन्द्रसमप्रख्या रक्ता देवी परापरा ॥४०॥

अपरा सा परा काली भीषणा चण्डयोगिनी ।
दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा ॥४१॥

अनर्चितेऽप्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः ।
किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः ॥४२॥

शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम् ।
या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता ॥४३॥

विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता ।
तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् ॥४४॥

अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः ।
आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः ॥४५॥

तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः ।
तस्मादेनं महायागं महाविभवविस्तरैः ॥४६॥

पूजयेद्भूतिकामो वा मोक्षकामोऽपिवा बुधः ।
अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः ॥४७॥

पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति ।
मन्दशक्तिबलाविद्धोऽप्येतन्मण्डलपूजनात् ॥४८॥

सततं मासषट्केन त्रिकज्ञानं समश्नुते ।
यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः ॥४९॥

देहान्ते स्याद्भैरवात्मा सिद्धिकामोऽथ सिद्ध्यति ।
मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च ॥५०॥

वर्तनां च विजानाति स गुरुस्त्रिकशासने ।
तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना ॥५१॥

अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् ।
तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् ॥५२॥

चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् ।
तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् ॥५३॥

इत्येतत्कथितं गुप्ते षडर्धहृदये परे ।
षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते ॥५४॥

अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् ।
महाशूलसमोपेतं पद्मचक्रादिभूषितम् ॥५५॥

द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् ।
कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम् ॥५६॥

अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् ।
शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापिवा ॥५७॥

एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति ।
स्थानान्तरेऽपि कथितं श्रीसिद्धातन्त्रशासने ॥५८॥

कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु ।
शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे ॥५९॥

अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते ।
सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः ॥६०॥

यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः ।
तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः ॥६१॥

वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्ध विभाजयेत् ।
हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् ॥६२॥

त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः ।
द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ ॥६३॥

ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा ।
भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् ॥६४॥

तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः ।
जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः ॥६५॥

तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् ।
बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् ॥६६॥

तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् ।
ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः ॥६७॥

द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः ।
एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् ॥६८॥

सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये ।
तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् ॥६९॥

आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् ।
तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः ॥७०॥

तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये ।
क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः ॥७१॥

षड्विस्तृतं चतुर्दीर्घं तदधोऽमलसारकम् ।
वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते ॥७२॥

आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् ।
हस्तायामं तदर्धं वा विस्तारादपि तत्समम् ॥७३॥

द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु ।
एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् ॥७४॥

दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश ।
द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् ॥७५॥

एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् ।
एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् ॥७६॥

यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते ।
तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये ॥७७॥

एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् ।
द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम् ॥७८॥

कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः ।
सितं रक्तं तथा पीतं कार्यं केसरजालकम् ॥७९॥

दलानि शुक्लवर्णानि प्रतिवारणया सह ।
पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः ॥८०॥

सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् ।
चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते ॥८१॥

दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् ।
रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् ॥८२॥

पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् ।
द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् ॥८३॥

एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम् ।
कपोलकण्ठशोभोपशोभादिबहुचित्रितम् ॥८४॥

विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् ।
श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति ॥८५॥

अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् ।
भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् ॥८६॥

मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ ।
भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः ॥८७॥

तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः ।
चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः ॥८८॥

तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत् ।
ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् ॥८९॥

क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः ।
अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते ॥९०॥

भागं भागं गृहीत्वा तु उभयोरथ गोचरात् ।
भ्राम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् ॥९१॥

षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् ।
तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् ॥९२॥

मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः ।
सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् ॥९३॥

कर्णिका पीतला रक्तपीतशुक्लं च केसरम् ।
दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी ॥९४॥

शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः ।
शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः ॥९५॥

शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा ।
अस्योर्ध्वे तु परां दक्षेऽन्यां वामे चापरां बुधः ॥९६॥

या सा कालान्तका देवी परातीता व्यवस्थिता ।
ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा ॥९७॥

शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् ।
अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा ॥९८॥

भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् ।
चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा ॥९९॥

एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः ।
अथ त्रैशिरसे शूलाब्जविधिर्दृष्टोऽभिलिख्यते ॥१००॥

वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः ।
भूमिं रजांसि करणीं खटिकां मूलतोऽर्चयेत् ॥१०१॥

चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् ।
चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ ॥१०२॥

वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः ।
द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका ॥१०३॥

दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः ।
ऊर्ध्वेऽप्युच्छ्रायतो वेदाङ्गुला दैर्घ्याद्दशाङ्गुला ॥१०४॥

शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् ।
कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः ॥१०५॥

अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः ।
शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् ॥१०६॥

वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् ।
द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा ॥१०७॥

चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत् ।
उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा ॥१०८॥

भ्रामयेत् खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम् ।
वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः ॥१०९॥

यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् ।
मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः ॥११०॥

चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला ।
उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः ॥१११॥

पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते ।
शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् ॥११२॥

अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् ।
चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् ॥११३॥

पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः ।
कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च ॥११४॥

कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् ।
क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् ॥११५॥

चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् ।
विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् ॥११६॥

त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् ।
सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् ॥११७॥

शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् ।
रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् ॥११८॥

शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादङ्गुलं बहिः ।
तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः ॥११९॥

वैपुल्यत्रिगुणं दैर्घ्यात् प्राकारं चतुरश्रकम् ।
समन्ततोऽथ दिक्षु स्युर्द्वाराणि करमात्रतः ॥१२०॥

त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः ।
कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः ॥१२१॥

प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् ।
सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः ॥१२२॥

रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् ।
अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् ॥१२३॥

अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः ।
अनाहतपदव्याप्तिः कुण्डल्या उदयः परः ॥१२४॥

हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे ।
नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् ॥१२५॥

शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् ।
उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः ॥१२६॥

शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् ।
प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि ॥१२७॥

अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् ।
मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् ॥१२८॥

तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः ।
समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः ॥१२९॥

समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः ।
षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् ॥१३०॥

विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे ।
कार्योऽस्मिन् पूजिते यत्र सर्वेश्वरपदं भजेत् ॥१३१॥

स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः ।
नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः ॥१३२॥

शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा ।
एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा ॥१३३॥

अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते ।
वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् ॥१३४॥

रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् ।
वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः ॥१३५॥

रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् ।
मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि ॥१३६॥

वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च ।
लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् ॥१३७॥

द्वारप्राकारकोणेषु नेत्रानलशरानृतून् ।
नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः ॥१३८॥

वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् ।
नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् ॥१३९॥

लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् ।
शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् ॥१४०॥

नेत्रात् पूर्वगताच्चैव सुमेरुर्द्वारसंज्ञितः ।
स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ ॥१४१॥

मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः ।
नेत्रादिकांश्च संमार्ज्य मार्गमध्यात् सुशोभने ॥१४२॥

ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् ।
नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् ॥१४३॥

वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् ।
वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि ॥१४४॥

ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् ।
सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः ॥१४५॥

भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात् ।
सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि ॥१४६॥

दलानि कार्याणि सितैः केसरं रक्तपीतलैः ।
कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः ॥१४७॥

व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः ।
पीठं रेखात्रयोपेतं सितलोहितपीतलम् ॥१४८॥

स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः ।
वीथी विद्रुमसंकाशा स्वदिक्ष्वस्त्राणि बाह्यतः ॥१४९॥

इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् ।
दण्डं हाटकसंकाशं वक्त्रं तस्यातिलोहितम् ॥१५०॥

नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम् ।
ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् ॥१५१॥

गदा हेमनिभात्युग्रा नानारत्नविभूषिता ।
शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् ॥१५२॥

तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् ।
चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः ॥१५३॥

अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् ।
मन्दिरं देवदेवस्य सर्वकामफलप्रदम् ॥१५४॥

श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते ।
हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् ॥१५५॥

मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् ।
नवभिः कोष्ठकैर्युक्तं ततोऽयं विधिरुच्यते ॥१५६॥

मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु ।
अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति ॥१५७॥

उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत् ।
कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् ॥१५८॥

अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् ।
रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् ॥१५९॥

शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् ।
अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् ॥१६०॥

मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् ।
मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् ॥१६१॥

रेखाद्वयं पातयेत यथा शूलं भवत्यपि ।
अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते ॥१६२॥

समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु ।
मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि ॥१६३॥

इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः ॥