तन्त्रालोके एकोनत्रिंशमाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके एकोनत्रिंशमाह्निकम्


अथ समुचिताधिकारिण उद्दिश्य रहस्य उच्यतेऽत्र विधिः ।
अथ सर्वाप्युपासेयं कुलप्रक्रिययोच्यते ॥१॥

तथा धाराधिरूढेषु गुरुशिष्येषु योचिता ।
उक्तं च परमेशेन सारत्वं क्रमपूजने ॥२॥

सिद्धक्रमनियुक्तस्य मासेनैकेन यद्भवेत् ।
न तद्वर्षसहस्रैः स्यान्मन्त्रौघैर्विविधैरिति ॥३॥

कुलं च परमेशस्य शक्तिः सामर्थ्यमूर्ध्वता ।
स्वातन्त्र्यमोजो वीर्यं च पिण्डः संविच्छरीरकम् ॥४॥

तथात्वेन समस्तानि भावजातानि पश्यतः ।
ध्वस्तशङ्कासमूहस्य यागस्तादृश एव सः ॥५॥

तादृग्रूपनिरूढ्यर्थं मनोवाक्कायवर्त्मना ।
यद्यत्समाचरेद्वीरः कुलयागः स स स्मृतः ॥६॥

बहिः शक्तौ यामले च देहे प्राणपथे मतौ ।
इति षोढा कुलेज्या स्यात्प्रतिभेदं विभेदिनी ॥७॥

स्नानमण्डलकुण्डादि षोढान्यासादि यन्न तत् ।
किञ्चिदत्रोपयुज्येत कृतं वा खण्डनाय नो ॥८॥

षण्मण्डलविनिर्मुक्तं सर्वावरणवर्जितम् ।
ज्ञानज्ञेयमयं कौलं प्रोक्तं त्रैशिरसे मते ॥९॥

अत्र यागे च यद्द्रव्यं निषिद्धं शास्त्रसन्ततौ ।
तदेव योजयेद्धीमान्वामामृतपरिप्लुतम् ॥१०॥

श्रीब्रह्मयामलेऽप्युक्तं सुरा शिवरसो बहिः ।
तां विना भुक्तिमुक्ती नो पिष्टक्षौद्रगुडैस्तु सा ॥११॥

स्त्रीनपुंसकपुंरूपा तु पूर्वापरभोगदा ।
द्राक्षोत्थं तु परं तेजो भैरवं कल्पनोज्झितम् ॥१२॥

एतत्स्वयं रसः शुद्धः प्रकाशानन्दचिन्मयः ।
देवतानां प्रियं नित्यं तस्मादेतत्पिवेत्सदा ॥१३॥

श्रीमत्क्रमरहस्ये च न्यरूपि परमेशिना ।
अर्घपात्रं यागधाम दीप इत्युच्यते त्रयम् ॥१४॥

रहस्यं कौलिके यागे तत्रार्घः शक्तिसंगमात् ।
भूवस्त्रकायपीठाख्यं धाम चोत्कर्षभाक् क्रमात् ॥१५॥

दीपा घृतोत्था गावो हि भूचर्यो देवताः स्मृताः ।
इति ज्ञात्वा त्रयेऽमुष्मिन्यत्नवान्कौलिको भवेत् ॥१६॥

तेनार्घपात्रप्राधान्यं ज्ञात्वा द्रव्याणि शम्भुना ।
यान्युक्तान्यविशङ्कोऽत्र भवेच्छङ्का हि दूषिका ॥१७॥

यागौको गन्धधूपाढ्यं प्रविश्य प्रागुदङ्मुखः ।
परया वाऽथ मालिन्या विलोमाच्चानुलोमतः ॥१८॥

दाहाप्यायमयीं शुद्धिं दीप्तसौम्यविभेदतः ।
क्रमेण कुर्यादथवा मातृसद्भावमन्त्रतः ॥१९॥

दीक्षां चेत्प्रचिकीर्षुस्तच्छोध्याध्वन्यासकल्पनम् ।
ततः संशोध्यवस्तूनि शक्त्यैवामृततां नयेत् ॥२०॥

परासम्पुटगा यद्वा मातृसम्पुटगाप्यथो ।
केवला मालिनी यद्वा ताः समस्तेषु कर्मसु ॥२१॥

नन्दहेतुफलैर्द्रव्यैरर्घपात्रं प्रपूरयेत् ।
तत्रोक्तमन्त्रतादात्म्याद्भैरवात्मत्वमानयेत् ॥२२॥

तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् ।
विप्रुड्भिरूर्ध्वाधरयोरन्तः पीत्या च तर्पयेत् ॥२३॥

तथा पूर्णस्वरश्म्योघः प्रोच्छलद्वृत्तितावशात् ।
बहिस्तादृशमात्मानं दिदृक्षुर्बहिरर्चयेत् ॥२४॥

अर्काङ्गुलेऽथ तद्द्वित्रिगुणे रक्तपटे शुभे ।
व्योम्नि सिन्दूरसुभगे राजवर्त्तभृतेऽथवा ॥२५॥

नारिकेलात्मके काद्ये मद्यपूर्णेऽथ भाजने ।
यद्वा समुदिते रूपे मण्डलस्थे च तदृशि ॥२६॥

यागं कुर्वीत मतिमांस्तत्रायं क्रम उच्यते ।
दिश्युदीच्यां रुद्रकोणाद्वायव्यन्तं गणेश्वरम् ॥२७॥

वटुकं त्रीन् गुरून्सिद्धान्योगिनीः पीठमर्चयेत् ।
प्राच्यां दिशि गणेशाध आरभ्याभ्यर्चयेत्ततः ॥२८॥

सिद्धचक्रं दिक्चतुष्के गणेशाधस्तनान्तकम् ।
खगेन्द्रः सहविज्जाम्ब इल्लाईअम्बया सह ॥२९॥

वक्तष्टिर्विमलोऽनन्तमेखलाम्बायुतः पुरा ।
शक्त्या मङ्गलया कूर्म इल्लाईअम्बया सह ॥३०॥

जैत्रो याम्ये ह्यविजितस्तथा सानन्दमेखलः ।
काममङ्गलया मेषः कुल्लाईअम्बया सह ॥३१॥

विन्ध्योऽजितोऽप्यजरया सह मेखलया परे ।
मच्छन्दः कुङ्कुणाम्बा च षड्युग्मं साधिकारकम् ॥३२॥

सौम्ये मरुत्त ईशान्तं द्वितीया पङ्क्तिरीदृशी ।
अमरवरदेवचित्रालिविन्ध्यगुडिका इति क्रमात्षडमी ॥३३॥

सिल्लाई एरुणया तथा कुमारी च बोधाई ।
समहालच्छी चापरमेखलया शक्तयः षडिमाः ॥३४॥

एते हि साधिकाराः पूज्या येषामियं बहुविभेदा ।
सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी ॥३५॥

आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता ।
एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् ॥३६॥

दक्षाङ्गुष्ठादिकनिष्ठिकान्तमथ सा कनीयसी वामात् ।
द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छु म्माः ॥३७॥

शवराडबिल्लपट्टिल्लाः करबिल्लाम्बिशरबिल्लाः ।
अडबीडोम्बीदक्षिणबिल्लाः कुम्भारिकाक्षराख्याच ॥३८॥

देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च ।
दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः ॥३९॥

इति सङ्केताभिज्ञो भ्रमते पीठेषु यदि स सिद्धीप्सुः ।
अचिराल्लभते तत्तत्प्राप्यं यद्योगिनीवदनात् ॥४०॥

भट्टेन्द्रवल्कलाहीन्द्रगजेन्द्राः समहीधराः ।
ऊर्ध्वरेतस एते षडधिकारपदोज्झिताः ॥४१॥

अधिकारो हि वीर्यस्य प्रसरः कुलवर्त्मनि ।
तदप्रसरयोगेन ते प्रोक्ता ऊर्ध्वरेतसः ॥४२॥

अन्याश्च गुरुतत्पत्न्यः श्रीमत्कालीकुलोदिताः ।
अनात्तदेहाः क्रीडन्ति तैस्तैर्देहैरशङ्किताः ॥४३॥

प्रबोधिततथेच्छाकैस्तज्जे कौलं प्रकाशते ।
तथारूपतया तत्र गुरुत्वं परिभाषितम् ॥४४॥

ते विशेषान्न संपूज्याः स्मर्तव्या एव केवलम् ।
ततोऽभ्यन्तरतो वायुवह्न्योर्मातृकया सह ॥४५॥

मालिनी क्रमशः पूज्या ततोऽन्तर्मन्त्रचक्रकम् ।
मन्त्रसिद्धप्राणसंवित्करणात्मनि या कुले ॥४६॥

चक्रात्मके चितिः प्रभ्वी प्रोक्ता सेह कुलेश्वरी ।
सा मध्ये श्रीपरा देवी मातृसद्भावरूपिणी ॥४७॥

पूज्याथ तत्समारोपादपराथ परापरा ।
एकवीरा च सा पूज्या यदिवा सकुलेश्वरा ॥४८॥

प्रसरेच्छक्तिरुच्छूना सोल्लासो भैरवः पुनः ।
सङ्घट्टानन्दविश्रान्त्या युग्ममित्थं प्रपूजयेत् ॥४९॥

महाप्रकाशरूपायाः संविदो विस्फुलिङ्गवत् ।
यो रश्म्योघस्तमेवात्र पूजयेद्देवतागणम् ॥५०॥

अन्तर्द्वादशकं पूज्यं ततोऽष्टाष्टाकमेव च ।
चतुष्कं वा यथेच्छं वा का सङ्ख्या किल रश्मिषु ॥५१॥

माहेशी वैरिञ्ची कौमारी वैष्णवी चतुर्दिक्कम् ।
ऐन्द्री याम्या मुण्डा योगेशीरीशतस्तु कोणेषु ॥५२॥

पवनान्तमघोरादिकमष्टकमस्मिन्नथाष्टके क्रमशः ।
सङ्घट्टानन्ददृशा सम्पूज्यं यामलीभूतम् ॥५३॥

अष्टाष्टकेऽपि हि विधौ नानानामप्रपञ्चिते बहुधा ।
विधिरेष एव विहितस्तत्संख्या दीपमाला स्यात् ॥५४॥

श्रीरत्नमालाशास्त्रे तु वर्णसंख्याः प्रदीपकाः ।
वर्णांश्च मुख्यपूज्याया विद्याया गणयेत्सुधीः ॥५५॥

पीठक्षेत्रादिभिः साकं कुर्याद्वा कुलपूजनम् ।
यथा श्रीमाधवकुले परमेशेन भाषितम् ॥५६॥

सृष्टिसंस्थितिसंहारानामक्रमचतुष्टयम् ।
पीठश्मशानसहितं पूजयेद्भोगमोक्षयोः ॥५७॥

आत्मनो वाथवा शक्तेश्चक्रस्याथ स्मरेदिमम् ।
न्यस्यत्वेन विधिं देहे पीठाख्ये पारमेश्वरम् ॥५८॥

अट्टहासं शिखास्थाने चरित्रं च करन्ध्रके ।
श्रुत्योः कौलगिरिं नासारन्ध्रयोश्च जयन्तिकाम् ॥५९॥

भ्रुवोरुज्जयिनीं वक्त्रे प्रयागं हृदये पुनः ।
वाराणसीं स्कन्धयुगे श्रीपीठं विरजं गले ॥६०॥

एडाभीमुदरे हालां नाभौ कन्दे तु गोश्रुतिम् ।
उपस्थे मरुकोशं च नगरं पौण्ड्रवर्धनम् ॥६१॥

एलापुरं पुरस्तीरं सक्थ्यूर्वोर्दक्षिणादितः ।
कुड्याकेशीं च सोपानं मायापूक्षीरके तथा ॥६२॥

जानुजङ्घे गुल्फयुग्मे त्वाम्रातनृपसद्मनी ।
पादाधारे तु वैरिञ्चीं कालाग्न्यवधिदारिकाम् ॥६३॥

नाहमस्मि नचान्योऽस्ति केवलाः शक्तयस्त्वहम् ।
इत्येवंवासनां कुर्यात्सर्वदा स्मृतिमात्रतः ॥६४॥

न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।
ग्राम्यधर्मरतः सिद्ध्येत्सर्वदा स्मरणेन हि ॥६५॥

मातङ्गकृष्णसौनिककार्मुकचार्मिकविकोषिधातुविभेदाः ।
मात्स्यिकचाक्रिकदयितास्तेषां पत्न्यो नवात्र नवयागे ॥६६॥

सङ्गमवरुणाकुलगिर्यट्टहासजयन्तीचरित्रकाम्रककोट्टम् ।
हैमपुरं नवमं स्यान्मध्ये तासां च चक्रिणी मुख्या ॥६७॥

बीजं सा पीडयते रसशल्कविभागतोऽत्र कुण्डलिनी ।
अध्युष्टपीठनेत्री कन्दस्था विश्वतो भ्रमति ॥६८॥

इष्ट्वा चक्रोदयं त्वित्थं मध्ये पूज्या कुलेश्वरी ।
सङ्कर्षिणी तदन्तान्ते संहाराप्यायकारिणी ॥६९॥

एकवीरा चक्रयुक्ता चक्रयामलगापि वा ।
ईशेन्द्राग्नियमक्रव्यात्कवायूदक्षु हासतः ॥७०॥

त्रिकं त्रिकं यजेदेतद्भाविस्वत्रिकसंयुतम् ।
हृत्कुण्डली भ्रुवोर्मध्यमेतदेव क्रमात्त्रयम् ॥७१॥

श्मशानानि क्रमात्क्षेत्रभवं सद्योगिनीगणम् ।
वस्वङ्गुलोन्नतानूर्ध्ववर्तुलान् क्षाममध्यकान् ॥७२॥

रक्तवर्तीञ्श्रुतिदृशो दीपान्कुर्वीत सर्पिषा ।
यत्किञ्चिदथवा मध्ये स्वानुष्ठानं प्रपूजयेत् ॥७३॥

अद्वैतमेव न द्वैतमित्याज्ञा परमेशितुः ।
सिद्धान्तवैष्णवाद्युक्ता मन्त्रा मलयुतास्ततः ॥७४॥

तावत्तेजोऽसहिष्णुत्वान्निर्जीवाः स्युरिहाद्वये ।
कलशं नेत्रबन्धादि मण्डलं स्रुक्स्रुवानलम् ॥७५॥

हित्वात्र सिद्धिः सन्मद्ये पात्रे मध्ये कृशां यजेत् ।
अहोरात्रमिमं यागं कुर्वतश्चापरेऽहनि ॥७६॥

वीरभोज्ये कृतेऽवश्यं मन्त्राः सिद्ध्यन्त्ययत्नतः ।
पीठस्तोत्रं पठेदत्र यागे भाग्यावहाह्वये ॥७७॥

मूर्तीरेवाथवा युग्मरूपा वीरस्वरूपिणीः ।
अवधूता निराचाराः पूजयेत्क्रमशो बुधः ॥७८॥

एक एवाथ कौलेशः स्वयं भूत्वापि तावतीः ।
शक्तीर्यामलयोगेन तर्पयेद्विश्वरूपवत् ॥७९॥

क्रमो नाम न कश्चित्स्यात्प्रकाशमयसंविदि ।
चिदभावो हि नास्त्येव तेनाकालं तु तर्पणम् ॥८०॥

अत्र क्रमे भेदतरोः समूलमुन्मूलनादासनपक्षचर्चा ।
पृथङ्न युक्ता परमेश्वरो हि स्वशक्तिधाम्नीव विशंश्रमीति ॥८१॥

ततो जपः प्रकर्तव्यस्त्रिलक्षादिविभेदतः ।
उक्तं श्रीयोगसञ्चारे स च चित्रस्वरूपकः ॥८२॥

उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते ।
आस्ये गमागमे सूत्रे हंसाख्ये शैवयुग्मके ॥८३॥

पञ्चलक्षा इमे प्रोक्ता दशांशं होममाचरेत् ।
नेत्रे गमागमे वक्त्रे हंसे चैवाक्षसूत्रके ॥८४॥

शिवशक्तिसमायोगे षड्लक्षो जप उच्यते ।
नेत्रे गमागमे कर्णे हंसे वक्त्रे च भामिनि ॥८५॥

हस्ते च युग्मके चैव जपः सप्तविधः स्मृतः ।
नेत्रे गमागमे कर्णावास्यं गुह्यं च गुह्यकम् ॥८६॥

शतारेषु च मध्यस्थं सहस्रारेषु भामिनि ।
जप एष रुद्रलक्षो होमोऽप्यत्र दशांशतः ॥८७॥

नेत्रे गमागमे कर्णौ मुखं ब्रह्मबिलान्तरम् ।
स्तनौ हस्तौ च पादौ च गुह्यचक्रे द्विरभ्यसेत् ॥८८॥

यत्र यत्र गतं चक्षुर्यत्र यत्र गतं मनः ।
हंसस्तत्र द्विरभ्यस्यो विकासाकुञ्चनात्मकः ॥८९॥

स आत्मा मातृका देवी शिवो देहव्यवस्थितः ।
अन्यः सोऽन्योऽहमित्येवं विकल्पं नाचरेद्यतः ॥९०॥

यो विल्पयते तस्य सिद्धिमुक्ती सुदूरतः ।
अथ षोडशलक्षादिप्राणचारे पुरोक्तवत् ॥९१॥

शुद्धाशुद्धविकल्पानां त्याग एकान्त उच्यते ।
तत्रस्थः स्वयमेवैष जुहोति च जपत्यपि ॥९२॥

जपः सञ्जल्पवृत्तिश्च नादामर्शस्वरूपिणी ।
तदामृष्टस्य चिद्वह्नौ लयो होमः प्रकीर्तितः ॥९३॥

आमर्शश्च पुरा प्रोक्तो देवीद्वादशकात्मकः ।
द्वे अन्त्ये संविदौ तत्र लयरूपाहुतिक्रिया ॥९४॥

दशान्यास्तदुपायायेत्येवं होमे दशांशताम् ।
श्रीशम्भुनाथ आदिक्षत्त्रिकार्थाम्भोधिचन्द्रमाः ॥९५॥

साकं बाह्यस्थया शक्त्या यदा त्वेष समर्चयेत् ।
तदायं परमेशोक्तो रहस्यो भण्यते विधिः ॥९६॥

उक्तं श्रीयोगसञ्चारे ब्रह्मचर्ये स्थितिं भजेत् ।
आनन्दो ब्रह्म परमं तच्च देहे त्रिधा स्थितम् ॥९७॥

उपकारि द्वयं तत्र फलमन्यत्तदात्मकम् ।
ओष्ठ्यान्त्यत्रितयासेवी ब्रह्मचारी स उच्यते ॥९८॥

तद्वर्जिता ये पशव आनन्दपरिवर्जिताः ।
आनन्दकृत्त्रिमाहारास्तद्वर्जं चक्रयाजकाः ॥९९॥

द्वयेऽपि निरये यान्ति रौरवे भीषणे त्विति ।
शक्तेर्लक्षणमेतावत्तद्वतो ह्यविभेदिता ॥१००॥

तादृशीं तेन तां कुर्यान्नतु वर्णाद्यपेक्षणम् ।
लौकिकालौकिकद्व्यात्मसङ्गात्तादात्म्यतोऽधिकात् ॥१०१॥

कार्यहेतुसहोत्था सा त्रिधोक्ता शासने गुरोः ।
साक्षात्परम्परायोगात्तत्तुल्येति त्रिधा पुनः ॥१०२॥

श्रीसर्वाचारहृदये तदेतदुपसंहृतम् ।
षडेताः शक्तयः प्रोक्ता भुक्तिमुक्तिफलप्रदाः ॥१०३॥

द्वाभ्यां तु सृष्टिसंहारौ तस्मान्मेलकमुत्तमम् ।
तामाहृत्य मिथोऽभ्यर्च्य तर्पयित्वा परस्परम् ॥१०४॥

अन्तरङ्गक्रमेणैव मुख्यचक्रस्य पूजनम् ।
यदेवानन्दसन्दोहि संविदो ह्यन्तरङ्गकम् ॥१०५॥

तत्प्रधानं भवेच्चक्रमनुचक्रमतोऽपरम् ।
विकासात्तृप्तितः पाशोत्कर्तनात्कृतिशक्तितः ॥१०६॥

चक्रं कसेश्चकेः कृत्या करोतेश्च किलोदितम् ।
यागश्च तर्पणं बाह्ये विकासस्तच्च कीर्त्यते ॥१०७॥

चक्रानुचक्रान्तरगाच्छक्तिमत्परिकल्पितात् ।
प्राणगादप्यथानन्दस्यन्दिनोऽभ्यवहारतः ॥१०८॥

गन्धधूपस्रगादेश्च बाह्यादुच्छलनं चितः ।
इत्थं स्वोचितवस्त्वंशैरनुचक्रेषु तर्पणम् ॥१०९॥

कुर्वीयातामिहान्योन्यं मुख्यचक्रैकताकृते ।
उक्तं च त्रिशिरस्तन्त्रे विमलासनगोचरः ॥११०॥

अक्षषट्कस्य मध्ये तु रुद्रस्थानं समाविशेत् ।
निजनिजभोगाभोगप्रविकासिनिजस्वरूपपरिमर्शे ॥१११॥

क्रमशोऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति ।
स्वस्थतनोरपरस्य तु ता देहाधिष्ठितं विहाय यतः ॥११२॥

आसत इति तदहंयुर्नो पूर्णो नापि चोच्छलति ।
अनुचक्रदेवतात्मकमरीचिपरिपूरणाधिगतवीर्यम् ॥११३॥

तच्छक्तिशक्तिमद्युगमन्योन्यसमुन्मुखं भवति ।
तद्युगलमूर्ध्वधामप्रवेशसंस्पर्शजातसङ्क्षोभम् ॥११४॥

क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु ।
इत्थं यामलमेतद्गलितभिदासंकथं यदेव स्यात् ॥११५॥

क्रमतारतम्ययोगात्सैव हि संविद्विसर्गसङ्घट्टः ।
तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारसानन्दम् ॥११६॥

नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् ।
अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्सदा कुर्यात् ॥११७॥

अनवच्छिन्नं परमार्थतो हि रूपं चितो देव्याः ।
ईदृक्तादृक्प्रायप्रशमोदयभावविलयपरिकथया ॥११८॥

अनवच्छिन्नं धाम प्रविशेद्वैसर्गिकं सुभगः ।
शान्तोदितात्मकं द्वयमथ युगपदुदेति शक्तिशक्तिमतोः ॥११९॥

रूपमुदितं परस्परधामगतं शान्तमात्मगतमेव ।
उभयमपि वस्तुतः किल यामलमिति तथोदितं शान्तम् ॥१२०॥

शक्तिस्तद्वदुचितां सृष्टिं पुष्णाति नो तद्वान् ।
शान्तोदितात्मकोभयरूपपरामर्शसाम्ययोगेऽपि ॥१२१॥

प्रविकस्वरमध्यपदा शक्तिः शास्त्रे ततः कथिता ।
तस्यामेव कुलार्थं सम्यक् संचारयेद्गुरुस्तेन ॥१२२॥

तद्द्वारेण च कथितक्रमेण संचारयेत नृषु ।
स्वशरीराधिकसद्भावभावितामिति ततः प्राह ॥१२३॥

श्रीमत्कल्लटनाथः प्रोक्तसमस्तार्थलब्धये वाक्यम् ।
तन्मुख्यचक्रमुक्तं महेशिना योगिनीवक्त्रम् ॥१२४॥

तत्रैष सम्प्रदायस्तस्मात्संप्राप्यते ज्ञानम् ।
तदिदमलेख्यं भणितं वक्त्राद्वक्त्रस्थमुक्तयुक्त्या च ॥१२५॥

वक्त्रं प्रधानचक्रं स्वा संविल्लिख्यतां च कथम् ।
अथ सृष्टे द्वितयेऽस्मिन् शान्तोदितधाम्नि येऽनुसंदधते ॥१२६॥

प्राच्यां विसर्गसत्तामनवच्छिदि ते पदे रूढाः ।
ये सिद्धिमाप्तुकामास्तेऽभ्युदितं रूपमाहरेयुरथो ॥१२७॥

तेनैव पूजयेयुः संविन्नैकट्यशुद्धतमवपुषा ।
तदपिच मिथो हि वक्त्रात्प्रधानतो वक्त्रगं यतो भणितम् ॥१२८॥

अजरामरपददानप्रवणं कुलसंज्ञितं परमम् ।
येऽप्यप्राप्तविबोधास्तेऽभ्युदितोत्फुल्लयागसंरूढाः ॥१२९॥

तत्परिकल्पितचक्रस्थदेवताः प्राप्नुवन्ति विज्ञानम् ।
ते तत्र शक्तिचक्रे तेनैवानन्दरसमयेन बहिः ॥१३०॥

दिक्षु चतसृषु प्रोक्तक्रमेण गणनाथतः प्रभृति सर्वम् ।
संपूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः ॥१३१॥

बाह्ये प्रत्यरमथ किल चतुष्कमिति रश्मिचक्रमर्कारम् ।
अष्टकमष्टाष्टकमथ विविधं संपूजयेत्क्रमेण मुनिः ॥१३२॥

निजदेहगते धामनि तथैव पूज्यं समभ्यस्येत् ।
यत्तच्छान्तं रूपं तेनाभ्यस्तेन हृदयसंवित्त्या ॥१३३॥

शान्तं शिवपदमेति हि गलिततरङ्गार्णवप्रख्यम् ।
तच्छान्तपदाध्यासाच्चक्रस्थो देवतागणः सर्वः ॥१३४॥

तिष्ठत्युपरतवृत्तिः शून्यालम्बी निरानन्दः ।
योऽप्यनुचक्रदृगादिस्वरूपभाक् सोऽपि यत्तदायत्तः ॥१३५॥

तेनानन्दे मग्नस्तिष्ठत्यानन्दसाकाङ्क्षः ।
परतत्स्वरूपसङ्घट्टमन्तरेणैष करणरश्मिगणः ॥१३६॥

आस्ते हि निःस्वरूपः स्वरूपलाभाय चोन्मुखितः ।
रणरणकरसान्निजरसभरितबहिर्भावचर्वणवशेन ॥१३७॥

विश्रान्तिधाम किञ्चिल्लब्ध्वा स्वात्मन्यथार्पयते ।
तन्निजविषयार्पणतः पूर्णसमुच्छलितसंविदासारः ॥१३८॥

अनुचक्रदेवतागणपरिपूरणजातवीर्यविक्षोभः ।
चक्रेश्वरोऽपि पूर्वोक्तयुक्तितः प्रोच्छलेद्रभसात् ॥१३९॥

त्रिविधो विसर्ग इत्थं सङ्घट्टः प्रोदितस्तथा शान्तः ।
विसृजति यतो विचित्रः सर्गो विगतश्च यत्र सर्ग इति ॥१४०॥

श्रीतत्त्वरक्षणे श्रीनिगमे त्रिशिरोमते च तत्प्रोक्तम् ।
कुण्डं शक्तिः शिवो लिङ्गं मेलकं परमं पदम् ॥१४१॥

द्वाभ्यां सृष्टिः संहृतिस्तद्विसर्गस्त्रिविधो गमे ।
स्रोतोद्वयस्य निष्ठान्तमूर्ध्वाधश्चक्रबोधनम् ॥१४२॥

विश्रामं च समावेशं सुषीणां मरुतां तथा ।
गतभेदं च यन्त्राणां सन्धीनां मर्मणामपि ॥१४३॥

द्वासप्ततिपदे देहे सहस्रारे च नित्यशः ।
गत्यागत्यन्तरा वित्ती सङ्घट्टयति यच्छिवः ॥१४४॥

तत्प्रयत्नात्सदा तिष्ठेत्सङ्घट्टे भैरवे पदे ।
उभयोस्तन्निराकारभावसंप्राप्तिलक्षणम् ॥१४५॥

मात्राविभागरहितं सुस्फुटार्थप्रकाशकम् ।
अभ्यस्येद्भावसंवित्तिं सर्वभावनिवर्तनात् ॥१४६॥

सूर्यसोमौ तु संरुध्य लयविक्षेपमार्गतः ।
एवं त्रिविधविमर्शावेशसमापत्तिधाम्नि य उदेति ॥१४७॥

संवित्परिमर्शात्मा ध्वनिस्तदेवेह मन्त्रवीर्यं स्यात् ।
तत्रैवोदिततादृशफललाभसमुत्सुकः स्वकं मन्त्रम् ॥१४८॥

अनुसन्धाय सदा चेदास्ते मन्त्रोदयं स वै वेत्ति ।
अत्रैव जपं कुर्यादनुचक्रैकत्वसंविदागमने ॥१४९॥

युगपल्लक्षविभेदप्रपञ्चितं नादवृत्त्यैव ।
श्रीयोगसञ्चरेऽपिच मुद्रेयं योगिनीप्रिया परमा ॥१५०॥

कोणत्रयान्तराश्रितनित्योन्मुखमण्डलच्छदे कमले ।
सततावियुतं नालं षोडशदलकमलकलितसन्मूलम् ॥१५१॥

मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ ।
मध्यस्थपूर्णसुन्दरशशधरदिनकरकलौघसङ्घट्टात् ॥१५२॥

त्रिदलारुणवीर्यकलासङ्गान्मध्येऽङ्कुरः सृष्टिः ।
इति शशधरवासरपतिचित्रगुसंघट्टमुद्रया झटिति ॥१५३॥

सृष्ट्यादिक्रममन्तः कुर्वंस्तुर्ये स्थितिं लभते ।
एतत्खेचरमुद्रावेशेऽन्योन्यस्य शक्तिशक्तिमतोः ॥१५४॥

पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः ।
अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः ॥१५५॥

अव्युच्छिन्नानाहतरूपैस्तन्मन्त्रवीर्यं स्यात् ।
इति चक्राष्टकरूढः सहजं जपमाचरन् परे धाम्नि ॥१५६॥

यद्भैरवाष्टकपदं तल्लभतेऽष्टककलाभिन्नम् ।
गमनागमनेऽवसितौ कर्णे नयने द्विलिङ्गसंपर्के ॥१५७॥

तत्संमेलनयोगे देहान्ताख्ये च यामले चक्रे ।
कुचमध्यहृदयदेशादोष्ठान्तं कण्ठगं यदव्यक्तम् ॥१५८॥

तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् ।
निर्वान्ति तत्र चैवं योऽष्टविधो नादभैरवः परमः ॥१५९॥

ज्योतिर्ध्वनिसमिरकृतः सा मान्त्री व्याप्तिरुच्यते परमा ।
सकलाकलेशशून्यं कलाढ्यखमले तथा क्षपणकं च ॥१६०॥

अन्तःस्थं कण्ठ्योष्ठ्यं चन्द्राद्व्याप्तिस्तथोन्मनान्तेयम् ।
एवं कर्मणि कर्मणि यत्र क्वापि स्मरन् व्याप्तिम् ॥१६१॥

सततमलेपो जीवन्मुक्तः परभैरवीभवति ।
तादृङ्मेलककलिकाकलिततनुः कोऽपि यो भवेद्गर्भे ॥१६२॥

उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं रुद्रः ।
श्रीवीरावलिशास्त्रे बालोऽपि च गर्भगो हि शिवरूपः ॥१६३॥

आदीयते यतः सारं तस्य मुख्यस्य चैष यत् ।
मुख्यश्च यागस्तेनायमादियाग इति स्मृतः ॥१६४॥

तत्र तत्र च शास्त्रेऽस्य स्वरूपं स्तुतवान् विभुः ।
श्रीवीरावलिहार्देशखमतार्णववर्तिषु ॥१६५॥

श्रीसिद्धोत्फुल्लमर्यादाहीनचर्याकुलादिषु ।
युग्मस्यास्य प्रसादेन व्रतयोगविवर्जितः ॥१६६॥

सर्वदा स्मरणं कृत्वा आदियागैकतत्परः ।
शक्तिदेहे निजे न्यस्येद्विद्यां कूटमनुक्रमात् ॥१६७॥

ध्यात्वा चन्द्रनिभं पद्ममात्मानं भास्करद्युतिम् ।
विद्यामन्त्रात्मकं पीठद्वयमत्रैव मेलयेत् ॥१६८॥

न पठ्यते रहस्यत्वात्स्पष्टैः शब्दैर्मया पुनः ।
कुतूहली तूक्तशास्त्रसंपाठादेव लक्षयेत् ॥१६९॥

यद्भजन्ते सदा सर्वे यद्वान् देवश्च देवता ।
तच्चक्रं परमं देवीयागादौ संनिधापकम् ॥१७०॥

देह एव परं लिङ्गं सर्वतत्त्वात्मकं शिवम् ।
देवताचक्रसंजुष्टं पूजाधाम तदुत्तमम् ॥१७१॥

तदेव मण्डलं मुख्यं त्रित्रिशूलाब्जचक्रखम् ।
तत्रैव देवताचक्रं बहिरन्तः सदा यजेत् ॥१७२॥

स्वस्वमन्त्रपरामर्शपूर्वं तज्जन्मभी रसैः ।
आनन्दबहुलैः सृष्टिसंहारविधिना स्पृशेत् ॥१७३॥

तत्स्पर्शरभसोद्बुद्धसंविच्चक्रं तदीश्वरः ।
लभते परमं धाम तर्पिताशेषदैवतः ॥१७४॥

अनुयागोक्तविधिना द्रव्यैर्हृदयहारिभिः ।
तथैव स्वस्वकामर्शयोगादन्तः प्रतर्पयेत् ॥१७५॥

कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः ।
आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥१७६॥

श्रीवीरावल्यमर्यादप्रभृतौ शास्त्रसञ्चये ।
स एष परमो यागः स्तुतः शीतांशुमौलिना ॥१७७॥

अथवा प्राणवृत्तिस्थं समस्तं देवतागणम् ।
पश्येत्पूर्वोक्तयुक्त्यैव तत्रैवाभ्यर्चयेद्गुरुः ॥१७८॥

प्राणाश्रितानां देवीनां ब्रह्मनासादिभेदिभिः ।
करन्ध्रैर्विशतापानचान्द्रचक्रेण तर्पणम् ॥१७९॥

एवं प्राणक्रमेणैव तर्पयेद्देवतागणम् ।
अचिरात्तत्प्रसादेन ज्ञानसिद्धीरथाश्नुते ॥१८०॥

संविन्मात्रस्थितं देवीचक्रं वा संविदर्पणात् ।
विश्वाभोगप्रयोगेण तर्पणीयं विपश्चिता ॥१८१॥

यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः ।
तां चितिं पश्य कायस्थां कालानलसमप्रभाम् ॥१८२॥

शून्यरूपे श्मशानेऽस्मिन् योगिनीसिद्धसेविते ।
क्रीडास्थाने महारौद्रे सर्वास्तमितविग्रहे ॥१८३॥

स्वरश्मिमण्डलाकीर्णे ध्वंसितध्वान्तसन्ततौ ।
सर्वैर्विकल्पैर्निर्मुक्ते आनन्दपदकेवले ॥१८४॥

असंख्यचितिसंपूर्णे श्मशाने चितिभीषणे ।
समस्तदेवताधारे प्रविष्टः को न सिद्ध्यति ॥१८५॥

श्रीमद्वीरावलीशास्त्रे इत्थं प्रोवाच भैरवी ।
इत्थं यागं विधायादौ तादृशौचित्यभागिनम् ॥१८६॥

लक्षैकीयं स्वशिष्यं तं दीक्षयेत्तादृशि क्रमे ।
रुद्रशक्त्या तु तं प्रोक्ष्य देवाभ्याशे निवेशयेत् ॥१८७॥

भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् ।
तयैवास्यार्पयेत्पुष्पं करयोर्गन्धदिग्धयोः ॥१८८॥

निरालम्बौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् ।
रुद्रशक्त्याकृष्यमाणौ दीप्तयाङ्कुशरूपया ॥१८९॥

ततः स स्वयमादाय वस्त्रं बद्धदृशिर्भवेत् ।
स्वयं च पातयेत्पुष्पं तत्पाताल्लक्षयेत्कुलम् ॥१९०॥

ततोऽस्य मुखमुद्धाट्य पादयोः प्रणिपातयेत् ।
हस्तयोर्मूर्ध्नि चाप्यस्य देवीचक्रं समर्चयेत् ॥१९१॥

आकर्ष्याकर्षकत्वेन प्रेर्यप्रेरकभावतः ।
उक्तं श्रीरत्नमालायां नाभिं दण्डेन संपुटम् ॥१९२॥

वामभूषणजङ्घाभ्यां नितम्बेनाप्यलङ्कृतम् ।
शिष्यहस्ते पुष्पभृते चोदनास्त्रं तु योजयेत् ॥१९३॥

यावत्स स्तोभमायातः स्वयं पतति मूर्धनि ।
शिवहस्तः स्वयं सोऽयं सद्यःप्रत्ययकारकः ॥१९४॥

अनेनैव प्रयोगेण चरुकं ग्राहयेद्गुरुः ।
शिष्येण दन्तकाष्ठं च तत्पातः प्राग्वदेव तु ॥१९५॥

करस्तोभो नेत्रपटग्रहात् प्रभृति यः किल ।
दन्तकाष्ठसमादानपर्यन्तस्तत्र लक्षयेत् ॥१९६॥

तीव्रमन्दादिभेदेन शक्तिपातं तथाविधम् ।
इत्येष समयी प्रोक्तः श्रीपूर्वे करकम्पतः ॥१९७॥

समयी तु करस्तोभादिति श्रीभोगहस्तके ।
चर्वेव वा गुरुर्दद्याद्वामामृतपरिप्लुतम् ॥१९८॥

निःशङ्कं ग्रहणाच्छक्तिगोत्रो मायोज्झितो भवेत् ।
सकम्पस्त्वाददानः स्यात् समयी वाचनादिषु ॥१९९॥

कालान्तरेऽध्वसंशुद्ध्या पालनात्समयस्थितेः ।
सिद्धिपात्रमिति श्रीमदानन्देश्वर उच्यते ॥२००॥

यदा तु पुत्रकं कुर्यात्तदा दीक्षां समाचरेत् ।
उक्तं श्रीरत्नमालायां नादिफान्तां ज्वलत्प्रभाम् ॥२०१॥

न्यस्येच्छिखान्तं पतति तेनात्रेदृक् क्रमो भवेत् ।
प्रोक्षितस्य शिशोर्न्यस्तप्रोक्तशोध्याध्वपद्धतेः ॥२०२॥

ऋजुदेहजुषः शक्तिं पादान्मूर्धान्तमागताम् ।
पाशान्दहन्तीं संदीप्तां चिन्तयेत्तन्मयो गुरुः ॥२०३॥

उपविश्य ततस्तस्य मूलशोध्यात् प्रभृत्यलम् ।
अन्तशोध्यावसानान्तां दहन्तीं चिन्तयेत्क्रमात् ॥२०४॥

एवं सर्वाणि शोध्यानि तत्त्वादीनि पुरोक्तवत् ।
दग्ध्वा लीनां शिवे ध्यायेन्निष्कले सकलेऽथवा ॥२०५॥

योगिना योजिता मार्गे सजातीयस्य पोषणम् ।
कुरुते निर्दहत्यन्तद्भिन्नजातिकदम्बकम् ॥२०६॥

अनया शोध्यमानस्य शिशोस्तीव्रादिभेदतः ।
शक्तिपाताच्चितिव्योमप्राणनान्तर्बहिस्तनूः ॥२०७॥

आविशन्ती रुद्रशक्तिः क्रमात्सूते फलं त्विदम् ।
आनन्दमुद्भवं कम्पं निद्रां घूर्णिं च देहगाम् ॥२०८॥

एवं स्तोभितपाशस्य योजितस्यात्मनः शिवे ।
शेषभोगाय कुर्वीत सृष्टिं संशुद्धतत्त्वगाम् ॥२०९॥

अथवा कस्यचिन्नैवमावेशस्तद्दहेदिमम् ।
बहिरन्तश्चोक्तशक्त्या पतेदित्थं स भूतले ॥२१०॥

यस्य त्वेवमपि स्यान्न तमत्रोपलवत्त्यजेत् ।
अथ सप्रत्ययां दीक्षां वक्ष्ये तुष्टेन धीमता ॥२११॥

शंभुनाथेनोपदिष्टां दृष्टां सद्भावशासने ।
सुधाग्निमरुतो मन्दपरकालाग्निवायवः ॥२१२॥

वह्निसौधासुकूटाग्निवायुः सर्वे सषष्ठकाः ।
एतत्पिण्डत्रयं स्तोभकारि प्रत्येकमुच्यते ॥२१३॥

शक्तिबीजं स्मृतं यच्च न्यस्येत्सार्वाङ्गिकं तु तत् ।
हृच्चक्रे न्यस्यते मन्त्रो द्वादशस्वरभूषितः ॥२१४॥

जपाकुसुमसंकाशं चैतन्यं तस्य मध्यतः ।
वायुना प्रेरितं चक्रं वह्निना परिदीपितम् ॥२१५॥

तद्ध्यायेच्च जपेन्मन्त्रं नामान्तरितयोगतः ।
निमेषार्धात्तु शिष्यस्य भवेत्स्तोभो न संशयः ॥२१६॥

आत्मानं प्रेक्षते देवि तत्त्वे तत्त्वे नियोजितः ।
यावत्प्राप्तः परं तत्त्वं तदा त्वेष न पश्यति ॥२१७॥

अनेन क्रमयोगेन सर्वाध्वानं स पश्यति ।
अथवा सर्वशास्त्राण्यप्युद्ग्राहयति तत्क्षणात् ॥२१८॥

पृथक्तत्त्वविधौ दीक्षां योग्यतावशवर्तिनः ।
तत्त्वाभ्यासविधानेन सिद्धयोगी समाचरेत् ॥२१९॥

इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तने ।
कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता ॥२२०॥

जाग्रदादिषु संवित्तिर्यथा स्यादनपायिनी ।
कुलयागस्तथादेश्यो योगिनीमुखसंस्थितः ॥२२१॥

सर्वं जाग्रति कर्तव्यं स्वप्ने प्रत्येकमन्त्रगम् ।
निवार्य सुप्ते मूलाख्यः स्वशक्तिपरिबृंहितः ॥२२२॥

तुर्ये त्वेकैव दूत्याख्या तदतीते कुलेशिता ।
स्वशक्तिपरिपूर्णानामित्थं पूजा प्रवर्तते ॥२२३॥

पिण्डस्थादि च पूर्वोक्तं सर्वातीतावसानकम् ।
अवस्थापञ्चकं प्रोक्तभेदं तस्मै निरूपयेत् ॥२२४॥

साधकस्य बुभुक्षोस्तु सम्यग्योगाभिषेचनम् ।
तत्रेष्ट्वा विभवैर्देवं हेमादिमयमव्रणम् ॥२२५॥

दीपाष्टकं रक्तवर्तिसर्पिषापूर्य बोधयेत् ।
कुलाष्टकेन तत्पूज्यं शङ्खे चापि कुलेश्वरौ ॥२२६॥

आनन्दामृतसंपूर्णे शिवहस्तोक्तवर्त्मना ।
तेनाभिषिञ्चेत्तं पश्चात् स कुर्यान्मन्त्रसाधनम् ॥२२७॥

आचार्यस्याभिषेकोऽयमधिकारान्वितः स तु ।
कुर्यात्पिष्टादिभिश्चास्य चतुष्षष्टिं प्रदीपकान् ॥२२८॥

अष्टाष्टकेन पूज्यास्ते मध्ये प्राग्वत् कुलेश्वरौ ।
शिवहस्तोक्तयुक्त्यैव गुरुमप्यभिषेचयेत् ॥२२९॥

अभिषिक्ताविमावेवं सर्वयोगिगणेन तु ।
विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् ॥२३०॥

तात्पर्यमस्य पादस्य स सिद्धीः संप्रयच्छति ।
गुरुर्यः साधकः प्राक्स्यादन्यो मोक्षं ददात्यलम् ॥२३१॥

अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम् ।
स्वकीयाज्ञां च वितरेत् स्वक्रियाकरणं प्रति ॥२३२॥

षट्कं कारणसंज्ञं यत्तथा यः परमः शिवः ।
साकं भैरवनाथेन तदष्टकमुदाहृतम् ॥२३३॥

प्रत्येकं तस्य सार्वात्म्यं पश्यंस्तां वृत्तिमात्मगाम् ।
चक्षुरादौ संक्रमयेद्यत्र यत्रेन्द्रिये गुरुः ॥२३४॥

स एव पूर्णैः कलशैरभिषेकः परः स्मृतः ।
विना बाह्यैरपीत्युक्तं श्रीवीरावलिभैरवे ॥२३५॥

सद्य एव तु भोगेप्सोर्योगात्सिद्धतमो गुरुः ।
कुर्यात्सद्यस्तथाभीष्टफलदं वेधदीक्षणम् ॥२३६॥

वेधदीक्षा च बहुधा तत्र तत्र निरूपिता ।
सा चाभ्यासवता कार्या येनोर्ध्वोर्ध्वप्रवेशतः ॥२३७॥

शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः ।
येनाणिमादिका सिद्धिः श्रीमालायां च चोदिता ॥२३८॥

ऊर्ध्वचक्रदशालाभे पिशाचावेश एव सा ।
मन्त्रनादबिन्दुशक्तिभुजङ्गमपरात्मिका ॥२३९॥

षोढा श्रीगह्वरे वेधदीक्षोक्ता परमेशिना ।
ज्वालाकुलं स्वशास्त्रोक्तं चक्रमष्टारकादिकम् ॥२४०॥

ध्यात्वा तेनास्य हृच्चक्रवेधनान्मन्त्रवेधनम् ।
आकारं नवधा देहे न्यस्य संक्रमयेत्ततः ॥२४१॥

न्यासयोगेन शिष्याय दीप्यमानं महार्चिषम् ।
पाशस्तोभात्ततस्तस्य परतत्त्वे तु योजनम् ॥२४२॥

इति दीक्षोत्तरे दृष्टो विधिर्मे शंभुनोदितः ।
नादोच्चारेण नादाख्यः सृष्टिक्रमनियोगतः ॥२४३॥

नादेन वेधयेच्चित्तं नादवेध उदीरितः ।
बिन्दुस्थानगतं चित्तं भ्रूमध्यपथसंस्थितम् ॥२४४॥

हृल्लक्ष्ये वा महेशानि बिन्दुं ज्वालाकुलप्रभम् ।
तेन संबोधयेत्साध्यं बिन्द्वाख्योऽयं प्रकीर्तितः ॥२४५॥

शाक्तं शक्तिमदुच्चाराद्गन्धोच्चारेण सुन्दरि ।
शृङ्गाटकासनस्थं तु कुटिलं कुण्डलाकृतिम् ॥२४६॥

अनुच्चारेण चोच्चार्य वेधयेन्निखिलं जगत् ।
एवं भ्रमरवेधेन शाक्तवेध उदाहृतः ॥२४७॥

सा चैव परमा शक्तिरानन्दप्रविकासिनी ।
जन्मस्थानात्परं याति फणपञ्चकभूषिता ॥२४८॥

कलास्तत्त्वानि नन्दाद्या व्योमानि च कुलानि च ।
ब्रह्मादिकारणान्यक्षाण्येव सा पञ्चकात्मिका ॥२४९॥

एवं पञ्चप्रकारा सा ब्रह्मस्थानविनिर्गता ।
ब्रह्मस्थाने विशन्ती तु तडिल्लीना विराजते ॥२५०॥

प्रविष्टा वेधयेत्कायमात्मानं प्रतिभेदयेत् ।
एवं भुजङ्गवेधस्तु कथितो भैरवागमे ॥२५१॥

तावद्भावयते चित्तं यावच्चित्तं क्षयं गतम् ।
क्षीणे चित्ते सुरेशानि परानन्द उदाहृतः ॥२५२॥

नेन्द्रियाणि न वै प्राणा नान्तःकरणगोचरः ।
न मनो नापि मन्तव्यं न मन्ता न मनिक्रिया ॥२५३॥

सर्वभावपरिक्षीणः परवेध उदाहृतः ।
मनुशक्तिभुवनरूपज्ञापिण्डस्थाननाडिपरभेदात् ॥२५४॥

नवधा कलयन्त्यन्ये वेदं गुरवो रहस्यविदः ।
मायागर्भाग्निवर्णौघयुक्ते त्र्यश्रिणि मण्डले ॥२५५॥

ध्यात्वा ज्वालाकरालेन तेन ग्रन्थीन् विभेदयेत् ।
पुष्पैर्हन्याद्योजयेच्च परे मन्त्राभिधो विधिः ॥२५६॥

नाड्याविश्यान्यतरया चैतन्यं कन्दधामनि ।
पिण्डीकृत्य परिभ्रम्य पञ्चाष्टशिखया हठात् ॥२५७॥

शक्तिशूलाग्रगमितं क्वापि चक्रे नियोजयेत् ।
शक्त्येति शाक्तो वेधोऽयं सद्यःप्रत्ययकारकः ॥२५८॥

आधारान्निर्गतया शिखया ज्योत्स्नावदातया रभसात् ।
अङ्गुष्ठमूलपीठक्रमेण शिष्यस्य लीनया व्योम्नि ॥२५९॥

देहं स्वच्छीकृत्य क्षादीनान्तान् स्मरन्पुरोक्तपुर्योघान् ।
निजमण्डलनिर्ध्यानात्प्रतिबिम्बयते भुवनवेधः ॥२६०॥

भ्रूमध्योदितबैन्दवधामान्तः कांचिदाकृतिं रुचिराम् ।
तादात्म्येन ध्यायेच्छिष्यं पश्चाच्च तन्मयीकुर्यात् ॥२६१॥

इति रूपवेध उक्तः सा चेहाकृतिरुपैति दृश्यत्वम् ।
अन्ते तत्सायुज्यं शिष्यश्चायाति तन्मयीभूतः ॥२६२॥

विज्ञानमष्टधा यद्ध्राणादिकबुद्धिसंज्ञकरणान्तः ।
तत् स्वस्वनाडिसूत्रक्रमेण संचारयेच्छिष्ये ॥२६३॥

अभिमानदार्ढ्यबन्धक्रमेण विज्ञानसंज्ञको वेधः ।
हृदयव्योमनि सद्यो दिव्यज्ञानार्कसमुदयं धत्ते ॥२६४॥

पिण्डः परः कलात्मा सूक्ष्मः पुर्यष्टको बहिः स्थूलः ।
छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः ॥२६५॥

इति यः पिण्डविभेदस्तं रभसादुत्तरोत्तरे शमयेत् ।
तत्तद्नलने क्रमशः परमपदं पिण्डवेधेन ॥२६६॥

यद्यद्देहे चक्रं तत्र शिशोरेत्य विश्रमं क्रमशः ।
उज्ज्वलयेत्तच्चक्रं स्थानाख्यस्तत्फलप्रदो वेधः ॥२६७॥

नाड्यः प्रधानभूतास्तिस्रोऽन्यास्तद्गतास्त्वसंख्येयाः ।
एकीकारस्ताभिर्नाडीवेधोऽत्र तत्फलकृत् ॥२६८॥

अभिलषितनाडिवाहो मुख्याभिश्चक्षुरादिनिष्ठाभिः ।
अद्बोधप्राप्तिः स्यान्नाडीवेधे विचित्रबहुरूपा ॥२६९॥

लाङ्गूलाकृतिबलवत् स्वनाडिसंवोष्टितामपरनाडीम् ।
आस्फोट्य सिद्धमपि भुवि पातयति हठान्महायोगी ॥२७०॥

परवेधं समस्तेषु चक्रेष्वद्वैतमामृशन् ।
परं शिवं प्रकुर्वीत शिवतापत्तिदो गुरुः ॥२७१॥

श्रीमद्वीरावलिकुले तथा चेत्थं निरूपितम् ।
अभेद्यं सर्वथा ज्ञेयं मध्यं ज्ञात्वा न लिप्यते ॥२७२॥

तद्विभागक्रमे सिद्धः स गुरुर्मोचयेत् पशून् ।
गुरोरग्रे विशेच्छिष्यो वक्त्रं वक्त्रे तु वेधयेत् ॥२७३॥

रूपं रूपे तु विषयैर्यावत्समरसीभवेत् ।
चित्ते समरसीभूते द्वयोरौन्मनसी स्थितिः ॥२७४॥

उभयोश्चोन्मनोगत्या तत्काले दीक्षितो भवेत् ।
शशिभास्करसंयोगे जीवस्तन्मयतां व्रजेत् ॥२७५॥

अत्र ब्रह्मादयो देवा मुक्तये मोक्षकाङ्क्षिणः ।
निरुध्य रश्मिचक्रं स्वं भोगमोक्षावुभावपि ॥२७६॥

ग्रसते यदि तद्दीक्षा शार्वीयं परिकीर्तिता ।
स एष मोक्षः कथितो निःस्पन्दः सर्वजन्तुषु ॥२७७॥

अग्नीषोमकलाघातसङ्घातात् स्पन्दनं हरेत् ।
बाह्यं प्राणं बाह्यगतं तिमिराकारयोगतः ॥२७८॥

निर्यातं रोमकूपैस्तु भ्रमन्तं सर्वकारणैः ।
मध्यं निर्लक्ष्यमास्थाय भ्रमयेद्विसृजेत्ततः ॥२७९॥

संघट्टोत्पाटयोगेन वेधयेद्ग्रन्थिपञ्चकम् ।
संघट्टवृत्तियुगलं मध्यधाम विचिन्तयेत् ॥२८०॥

नात्मव्योमबहिर्मन्त्रदेहसंधानमाचरेत् ।
दीक्षेयं सर्वजन्तूनां शिवतापत्तिदायिका ॥२८१॥

दीक्षान्ते दीपकान् पक्त्वा समस्तैः साधकैः सह ।
चरुः प्राश्यः कुलाचार्यैर्महापातकनाशनः ॥२८२॥

इति श्रीरत्नमालायामूनाधिकविधिस्तु यः ।
स एव पातकं तस्य प्रशमोऽयं प्रकीर्तितः ॥२८३॥

परेऽहनि गुरोः कार्यो यागस्तेन विना यतः ।
न विधिः पूर्णतां याति कुर्याद्यत्नेन तं ततः ॥२८४॥

येन येन गुरुस्तुष्येत्तत्तदस्मै निवेदयेत् ।
चक्रचर्यान्तरालेऽस्या विधिः संचार उच्याते ॥२८५॥

अलिपात्रं सुसंपूर्णं वीरेन्द्रकरसंस्थितम् ।
अवलोक्य परं ब्रह्म तत्पिवेदाज्ञया गुरोः ॥२८६॥

तर्पयित्वा तु भूतानि गुरवे विनिवेदयेत् ।
कृत्वा भुवि गुरुं नत्वादाय संतर्प्य खेचरीः ॥२८७॥

स्वं मन्त्रं तच्च वन्दित्वा दूतीं गणप्तिं गुरून् ।
क्षेत्रपं वीरसङ्घातं गुर्वादिक्रमशस्ततः ॥२८८॥

वीरस्पृष्टं स्वयं द्रव्यं पिवेन्नैवान्यथा क्वचित् ।
परब्रह्मण्यवेत्तारोऽगमागमविवर्जिताः ॥२८९॥

लोभमोहमदक्रोधरागमायाजुषश्च ये ।
तैः साकं न च कर्तव्यमेतच्छ्रेयोर्थिनात्मनि ॥२९०॥

यागादौ यागमध्ये च यागान्ते गुरुपूजने ।
नैमित्तिकेषु प्रोक्तेषु शिष्यः कुर्यादिमं विधिम् ॥२९१॥

इति रहस्यविधिः परिचर्चितो गुरुमुखानुभवैः सुपरिस्फुटः ॥