तन्त्रालोके त्रयस्त्रिंशमाह्निकम्
अथ श्रीतन्त्रालोके त्रयस्त्रिंशमाह्निकम्
अथावसरसंप्राप्त एकीकारो निगद्यते ।
यदुक्तं चक्रभेदेन सार्धं पूज्यमिति त्रिकम् ।
तत्रैष चक्रभेदानामेकीकारो दिशानया ॥१॥
विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा ।
गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः ॥२॥
माहेशी ब्राह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका ।
चामुण्डा चैव योगीशीत्यष्टाघोर्यादयोऽथवा ॥३॥
अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः ।
नन्दा भद्रा जया काली कराली विकृतानना ॥४॥
क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना ।
गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः ॥५॥
सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः ।
दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः ॥६॥
सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः ।
बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः ॥७॥
माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः ।
दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ ॥८॥
शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः ।
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिः शंबरेश्वरः ॥९॥
अर्घीशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा ।
झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः ॥१०॥
द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः ।
ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः ॥११॥
तनुसेचनमूर्तीशाः सर्वामृतधरोऽपरः ।
श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः ॥१२॥
संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः ।
द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि साषाढि ॥१३॥
देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः ।
जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः ॥१४॥
तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः ।
तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः ॥१५॥
शिवदसुमनःस्पृहणका दुर्गो भद्राख्यकालश्च ।
चेतोऽनुगकौशिककालविश्वसुशिवास्तथापरः कोपः ॥१६॥
श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्तयस्त्वेताः ।
जुंकारोऽथाग्निपत्नीति षडरे षण्ठवर्जिताः ॥१७॥
द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात् ।
हलस्तद्द्विगुणेऽष्टारे याद्यं हान्तं तु तत्त्रिके ॥१८॥
द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि ।
एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत् ॥१९॥
एक एव चिदात्मैष विश्वामर्शनसारकः ।
शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ ॥२०॥
तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने ।
शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम् ॥२१॥
तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम् ।
अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम् ॥२२॥
आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम् ।
अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम् ॥२३॥
तदामृतचतुष्कोनभावे द्वादशकं भवेत् ।
तद्योगे षोडशाख्यं स्यादेवं यावदसंख्यता ॥२४॥
विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम् ।
अंशांशिकापरामर्शान् पर्यन्ते सहते यतः ॥२५॥
अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता ।
वर्गाष्टकं वर्णभेद एकाशीतिकलोदयः ॥२६॥
इति प्रदर्शितं पूर्वम् अर्धमात्रासहत्वतः ।
स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम् ॥२७॥
तस्यादित उदात्तं तत्कथितं पदवेदिना ।
इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी ॥२८॥
अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम् ।
स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत् ॥२९॥
परापरा परा चान्या सृष्टिस्थितितिरोधयः ।
मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते ॥३०॥
तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे ।
तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि ॥३१॥
तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम् ।
इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः ॥३२॥