तन्त्रालोके त्रिंशमाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके त्रिंशमाह्निकम्


अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते ।
तावद्विमर्शानारूढधियां तात्सिद्धये क्रमात् ॥१॥

प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः ।
स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात् कर्तृतामयाः ॥ २॥

यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः ।
स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् ॥३॥

आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये ।
क्ष्लां क्ष्वीं वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् ॥४॥

हं नाले यं तथा रं लं वं धर्मादिचतुष्टये ।
ऋं ॠं ऌं ऌऌं चतुष्के च विपरीतक्रमाद्भवेत् ॥५॥

ओं औं हस्त्रयमित्येतद्विद्यामायाकलात्रये ।
अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः ॥६॥

कादिभान्ताः केसरेषु प्राणोऽष्टस्वरसंयुतः ।
सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् ॥७॥

शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये ।
सबिन्दुकाः क्ष्मं प्रेते ज्रं शूलशृङ्गेषु कल्पयेत् ॥८॥

पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः ।
संक्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् ॥९॥

आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् ।
अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् ॥१०॥

रतिशेखरमन्त्रोऽस्य वक्त्राङ्गं ह्रस्वदीर्घकैः ।
अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः ॥११॥

सषष्ठस्वरबिर्न्द्वधचन्द्राद्याः स्युर्नवात्मनः ।
बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते ॥१२॥

क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ ।
तत्संवित्तिस्तदापत्तिरिति संज्ञाभिशब्दिता ॥१३॥

एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता ।
परिणामस्तल्लयश्च नमस्कारः स उच्यते ॥१४॥

एष त्र्यर्णोज्झितोऽधस्ताद्दीर्घैः षड्भिः स्वरैर्युतः ।
षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् ॥१५॥

क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः ।
झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः ॥१६॥

एष भैरवसद्मावश्चन्द्रार्धादिविभूषितः ।
मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ ॥१७॥

ओंकारोऽथ चतुर्थ्यन्ता संज्ञा नतिरिति क्रमात् ।
गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् ॥१८॥

नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् ।
सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् ॥१९॥

आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः ।
बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् ॥२०॥

पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् ।
द्वितीयस्मिन्पदेऽकार एकारस्येह च स्मृतः ॥२१॥

ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् ।
हेऽग्निवर्णावुभौ पञ्चस्वरयुक्तौ परौ पृथक् ॥२२॥

अकारयुक्तावस्त्रं हुं ह विसर्गी पुनः शरः ।
तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका ॥२३॥

एषा परापरादेव्या विद्या श्रीत्रिकशासने ।
पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् ॥२४॥

अघोर्यादौ सप्तके स्यात् पिवन्याः परिशिष्टकम् ।
प्रत्येकवर्णगोऽप्युक्तः सिद्धयोगीश्वरीमते ॥२५॥

देवताचक्रविन्यासः स बहुत्वान्न लिप्यते ।
माया विसर्गिणी हुं फट् चेति मन्त्रोऽपरात्मकः ॥२६॥

परायास्तूक्तसद्व्याप्तिर्जीवः सहचतुर्दशः ।
सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना ॥२७॥

स्वरूपतो विभिन्नापि रचनानेकसङ्कुला ।
जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः ॥२८॥

आधाराधेयभावेन अविनाभावयोगतः ।
हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् ॥२९॥

भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् ।
दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् ॥३०॥

प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् ।
परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः ॥३१॥

स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् ।
अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् ॥३२॥

शून्यद्वयसमोपेतं पराया हृदयं परम् ।
युग्मयागे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः ॥३३॥

अन्येऽप्येकाक्षरा ये तु एकवीरविधानतः ।
गुप्ता गुप्ततरास्ते तु अंगाभिजनवर्जिताः ॥३४॥

यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः ।
कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः ॥३५॥

अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा ।
सकारो दीर्घषट्केन युक्तोऽङ्गान्याननानि तु ॥३६॥

स्यात् स एव परं ह्रस्वपञ्चस्वरखसंयुतः ।
ओंकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् ॥३७॥

प्रणवश्चामृते तेजोमालिनि स्वाहया सह ।
एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते ॥३८॥

वेदवेदनि हूं फट्च प्रणवादियुता शिखा ।
वज्रिणे वज्रधराय स्वाहेत्योंकारपूर्वकम् ॥३९॥

एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् ।
तारो द्विजिह्वः खशरस्वरयुग्जीव एव च ॥४०॥

नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् ।
तारः श्लीं पशु हुं फत् च तदस्त्रं रसवर्णकम् ॥४१॥

लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः ।
इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती ॥४२॥

स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके ।
नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः ॥४३॥

अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः ।
जपे होमे तथाप्याये समुच्चाटेऽथ शान्तिके ॥४४॥

अभिचारे च मन्त्राणां नमस्कारादिजातयः ।
अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना ॥४५॥

योन्यर्णेन च मातॄणां सद्मावः कालकर्षिणी ।
आद्योज्झितो वाप्यन्तेन वर्जितो वाथ संमतः ॥४६॥

जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः ।
अतिदीप्तस्तु वामांघ्रिर्भूषितो मूर्ध्नि बिन्दुना ॥४७॥

दक्षजानुगतश्चायं सर्वमातृगणार्चितः ।
अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम् ॥४८॥

सद्भावः परमो ह्येष मातॄणां भैरवस्य च ।
तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् ॥४९॥

रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः ।
यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता ॥५०॥

यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् ।
अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः ॥५१॥

दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ ।
नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः ॥५२॥

सर्वयोगिनिचक्राणामधिपोऽयमुदाहृतः ।
अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता ॥५३॥

महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् ।
नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी ॥५४॥

श्रीडामरे महायागे परात्परतरोदिता ।
सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् ॥५५॥

अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते ।
शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना ॥५६॥

एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत् ।
नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् ॥५७॥

द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा ।
कूटाग्नी सविसर्गाश्च पञ्चाप्येतेऽथ पञ्चसु ॥५८॥

व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने ।
छेदिनी क्षुरिकेयं स्याद्यया योजयते परे ॥५९॥

बिन्द्विन्द्वनलकूटाग्निमरुत्षष्ठस्वरैर्युतम् ।
आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् ॥६०॥

कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः ।
जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् ॥६१॥

कथितं सरहस्यं तु सद्योनिर्वाणकं परम् ।
अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी ॥६२॥

शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ।
सर्वेषामेव भूतानां मरणे समुपस्थिते ॥६३॥

यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् ।
या ज्ञानिनोऽपि संपूर्णकृत्यस्यापि श्रुता सती ॥६४॥

प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति ।
यामाकर्ण्य महामोहविवशोऽपि क्रमाद्गतः ॥६५॥

प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् ।
परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् ॥६६॥

पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् ।
आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् ॥६७॥

गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढ्रे ।
जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ ॥६८॥

एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् ।
हंस हयग्रीव विभो सदाशिवस्त्वं परोऽसि जीवाख्यः ॥६९॥

रविसोमवह्निसङ्घदृबिन्दुदेहो हहह समुत्क्राम ।
तृतीयमार्यावाक्यं प्राक्संख्यैरेकाधिकैः पदैः ॥७०॥

हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी ।
मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः ॥७१॥

कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह ।
आर्यावाक्यमिदं सार्धं रुद्रसंख्यपदेरितम् ॥७२॥

निःश्वासे त्वपशब्दस्य स्थानेऽस्त्युप इति ध्वनिः ।
अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे ॥७३॥

एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः ।
व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् ॥७४॥

प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् ।
आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः ॥७५॥

ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य ।
उत्क्रम हे देहेश्वर निरञ्जनं शिवपदं प्रयाह्याशु ॥७६॥

आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः ।
प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने ॥७७॥

आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य ।
धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् ॥७८॥

आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः ।
हे ब्रह्मन् हे विष्णो हे रुद्र शिवोऽसि वासुदेवस्त्वम् ॥७९॥

अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश ।
एतद्भुवनसंख्यातैरार्य्यावाक्यं प्रकीर्तितम् ॥८०॥

सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् ।
पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु ॥८१॥

अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म ।
आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते ॥८२॥

अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे ।
पुरुषस्त्वं प्रकृतिमयैर्बद्धोऽहङ्कारतन्तुना बन्धैः ॥८३॥

अभवाभव नित्योदित परमात्मंस्त्यज सरागमध्वानम् ।
एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् ॥८४॥

ह्रींहूंमन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् ।
आर्यार्धवाक्यमेतत्स्याद् द्वादशं षट्पदं परम् ॥८५॥

तदिदं गुणभूतमयं त्यज स्व षोट्कोशिकं पिण्डम् ।
स्यात् त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् ॥८६॥

मा देहं भूतमयं प्रगृह्यतां शाश्वतं महादेहम् ।
आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् ॥८७॥

मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् ।
आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् ॥८८॥

सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः ।
वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते ॥८९॥

प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते ।
तारो माया वेदकलो मातृतारो नवात्मकः ॥९०॥

इति पञ्चाक्षराणि स्युः प्रोक्तव्याप्त्यनुसारतः ।
बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् ॥९१॥

एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः ।
कृतदीक्षाविधिः पूर्वं ब्रह्मघ्नोऽपि विशुद्ध्यति ॥९२॥

लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी ।
तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् ॥९३॥

शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् ।
षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः ॥९४॥

अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् ।
हृदयं भैरवाख्यं तु सर्वसंहारकारकम् ॥९५॥

अग्निमण्डलमध्यस्थभैरवानलतापिताः ।
वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् ॥९६॥

विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः ।
ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः ॥९७॥

प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् ।
प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः ॥९८॥

तुलामेलकयोगः श्रीतन्त्रसद्भावशासने ।
य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् ॥९९॥

अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः ।
देशकालादिदोषेण न तथाध्यवसायिनाम् ॥१००॥

प्रकर्तव्या यथा दीKषा श्रीसन्तत्यागमोदिता ।
कथ्यते हाटकेशानपातालाधिपचोदिता ॥१०१॥

श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे ।
वरुणो मच्छन्दो भगवत्त इति त्रयमिदं हृदये ॥१०२॥

धर्मादिवर्गसंज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः ।
ह्रींश्रींपूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः ॥१०३॥

मूर्धतले विद्यात्रयमुक्तं भाव्यथ मनोऽभियोगेन ।
कुसुमैरानन्दैर्वा भावनया वापि केवलया ॥१०४॥

गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः ।
मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता ॥१०५॥

एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये ।
बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते ॥१०६॥

प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् ।
पदपञ्चकस्य संबोधनयुक्तस्याग्निदयितान्ते ॥१०७॥

सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि ।
समस्तबन्धशब्देन सहितं च निकृन्तनि ॥१०८॥

बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् ।
पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम् ॥१०९॥

खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा ।
अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः ॥११०॥

अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् ।
वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक् पान्तोऽर्णत्रयादतः ॥१११॥

महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् ।
आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि ॥११२॥

षडर्णं पापशब्दादिविमोहनिपदं ततः ।
पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् ॥११३॥

पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति ।
तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् ॥११४॥

तदनच्कतकारेण सहैकीभावतः पठेत् ।
रन्ध्राब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता ॥११५॥

मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् ।
अष्टार्णमथ पञ्चार्णं योगधारिणिसंज्ञितम् ॥११६॥

आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् ।
एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् ॥११७॥

रुद्रशक्तीति वेदार्णं स्याद्रुद्रदयितेऽथ मे ।
पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी ॥११८॥

सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा ।
सार्धवर्णचतुष्कं तदित्येषा समयापहा ॥११९॥

विद्या सार्धार्णखशरसंख्या सा पारमेश्वरी ।
एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् ॥१२०॥

यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम् ।
अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः ॥१२१॥

अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः ।
नहि तत्किंचनाप्यस्ति यत्पुरा न निरूपितम् ॥१२२॥

निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते ।
इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् ॥१२३॥