तन्त्रालोके द्वात्रिंशमाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके द्वात्रिंशमाह्निकम्


अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् ।

मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले ।
उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् ॥१॥

बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता ।
विम्बस्य यस्या उदय इत्युक्ता तदुपायता ॥२॥

मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् ।
रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता ॥३॥

तत्र प्रधानभूता श्रीखेचरी देवतात्मिका ।
निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी ॥४॥

करङ्किणी क्रोधना च भैरवी लेलिहानिका ।
महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा ॥५॥

इत्येवंबहुभेदेयं श्रीखेचर्येव गीयते ।
अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते ॥६॥

तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् ।
श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् ॥७॥

देवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा ।
काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् ॥८॥

मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः ॥९॥

तत्र पूर्णेन रूपेण खेचरीमेव वर्णये ।
बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् ॥१०॥

दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् ।
निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु ॥११॥

एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने ।
ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि ॥१२॥

अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् ।
जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे ॥१३॥

विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् ।
अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् ॥१४॥

जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् ।
त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः ॥१५॥

पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् ।
शून्याशून्यलये कृत्वा एकदण्डेऽनिलानलौ ॥१६॥

शक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते ।
त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः ॥१७॥

आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः ।
शूलं समरसं कृत्वा रसे रस इव स्थितः ॥१८॥

एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये ।
बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् ॥१९॥

खेचरीचक्रसंजुष्टं सद्यस्त्यजति मेदिनीम् ।
त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः ॥२०॥

अवधूतो निराचारो नाहमस्मीति भावयम् ।
मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः ॥२१॥

ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे ।
रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः ॥२२॥

नाहमस्मीति मन्वान एकीभूतं विचिन्तयन् ।
कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ॥२३॥

ग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् ।
विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति ॥२४॥

शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः ।
तत्रस्था देवताः सर्वा द्योतयन्त्योऽखिलं जगत् ॥२५॥

कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा ।
अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् ॥२६॥

एषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् ।
हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ ॥२७॥

चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः ।
विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् ॥२८॥

एषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम् ।
जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम् ॥२९॥

परदेहेषु चात्मानं परं चात्मशरीरतः ।
पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् ॥३०॥

नवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् ।
अनया हि खचारी श्रीयोगसञ्चार उच्यते ॥३१॥

कुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् ।
वामो योऽयं जगत्यस्मिंस्तस्य संहरणोद्यताम् ॥३२॥

स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् ।
व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् ॥३३॥

यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् ।
तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् ॥३४॥

चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् ।
मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत् ॥३५॥

वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः ।
कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् ॥३६॥

तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते ।
वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः ॥३७॥

ऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् ।
गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी ॥३८॥

तत्र तत्पदसंयोगादुन्मीलनविधायिनी ।
यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः ॥३९॥

ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् ।
एष क्रमस्ततोऽन्योऽपि व्युत्क्रमः खेचरी परा ॥४०॥

योन्याधारेति विख्याता शूलमूलेति शब्द्यते ।
वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि ॥४१॥

नादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् ।
आक्रम्य प्रथमं चक्रं खे यन्त्रे पादपीडितम् ॥४२॥

नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् ।
बीजपञ्चकचारेण शूलभेदक्रमेण तु ॥४३॥

हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् ।
वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् ॥४४॥

आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् ।
चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे ॥४५॥

भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् ।
पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः ॥४६॥

श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः ।
चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् ॥४७॥

ग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे ।
तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते ॥४८॥

भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः ।
मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी ॥४९॥

त्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते ।
नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च ॥५०॥

वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् ।
भवस्थानाभवस्थानमुच्चारेणावधारयेत् ॥५१॥

मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः ।
मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः ॥५२॥

शरीरं तु समस्तं यत्कूटाक्षरसमाकृति ।
एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे ॥५३॥

सूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः ।
पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः ॥५४॥

अन्तःस्थितिः खेचरीयं संकोचाख्या शशाङ्किनी ।
तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ ॥५५॥

सम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता ।
मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया ॥५६॥

शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् ।
समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् ॥५७॥

एषैव शक्तिमुद्रा चेदधोधावितपाणिका ।
दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम् ॥५८॥

द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता ।
संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल ॥५९॥

उत्क्रामणी झगित्येव पशूनां पाशकर्तरी ।
श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव ॥६०॥

साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् ।
अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् ॥६१॥

वीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी ।
अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले ॥६२॥

एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता ।
श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते ॥६३॥

एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् ।
एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया ॥६४॥

तदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत् ।
तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया ॥६५॥

यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे ।
विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः ॥६६॥

बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः ।
शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् ॥६७॥

इति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः ॥