तन्त्रालोके षट्त्रिंशमाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके षट्त्रिंशमाह्निकम्


आयातिरथ शास्त्रस्य कथ्यतेऽवसरागता ।
श्रीसिद्धादिविनिर्दिष्टा गुरुभिश्च निरूपिता ।
भैरवो भैरवी देवी स्वच्छन्दो लाकुलोऽणुराट् ॥१॥

गहनेशोऽब्जजः शक्रो गुरुः कोट्यपकर्षतः ।
नवभिः क्रमशोऽधीतं नवकोटिप्रविस्तरम् ॥२॥

एतैस्ततो गुरुः कोटिमात्रात् पादं वितीर्णवान् ।
दक्षादिभ्य उभौ पादौ संवर्तादिभ्य एव च ॥३॥

पादं च वामनादिभ्यः पादार्धं भार्गवाय च ।
पादपादं तु बलये पादपादस्तु योऽपरः ॥४॥

सिंहायार्धं ततः शिष्टाद्द्वौ भागौ विनताभुवे ।
पादं वासुकिनागाय खण्डाः सप्तदश त्वमी ॥५॥

स्वर्गादर्धं रावणोऽथ जह्रे रामोऽर्धमप्यतः ।
विभीषणमुखादाप गुरुशिष्यविधिक्रमात् ॥६॥

खण्डैरेकान्नविंशत्या विभक्तं तदभूत्ततः ।
खण्डं खण्डं चाष्टखण्डं प्रोक्तपादादिभेदतः ॥७॥

पादो मूलोद्धारावुत्तरवृहदुत्तरे तथा कल्पः ।
सांहितकल्पस्कन्दावनुत्तरं व्यापकं त्रिधा तिस्रः ॥८॥

देव्योऽत्र निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण ।
नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदाहीने ॥९॥

रामाच्च लक्ष्मणस्तस्मात् सिद्धास्तेभ्योऽपि दानवाः ।
गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः ॥१०॥

तेषां क्रमेण तन्मध्ये भ्रष्टं कालान्तराद्यदा ।
तदा श्रीकण्ठनाथाज्ञावशात् सिद्धा अवातरम् ॥११॥

त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ।
द्वयाद्वये च निपुणाः क्रमेण शिवशासने ॥१२॥

आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् ।
स चार्धत्र्यम्बकाभिख्यः संतानः सुप्रतिष्ठितः ॥१३॥

अतश्चार्धचतस्रोऽत्र मठिकाः संततिक्रमात् ।
शिष्यप्रशिष्यैर्विस्तीर्णाः शतशाखं व्यवस्थितैः ॥१४॥

अध्युष्टसंततिस्रोतःसारभूतरसाहृतिम् ।
विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान् ॥१५॥

उक्तायातिरुपादेयभावो निर्णीयतेऽधुना ॥