प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तन्त्रालोके सप्तत्रिंशमाह्निकम्

तन्त्रालोकः


अथ श्रीतन्त्रालोके सप्तत्रिंशमाह्निकम्


उक्तनीत्यैव सर्वत्र व्यवहारे प्रवर्तिते ।
प्रसिद्धावुपजीव्यायामवश्यग्राह्य आगमः ॥१॥

यथा लौकिकदृष्ट्यान्यफलभाक् तत्प्रसिद्धितः ।
सम्यग्व्यवहरंस्तद्वच्छिवभाक् तत्प्रसिद्धितः ॥२॥

तदवश्यग्रहीतव्ये शास्त्रे स्वांशोपदेशिनि ।
मनाक्फलेऽभ्युपादेयतमं तद्विपरीतकम् ॥३॥

यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् ।
क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः ॥४॥

यदार्षे पातहेतूक्तं तदस्मिन्वामशासने ।
आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् ॥५॥

तच्च यत्सर्वसर्वज्ञदृष्टं तच्चापि किं भवेत् ।
यदशेषोपदेशेन सूयतेऽनुत्तरं फलम् ॥६॥

यथाधराधरप्रोक्तवस्तुतत्त्वानुवादतः ।
उत्तरं कथितं संवित्सिद्धं तद्धि तथा भवेत् ॥७॥

यदुक्ताधिकसंवित्तिसिद्धवस्तुनिरूपणात् ।
अपूर्णसर्ववित्प्रोक्तिर्ज्ञायतेऽधरशासने ॥८॥

ऊर्ध्वशासनवस्त्वंशे दृष्ट्वापिच समुज्झिते ।
अधः शास्त्रेषु मायात्वं लक्ष्यते सर्गरक्षणात् ॥९॥

श्रीमदानन्दशास्त्रादौ प्रोक्तं च परमेशिना ।
ऋषिवाक्यं बहुक्लेशमध्रुवाल्पफलं मितम् ॥१०॥

नैव प्रमाणयेद्विद्वान् शैवमेवागमं श्रयेत् ।
तदार्षे पातहेतूक्तं तदस्मिन् वामशासने ॥११॥

आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् ।
यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् ॥१२॥

क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः ।
अज्ञत्वानुपदेष्टृत्वसंदष्टेऽधरशासने ॥१३॥

एतद्विपर्ययाद्ग्राह्यमवश्यं शिवशासनम् ।
द्वावाप्तौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ ॥१४॥

द्विप्रवाहमिदं शास्त्रं मम्यङ्निःश्रेयसप्रदम् ।
प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम् ॥१५॥

तच्च पञ्चविधं प्रोक्तं शक्तिवैचित्र्यचित्रितम् ।
पञ्चस्रोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम् ॥१६॥

दशाष्टादशधा स्रोतःपञ्चकं यत्ततोऽप्यलम् ।
उत्कृष्टं भैरवाभिख्यं चतुःषष्टिविभेदितम् ॥१७॥

श्रीमदानन्दशास्त्रादौ प्रोक्तं भगवता किल ।
समूहः पीठमेतच्च द्विधा दक्षिणवामतः ॥१८॥

मन्त्रो विद्येति तस्माच्च मुद्रामण्डलगं द्वयम् ।
मननत्राणदं यत्तु मन्त्राख्यं तत्र विद्यया ॥१९॥

उपोद्बलनमाप्यायः सा हि वेद्यार्थभासिनी ।
मन्त्रप्रतिकृतिर्मुद्रा तदाप्यायनकारकम् ॥२०॥

मण्डलं सारमुक्तं हि मण्डश्रुत्या शिवाह्वयम् ।
एवमन्योन्यसंभेदवृत्ति पीठचतुष्टयम् ॥२१॥

यतस्तस्माद्भवेत्सर्वं पीठे पीठेऽपि वस्तुतः ।
प्रधानत्वात्तस्य तस्य वस्तुनो भिन्नता पुनः ॥२२॥

कथिता साधकेन्द्राणां तत्तद्वस्तुप्रसिद्धये ।
प्रत्येकं तच्चतुर्धैवं मण्डलं मुद्रिका तथा ॥२३॥

मन्त्रो विद्येति च पीठमुत्कृष्टं चोत्तरोत्तम् ।
विद्यापीठप्रधानं च सिद्धयोगीश्वरीमतम् ॥२४॥

तस्यापि परमं सारं मालिनीविजयोत्तरम् ।
उक्तं श्रीरत्नमालायामेतच्च परमेशिना ॥२५॥

अशेषतन्त्रसारं तु वामदक्षिणमाश्रितम् ।
एकत्र मिलितं कौलं श्रीषडर्धकशासने ॥२६॥

सिद्धान्ते कर्म बहुलं मलमायादिरूषितम् ।
दक्षिणं रौद्रकर्माढ्यं वामं सिद्धिसमाकुलम् ॥२७॥

स्वल्पपुण्यं बहुक्लेशं स्वप्रतीतिविवर्जितम् ।
मोक्षविद्याविहीनं च विनयं त्यज दूरतः ॥२८॥

यस्मिन्काले च गुरुणा निर्विकल्पं प्रकाशितम् ।
मुक्तस्तेनैव कालेन यन्त्रं तिष्ठति केवलम् ॥२९॥

मयैतत्स्रोतसां रूपमनुत्तरपदाद्ध्रुवात् ।
आरभ्य विस्तरेणोक्तं मालिनीश्लोकवार्तिके ॥३०॥

जिज्ञासुस्तत एवेदमवधारयितुं क्षमः ।
वयं तूक्तानुवचनमफलं नाद्रियामहे ॥३१॥

इत्थं दददनायासाज्जीवन्मुक्तिमहाफलम् ।
यथेप्सितमहाभोगदातृत्वेन व्यवस्थितम् ॥३२॥

षडर्धसारं सच्छास्त्रमुपादेयमिदं स्फुटम् ।
षट्त्रिंशता तत्त्वबलेन सूता यद्यप्यनन्ता भुवनावलीयम् ।
ब्रह्माण्डमत्यन्तमनोहरं तु वैचित्र्यवर्जं नहि रम्यभावः ॥३३॥

भूरादिसप्तपुरपूर्णतमेऽपि तस्मिन् मन्ये द्वितीयभुवनं भवनं सुखस्य ।
क्वान्यत्र चित्रगतिसूर्यशशाङ्कशोभिरात्रिन्दिवप्रसरभोगविभागभूषा ॥३४॥

तत्रापिच त्रिदिवभोगमहार्घवर्षद्वीपान्तरादधिकमेव कुमारिकाह्वम् ।
यत्राधराधरपदात्परमं शिवान्तमारोढुमप्यधिकृतिः कृतिनामनर्घा ॥३५॥

प्राक्कर्मभोगिपशुतोचितभोगभाजा किं जन्मना ननु सुखैकपदेऽपि धाम्नि ।
सर्वो हि भाविनि परं परितोषमेति संभाविते नतु निमेषिणि वर्तमाने ॥३६॥

कन्याह्वयेऽपि भुवनेऽत्र परं महीयान् देशः स यत्र किल शास्त्रवराणि चक्षुः ।
जात्यन्धसद्मनि न जन्म न कोऽभिनिन्देद्भिन्नाञ्जनायितरविप्रमुखप्रकाशे ॥३७॥

निःशेषशास्त्रसदनं किल मध्यदेशस्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा ।
कोऽप्यत्रिगुप्त इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः ॥३८॥

तमथ ललितादित्यो राजा निजं पुरमानयत् प्रणयरभसात् कश्मीराख्यं हिमालयमूर्धगम् ।
अधिवसति यद्गौरीकान्तः करैर्विजयादिभिर्युगपदखिलं भोगासारं रसात् परिचर्चितुम् ॥३९॥

स्थाने स्थाने मुनिभिरखिलैश्चक्रिरे यन्निवासा यच्चाध्यास्ते प्रतिपदमिदं स स्वयं चन्द्रचूडः ।
तन्मन्येऽहं समभिलषिताशेषसिद्धेर्नसिद्ध्यै कश्मीरेभ्यः परमथ पुरं पूर्णवृत्तेर्न तुष्ट्यै ॥४०॥

यत्र स्वयं शारदचन्द्रशुभ्रा श्रीशारदेति प्रथिता जनेषु ।
शाण्डिल्यसेवारससुप्रसन्ना सर्वं जनं स्वैर्विभवैर्युनक्ति ॥४१॥

नारङ्गारुणकान्ति पाण्डुविकचद्बल्लावदातच्छवि प्रोद्भिन्नामलमातुलुङ्गकनकच्छायाभिरामप्रभम् ।
केरीकुन्तलकन्दलीप्रतिकृतिश्यामप्रभाभास्वरं यस्मिञ्शक्तिचतुष्टयोज्ज्वलमलं मद्यं महाभैरवम् ॥४२॥

त्रिनयनमहाकोपज्वालाविलीन इह स्थितो मदनविशिखव्रातो मद्यच्छलेन विजृम्भते ।
कथमितरथा रागं मोहं मदं मदनज्वरं विदधदनिशं कामातङ्कैर्वशीकुरुते जगत् ॥४३॥

यत्कान्तानां प्रणयवचसि प्रौढिमानं विदत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं संधुनोति ।
यस्मिन् विश्वाः कलितरुचयो देवताश्चक्रचर्यस्तन्मार्द्वीकं सपदि तनुते यत्र भोगापबर्गौ ॥४४॥

उद्यद्गौराङ्कुरविकसितैः श्यामरक्तैः पलाशैरन्तर्गाढारुणरुचिलसत्केसरालीविचित्रैः ।
आकीर्णा भूः प्रतिपदमसौ यत्र काश्मीरपुष्पैः सम्यग्देवीत्रितययजनोद्यानमाविष्करोति ॥४५॥

सर्वो लोकः कविरथ बुधो यत्र शूरोऽपि वाग्मी चन्द्रोद्द्योता मसृणगतयः पौरनार्यश्च यत्र ।
यत्राङ्गारोज्ज्वलविकसितानन्तसौषुम्णमार्गग्रस्तार्केन्दुर्गगनविमलो योगिनीनां च वर्गः ॥४६॥

श्रीमत्परं प्रवरनाम पुरं च तत्र यन्निर्ममे प्रवरसेन इति क्षितीशः ।
यः स्वप्रतिष्ठितमहेश्वरपूजनान्ते व्योमोत्पतन्नुदसृजत्किल धूपघण्टाम् ॥४७॥

आन्दोलनोदितमनोहरवीरनादैः सा चास्य तत्सुचरितं प्रथयांबभूव ।
सद्वृत्तसारगुरुतैजसमूर्तयो हि त्यक्ता अपि प्रभुगुणानधिकं ध्वनन्ति ॥४८॥

संपूर्णचन्द्रविमलद्युतिवीरकान्तागाढाङ्गरागघनकुङ्कुमपिञ्जरश्रीः ।
प्रोद्धूतवेतसलतासितचामरौघैराज्याभिषेकमनिशं ददती स्मरस्य ॥४९॥

रोधःप्रतिष्ठितमहेश्वरसिद्धलिङ्गस्वायंभुवार्चनविलेपनगन्धपुष्पैः ।
आवर्ज्यमानतनुवीचिनिमज्जनौघविध्वस्तपाप्ममुनिसिद्धमनुष्यवन्द्या ॥५०॥

भोगापवर्गपरिपूरणकल्पवल्ली भोगैकदानरसिकां सुरसिद्धसिन्धुम् ।
न्यक्कुर्वती हरपिनाककलावतीर्णा यद्भूषयत्यविरतं तटिनी वितस्ता ॥५१॥

तस्मिन् कुवेरपुरचारिसिंतांशुमौलिसांमुख्यदर्शनविरूढपवित्रभावे ।
वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूरिसंपत् ॥५२॥

तस्यान्वये महति कोऽपि वराहगुप्तनामा बभूव भगवान् स्वयमन्तकाले ।
गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत् परमनुग्रहमाग्रहेण ॥५३॥

तस्यात्मजश्चुखलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः ।
यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलंकुरुते स्म भक्तिः ॥५४॥

तारुण्यसागरतरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन ।
यो भक्तिरोहणमवाप्य महेशचिन्तारत्नैरलं दलयति स्म भवापदस्ताः ॥५५॥

तस्यात्मजोऽभिनवगुप्त इति प्रसिद्धः श्रीचन्द्रचूडचरणाब्जपरागपूतः ।
माता व्ययूयुजदमुं किल बाल्य एव दैवं हि भाविपरिकर्मणि संस्करोति ॥५६॥

माता परं बन्धुरिति प्रवादः स्नोहोऽतिगाढीकुरुते हि पाशान् ।
तन्मूलबन्धे गलिते किलास्य मन्ये स्थिता जीवत एव मुक्तिः ॥५७॥

पित्रा स शब्दगहने कृतसंप्रवेशस्तर्कार्णवोर्मिपृषतामलपूतचित्तः ।
साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयंग्रहणदुर्मदया गृहीतः ॥५८॥

स तन्मयीभूय न लोकवर्तनीमजीगणत् कामपि केवलं पुनः ।
तदीयसंभोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम् ॥५९॥

आनन्दसंततिमहार्णवकर्णधारः सद्दैशिकैरकवरात्मजवामनाथः ।
श्रीनाथसंततिमहाम्बरघर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः ॥६०॥

त्रैयम्बकप्रसरसागरशायिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः ।
तुर्याख्यसंततिमहोदधिपूर्णचन्द्रः श्रीसोमतः सकलवित्किल शंभुनाथः ॥६१॥

श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवशक्तिविचित्रनाथाः ।
अन्येऽपि धर्मशिववामनकोद्भटश्रीभूतेशभास्करमुखप्रमुखा महान्तः ॥६२॥

एते सेवारसविरचितानुग्रहाः शास्त्रसारपौढादेशप्रकटसुभगं स्वाधिकारं किलास्मै ।
यत् संप्रादुर्यदपि च जनान्नैक्षताक्षेत्रभूतान् स्वात्मारामस्तदयमनिशं तत्त्वसेवारसोऽभूत् ॥६३॥

सोऽनुग्रहीतुमथ शांभवभक्तिभाजं स्वं भ्रातरमखिलशास्त्रविमर्शपूर्णम् ।
यावन्मनः प्रणिदधाति मनोरथाख्यं तावज्जनः कतिपयस्तमुपाससाद ॥६४॥

श्रीशौरिसंज्ञतनयः किल कर्णनामा यो यौवने विदितशांभवतत्त्वसारः ।
देहं त्यजन् प्रथयति स्म जनस्य सत्यं योगच्युतं प्रति महामुनिकृष्णवाक्यम् ॥६५॥

तद्बालमित्रमथ मन्त्रिसुतः प्रसिद्धः श्रीमन्द्र इत्यखिलसारगुणाभिरामः ।
लक्ष्मीसरस्वति समं यमलंचकार सापत्नकं तिरयते सुभगप्रभावः ॥६६॥

अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः ।
ये संपदं तृणममंसत शंभुसेवासंपूरितं स्वहृदयं हृदि भावयन्तः ॥६७॥

षडर्धशास्त्रेषु समस्तमेव येनाधिजग्मे विधिमण्डलादि ।
स रामगुप्तो गुरुशंभुशास्त्रसेवाविधिव्यग्रसमग्रमार्गः ॥६८॥

अन्योऽपि कश्चन जनः शिवशक्तिपातसंप्रेरणापरवशस्वकशक्तिसार्थः ।
अभ्यर्थनाविमुखभावमशिक्षितेन तेनाप्यनुग्रहपदं कृत एष वर्गः ॥६९॥

आचार्यमभ्यर्थयते स्म गाढं संपूर्णतन्त्राधिगमाय सम्यक् ।
जायेत दैवानुगृहीतबुद्धेः संपत्प्रबन्धैकरसैव संपत् ॥७०॥

सोऽप्यभ्युपागमदभीप्सितमस्य यद्वा स्वातोद्यमेव हि निनर्तिषतोऽवतीर्णम् ।
सोऽनुग्रहप्रवण एव हि सद्गुरूणामाज्ञावशेन शुभसूतिमहाङ्कुरेण ॥७१॥

विक्षिप्तभावपरिहारमथो चिकीर्षन् मन्द्रः स्वके पुरवरे स्थितिमस्य वव्रे ।
आबालगोपमपि यत्र महेश्वरस्य दास्यं जनश्चरति पीठनिवासकल्पे ॥७२॥

तस्याभवत् किल पितृव्यवधूर्विधात्रा या निर्ममे गलितसंसृतिचित्रचिन्ता ।
शीतांशुमौलिचरणाब्जपरागमात्रभूषाविधिर्विहितवत्सलिकोचिताख्या ॥७३॥

मूर्ता क्षमेव करुणेव गृहीतदेहा धारेव विग्रहवती शुभशीलतायाः ।
वैराग्यसारपरिपाकदशेव पूर्णा तत्त्वार्थरत्नरुचिरस्थितिरोहणोर्वी ॥७४॥

भ्रातापि तस्याः शशिशुभ्रमौलेर्भक्त्या परं पावितचित्तवृत्तिः ।
स शौरिरात्तेश्वरमन्त्रिभावस्तत्याज यो भूपतिमन्त्रिभावम् ॥७५॥

तस्य स्नुषा कर्णवधूर्विधूतसंसारवृत्तिः सुतमेकमेव ।
यासूत योगेश्वरिदत्तसंज्ञं नामानुरूपस्फुरदर्थतत्त्वम् ॥७६॥

यामग्रगे वयसि भर्तृवियोगदीनामन्वग्रहीत् त्रिनयनः स्वयमेव भक्त्या ।
भाविप्रभावरभसेषु जनेष्वनर्थः सत्यं समाकृषति सोऽर्थपरम्पराणाम् ॥७७॥

भक्त्युल्लसत्पुलकतां स्फुटमङ्गभूषां श्रीशंभुनाथनतिमेव ललाटिकां च ।
शैवश्रुतिं श्रवणभूषणमप्यवाप्य सौभाग्यमभ्यधिकमुद्वहति स्म यान्तः ॥७८॥

अम्बाभिधाना किल सा गुरुं तं स्वं भ्रातरं शंभुदृशाभ्यपश्यत् ।
भाविप्रभावोज्ज्वलभव्यबुद्धिः सतोऽवजानाति न बन्धुबुद्ध्या ॥७९॥

भ्राता तदीयोऽभिनवश्च नाम्ना न केवलं सच्चरितैरपि स्वैः ।
पीतेन विज्ञानरसेन यस्य तत्रैव तृष्णा ववृधे निकामम् ॥८०॥

सोऽन्यश्च शांभवमरीचिचयप्रणश्यत्संकोचहार्दनलिनीघटितोज्ज्वलश्रीः ।
तं लुम्पकः परिचचार समुद्यमेषु साधुः समावहति हन्त करावलम्बम् ॥८१॥

इत्थं गृहे वत्सलिकावितीर्णे स्थितः समाधाय मतिं बहूनि ।
पूर्वश्रुतान्याकलयन् स्वबुद्ध्या शास्त्राणि तेभ्यः समवाप सारम् ॥८२॥

स तन्निबन्धं विदधे महार्थं युक्त्यागमोदीरिततन्त्रतत्त्वम् ।
आलोकमासाद्य यदीयमेष लोकः सुखं संचरिता क्रियासु ॥८३॥

सन्तोऽनुगृह्णीत कृतिं तदीयां हृह्णीत पूर्वं विधिरेष तावत् ।
ततोऽपि गृह्णातु भवन्मतिं सा सद्योऽनुगृह्णातु च तत्त्वदृष्ट्या ॥८४॥

इदमभिनवगुप्तप्रोम्भितं शास्त्रसारं शिव निशमय तावत् सर्वतःश्रोत्रतन्त्रः ।
तव किल नुतिरेषा सा हि त्वद्रूपचर्चेत्यभिनवपरितुष्टो लोकमात्मीकुरुष्व ॥८५॥

---समाप्तम्---