प्रमुखा विकल्पसूचिः उद्घाट्यताम्

॥मङ्गलम्॥सम्पाद्यताम्

॥निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्।
॥बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः॥१॥

विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम्।
टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम्॥

चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताक_इष्टदेवतानमस्कारात्मकं मङ्गलं शिष्टशिक्षायै ग्रन्थतो निबन्ध्नंश्चिकीर्षितं प्रतिजानीते, निधायेति । ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति। मङ्गले कृतेऽपि कादम्बर्यादौ समाप्त्यदर्शनात्, मङ्गलाभावेऽपि किरणावल्यादौ समाप्तिदर्शनाच्च अन्वयव्यतिरेकाभ्यां व्यभिचारादिति चेत् न, कादम्बर्यादौ विघ्नबाहुल्यात्समाप्त्यभावः। किरणावल्यादौ ग्रन्थाद्बहिरेव मङ्गलं कृतमतो न व्यभिचारः। ननु मङ्गलस्य (ग्रन्थादौ) कर्तव्यत्वे किं प्रमाणमिति चेत् न। शिष्टाचारानुमितश्रुतिरेव प्रमाणत्वात्। तथा हि मङ्गलं वेदबोधितकर्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वाद्दर्शादिवत्। भोजनादौ व्यभिचारवारणाय अलौकिकेति। रात्रिश्राद्धादौ व्यभिचारवारणाय अविगीतेति। शिष्टपदं स्पष्टार्थम्। न कुर्यान्निष्फलं कर्म इति जलताडनादेरपि निषिद्धत्वात्। तर्क्यन्ते प्रतिपाद्यन्ते इति तर्काः, द्रव्यादिपदार्थास्तेषां सङ्ग्रहः सङ्क्षेपेण स्वरूपकथनं क्रियत इत्यर्थः। कस्मै प्रयोजनायेत्यत आह, सुखबोधायेति। सुखेनानायासेन यो बोधः पदार्थज्ञानं तस्मा इत्यर्थः। ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वोऽयं ग्रन्थः क्रियत इत्यत आह, बालानामिति। तेषामतिविस्तृतत्वाद्बालानां बोधो न जायत इत्यर्थः। ग्रहणधारणपटुर्बालः न तु स्तनन्धयः। किम् कृत्वा क्रियत इत्यत आह, निधायेतिविश्वेशं जगन्नियन्तारं हृदि निधाय नितरां स्थापयित्वा सदा तद्ध्यानपरो भूत्वेत्यर्थः। गुरूणां विद्यागुरूणां, वन्दनं नमस्कारं, विधाय कृत्वेत्यर्थः॥

॥उद्देशप्रकरणम्॥सम्पाद्यताम्

॥द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्त पदार्थाः॥१॥

पदार्थान् विभजते द्रव्येति। पदस्यार्थः पदार्थः इति व्युत्पत्याभिधेयत्वं पदार्थसामान्यलक्षणम् (लभ्यते)। ननु विभागादेव सप्तत्वे सिद्धे सप्त (पद)ग्रहणं व्यर्थमिति चेत्, न अधिकसङ्ख्याव्यवच्छेदार्थकत्वात्। नन्वतिरिक्तः पदार्थः प्रमितो वा न वा। नाऽद्यः, प्रमितस्य निषेधायोगात्। न द्वितीयः, प्रतियोगोप्रमितिं विना निषेधानुपपत्तेरिति चेत्, न। पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थकत्वात् (सप्तग्रहण)। ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यम्। सप्तभिन्नस्याप्रसिद्धया कथं सप्तान्यतमत्वव्याप्तिनिश्चय इति चेत्, न। द्रव्यादिसप्तान्यतमत्वं नाम द्रव्यादिभेदसप्तकाभाववत्वम्। अतो दोषविरहात्। एवमग्रेऽपि द्रष्टव्यम्।

॥तत्र द्रव्याणि, पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव॥२॥

द्रव्यं (द्रव्याणि) विभजते तत्रेति। तत्र द्रव्यादिमध्ये। द्रव्याणि नवैवेत्यन्वयः। कानि तानि इत्यत आह पृथिवीति। ननु तमसो दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणीति? तथा हि, नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया च तमसो द्रव्यत्वं तावत् सिद्धम्। तत्र तमसो नाकाशादिपञ्चकेऽन्तर्भावः, रूपवत्वात्। अत एव न वायौ, स्पर्शाभावात् सदागतिमत्वाभावाच्च। नापि तेजसि, भास्वररूपाभावात् उष्णस्पर्शाभावाच्च। नापि जले, शीतस्पर्शाभावात् नीलरूपवत्वाच्च। नापि पृथिव्यां, गन्धाभावात् स्पर्शरहितत्वाच्च। तस्मात्तमसो दशमद्रव्यमिति चेत्, न। तमसस्तेजोऽभावरूप्अत्वात्। तथा हि, तमो न रूपिद्रव्यमालोकासहकृतचक्षुर्ग्राह्यत्वादालोकाभाववत्। रूपिद्रव्यचाक्षुषप्रमायामालोकस्य कारणत्वात्। तस्मात् प्रौढप्रकाशकतेजस्सामान्याभावस्तमः, तत्र नीलं तमश्चलति इति प्रत्ययो भ्रमः। अतो नव द्रव्याणीति सिद्धम्। द्रव्यत्वजातिमत्वं गुणवत्वं वा द्रव्यसामान्यलक्षणम्लक्ष्यैकदेशावृत्तित्वमव्याप्तिः। यथा गोः कपिलत्वम्। अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः। यथा गोः शृङ्गित्वम्। लक्ष्यमात्रावृत्तित्वमसम्भवः। यथा गौरेकशफत्वम्। एतद्दूषणत्रयरहितधर्मो लक्षणम्। स एवासाधारनधर्मः इत्युच्यते। लक्ष्यतावच्छेदकसमनियतत्वमसाधारणत्वम्। व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिरतस्तद्वारणाय तद्भिन्नं धर्मविशेषणं देयम्। व्यवहारस्यापि लक्षणप्रयोजनत्वे तन्न देयम्। व्यावृत्तेरपि व्यवहारसाधनत्वात्। ननु गुणवत्वं न द्रव्यलक्षणम्, आद्यक्षणावच्छिन्नघटे उत्पन्नविनष्टघटे चाव्याप्तेरिति चेत्, न। गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात्। नन्वेवमपि एकं रूपं रसात्पृथक् इति व्यवहाराद्रूपादावतिव्याप्तिरिति चेत्, न। एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारात्॥

॥रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वाऽपरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः चतुर्विंशतिगुणाः॥३॥

गुणान्विभजते रूपेतिद्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः। गुणत्वजातिमान्वा। ननु लघुत्वकठिनत्वमृदुत्वादीनां विद्यमानत्वात् कथं चतुर्विंशतिगुणा इति चेत्, न। लघुत्वस्य गुरुत्वाभावरूपत्वान्मृदुत्वकठिनत्वयोः अवयवसंयोगविशेषत्वात्।

॥ उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि॥४॥

कर्म विभजते उत्क्षेपणेतिसंयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म कर्मत्वजातिमद्वा। भ्रमणादीनामपि गमने अन्तर्भावान्न पञ्चत्वविरोधः।

॥ परमपरं चेति द्विविधं सामान्यम्॥५॥

सामान्यं विभजते परमिति। परमधिकदेशवृत्ति। अपरं न्यूनदेशवृत्ति। सामान्यादिचतुष्टये जातिर्नास्ति।

॥ नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव॥६॥

विशेषं विभजत्ए नित्येति। पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपञ्चकं च नित्यद्रव्याणि।

॥ समवायस्त्वेक एव॥७॥

समवायस्य भेदो नास्तीत्याह समवायस्त्विति

॥ अभावश्चतुर्विधः- प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावश्चेति॥८॥

अभावं विभजते प्रागभावेति