प्रमुखा विकल्पसूचिः उद्घाट्यताम्

उपसंहारःसम्पाद्यताम्

॥सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात् सप्तैव पदार्थाः इति सिद्धम्॥९॥

ननु "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निश्श्रेयसाधिगमः" इति न्यायसूत्रे षोडशपदार्थानामुक्तत्वात्कथं सप्तैवेत्यत आह सर्वेषामिति। सर्वेषां सप्तस्वेवन्तर्भाव इत्यर्थः। ’आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्’ इति द्वादशविधं प्रमेयम्। प्रवृत्तिधर्माधर्मौ। रागद्वेषमोहा दोषाः। राग इच्छा। द्वेषो मन्युः। मोहः शरीरादौ आत्मभ्रमः। प्रेत्यभावो मरणम्। फलं भोगः। अपवर्गो मोक्षः। स च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः। प्रयोजनं सुखप्राप्तिः दुःखहानिश्च। दृष्टान्तो महानसादिः। प्रामाणिकत्वेन अभ्युपगतोऽर्थः सिद्धान्तः। निर्णयो निश्चयः। स च प्रमाणफलम्। तत्त्वबुभुत्सो कथा वादः। उभयसाधनवती विजिगीषुकथा जल्पः। स्वपक्षस्थापनाहीना अपरपक्षविदळनमात्रावसाना वितण्डा। कथा नाम नानावत्कपूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भः। अभिप्रायान्तरेण प्रयुक्तस्यार्थान्तरं परिकल्प्य दूषणं छलम्। असदुत्तरं जातिः। साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्यविशीनोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्याकार्यसमा जातयः। वादिनोऽपजयहेतुर्निग्रहस्थानम्। तच्च प्रतिज्ञाहानिः, प्रतिज्ञान्तरम्, प्रतिज्ञाविरोधः, हेत्वन्तरम्, अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थकम्, अपार्थकम्, अप्राप्तकालम्, न्यूनम्, अधिकम्, पुनरुक्तम्, अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाश्च। शेषं सुगमम्।

ननु करतलानलसंयोगे अत्यपि प्रतिबन्धके सति दाहानुत्पत्तेः शक्तिः पदार्थान्तरमिति चेत् न। प्रतिबन्धकाभावस्य कार्यमात्रे कारणत्वेन शक्तेरनुपयोगात्। कारणत्वस्यैव शक्तिपदार्थत्वात्। ननु भस्मादिना कांस्यादौ शुद्धिदर्शनादधेयशक्तिरङ्गीकार्येति चेत् न। भस्मादिसंयोगसमानकालीनास्पृश्यस्पर्शप्रतियोगिकयावदभावसहितभस्मादिसंयोगध्वंसस्य शुद्धिपदार्थत्वात्। स्वत्वमपि न पदार्थान्तरम् यथेष्टविनियोगयोग्यत्वस्य स्वत्वरूपत्वात्। तदवच्छेदकं च प्रतिग्रहादिलब्धत्वमेवेति।

अथ विधिर्निरूप्यते। प्रयत्नजनकचिकीर्षाजनकज्ञानविषयो विधिः। तत्प्रतिपादको लिङादिर्वा। कृत्यसाध्ये प्रवृत्त्यदर्शनात् कृतिसाध्यताज्ञानं प्रवर्तकम्। न च विषभक्षणादौ प्रवृत्तिप्रसङ्गः, इष्टसाधनतालिङ्गककृतिसाध्यताज्ञानस्य काम्यस्थले विहितकालशुचिजीवित्वनिमित्तज्ञानजन्यस्य नित्यनैमित्तिकस्थले प्रवर्तकत्वात्। न चाननुगमः स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वस्यानुगतत्वादिति गुरवः। तत् न। लाघवेन कृतिसाध्येष्टसाधनताज्ञानस्यैव चिकीरर्षाद्वारा प्रयत्नजनकत्वात्। न च नित्यनैमित्तिकस्थले इष्टसाधनत्वाभावादप्रवृत्तिप्रसङ्गः, तत्रापि प्रत्यवायपरिहारस्य पापक्षयस्य च फलत्वकल्पनात्। तस्मात्कृतिसाध्येष्टसाधनत्वमेव लिङाद्यर्थः। ननु ’ज्योतोष्टोमेन स्वर्गकमो यजेत’ इत्यत्र लिङा स्वर्गसाधनमपूर्वं कार्यं प्रतीयते। यागस्याशुतरविनाशिनः कालान्तरभाविस्वर्गसाधनत्वायोगात् तद्योग्यं स्थायिकार्यमपूर्वमेव लिङाद्यर्थः। कार्यं कृतिसाध्यम्। कृतेः सविषयत्वाद्विषयाकाङ्क्षायां यागो विषयत्वेनान्वेति। ’कस्य कार्यम्’ इति नियोज्याकाङ्क्षायां स्वर्गकामपदं नियोज्यपरतयान्वेति। कार्यबोद्धा नियोज्यः। तेन ’ज्योतिष्टोमनामकयागविषयकं स्वर्गकामस्य कार्यम्’ इति वाक्यार्थः सम्पद्यते। वैदिकलिङ्त्वात् ’यावज्जीवमग्निहोत्रं जुहुयात्’ इति नित्यवाक्येऽप्यपूर्वमेव वाच्यं कल्प्यते। ’आरोग्यकामो भेषजपानं कुर्यात्’ इत्यादिलौकिकलिङः कार्याकार्ये लक्षणा इति चेत् न। यागस्याप्ययोआग्यतानिश्चयाभावेन इष्टसाधनतया प्रतीत्यनन्तरं तन्निर्वाहार्थम् - अवान्तरव्यापारतयाऽपूर्वकल्पनात्। कीर्तनादिना नाशश्रुतेर्न यागध्वंसो व्यापारः। लोकव्युत्पत्तिबलात्क्रियायामेव कृतिसाध्येष्टसाधनत्वं लिङा बोध्यत इति लिङ्त्वेन विध्यर्थकत्वम्, अख्यातत्वेन यत्नार्थकत्वम्। पचति पाकं करोतीति विवरणदर्शनात्, किं करोतीति प्रश्ने पचतीत्युत्तराच्चाख्यातस्य प्रयत्नार्थकत्वात्। रथे गच्छतीत्यादौ अनुकूलव्यापारे लक्षणा। देवदत्तः पचति, देवदत्तेन पच्यते तण्डुलः, इत्यादौ कर्तृकर्मणोर्नाख्यातार्थत्वम्। किं तु तद्गतैकत्वादीनामेव। तयोराक्षेपादेव लाभः। प्रजयतीत्यादौ धातोरेव प्रकर्षे शक्तिः। उपसर्गाणां द्योतकत्वमेव न तत्र शक्तिः।

पदार्थतत्वज्ञानस्य परमप्रयोजनं मोक्षः। तथाहि ’आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’ इति श्रुत्या श्रवणादीनाम् आत्मसाक्षात्कारहेतुत्वबोधनात् श्रुत्या देहादिविलक्षणात्मज्ञाने सत्यप्यसम्भावनानिवृत्तेर्वाक्यार्थानुसन्धानरूपमननसाध्यत्वात्। मननोपयोगिपदार्थनिरूपणद्वारा शास्त्रस्यापि मोक्षोपयोगित्वम्। तदनन्तरं श्रुत्युपदिष्टयोगविधिना निधिध्यासने कृते तदनन्तरं देहादिविलक्षणात्मसाक्षात्कारे सति देहादावहमित्यभिमानरूपमिथ्याज्ञाननाशे दोषाभावात् प्रवृत्त्यभावे धर्माधर्मयोरभावे जन्माभावे पूर्वधर्माधर्मयोरनुभवेन नाशे चरमदुःखध्वंसलक्षणमोक्षो जायते। ज्ञानमेव मोक्षसाधनम्। मिथ्याज्ञाननिवृत्तेर्ज्ञानमात्रसाध्यत्वात्। ’तमेवं विदिवाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ इति श्रुत्या साधनान्तरनिषेधाच्च। ननु ’तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने’ इति कर्मणो मोक्षसाधनत्वस्मरणाज्ज्ञानकर्मणोः समुच्चय इति चेत् न। "नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्। ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत्। अभ्यासाच्च क्वचिज्ज्ञानात्कैवल्यं लभते नरः।" इत्यादिना कर्मणो ज्ञानसाधनत्वप्रतिपादनाज्ज्ञानद्वारैव कर्मणो मिक्षसाधनत्वं न साक्षात्।

तस्मात्पदार्थतत्त्वज्ञानस्य मोक्षः परमप्रयोजनमिति सर्वं रमणीयम्॥ इति श्रीमदन्नम्भट्टोपाध्यायविरचिता तर्कसङ्ग्रहदीपिका समाप्ता॥

॥कणादन्यायमतयोर्बलव्युत्पत्तिसिद्धये।

॥अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः॥२०॥

॥इति श्रीमहामहोपाध्याय-अन्नम्भट्टविरचित-तर्कसङ्ग्रहः समाप्तः॥