तर्कसङ्ग्रहः/द्रव्यलक्षणप्रकरणम्
॥द्रव्यलक्षणप्रकरणम्॥
सम्पाद्यताम्॥ तत्र गन्धवती पृथिवी। सा द्विविधा, नित्याऽनित्या च। नित्या परमाणुरूपा। अनित्या कार्यरूपा। पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम्। इन्द्रियं गन्धग्राहकं घ्राणम्। तच्च नासाग्रवर्ति। विषयो मृत्पाषाणादिः॥१॥
तत्रोद्देशक्रमानुसारात् प्रथमं पृथिव्या लक्षणमाह तत्रेति। नाम्ना पदार्थसङ्कीर्तनमुद्देशः। उद्देशक्रमे च सर्वत्रेच्छैवं नियामिका। ननु सुरभ्यसुरभ्यवतवारब्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः। न च तत्र गब्धप्रतीत्यनुपपत्तिरिति वाच्यम्। अवयवदन्धस्यैव तत्र प्रतीतिसम्भवेन चित्रगन्धानङ्गीकारात् किं चोत्पन्नविनष्टघटादावव्याप्तिरिति चेत् न। गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात्। ननु जलादावपि गन्धप्रतीतिरिति चेत् न। अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात्। ननु कालस्य सर्वाधारतया सर्वेषां लक्षणानां कालेऽतिव्याप्तिरिति चेत् न। सर्वाधारताप्रयोजकभिन्नसम्बन्धेन लक्षणत्वस्य विवक्षितत्वात्। पृथिवीं विभजते सा द्विविधेति। नित्यत्वं ध्वंसाप्रतियोगित्वम्। अनित्यत्वं ध्वंसप्रतियोगित्वम्। प्रकारान्तरेण विभजते पुनरिति। आत्मनो भोगायतनं शरीरम्। यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम्। सुखदुःखसाक्षात्कारो भोगः। शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम्। शरीरेन्द्रियभिन्नो विषयः। एवं च गन्धवच्छरीरं पार्थिवशरीरम्, गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषयः इति तत्तल्लक्षणं बोध्यम्। पार्थिवशरीरं दर्शयति शरीरमिति। इन्द्रियं दर्शयति इन्द्रियमिति। गन्धग्राहकमिति प्रयोजनम्। घ्राणमिति संज्ञा। नासाग्रेत्याश्रयोक्तिः। एवमुत्तरत्र ज्ञेयम्। पार्थिवविषयं दर्शयति मृत्पाषाणादीति।
॥ शीतस्पर्शवत्यः आपः। ता द्विविधाः, नित्या अनित्याश्च। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः। पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्। शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः॥२॥
अपां लक्षणमाह शीतेति। उत्पन्नविनष्टजलेऽव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्वं विवक्षितन्। "शीतं शिलातलम्" इत्यादौ जलसम्बन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः। अन्यत्सर्वं पूर्वरीत्या व्याख्येयम्।
॥ उष्णस्पर्शवत् तेजः। तच्च द्विविधं, नित्यमनित्यं च। नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्। पुनः त्रिविधं शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके प्रसिद्धम्। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति। विषयः चतुर्विधः, भौम-दिव्य-औदर्य-आकरजभेदात्। भौमं वह्न्यादिकम्। अभिन्धनं दिव्यं विद्युदादि। भुक्तस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि॥३॥
तेजसो लक्षणमाह उष्णस्पर्शवदिति। "उष्णं जलम्" इति प्रतीतेस्तेजः संयोगनुविधायित्वान्नातिव्याप्तिः। विषयं विभजते भौमेति। ननु "सुवर्णं पार्थिवं" पीतत्वाद्गुरुत्वात् हरिद्रावत् इति चेत् न। अत्यन्तानलसंयोगे सति घृतादौ द्र्वत्वनाशदर्शनेन, जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्सुवर्णस्य अत्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वादिष्वनन्तर्भावात्तेजसत्वसिद्धिः। तस्योष्णस्पर्शभास्वररूपयोरुपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः। तस्मात् सुवर्णं तैजसमिति सिद्शम्।
॥ रूपरहितः स्पर्शवान् वायुः। स द्विविधः नित्यः अनित्यश्च। नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनः त्रिविधः शरीरेन्द्रियविषयभेदात्। शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकंत्वक् सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुः। शरीरान्तः सञ्चारी वायुः प्राणः। स च एकोऽपि उपाधिभेदात् प्राणापानादिसंज्ञां लभते॥४॥
वायुं लक्षयति रूपरहितेति। आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति। पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति। प्राणस्य कुत्रान्तर्भाव इत्यत आह शरीरेति। स च इति। एक एव प्राणः स्थानभेदात्प्राणापानादिशब्दैः व्यवह्रियत इत्यर्थः। स्पर्शानुमेयो वायुः। तथा हि, योऽयं वायौ वाति सति अनुष्णाशीतस्पर्श उपलभ्यते स क्वचिदाश्रितः गुणत्वाद्रूपवत्। न जलतेजसी अनुष्णाशीतस्पर्शवत्वात्। न विभुचतुष्टयं सर्वत्रोपलब्धिप्रसङ्गात् न मनः परमाणुस्पर्शस्यातीन्द्रियत्वात्। तस्माद्यः प्रतीयमानस्पर्शाश्रयः स वायुः (एव)। ननु वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् घटवदिति चेत् न। उद्भूतरूपस्योपाधित्वात्। "यत्र द्रव्यत्वे सति बहिरिन्द्रियजन्यप्रत्यक्षत्वं, तत्र उद्भूतरूपवत्वम्" इति साध्यव्यापकत्वम्। पक्षे साधनाव्यापकत्वम्। न चैवं तप्तवारिस्थतेजसोऽपि अप्रत्यक्षत्वापत्तिः इष्टत्वात्। तस्माद्रूपरहितत्वाद्वायुरप्रत्यक्षः। इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते। ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया जायते। ततः परमाणुद्वयसंयोगे द्व्यणुकमुत्पद्यते। त्रिभिरेव द्व्यणुकस्त्र्यणुकमुत्पद्यते। एवं चतुरणुकादिक्रमेण महती पृथिवी; महत्य आपः; महत्तेजः; महान्वायुरुत्पद्यते। एवमुत्पन्नस्य कार्यद्रव्यस्य सञ्जिहीर्षावशात् क्रियया परमाणुद्वयविभागे द्व्यणुकनाशः। इत्येवं पृथिव्यादिनाशः। असमवायिकारणनाशात् द्व्यणुकनाशः। समवायिकारणनाशात् त्र्यणुकनाश इति सम्प्रदायः सर्वत्रासमवायिकारणनाशात् द्रव्यनाश इति नवीनाः। किं परमाणुसद्भावे प्रमाणम्। उच्यते, जालसूर्यमरीचस्थं सर्वतः सूक्ष्मतमं यत् द्रव्यं उपलभ्यते तत्सावयवं चाक्षुषद्रव्यत्वात् घटवत्। त्र्यणुकावयवोऽपि सावयवः महदारम्भकत्वात्कपालवत्। यो द्व्यणुकावयवः स परमाणुः। स च नित्यः, तस्यापि कार्यत्वे अनवस्थाप्रसङ्गात्। सृष्टिप्रलयसद्भावे "धाता यथा पूर्वमकल्पयत्" इति श्रुतिरेव प्रमाणम्। "सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः। सर्वभावकार्यध्वंसो महाप्रलयः" इति विवेकः।
॥ शब्दगुणकमाकाशम्। तच्चैकं विभु नित्यञ्च॥५॥
आकाशं लक्षयति शब्दगुणकमिति। नन्वाकाशमपि पृथिव्यादिवन्नाना, किं नेत्याह तच्चैकमिति। भेदे प्रमाणाभावादित्यर्थः। एकत्वादेव सर्वत्र शब्दोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वं, मूर्तत्वं परिच्छिन्नपरिमाणवत्वं क्रियावत्वं वा। विभुत्वादेव आत्मवन्नित्यमित्याह नित्यं चेति
॥ अतीतादिव्यवहारहेतुः कालः। स चैको विभुर्नित्यश्च॥६॥
कालं लक्षयति अतीतेति। सर्वाधारः कालः सर्वकार्यनिमित्तकारणम्।
॥ प्राच्यादिव्यवहारहेतुर्दिक्। सा चैका विभ्वी नित्या च॥७॥
दिशो लक्षणमाह प्राचीति। दिगपि कार्यमात्रनिमित्तकारणम्।
॥ ज्ञानाधिकरणमात्मा। स द्विविधः परमात्मा जीवात्मा च। तत्रेश्वरः सर्वज्ञः परमात्मैक एव। जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च॥८॥
आत्मनो लक्षणमाह ज्ञानेति। आत्मानं विभजते स द्विविध इति। परमात्मनो लक्षणमाह तत्रेति। नित्यज्ञानाधिकरणत्वमीश्वरत्वम्। नन्वीश्वरसद्भावे किं प्रमाणम्। न तावत्प्रत्यक्षम्। तद्धि बाह्यमान्तरं वा। नाद्यः अरूपिद्रव्यात्। न द्वितीयः आत्मसुखदुःखादिव्यतिरिक्तत्वात्। नाप्यनुमानं लिङ्गाभावादिति चेत् न। अङ्कुरादिकं सकर्तृकं कार्यत्वाद्घटवत् इत्यनुमानस्यैव प्रमाणत्वात्। उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतोमत्वं कर्तृत्वम्। उपादानं समवायिकारणम्। सकलपरमाण्वादिसूक्षदर्शित्वात्सर्वज्ञत्वम्। "यः सर्वज्ञः सः सर्ववित्" इत्यागमोऽपि तत्र प्रमाणम्। जीवस्य लक्षणमाह जीव इति। सुखाद्याश्रयत्वं जीवलक्षणम्। ननु मनुष्योऽहं ब्राह्मणोऽहमित्यादौ सर्वत्राहंप्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति चेत् न। शरीरस्यात्मत्वे करपादादिनाशे शरीरनाशादात्मनोऽपि नाशप्रसङ्गात्। नापीन्द्रियाणामात्मत्वम्, "योऽहं घतमद्राक्षं सोऽहमिदानीं स्पृशामि" इत्यनुसन्धानाभावप्रसङ्गात्। अन्यानुभूतेऽर्थे अन्यस्यानुसन्धानायोगात्। तस्माद्देहेन्द्रियव्यतिरेको जीवः सुखदुःखादिवैचित्र्यात् प्रतिशरीरं भिन्नः। स च न परमाणुः सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात्। न मध्यमपरिमाणवान् तथा सति अनित्यत्वप्रसङ्गेन कृतहानाकृताभ्यागमप्रसङ्गात्। तस्मान्नित्यो विभुर्जीवः।
॥ सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च॥९॥
मनसो लक्षणमाह सुखेति। स्पर्शरहितत्वे सति क्रियावत्वं मनसो लक्षणम्। तद्विभजते तच्चेति। एकैकस्यात्मनः एकैकं मन इत्यात्मनामनेकत्वान्मनसोऽप्यनेकत्वमित्यर्थः। ननु मनो विभु स्पर्शरहितत्वे सति द्रव्यत्वादाकाशादिवत्दिति चेत् न। मनसो विभुत्वे आत्ममनः संयोगस्याऽसमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गः। न च विभुद्वयसंयोगोऽस्त्विति वाच्यम्। तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गात्, पुरीतद्व्यतिरिक्तस्थले आत्ममनः संयोगस्य सर्वदा विद्यमानत्वाव्। अणुत्वे तु यदा मनः पुरीतत् प्रविशति तदा सुषुप्तिः यदा निस्सरति तदा ज्ञानोत्पत्तिरित्याणुत्वसिद्धिः।