प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तर्कसङ्ग्रहः/प्रत्यक्षनिरूपणम्

< तर्कसङ्ग्रहः

॥अथ प्रत्यक्षनिरूपणम्॥सम्पाद्यताम्

॥ तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्॥१॥

प्रत्यक्षलक्षणमाह तत्रेति। प्रमाणचतुष्टयमध्येत्यर्थः।

॥ इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति। तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किञ्चित्। सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति॥२॥

प्रत्यक्षज्ञानस्य लक्षणमाह इन्द्रियेति। इन्द्रियं चक्षुरादिकम्, अर्थो घटादिः, तयोः सन्निकर्षः संयोगादिः, तज्जन्यं ज्ञानमित्यर्थः। तद्विभजते तद्द्विविविधमिति। निर्विकल्पकस्य लक्षणमाह निष्प्रकारकमिति। इशेषणविशेष्यसम्बन्धानवगाहिज्ञानमित्यर्थः। ननु निर्विकल्पके किं प्रमाणमिति चेत् न, गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं, विशिष्टज्ञानत्वात्, दण्डीति ज्ञानवत् इत्यनुमानस्य प्रमाणत्वात्। विशेषणज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गान्निर्विकल्पकसिद्धिः। सविकल्पकं लक्षयति सप्रकारकमिति। नामजात्यादिविशेष्यविशेषणसम्भन्धावगाहिज्ञानमित्यर्थः। सविकल्पकमुदाहरति यथेति

॥ प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः। संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति॥३३॥

इन्द्रियार्थसंनिकर्षं विभजते प्रत्यक्षेति

॥ चक्षुषा धटप्रत्यक्षजनने संयोगः सन्निकर्षः॥४॥

संयोगसन्निकर्षमुदाहरति चक्षुषेति। द्रव्यप्रत्यक्षे सर्वत्र संयोगः संनिकर्षः। आत्मा मनसा संयुज्यते, मनः इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षज्ञानमुत्पद्यते इत्यर्थः।

॥ घटरूपप्रत्यक्षजनने संयुक्तसमवायः संनिकर्षः। चक्षुः संयुक्तः धटे रूपस्य समवायः॥५॥

संयुक्तसमवायमुदाहरति घटरूपेति। तत्र युक्तिमाह चक्षुःसंयुक्त इति

॥ रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः। चक्षुः संयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात्॥६॥

संयुक्तसमवेतसमवायमुदाहरति रूपत्वेति

॥ श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः कर्णविवरवत्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणिनोश्च समवायात्॥७॥

समवायमुदाहरति श्रोत्रेणेति। तदुपपादयति कर्णेति। ननु दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेत् न, वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा शब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य श्रोत्रेण सम्भन्धात्प्रत्यक्षसम्भवः।

॥ शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्॥८॥

समवेतसमवायमुदाहरति शब्दत्वेति

॥ अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात्॥९॥

विशेष्यणविशेषभावमुदाहरति अभावेति। तदुपपादयति घटाभाववदिति भूतले घटो नास्तीत्यत्र अभावस्य अभावस्य विशेष्यत्व द्रष्टव्यम्। एतेन अनुपलब्धेः प्रमाणान्तरत्वं निरस्तम्। यद्यत्र घटोऽभविष्यत्तर्हि भूतलमिवाद्रक्ष्यत, दर्शनाभावान्नास्तीति तर्कितप्रतियोगिसत्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैव अभावज्ञानोत्पत्तौअनुपलब्धेः प्रमाणान्तरत्वासम्भवात्। अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तावनुपलब्धेः कारणत्वायोगात्। विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव, नातिरिक्तः सम्बन्धः। प्रत्यक्षज्ञानमुपसंहरस्तस्य करणमाह एवमिति

॥ एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम्, तत्करणमिन्द्रियम्, तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्॥१०॥

असाधारणकारणत्वादिन्दियं प्रत्यक्षज्ञानकरणमित्यर्थः। प्रत्यक्षप्रमाणमुपसंहरति तस्मादिति