तर्कसोपानम्
[[लेखकः :|]]

विद्याकरशान्ति: तर्कसोपानम्


(पृष्ठ २७५)
नमो मञ्जुश्रिये ॥

संसारसरसि कोलतुइयमज्ञानभेदिनः ।
स्मरणंमे हेवज्रस्य वर्ततां हृदि वश्चिरम् ॥

१. हिताहितप्राप्तिपरिहारहेतुर्नियमेन प्रमाणमिति संक्षेपतस्तद्व्युत्पाद्यते ॥ प्रमाणमविसंवादि ज्ञानम् । विसंवदनं विसंवादः । न विसंवादोऽविसंवादः । स यस्यास्ति तदविसंवादि । संवाद्येवेत्यर्थः ॥ अविसंवादः पुनरुपदर्शिता<र्थ>पृष्ठरतिबद्धार्थक्रियाप्रापणम् । प्रापणमपि प्रापकत्वं तद्योग्यता च । अव्यवहितायामर्थक्रियायां प्रमाणस्य प्रापकत्वमेव । व्यवहितायां प्रवर्तकत्वमपि । प्रापकत्वं चोपदर्शकत्वमेव । करणधर्मस्योपदर्शकत्वस्य ग्रहणाद्गृहीतग्रहिणामकरणत्वेन व्युदासान्नातिव्यापिता । अत एवाचार्यो धर्मोत्तरोऽप्याह ॥ येनैव प्रथममुपदर्शितार्थस्तेनैव प्रवर्तितः पुरुषः प्रापितश्चार्थः किमन्येनाधिकं कार्यम् । मरीचिकाजलज्ञानादीन्युपदर्शितार्थप्रतिबद्धार्थक्रियाप्रापणासंभवादेव निरस्तानीति । ज्ञानग्रहणेन चाज्ञानस्य इन्द्रियादेर्निरासः । करणविहितप्रत्ययेन च गृहीतग्राहिणः । तेन यदभिमतार्थक्रियासमर्थार्थप्रापणयोग्यमपूर्वविषयं ज्ञानं तत्प्रमाणम् ॥

(पृष्ठ २७६)
२. तद्द्विविधम् । प्रत्यक्षमनुमानं च ।

३. प्रतिगतमाश्रितमक्षं प्रत्यक्षम् । अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः ॥ प्राप्तापन्नालङ्गतिसमासेषु परवल्लिङ्गप्रतिषेधः । तेन प्रत्यक्षः प्रत्ययः प्रत्यक्षा बुद्धिः । प्रत्यक्षं ज्ञानमिति सिद्धं भवति । अक्षाश्रितत्वं च प्रत्यक्षस्य व्युत्पत्तिमात्रनिमित्तम् । प्रवृत्तिनिमित्तं तु साक्षात्करणमेव । तेन यत्किंचिद्विषयस्य साक्षात्कारि ज्ञानं तत्सर्वं प्रत्यक्षशब्दवाच्यं सिध्यति । मीयतेऽनेनेति मानम् । लिङ्गग्रहणसंबन्धस्मरणयोः पश्चान्मानमनुमानम् । एतच्च रूढिवशाल्लभ्यते । तेन धर्मिविशेषवर्ति लिङ्गं दृष्टवतो <इइङ्ग>लिङ्गिनोश्च संबन्धं स्मृतवतो यतः परोक्षवस्त्वालम्बनं ज्ञानमुत्पद्यते तदनुमानशब्देनाभिधीयते ॥

४. चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति । यथार्थाविनाभावित्वात्प्रत्यक्षं प्रमाणम् । तथानुमानमप्यर्थाविनाभावि प्रमाणमिति तदुक्तम् ॥

अर्थस्यासंभवेऽभावात्प्रत्यक्षेऽपि प्रमाणता ।
प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयमिति ॥

अनेनैव तुल्यबलत्वख्यापनेन यदपि मीमांसकैरुक्तं सर्वप्रमाणानां प्रत्यक्षमेव ज्येष्ठं तत्पूर्वकत्वादनुमानादेरिति तदपि निरस्तम् ॥ आत्मसत्तालाभे सर्वप्रमाणानां स्वकारणापेक्षत्वान् (पृष्ठ ७७) न ज्येष्ठेतरभावकल्पना साध्वीति । एवं प्रत्यक्षानुमानभेदेन द्विप्रकारमेव प्रमाणम् ॥

५. द्विविधवचनेनैकं प्रमाणं त्रीणि चत्वारि पञ्च षदिति विप्रतिपत्तयो निरस्यन्ते । तथाहि प्रत्यक्षमेव प्रमाणं बार्हस्पत्यानाम् । प्रत्यक्षानुमानागमाः प्रमाणानि आंख्यानाम् । उपमानमपि नैयायिकानाम् । अर्थापत्तिरपि प्राभाकराणाम् । अभावो हि प्रत्यक्षं शब्दश्च प्रमाणमिति वैयाकराणः ॥

६. तत्र प्रत्यक्षं कल्पनापोधमभ्रान्तम् । यज्ज्ञा<नं> कल्पनया कल्पनात्वेन रहितमभ्रान्तं च तदेव प्रत्यक्षम् । एतेन यदुक्तमुद्योतकरेण । यदि प्रत्यक्षशब्देन प्रत्यक्षमभिधीयते । कथं तत्कल्पनापोढम् । अथ कल्पनापोधं कथं प्रत्यक्षं कल्पनापोधमित्यनेन शब्देनोच्यत इति । यदपि भर्तृहरिणोक्तम् । कल्पना हि ज्ञानं प्रत्यक्षमपि ज्ञानम् । प्रत्यक्षज्ञाने कल्पनाज्ञानं प्रतिषेधतान्यस्मिन् ज्नाने ज्ञानान्तरमस्तीति प्रतिपादितम् । प्राप्तिपूर्वका हि प्रतिषेधा भवन्तीति न्यायादिति । तत्सर्वमपास्तम् । तादात्म्यप्रतिषेधस्यात्राभिमतत्वात् । अत एव विवृतं कल्पनया कल्पनात्वेन रहितमिति ।

७. कुतः पुनः कल्पनाभ्रमयोरभावः प्रत्यक्ष इति चेत् । यस्मात्कल्पनाविभ्रमयोरर्थरूपसाक्षात्करणं नास्ति । तथा हि । अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना । अभिलापो वाचकः शब्दः । स च सामान्याकारः । तेन संसर्ग्यस्तद्योग्यः (पृष्ठ २७८) प्रतिभासो यस्यां प्रतीतौ सा अभिलापसंसर्गयोग्यप्रतिभासा । योग्यग्रहणेनाव्युत्पन्नसंकेतस्य बालकस्य कल्पना संगृह्यते । यद्यपि तस्यामभिलापसंसर्गो नास्ति तद्योग्या तु भवत्येव । तत्प्रतिभासिनोऽर्थाकारस्येच्छाधीनसंकेतानुविधायिना शब्देनाभिधातुं शक्यत्वात् । कुतः पुनर्बालकस्य कल्पना सिद्धेति चेत् । तत्कार्यस्य प्रवृत्त्यादिलक्षणस्य प्रदर्शनात् ॥ तथा हि बालकोऽङ्गुर्यादिपरिहारे स्तनादौ प्रवर्तते । तदुक्तम् ।

इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया ।
तां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यत ॥ इति

बालके पुनः संमूर्च्छिताक्षराकारध्वनिविशिष्टा बुद्धिविपरिवर्तिनी कल्पना ऊह्या यया पश्चात्संकेतग्रहणकुशलो भवति । न चेदृशीयमर्थरूपं साक्षात्करोति । अव्यापृतेन्द्रियस्य दर्शणवद्बुद्धौ शब्देनाप्रतिभासनादर्थ<रूप>स्य । स हि शब्दस्यार्थो यः शाब्दे प्रत्यये प्रतिभासते । उपायभेदात्प्रति<पत्ति>भेदो नार्थभेदात् । यथैक एव देवदत्तो द्वाराद्दृश्यते जालेन चेति चेत् । अयुक्तमेतत् । उपायभेदेऽपि तद्रूपस्यैव ग्रहणात्कथं प्रतिपत्तिभेदः । न च वस्तूनां द्वे रूपे स्पष्टास्पष्टलक्षणे विरोधादेतन्निबन्धनत्वाच्च भेदस्य । अत एव दृष्टान्तोऽप्यसिद्धः । तदुक्तम् ।

जातो नामाश्रयो नान्यश्चेतसां तस्य वस्तुनः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि तद् ॥

इति । तदेवमभिलपितुं शक्यमेवार्थं कल्पना (पृष्ठ २७९) शब्देन संयोज्य गृह्णीयात् । अभिलाप्यं च वस्तु साक्षात्क्रियमाणं शब्देनायोजितमेव साक्षात्कर्तव्यमिति । सिद्धमेतत्कल्पनाया नास्ति वस्तुसाक्षात्करणमिति ।

८.भ्रान्तमपि ज्ञानं तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रममर्थरूपविसंवादकम् । तत्कथमन्यथा स्थितमर्थं साक्षात्कुर्यात् । स्वरूपप्रतिभासस्य साक्षात्करणशब्दवाच्यत्वात् । तस्मान्नास्ति वस्तुसाक्षात्करणं विभ्रमस्यापीति सिद्धम् । अतश्च विज्ञानं विषयसाक्षात्कारि नियमेन कल्पनाविभ्रमाभ्यां विपरीतं भवत्कल्पनापोढमभ्रान्तं चावतिष्ठते । तत्र कल्पनापोढपदेनानुमानस्य निरोधः । अभ्रान्तपदेन द्विचन्द्रज्ञानादेः । अन्यार्थं कृतमन्यार्थं भवतीति न्यायात्परविप्रतिपत्तिरपि निराकृता द्रष्टव्या । तथा हि वैयाकरणैरुक्तम् ।

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन जायत ॥

इति । सर्वप्रत्ययानां शब्दानुगतरूपत्वे सति कस्यचिदपि ज्ञानस्यार्थसाक्षात्करणयोगात् । अनुभवसिद्धं च कल्पनापोढं प्रत्यक्षं कथमङ्कयते । अश्वविकल्पनकाले गोरनुभवात् । तदेवाविकल्पकं प्रत्यक्षम् । न चाश्वविकल्प एव गां प्रतिपद्यते । स्वनामोपसंहितस्य तस्य तेन ग्रहणात् । न च विकल्पान्तरं दृष्यं संवेद्यते । एतेनाश्वादिविकल्पकाले गवादिविकल्पोऽपि व्याख्यातः । तथा मीमांसकैरपि ।

(पृष्ठ २८०)
अस्ति ह्यालोचनाज्ञनं प्रथमंनिर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥
ततः परं पुनर्वस्तुधर्मैर्जात्यादिभिर्यया ।
बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन संमता ॥ इत्य्

अनेन विकल्पस्यापि प्रत्यक्षत्वमिष्टम् । नैयायिकादिभिरपि व्यवसायात्मकमित्यादिना निश्चयस्यैव प्रत्यक्षत्वमुक्तमेतदपि कल्पनापोढमित्यनेनैव निरस्तम् । यदि कल्पनात्मकं प्रत्यक्षं स्यादर्थसाक्षात्करितैव हीयेत इति॥

९. अभ्रान्तग्रहणेनापि शुक्लशङ्खादौ पीतशङ्खादिविज्ञानं निरस्यते । सत्यपि भ्रमेऽर्थक्रियाविसंवादाभावात् । नापि तदनुमानं युज्यते लिङ्गजत्वात् । अतः प्रत्यक्षमिति । कथं पुनरेतदभ्रान्तग्रहणेनाविसंवादार्थेन निरस्यते । उच्यते । अध्यवसितार्थाकारप्रतिरूपार्थक्रियाप्राप्तेरसंभवात् । यदि ह्यविसंवादितामात्रेण प्रमाणं स्यात्केशोण्डुकादिज्ञानेऽपि आलोकादेः संवादसंभवात्तदपि प्रमाणं स्यात् ॥

१०. तत्प्रत्यक्षं चतुर्विधम् । इन्द्रियज्ञानं मानसं स्वसंवेदनं योगिज्ञानं चेति ॥

११. इन्द्रियाणां चक्षुःश्रोतघ्राणजिह्वाकायानामाश्रितं ज्ञानमिन्द्रियज्ञानम् । स्वविषयक्षणोपादेयसजातीयक्षणसहितेनेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोमात्राश्रयत्वान्मानसम् । सर्वचित्तचैत्तानामात्मा संवेद्यते येन रूपेण तपृष्ठ वसंवेदनम् । योगः शमथः प्रज्ञा येषामस्ति ते योगिनः । तेषां यज्ज्ञानं प्रमाणोपपन्नार्थ<भावना>पृष्ठरकर्षपर्यन्तजं तद्योगिज्ञानम् । (पृष्ठ २८१) प्रकारचतुष्टयाख्यानेन यैरिन्द्रियमेव द्रष्टृ कल्पितं मानसे च प्रत्यक्षे दोष उद्भावितः स्वसंवेदनं नाभ्युपगतं योगिज्ञानं च योगिन एव न सन्ति कुतस्तेषां ज्ञानमिति ते सर्वे निरस्ता भवन्ति ॥

१२. तथा हि वैभाषिकैस्तावज्ज्ञानस्याप्रतिघत्वाद्यदि तद्द्रष्टृ स्याद्तदा व्यवहितमपि गृह्णीयादितीन्द्रियं द्रष्टृ कल्पितम् । न चैतद्युक्तम् । यदि हि ज्ञानं गत्वार्थं गृह्णाति तदा गमनविबन्धकाभावाद्व्यवहितमपि गृह्णीयादिति युज्यते वक्तुम् । किं तु । यदाकारं तज्ज्ञानमुत्पद्यते तत्तेन गृहीतमित्युच्यते न चायोग्यदेशस्थोऽर्थस्तत्सरूपकः । तत्कथं तस्य तेन ग्रहणं स्यात् । किं च । यदीन्द्रियं द्रष्टृ स्यात्तदा काचादिव्यवहितस्यार्थस्य ग्रहणं न स्यात् । सप्रतिघा दश रूपिण इति सिद्धान्तात् । कथमागमे उक्तम् । चक्षुषा गृह्यते रूपमिति । औपचारिकोऽसौ निर्देशः ॥

१३. यदपि कुमारिलादिभिरुक्तम् । यदीन्द्रियज्ञानगृहीतमर्थं गृह्णाति मानसम् । तदा गृहीतग्राहित्वादस्याप्रामाण्यम् । अथेन्द्रियज्ञानागृहीतमर्थं गृह्णाति । तदा चान्धबधिराद्यभावदोषप्रसङ्ग इति । तदपि स्वविषयक्षणोपादेयसजातीयक्षणसहितेनेन्द्रियज्ञानेन यज्जनितमित्यनेनैव निरस्तम् । तथा हीन्द्रियज्ञानविषयोपादेयभूतक्षणग्राहि मानसम् । न च इन्द्रियज्ञानमन्धादीनामस्ति । तत्कुतोऽन्धबधिराद्यह्हावदोषः । नापि (पृष्ठ २८२) गृहीतग्राहिता । इन्द्रियज्ञानविषयोपादेयभूतक्षणस्यानेन ग्रहणात् । एतच्च मानसं प्रत्यक्षमुपरतव्यापारे चक्षुरादौ प्रत्यक्षमिष्यते । व्याप्रियमाणे पुनरेतस्मिन् यत्प्रत्यक्षं तच्चेदनिन्द्रियजं किमन्यदिन्द्रियजं भविष्यति । न च निमीलिताक्षस्य रूपदर्शनाभावादनुभवविरुद्धत्वमाशङ्कनीयम् । क्षणमात्रभावित्वेन दुरवधारत्वात् ॥

१४. किमर्थं तर्ह्येतदुपन्यस्तमिति चेत् । उच्यते । यत्तत्सिद्धान्ते मानसमुक्तं तद्यद्येवंलक्षणं स्याद्तदा न कश्चित्परोक्तो दोष इत्यादर्शयितुम् । यदपि स्वसंवेदनं नाभ्युपग<म्य>ते परैस्चित्तचैत्तानां तदपि अयुक्तम् । न तावच्चित्तचैत्तानां प्रकाशो नास्त्येव । प्रकाशस्य सर्वप्राणिनामनुभवसिद्धत्वात् । न चैषां परेण प्रकाशो युक्तः । तद्धि परं समानकालभावि तावत्प्रकाशकमनुपपन्नमुपकाराभावात् । भिन्नकालभाव्यपि न प्रकाशकं प्रकाश्याभावात् । तस्माद्यथा प्रदीपः प्रकाशकस्वभावत्वादात्मानं प्रकाशयति तथा ज्ञानमपीति । ननु प्रदीपोऽपि चक्षुषा प्रकाश्यत इति चेत् । न सजातीयप्रकाशनिरपेक्षत्वेन दृष्टान्तीकृतत्वात् ॥

१५. किं च । यदि ज्ञानमात्मानं न संवेदयते । तदा स्वतोऽप्रत्यक्षत्वेऽर्थानुद्भवोऽप्यप्रत्यक्षतया न स्यात् । अत्र प्रयोगः । यदव्यक्तव्यक्तिकं न तद्व्यक्तम् । यथा किंचित्कदाचित्कथंचिदव्यक्तव्यक्तिकम् । अव्यक्तव्यक्तिकश्च ज्ञानपरोक्षत्वे घटादिरर्थ इति व्यापकानुपलब्धिप्रसङ्गः । इह व्यक्तत्वं निषेध्यम् । तस्य व्यापकं व्यक्तव्यक्ति<क>त्वम् । तस्य चेहानुपलब्धिरिति । ज्ञानस्य ज्ञानान्तरेण व्यक्तेर्हेतुरयमसिद्ध इति चेत् । (पृष्ठ २८३) न । घटादिज्ञानोदयकाले सिद्धत्वात् । न च भवतामपि सर्वं विज्ञानमेकार्थसमवायिना ज्ञानेन ज्ञायते । बुभुत्साभावे तदभावात् । यथोपेक्षणीयविषया संवित् । तत उपेक्षणीयमेव तावदव्यक्तव्यक्तिकत्वादव्यक्तं प्रसज्यते ।

१६. किं च । ज्ञानं ज्ञानस्यापि कथं व्यक्तिरिति वक्तव्यम् । अन्यज्ञानेन तस्य सिद्धत्वादुच्यमानायां तत्राप्येवमित्यनवस्था स्यात् । न चेयं संदिग्धविपक्षव्यावृत्त्यानैकान्तिकी । तथाहि यद्यव्यक्तव्यक्तिकमपि व्यक्तव्यवहारविषयः स्यात्तदा पुरुषान्तरवर्तिज्ञान<म>व्यक्तमपि स्वज्ञान्<ओदयकालवत्> तथैव व्यक्तं व्यवह्रियेतेति । तदयं व्यक्तव्यवहारो व्यक्तव्यक्तिकत्वेन व्यापी । सिद्धे च व्याप्यव्यापकभावे व्यापकानुपलब्धिरैकान्तिकीति । नापि स्वात्मनि क्रियाविरोधः । यदा जडपदार्थवैलक्षण्येनोत्पत्तिरेव स्वसंवित्तिः । तदुक्तमाचार्यशान्तिरक्षितपादैः ॥

विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते ।
इयमेवात्मसंवित्तिरस्य याजडरूपता ॥
स्वसंविच्छब्दार्थोऽपि तैरेव दर्शितः ।
स्वरूपवेदनायान्यद्वेदकं न व्यपेक्षते ।
न चाविदितमस्तीति सोऽर्थोऽयं स्वसंविद ॥ इति

१७. यदप्युक्तं योगिन एव न सन्ति कुतस्तेषां ज्ञानमिति । तदसारम् । भावना हि भूतार्थविषया तदितरा वा प्रकर्षपर्यन्तवर्तिनी स्फुटतरग्राह्याकारं विज्ञानं जनयति । तथा हि शोकाद्युपप्लुतचित्तवृत्तयः पुत्रादिभावनासमाप्तौ परिस्फुटसमावर्तितत्प्रतिभासवन्तो भवन्ति । तत्र यत्(पृष्ठ २८४) प्रमाणोपपन्नार्थभावनाप्रकर्षपर्यन्ताज्जातं करतलामलकवद्भाव्यमानार्थस्पष्टतराकारग्राहि तद्योगिप्रत्यक्षमिति । यदाह ।

भावनाबलतः स्पष्टं भयादाविव शंसते ।
यज्ज्ञानमविसम्वादि तत्प्रत्यक्षमकल्पकमिति ॥

१८. तस्य विषयः स्वलक्षणम् । तस्य चतुर्विधस्यानन्यसाधारणेन रूपेण यलिअक्ष्यते तद्विषयः । अनेन सामान्यविषयत्वारोपः प्रत्यक्षे प्रत्युक्तः । यस्यार्थस्य संनिधाना<संनिधाना>भ्यां ज्ञानप्रतिभासभेदस्तपृष्ठ वलक्षणम् । यस्य ज्ञानविषयस्य संनिधानं योग्यदेशावस्थानम् । असंनिधानं योग्यदेशेऽभावः सर्वथा । ताभ्यां यो ज्ञानप्रतिभासं ग्राह्याकारं भिनत्त्युत्पादानुत्पादात्तपृष्ठ वलक्षणम् ॥ अन्यत्सामान्यलक्षणं सोऽनुमानस्य विषयः । एतस्मापृष्ठ वलक्षणाद्यदन्यत्साधारणं लक्षणं सोऽनुमानस्य विषयः ।

१९. तदेव प्रत्यक्षं ज्ञानं प्रमाणफलम् । अर्थप्रतीतिरूपत्वात्यदेवानन्तरमुक्तं प्रत्यक्षंज्ञानंतदेव प्रमाणस्य फलम् । अर्थस्य प्रतीतिरवगमः । तद्रूपत्वात् । यदि तदेव ज्ञानं प्रमाणफलं नेष्यते तदा भिन्नविषयत्वं स्यात्प्रमाणफलयोः । न चैतद्युक्तम् । न हि परश्वादिके खदिरप्राप्ते पलाशे च्छिदा भवति ॥

२०. अर्थसारूप्यमस्य प्रमाणम् । तद्वशादर्थप्रतीतिसिद्धेः । इह यस्माद्विषयाद्विज्ञानमुदेति तत्सरूपं तद्भवति । अतत्सरूपेण ज्ञानेनार्थवेदनायोगात् । तथा हि विज्ञानं बोधमात्रस्वभावम् (पृष्ठ २८५) उत्पद्यते । तदा नीलस्येदं वेदनं पीतस्येति प्रतिकर्मव्यवस्था न स्यात् । यादृशं हि तन्निले पीतेऽपि तादृशं चेति । अर्थसारूप्ये तु सति यस्यैवाकारमनुकरोति ज्ञानं तत्संवेदनं भवति नान्यस्य । तच्चास्य सारूप्यं नियतार्थप्रतीतिव्यवस्थायां साधकतमत्वात्प्रमाणम् । न चैतत्मन्तव्यम् । कथं साध्यसाधनयोरभेद इति । जन्यजनकभावेनात्र साध्यसाधनभावाभावात् । व्यवस्थाप्यव्यवस्थापकभावेन चैकस्यापि घटते । नापि लोकबाधा । लोको पि कदाचिदेकधनुरादिकं कर्तृत्वादिना वदत्येव । तथाहि वक्तारो भवन्ति । धनुर्विध्यति । धनुषा विध्यति । धनुषो निसृत्य सरो विध्यतीति । एतेन पूर्वं पूर्वं ज्ञानं प्रमाणमुत्तरमुत्तरं फलमिति प्रमाणफलभ्रान्तिरपास्ता ॥ ॥

तर्कसोपाने प्रत्यक्षपरिच्छेदः प्रथमः ॥ ॥


१. अनुमानं द्विधा स्वार्थं परार्थं च । स्वस्मायिदं स्वार्थम् । येन स्वयं प्रतिपद्यते । परस्मायिदं परार्थम् । येन परं प्रतिपादयति ।

२. तत्र त्रिरूपलिङ्गाद्यदनुमेये ज्ञानं रूपत्रययुक्ताल्लिङ्गाद्यदनुमेयालम्बनं ज्ञानमुत्पद्यते तपृष्ठ वार्थमनुमानम् । त्रिरूपग्रहणमेकैकद्विद्विरूपव्यवच्छेदार्थम् । तत्रैकैकरूपो हेतुर्न भवति । यथा नित्यः शब्दः कृतकत्वात् । मूर्तत्वात् । अप्रमेयत्वादिति । यथाक्रममनुमेये सत्त्वसपक्षसत्त्वविपक्ष<व्या>वृत्ति (पृष्ठ २८६) मात्रमस्ति तथा हि द्विद्विरूपो यथानित्यो ध्वनिः । अमूर्तत्वात् । श्रावणत्वात् । चाक्षुषत्वादिति । यथाक्रममनुमेये सत्त्वसपक्षसत्त्वासपक्षासत्त्वमात्रस्याभावात् । तदुक्तमाचार्यपादैः ।

एकैकद्विद्विरूपाद्वा लिङ्गान्नार्थः कृतोऽर्थतः ॥
कृतकत्वाद्ध्वनिर्नित्यो मूर्तत्वादप्रमेयतः ।
अमूर्तश्रावणत्वाभ्यामनित्यश्चाक्षुषत्वत ॥ इति ।

३. अनुमेयग्रहणेनापरोक्षविषयस्य निरासः । प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत्] यथा प्रत्यक्षे तस्यैव नीलादिसारूप्यं प्रमाणमुक्तं नीलादिप्रतीतिश्च फलं तथात्रापि वह्न्याद्याकारः प्रमाणं वह्न्यादिविकल्पनरूपता च फलमिति ।

४. लिङ्गस्य त्रीणि रूपाणि । अनुमेये सत्त्वमेव निश्चितम् । अनुमेये वक्ष्यमाणलक्षणे लिङ्गस्य सत्त्वमेव निश्चितमेकरूपम् ] तत्र सत्त्ववचनेनासिद्धो निरस्तः । यथा नित्यः शब्दः । चाक्षुषत्वादिति । एवकारेण पक्षैकदेशासिद्धः <निरस्तो हेतुः> । यथा चेतनास्तरवः स्वापादिति । पक्षीकृतेषु <तरुषु पत्र>संकोचलक्षणः स्वाप एकदेशे न सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः । किं तु केचिदेव । सत्त्ववचनस्य पश्चात्कृतेनैवकारेणासाधारणो धर्मो निरस्तः । अन्यथा ह्यनित्यः स्रावणत्वादित्यस्यैव हेतुत्वं स्यात् । निश्चितग्रहणेन संदिग्धासिद्धादेर्व्यवच्छेदः । यथा बाष्पादिभावेन संदिह्यमानो भूतसंघातोऽग्निसिद्धावुपादीयमानः । सपक्ष एव सत्त्वम् । सपक्षो वक्ष्यमाणलक्षणस्तस्मिनेव सत्त्वं निश्चितं द्वितीयं रूपम् । (पृष्ठ २८७) इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः । यथा नित्यः कृतत्वादिति । यस्मादस्यैव सपक्षे नास्ति । एवकारेण साधारणानैकान्तिकः । यथा नित्यः प्रमेयत्वादिति । स हि न सपक्ष एव वर्तते किंतूभयत्रापि । सत्त्ववचनात्पूर्वावधारणवचनेन सपक्षाव्यापिसत्ताकस्यापि कथितं हेतुत्वम् । यथा नित्यः प्रयत्नानन्तरीयकत्वात् । निश्चितवचनेन चानुवृत्तेन संदिग्धान्वयोऽनैकान्तिको निरस्तः । यथा सर्वज्ञः कश्चिद्वक्तृत्वात् । वक्तृत्वं हि सपक्षे सर्वज्ञे संदिग्धमसपक्षे चासत्त्वमेव निश्चितमित्यत्रापि वर्तते । असपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नसत्त्वमेव निश्चितं तृतीयं रूपम् । तत्रासत्त्वग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि विपक्षेऽस्ति । एवकारेण साधारणस्य विपक्षैकदेशवृत्तेर्निरासः । यथा प्रयत्नानन्त्<अर्>ईयकः शब्दोऽनित्यत्वादिति । प्रयत्नानन्तरियकत्वे हि साध्येऽनित्यत्वं विपक्षैकदेशे विद्युदादावस्ति । आकाशादौ नास्ति । ततोऽवधारणेनास्य निरासः । असत्त्वशब्दात्पूर्वस्मिन्नवधारणेऽयमर्थः स्याद् । विपक्ष एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि नास्ति । ततो न हेतुः स्यात् । ततः पूर्वं न कृतम् । निश्चितग्रहणेन संदिग्धविपक्षव्यावृत्तिको निरस्तः । यथा देवदत्तपुत्रः श्यामस्तत्पुत्रत्वात्परिदृश्यमानपुत्रवदिति ।

(पृष्ठ २८८)
ननु सपक्षे सत्त्वमित्युक्ते सपक्षे सत्त्वमेवेति गम्यते तत्किमर्थमुभयोरुपादानम् । सत्यम् । किंत्वन्वयो व्यतिरेको वा नियमवानेव प्रयोक्तव्यो येनान्वयप्रयोगे चान्वयगतिरिति । तेन न द्वयोरुपादानमेकत्र प्रयोगे कर्तव्यमिति शिक्षणार्थमत्रोभयोरुपादानं कृतम् ।

५. अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी । अत्रेति हेतुलक्षणे निश्चेतव्ये । जिज्ञासितविशेषग्रहणेन चाज्ञातविशेषतामात्रमुपलक्ष्यते अन्यथा हि व्याप्तिस्मरणयुक्तस्याग्न्यादिकं पर्येषमाणस्य धूमादिदर्शनमात्रादेव नगनितं<बा>दौ वह्न्यादिप्रतीतिर्या सा न संगृहिता स्यात् । साध्यधर्मसामान्येन समानोऽर्थः सपक्षः समानः सदृशो <यो>ऽर्थः <पक्षेण> स सपक्ष उक्तः । उपचारात्समानशब्देन विशिष्यते । समानः पक्षः सपक्षः । समानस्य च स शब्दादेशो योगविभागात् । समानः पक्षोऽस्येति तु न कर्तव्यम् । एवं हि पक्षेण सादृश्यं <स>पृष्ठअक्षस्य न प्रतिपादितं स्यात् । पक्षस्यैव च सपक्षसादृश्यं प्रतिपादितं स्यात् । न चैतत् । सपक्षस्याप्रसिद्धत्वात् । इदानीमेव हि तल्लक्षणं क्रियते । समानता च साध्यधर्मसामान्येन ।

७. न सपक्षोऽसपक्षः [ ततोऽन्यस्तद्विरुद्धस्तदभावश्च । त्रिरूपाणि च त्रीण्येव लिङ्गाणि । अनुपलब्धिः स्वभावः कार्यं चेति । तत्र प्रतिषेध्यस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धिरभावव्यवहारसाधनी । उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यम् । (पृष्ठ २८९) स्वभावविशेषश्च । यः स्वभावः सपृष्ठ वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति । उपलब्धिलक्षणप्राप्तोऽर्थः । दृश्य इत्यर्थः । अविद्यमानोऽप्यसावत्र यदि भवेद्दृश्य एव भवेदिति संभवनविषय उपलब्धिलक्षणप्राप्त इत्युच्यते । तस्यानुपलब्धिरभावव्यवहारं साधयति । देशकालस्वभावविप्रकृष्टप्रत्ययान्तरविकलव्यवच्छेदार्थं विशेषणोपादानम् । न चात्र प्रतिषेधमात्रमनुपलब्धिः तस्य स्वयमसिद्धेः सिद्धेश्चानङ्गत्वात् । किं तु वस्त्वन्तरस्योपलब्धिरेव । वस्तुनोऽपि न यस्य कस्यचित् । अपि तु प्रतिषेध्याभावाक्षेपकस्यैव । न त्वेकज्ञानसंसर्गिन एव । यदि ह्येकज्ञानसंसर्गिवस्त्वन्तरोपलम्भोऽनुपलब्धेर्लक्षणं स्यात्तदा इह देवदत्तोपलम्भाद्बहिरभावस्तस्यैव कथं सिध्यति । न हि तत्रैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भोऽस्ति ॥

८. इयं चानुपलब्धिः <कर्म>कर्तृधर्मतया द्विप्रकारा । तत्र यदा कर्मधर्मोऽनुपलब्धिस्तदा घटविविक्तभूतलम् । यदा तु कर्तृधर्मस्तदा तदाश्रितं ज्ञानम् । तत्र यत्तद्घटवैकल्यं तद्भूतलस्य स्वरूपमेवेति तद्ग्राहिना ज्ञानेन गृहीतमेवेति । तस्मादियमनुपलब्धिर्मूढं प्रत्यभावव्यवहारमेव साधयति । अमूढस्य प्रत्यक्ष एव सिद्धत्वात् । कारणानुपलब्ध्यादयस्तु परोक्षे विषये प्रवर्तमाना अभावं साधयन्त्येव । वर्तमानकाला चेयं गमिका अतीतकाला चासति स्मृतिमनस्कारभ्रंशे । ततो नास्तीह घटोऽनुपलभ्यमानत्वात् । नासीदिह घटोऽनुपलब्धादिति (पृष्ठ २९०) शक्यमवसातुम् । न तु <न> भविष्यत्यत्र घटोऽनुपलप्स्यमानत्वादिति । अनागतायाः संदिग्धरुपत्वात् ॥

९. इयं च प्रयोगभेदादनेकप्रकारा । तत्र
१) स्वभावानुपलब्धिः । यथा नास्तीह धूम उपैअब्धिलक्षणप्राप्तस्यानुपलब्धेः । प्रतिषेध्यो हि धूमस्<तस्य> यः स्वभावस्तस्यानुपलब्धिः ।
२) कारणानुपलब्धिः । यथा नात्र धूमो वह्न्यभावात् । प्रतिषेध्यस्य हि धूमस्य कारणं वह्निस्तस्येहानुपलब्धिः ।
३) व्यापकानुपलब्धिर्याथा नात्र शिंशपा वृक्षाभावात् । प्रतिषेध्या हि शिंशपा तस्याश्च व्यापको वृक्षस्तस्यानुपलब्धिः ।
४) कार्यानुपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति धूमाभावदिति । प्रतिषेध्यानां धूमकारणानां कार्यं धूमस्तस्य चेहानुपलब्धिः ।
५) स्वभावविरुद्धोपलब्धिः । यथा नात्र शीतस्पर्शो वह्नेरिति । प्रतिषेध्यस्य शीतस्पर्शस्य यः स्वभावस्तस्य विरुद्धो वह्निस्तस्य चेहोपलब्धिः ।
६) कारणविरुद्धोपलब्धिर्यथा नास्य रोमहर्षादिविशेषाः सन्ति संनिहितदहनविशेषत्वादिति । प्रतिषेध्यानां रोमहर्षादिविषेसाणां कारणं शीतं तस्य विरुद्धो दहनविशेषस्तस्य चेहोपलब्धिः ।
७) व्यापकविरुद्धोपलब्धिर्यथा नात्र तुषारस्पर्शो दहनादिति । निषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं तस्य विरुद्धो दहनस्तस्य चेहोपलब्धिः ।
८) कार्यविरुद्धोपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति वह्नेरिति । प्रतिषेध्यानं (पृष्ठ २९१) शीतकारणानां कार्यं शीतं तस्य विरुद्धो वह्निस्तस्य चेहोपलब्धिः ।
९) स्वभावविरुद्धव्याप्तोपलब्धिर्यथा नात्र वह्निस्तुषारस्पर्शादिति । प्रतिषेध्यस्य वह्नेर्यः स्वभावस्तस्य विरुद्धं शीतं तेन व्याप्तस्तुषारस्पर्शस्तस्य चेहोपलब्धिः ।
१०) कारणविरुद्धव्याप्तोपलब्धिर्यथा नात्र धूमस्तुषारस्पर्शादिति । प्रतिषेध्यस्य हि धूमस्य यत्कारणमग्निस्तस्य विरुद्धं शीतं तेन व्याप्तस्तुषारस्पर्शस्तस्य चेहोपलब्धिः ।
११) व्यापकविरुद्ध्<अव्याप्त्>ओपलब्धिर्यथा नायं नित्यः कदाचित्कार्यकारित्वादिति । प्रतिषेध्यस्य नित्यत्वस्य निरतिशयत्वं व्यापकं तस्य विरुद्धं सातिशयत्वं तेन व्याप्तं कदाचित्कार्यकारित्वं तस्य चेहोपलब्धिः ।
१२) कार्यविरुद्धव्याप्तोपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति तुषारस्पर्शादिति । प्रतिषेध्यानां हि वह्निकारणानां कार्यं वह्निस्तस्य विरुद्धं शीतं तेन व्याप्तस्तुषारस्पर्शस्तस्य चेहोपलब्धिः ।
१३) स्वभावविरुद्धकार्योपलब्धिर्यथा । नात्र शीतस्पर्शो धूमादिति । प्रतिषेध्यस्य हि शीतस्पर्शस्य विरुद्धोऽग्निस्तस्य कार्यं धूमस्तस्य चेहोपलब्धिः ।
१४) कारणविरुद्धकार्योपलब्धिर्यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमादिति । प्रतिषेध्यानां रोमहर्षादिविशेषानां कारणं शीतं तस्य विरुद्धोऽग्निस्तस्य कार्यं धूमस्तस्य चेहोपब्धिः ।
(पृष्ठ २९२)
१५) व्यापकविरुद्धकार्योपलब्धिर्यथा । नात्र तुषारस्पर्शो धुमादिति । प्रतिषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं तस्य विरुद्धोऽग्निस्तस्य कार्यं धूमस्तस्य चेहोपलब्धिः ।
१६) कार्यविरुद्धकार्योपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति । प्रतिषेध्यानां शीतकारणानां कार्यं शीतं तस्य विरुद्धोऽग्निस्तस्य कार्यं धूमस्तस्य चेहोपलब्धिः ॥

१०. इमे सर्वे कारणानुपलब्ध्यादयः पञ्चदशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहमुपयान्ति पारंपर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगह्हेदेऽपि स्वभावानुपलब्धौ संग्रहं तादात्म्येन गच्छन्ति । एतदुक्तं भवति । अनुपलब्धिरूपता तावत्सर्वासामविशिष्टा । तथा स्वभावविरुद्धोपलब्ध्यादावप्यनुपलब्धिरूपता विद्यत एव । सहाभावाक्षेपिका यस्योपलब्धिः सा तस्यानुपलब्धिरित्यनुपलब्धिलक्षणयोगात् । तथा हि येयं वह्नेरुपलब्धिः सा शीताभावमाक्षिपति ।

११. भवत्वनुपलब्धिः सा दृश्यता तु कथम् । उच्यते । दृश्यत्वेऽप्यनुपलब्धिरिति कृत्वा । तथा हि यदि शीतस्पर्शो दृश्यो भवेत्तदा तस्योपलब्धिं निषेध्याभावव्याप्तो वह्निर्विरुणद्ध्येव । एवमभावसाधनी सर्वैवानुपलब्धिर्व्याप्तिसामर्थ्याद्(पृष्ठ २९३) दृश्यस्योपलब्धिं विरुणद्धीति सामर्थ्यापृष्ठ वभावानुपलब्धिर्भवति । न साक्षात् । यस्यां त्वनुपलब्धौ तदैव तमेव प्रतिपत्तारं प्रति दृश्यत्वं प्रतिषेध्यस्य सिद्धं दृश्यानुपलब्धिरेव तस्याः स्वलक्षणमिति साक्षापृष्ठ वभावानुपलब्धिः । यत्पुनरन्यैरुच्यते । यद्यपि संप्रतितनी दृश्यानुपलब्धिर्नास्ति विरोधादिकाले त्वासीद्सैव भावप्रतिपत्तिनिबन्धनमिति । तेन दृष्यानुपलब्धिपूर्वत्वापृष्ठ वभावविरुद्धोपलब्ध्यादीनां दृश्यानुपलब्धावन्तर्भावः । संप्रतितन्यश्च दृश्यानुपलब्धेरभावात्तपृष्ठ वभावानुपलब्धेरन्यासामनुपलब्धीनां भेद इति ।

१२. यदपि कैश्चिपृष्ठ वभावविरुद्धोपलब्ध्यादीनामनुमितानुमानतया दृश्यानुपलब्धिरूपतोच्यते । दूराद्वह्ने रूपविशेषं दृष्ट्वा उष्णस्पर्शविशेषस्तद्देशव्यापकोऽनुमीयते तस्माच्च शीतस्पर्शाभावप्रतीतिः । आहत्य तु दृश्यानुपलब्धेरनुदयाद्दृश्यानुपलब्धेर्भेदेन निर्देशः । अत एव चानुमितानुमानमेतत्केवलमत्यन्ताभ्यासाज्झटिति तथाभूतप्रतीत्युदये सत्येकमनुमानमुच्यते । वस्तुतस्त्वनेकमनुमानमेततेवमन्यत्रापि व्यापकविरुद्धोपलम्भादावूह्यमिति द्वयमप्येतन्न मनसि तोषमादधाति ॥

१३. स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो न हेतुसत्ताव्यतिरिक्तं किंचिद्धेतुमपेक्षते । तस्मिन् साध्ये यो हेतुःस स्वभावः । अनेन च विशेषणे नान्त्यात्कारणात्कार्यं यदुत्पद्यते तस्य संग्रहः (पृष्ठ २९४) कृतः । तदपि हि तस्य स्वभाव एव । तत्सत्तामात्रभावित्वात् । अन्यार्थमपि कृतमन्यार्थं भवतीति न्यायात्परविप्रतिपत्तिरपि <निरा>कृता । परे हि पश्चात्कालभाविनमपि कृतकत्वादिधर्मं स्वभावमिच्छन्तीति । यथा वृक्षोऽयं शिंशपात्वादिति । कार्यं यावद्भिः स्वभावैरविनाभावि कारणे हेतुरिति प्रकृतम् । कारणे साध्ये यावद्भिः स्वभावैरविनाभावि तैरेव हेतुः । यथाऽग्निरत्र धूमात् ॥

१४. एतानि च त्रीणि लिङ्गानि साध्यभेदात् । साध्यापेक्षया हि लिङ्गव्यवस्था । साध्यश्च विधिः प्रतिषेधो वा अन्योन्यलक्षणव्यवच्छेदलक्षणत्वादनयोः । विधिरप्यनर्थान्तरार्थान्तरभेदाद्द्विविधः । तत्रानर्थान्तरे गम्ये स्वभावहेतुः । अर्थान्तरे तु गम्ये कार्यमिति द्वावेतौ विधिसाधनौ । स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थं गमयेत् । स्वभावेन प्रतिबन्धः प्रतिबद्धस्वभावत्वम् । यस्मापृष्ठ वभावप्रतिबन्धे सति साधनार्थः साध्यार्थं गमयेत् । तस्मादनयोरेव विधिसाधनता । ननु स्वभावप्रतिबन्धमन्तरेणापि चन्द्रोदयात्कुमुदविकासप्रतिपत्तिः समुद्रवृद्धिश्च । आतपसद्भावात्परभागे छायाप्रतिपत्तिः । कृत्तिकाद्युदयानन्तरश्च रोहिण्यादीनामुदयः प्रतीयते । तत्कथमुच्यते स्वभावप्रतिबन्धे सत्यर्थोऽर्थं गमयेदिति । तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् । तदिति (पृष्ठ २९५) स्वभाव उक्तः । तेनाप्रतिबद्धस्तदप्रतिबद्धः । यो यत्र स्वभावेन न प्रतिबद्धःस तर्नप्रतिबद्धविषयमवश्यमेव न <न> व्यभिचरतीति नास्ति तयोरव्यभिचारनियमः । यातु चन्द्रोदयादेः समुद्रवृद्ध्यादिप्रतीतिः सानुमानादेव । तथा हि हेतुधर्मस्यैव तादृशोऽत्रानुमितिर्यत्राम्भ्<ओजबोधा>दय एककाला जाताः । एवं सति कार्यादियं कारणसिद्धिः । वायुविशेष एव च यः कृत्तिकाद्युदयकारणंस एव हि संतत्या रोहिण्याद्युदयकारणम् । हेतुधर्मप्रतीतेस्तत्प्रतीतिरिति । एवमत्रापि । यत्राव्यभिचारस्तत्र प्रतिबन्धोऽभ्यूह्यः । स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य । वस्तुतस्तदात्म्यात्तदुत्पत्तेश्च । अतपृष्ठ वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् । ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति । ताभ्यामेव वस्तुसिद्धिः । प्रतिषेधसिद्धिस्तु यथोक्ताया एवानुपलब्धेः । नन्वनुपलब्धौ कः प्रतिबन्धः । प्रतिबद्धश्च हेतुर्गमकः । इदानिमेव हि कथित<म् ।> स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थं गमयेदिति । तत्र स्वभावानुपलब्धौ तादात्म्यं प्रतिबन्धः । तथा हि तत्राभावव्यवहारयोग्यता साध्यते । योग्यता च योग्यस्वभावभूतैवेति । कारणानुपलब्ध्यादौ मौलप्रतिबन्धनिबन्धनो गम्यगमकभावः । विरुद्धोपलब्ध्यादौ तु तत्तद्विविक्तप्रदेशादिकार्यत्वात्तादृशस्य (पृष्ठ २९६) दहनादेस्तदुत्पत्तिनिबन्धन एव इति ॥ ॥

॥ तर्कसोपाने स्वार्थानुमानपरिच्छेदो द्वितियः ॥ ॥


१. त्रिरूपलिङ्गाख्यानं परार्थमनुमानम् । पूर्वमुक्तं यत्त्रिरूपं लिङ्गं तस्य यत्प्रकाशकं वचनं तत्परार्थमनुमानं कारणे कार्योपचारात् । अनुमानकारणे त्रिरूपैइङ्गे कार्यस्यानुमानस्योपचारात्समारोपात् । यथा नड्वलोदकं पादरोग इति । तद्द्विविधं प्रयोगभेदात् । साधर्म्यवत् । वैधर्म्यवच्च ॥

२. समानो धर्मो यस्य स सधर्मा । तस्य भावः साधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणो हेतुकृतं सादृश्यम् । विसदृशो धर्मो यस्य स विधर्मा तस्य भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणो हेतुकृतं वैसादृश्यम् । यस्य साधनवाक्यस्य साधर्म्यमभिधेयं तत्साधर्म्यवत् । यस्य च वैधर्म्यमभिधेयं तद्वैधर्म्यवत् । ननु च साधर्म्यवति साधनवाक्ये व्यतिरेको नास्ति । वैधर्म्यवति चान्वयस्तत्कथं त्रिरूपलिङ्गाख्यानं परार्थमनुमानं स्यात् । नैष दोषः । साधर्म्येणापि हि प्रयोगेऽर्थाद्वैधर्म्यगतिः । असति तस्मिन् साध्येन हेतोरन्वयायोगात् । साधर्म्याभिधेयेन युक्ते प्रयोगे समर्थ्याद्व्यतिरेकस्य प्रतीतिस्तस्मात्त्रिरूपलिङ्गाख्यानम् । तस्मिन् व्यतिरेके बुद्ध्यावसीयमानेऽसति साध्येन हेतोरन्वयस्य बुद्ध्यावसितस्याभावात् ॥

(पृष्ठ २९७)
३. तथा वैधर्म्येणाप्यन्वयगतिः । असति तस्मिन् साध्याभवे हेत्वभावस्यासिद्धेः । तथेति यथान्वयवाक्ये तथार्थादेव वैधर्म्येण प्रयोगेऽन्वयस्यानभिधीयमानस्यापि गतिः । असति तस्मिन्नन्वये बुद्धिगृहीते साध्याभावे हेत्वभावस्यासिद्धेरनवसायात् । तस्मादेकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं ब्ःवतीति नावश्यं वाक्यद्वयप्रयोगः ॥

४. तत्रानुपलब्धेः साधर्म्यवान् प्रयोगः यद्यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते स तत्रासद्व्यवहारविषयः । यथा शशशिरसि शृङ्गम् । नोपलभ्यते च क्वचित्प्रदेशविशेष उपलब्धिलक्षणप्राप्तो घट इति । अत्र दृष्टान्तधर्मिणः शशशिरसः साध्यधर्मिणश्च प्रदेशविशेषस्योपलब्धिलक्षणप्राप्तप्रतिषेध्यानुपलम्भहेतुकृतं सादृश्यमभिधेयम् ॥

५. तथा स्वभावहेतोः प्रयोगः । यत्सत्तत्सर्वमनित्यं यथा घटः संश्च शब्दः । शुद्धस्य स्वभावस्य प्रयोगः । सत्त्वमात्रस्योपध्यनपेक्षत्वात् । यदुत्पत्तिमत्तदनित्यम् । यथा घटः । उत्पत्तिमच्च सुखमित्यव्यतिरिक्तविशेषणस्य । उत्पत्तिर्हि स्वरूपलाभः । सा च भावस्यात्मभूतैव केवलं कल्पनया व्यतिरेकिणीव प्रदर्श्यते । यत्कृतकं तदनित्यं यथा घटः कृतकश्च शब्द इति व्यतिरिक्तविशेषणस्य । अपेक्षितपरव्यापारो हि स्वभावनिष्पत्तौ भावः कृतक इति । एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः । अत्र हि दृष्टान्तधर्मिभिः साध्यधर्मिणां हेतुकृतं सादृश्यमभिधेयम् । सर्व एते साधनधर्मा यथास्वं (पृष्ठ २९८) प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्ध एव साध्यधर्मेऽवगन्तव्याः । वस्तुतस्तस्यैव तपृष्ठ वभावत्वात् । तन्निष्पत्तावनिष्पन्नस्य तपृष्ठ वभावत्वायोगात् । विरुद्धधर्माध्यासस्य भेदैअक्षणत्वात् ॥

६. कार्यहेतोः साधर्म्यवान् प्रयोगः । यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसे । धूमस्चात्र । अत्र दृष्टान्तधर्मिणो महानसस्य साध्यधर्मिणश्च प्रदेशविशेषस्य धूमहेतुकृतं सादृश्यमभिधेयम् । इहापि त्रिभिरनुपलम्भैर्द्वाभ्यां प्रत्यक्षाभ्यां सिद्धे कार्यकारणभवे कारणे साध्ये कार्यहेतुर्वक्तव्यः । अनुपलब्धेर्वैधर्म्यवान् प्रयोगः । यत्सदुपलब्धिलक्षणप्राप्तंतदुपलभ्यत एव । यथा नीलविशेषः । न चैवमिहोपलब्धिलक्षणप्राप्तस्य घटस्योपलब्धिरिति । अत्र हि दृष्टान्तधर्मिणो निलविशेषस्य साध्यधर्मिणश्च प्रदेशस्योपलब्धिलक्षणप्राप्तनिषेध्यानुपलम्भाख्यहेतुकृतं वैसादृश्यमभिधेयम् ।

७. स्वभावहेतोर्वैधर्म्यवन्तः प्रयोगाः असत्यनित्यत्वे नास्ति क्वचित्सत्त्वं यथा गगनमलिने । संश्च शब्दः । असत्यनित्यत्वे न क्वचिदुत्पत्तिमत्त्वं यथाकाशे । उत्पत्तिमच्च सुखम् । असत्यनित्यत्वे न क्वचित्कृतकत्वं यथा कुर्मरोम्नि । कृतकश्च शब्द इति । अत्र दृष्टान्तधर्मिणा साध्यधर्मिणो हेतुकृतं वैसदृश्यमभिधेयम् ॥

८. कार्यहेतोर्वैधर्म्यवान् प्रयोगः । असत्यग्नौ न भवत्येव धूमो यथा महाह्रदे । धूमश्चात्रेति । (पृष्ठ २९९) अत्र दृष्टान्तधर्मिणा साध्यधर्मिणो हेतुकृतं वैसदृश्यमभिधेयम् ॥

९. त्रिरूपलिङ्गाख्यानं परार्थमनुमानमित्यर्थान्न पक्षादिवचनमनुमानमुक्तं भवति । तत्र प्रतिज्ञा तावन्न साक्षात्साधनम् । अर्थादेवार्थगतेः । अर्थ एव ह्यर्थं गमयति प्रतिबन्धान् । नाभिधानं विपर्ययात् । पारंपर्येणापि न भवति । साध्यस्यैवाभिधानात् । साध्यसाधनधर्मविशेषोपदर्शनार्थमनवयवभूतापि प्रतिज्ञा दृष्टान्तवत्प्रयुज्यत इति चेत् । न । एवं ह्यनुज्ञादिवाक्यमपि प्रयोक्तव्यं स्यात् । न हि तैर्विना एव साधनस्य प्रवृत्तिर्संभवति । विषयोपदर्शनमपि निष्फलम् । तेनापि विना साध्यप्रतीतेः । तथा हि यत्कृतकं तत्सर्वमनित्यं कृतकश्च शब्द इत्येतावन्मात्रे प्रयुक्तेऽनित्यः शब्द इति प्रतीतिर्भवत्येवान्तरेण प्रतिज्ञावचनम् । नन्वसति प्रतिज्ञावचने सपक्षादिव्यवस्था कथम् । तथा हि साध्यधर्मसामान्येन समानोऽर्थः सपक्षः । तदभावप्रभावितश्चासपक्ष इति । असति हि प्रतिज्ञानिर्देशे पक्षापेक्षानिबन्धनं त्रैरूप्यं नास्तीति । असदेतत् । तथा हि प्रतिज्ञावचनमन्तरेणापि सर्वं संपद्यत एव । उपनय<न>स्य पुनरर्थः पक्षधर्मवचनेनैव निर्दिष्ट इति न तत्पूर्वके तस्य कश्चिदुपयोगः । व्याप्तिपूर्वके वचने पक्षधर्मवचनादेव तदर्थसिद्धेः किमनेनोपनयेन । निगमनमप्यनिष्टं साधनवाक्याङ्गमिति ॥

(पृष्ठ ३००)
१०. त्रिरूपलिङ्गाख्यानं परार्थमनुमानमित्युक्तम् । त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तौ साधनाभासः । उक्तस्याप्यसिद्धौ संदेहे च प्रतिपा<द्यप्रतिपा>दकयोः । त्रयाणां रूपाणां मध्य एकस्यानुक्तौ । अपिशब्दाद्द्वयोरपि । साधनस्याभासः साधनस्य सदृशमित्यर्थः । उक्तस्यापिशब्दादनुक्तावपि । असिद्धौ संदेहे वा प्रतिपाद्यस्य प्रतिपादकस्य हेत्वाभासः ।

११. तत्रैकस्य रूपस्य धर्मिसंबन्धस्यासिद्धौ संदेहे चासिद्धो हेत्वाभासः । यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वमुभयासिद्धम् । चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धम् । विज्ञानेन्द्रियायुर्निरोधैअक्षणस्य मरणस्यानेनाभ्युपगमात् । अचेतनाः सुखादय इति साध्य उत्पत्तिमत्त्वमनित्यत्वं वा सांख्यस्य स्वयंवादिनोऽसिद्धम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुर्न युगपत्तथा हि परार्थो हेतूपन्यासः । परस्य चासत उत्पाद उत्पत्तिमत्त्वं सतश्च निरन्वयो विनाशोऽनित्यत्वं सिद्धमिति । तथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः । यथा बास्पादिभावेन संदिग्धो भूतसंघातोऽग्निसिद्धौ भूतानां पृथिव्यादीनां संघातः समूहोऽग्निसिद्ध्यर्थमुपादीयमानोऽसिद्धः । यथा चेह निकूञ्जेमयूरः केकायितादिति तदापातदेशविभ्रमे । आपातनमापातस्तस्य केकायितस्यापात उत्पादस्तस्य देशस्तस्य विभ्रमो भ्रान्तिः । अथ वा आपतत्यागच्छत्यस्मादित्यापातः । स एव देशस्तदापातदेशः । तस्य विभ्रमे । यत्पुनरुच्यतेऽन्यैरापात आगमनमिति तदयुक्तम् । (पृष्ठ ३०१) न हि श्रोत्रेन्द्रियस्य प्राप्यकारिता घटते । नापीदं बौद्धदर्शनम् । तथा ह्युक्तमभिधर्मकोशे ।

चक्षुःश्रोत्रमनोऽप्राप्तविषयं त्रयमन्यथेति ।

आश्रयासिद्ध्याप्यसिद्धः । यथा सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्वादाकाशवत् । सर्वत्रोपलभ्यमानगुणाः सुखादयो यस्य तद्भावस्तत्त्वम् । तस्माद्यद्ययमात्मा सर्वगतो न भवेत् । कथं दक्षिणापथ उपलब्धाः सुखादयो मध्यदेश उपलभ्यन्ते । आकाशवदिति दृष्टान्ते आकाशस्य गुणः शब्दः । स च यथा विकारिणि पुरुष उपलभ्यते तथान्यत्रापीति । स्यादेष हेतुर्यदि बौद्धस्य सर्वत्रोपलभ्यमानगुणत्वमात्मनः सिद्धं स्यात् । यावदात्मैव न सिद्धः ॥ तदेवमसिद्धः षट्प्रकारः ॥ ॥ ॥

१२. तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यासिद्धावनैकान्तिको हेत्वाभासः । यथा शब्दस्य नित्यत्वादिके धर्मे साध्ये प्रमेय<त्वा>दिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे च वर्तमानः । नित्यत्वादिक इत्यात्रादिशब्देन प्रयत्नानन्तरीयकत्वाप्रयत्नानन्तरीयकत्वयोर्ग्रहणम् । प्रमेयत्वादिक इत्यत्रादिशब्देनानित्यत्वास्पर्शत्वयोर्ग्रहणम् । किंभूतः प्रमेयत्वादिको धर्मोऽनैकान्तिकः । सपक्षविपक्षयोः सर्वत्रैकदेशे च वर्तमानः । नित्यः शब्दः प्रमेयत्वादित्यत्र नित्यत्वे साध्ये प्रमेयत्वं सपक्षविपक्षयोर्वर्तते । एकदेशे च वर्तमान इत्यत्रापि सपक्षविपक्षयोरिति संबन्धनीयम् । चशब्देनैतत्कथयति । न केवलं सपक्षविपक्षव्यापि (पृष्ठ ३०२) प्रमेयत्वमनैकान्तिको हेत्वाभासः । योऽपि सपक्षव्यापी विपक्षैकदेशवृत्तिः । तथा विपक्षव्यापी सपक्षैकदेशवृत्तीः । यो वा सपक्षविपक्षयोरेकदेशवृत्तिः सर्वोऽसावनैकान्तिको हेत्वाभास इति । तत्र प्रयत्नानन्तरियकः शब्दोऽनित्यत्वाद्घटवदित्ययं विपक्षैकदेशवृत्तिः । विद्युति वर्तमान्<अत्व्>आदाकाशादाववर्तमान्<अत्व्>आत्सपक्षव्यापी तु भवत्येव । सर्वस्य प्रयत्नानन्तरीयकस्यानित्यत्वात् । अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वाद्विद्युदिव । अयं सपक्षैकदेशवृत्तिः । अप्रयत्नानन्तरीयकोऽस्य सपक्षोऽविद्युदाकाशादिः । तत्रानित्यत्वं विद्युति वर्तते नाकाशादौ । विपक्षव्यापीतु भवत्येव । सर्वप्रयत्नानन्तरीयकेऽनित्यत्वस्य गतत्वात् । नित्यः शब्दोऽस्पर्शत्वात्परशुवत् । अस्पर्शत्वं हि विपक्षैकदेशे बुद्ध्यादौ सपक्षैकदेशे चाकाशादौ वर्तत इत्युभयपक्षैकदेशवृत्तिः । एवं चतुर्विधः साधारणानैकान्तिको निर्दिष्टः ॥

१३. तथाऽस्यैव रूपस्य संदेहेऽप्यनैकान्तिक एव । यथा सर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको धर्मः संदिग्धविपक्षव्यावृत्तिकः । सर्वत्रैकदेशे वा सर्वज्ञो वक्ता नोपलभ्यत इति । एवं प्रकारस्यानुपलम्भस्यादृष्यात्मविषयत्वेन संदेहहेतुत्वात् । असर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृत्तिः संदिग्धा ॥

१४. द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः । कयोर्द्वयोः । सपक्षे सत्त्वस्यासपक्षे चासत्त्वस्य यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धहेत्वाभासः ॥ द्वयोरुपादानमसपक्षव्याप्यसपक्षैकदेशवृत्तित्वेन भेदात् । अनयोः (पृष्ठ ३०३) सपक्षेऽसत्त्वमसपक्षे च सत्त्वमिति विपर्ययसिद्धिः । एतौ साध्यविपर्ययसाधनाद्विरुद्धौ ॥ द्वयो रूपयोरेकस्यासिद्धावपरस्य च संदेहेऽनैकान्तिकः । द्वयोरित्यन्वयव्यतिरेकयोः । एकस्यासिद्धाविति । असपक्षेऽसत्त्वस्य । अपरस्य संदेह इति सपक्षे सत्त्वस्य । यथा वीतरागः सर्वज्ञो वा वक्तृत्वादिति । व्यतिरेकोऽत्रासिद्धः संदिग्धोऽन्वयः । सर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र सत्त्वमसत्त्वं वा संदिग्धम् । अनयोरेव द्वयो रूपयोः संदेहेऽनैकान्तिकः । यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति । न हि सात्मकानत्मकाभ्यामन्यो राशिरस्ति यत्र प्रणादिर्व<र्>तते । नाप्यनयोरेकत्र वृत्तिनिश्चयः । अत एवान्वयव्यतिरेकयोः संदेहादनैकान्तिकः । साध्येतरयोरतो निश्चयाभवात् ।

१५. एवमेतेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ संदेहे च यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः । एवमनन्तरोक्तेन क्रमेण त्रयो हेत्वाभसः । असिद्धविरुद्धानैकान्तिकाः । त्रायाणां रूपाणां पक्षधर्मान्वयव्यतिरेकाख्यानां मध्ये । एकैकस्य रूपस्यासिद्धौ संदेहे च । तथा द्वयोर्द्वयोर्वा रूपयोरसिद्धौ संदेहे च यथायोगमिति यथासंभवम् । तत्र धर्मिसंबन्धस्यैकस्य रूपस्यासिद्धावसिद्धः । तथा सपक्षे सत्त्वस्यासिद्धौ संदेहे चानैकान्तिक उक्तः । एवमेकैकस्य रूपस्यासिद्धौ संदेहे चासिद्धोऽनैकान्तिकश्च हेत्वाभास (पृष्ठ ३०४) उक्तः । तथा द्वयोर्द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धो हेत्वाभास उक्तः । असपक्षे सत्त्वस्य च संदेहे वाऽनैकान्तिक उक्तः । तथा सपक्षासपक्षयोरपि हेतोः सदसत्त्वसंदेहेऽनैकान्तिक एव । एवं द्वयोर्द्वयोरसिद्धौ संदेहे च विरुद्धोऽनैकान्तिकश्च हेत्वाभास इति ।

१६. ननु कथमुक्तं त्रयो हेत्वाभासा इति । यावता वैफल्यमपि हेतोः पृथग्दूषणमस्ति । तदुक्तम् ।

साधनं यद्विवादेन न्यस्तं तच्चेन्न साध्यते ।
किं साध्यमन्यथानिष्टं भवेद्वैफल्यमेव वा ॥ इति

अत्र केचिदाहुः सत्यमस्त्येव वैफल्यं हेतोः पृथग्दूषणम् । यत्पुनरसिद्धविरुद्धानैकान्तिककथनं विनिश्चयादौ तदसामर्थ्यप्रभेदेन । द्विविधं हि साधनस्य दूषणं भवति । असामर्थ्यं वैयर्थ्यं च । असामर्थ्यं त्वसिद्धविरुद्धानैकन्तिकभेदात्त्रिविधम् । वैयर्थ्यं त्वेकमेवेति । स्यादेतद्यदि वैयर्थ्यं नाम हेतो<र्> दूषणं स्यात्किं तु प्रमाणस्य । तदुक्तमुद्योतकरेणापि । अधिगतमपि गमयता प्रमाणेन पिष्टं पिष्टं स्यादिति । न्यायपरमेश्वरैरपि कीर्त्तिपादैरुक्तम् ।

निष्पादितक्रिये कश्चिद्विशेषमसमादधत् ।
कर्मण्यैन्द्रियमन्यद्वा साधनं किमितीष्यत इति

ततश्च कथमिदं वैयर्थ्यं हेतोर्दूषणम् । (पृष्ठ ३०५) अथैवमुच्यते प्रमाणाजनकत्वाद्धेतुरपि व्यर्थ उच्यत इति । एवं हि वास्तवमिदं हेतोर्न दूषणं स्यात् । वास्तवं दूषणं वक्तव्यम् । किं च । यदि वैयर्थ्यं हेतोर्दूषनं भिन्नं स्यात् । यथासिद्धताप्रतिपक्षेण हेतो रूपं पक्षधर्मता । विरुद्धताप्रतिपक्षेणान्वयः । अनैकान्तिकताप्रतिपक्षेन च व्यतिरेकश्चोक्तः । तथा वैयर्थ्यप्रतिपक्षेणाप्यन्यद्रूपमुक्तं स्यात् । न चान्यद्रूपं हेतोर्घटते । यदि तर्हीदं वैयर्थ्यं न पृथग्दूषणं कथं तर्ह्यनेन वादी निगृह्यते ॥

१७. अत्र केचिदाहुः । असिद्ध एव वैयर्थ्यं <अन्तर्>भवतीति । तथा हि जिज्ञासितविशेषो धर्मी पक्षः । तद्धर्मश्च हेतुः । ततोऽपक्षधर्मत्वाद्वैयर्थ्यमसिद्ध एवान्तर्याति । अन्ये तु सुधिय एवमाहुः । नेदं हेतोर्दूषणं किं तु परार्थानुमाने वक्तुरपि गुणदोषा<श्चिन्त्यन्ते> इति विफलाभिधायी अप्रतिभयैव निगृह्यत इति । तथा हि प्रकृतमेव साध्यं नाप्रकृतमिति साध्यतायाः प्रकृतेर्नियामक एष पन्था । एवं कृत्वा परिसंख्यानं न विरुध्यते । दोषाः पुनर्न्यूनत्वमसिद्धिर्वादिना साधयितुमिष्टस्यार्थस्य विपर्ययसाधनमष्टादश दृष्टान्तदोषाश्चेति । अत्र च यच्चोद्यं परिहारश्च तद्ग्रन्थविस्तरभयान्न लिखितमिति । स्थितमेतद्(पृष्ठ ३०६) यदि वैयर्थ्यं हेतोर्दूषणं तदासिद्ध एवान्तर्भवति । नो चेदप्रतिभयैवेति ॥

१८. त्रिइअक्षणो हेतुरुक्तस्तावतार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम साधनावयवः कश्चित् । तेन नास्य लक्षणं पृथगुच्यते गतार्थत्वात् । हेतोः सपक्ष एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्ती रूपमुक्तमभेदेन इ पुनरविशेषेण कार्यस्वभावयोर्जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ । रूपशब्दः प्रत्येकमभिसंबध्यते । हेतोः सपक्ष एव सत्त्वमिति साध्येनानुगतमिदमेकं रूपमसपक्षाच्च सर्वतो व्यावृत्तिरिति साध्यनिवृत्त्या निवृत्तिरस्य द्वितीयं रूपमुक्तम् । अभेदेनेति स्वभावादिहेतुमकृत्वा । जन्मतन्मात्रे सत्यनुबद्धौ । साधानं कृतेति समासः । तच्च दर्शयता धूमस्तत्राग्निरिति असत्यग्नौ न क्वचिद्धुमो यथा महानसेतरयोः । यत्र कृतकत्वं तत्रानित्यत्वमनित्यत्वाभावे कृतकत्वासंभवो यथा घटाकाशयोरिति दर्शनीयम् । न ह्यन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् । तत्कार्यतानियमः कार्यलिङ्गस्य च स्वभावव्याप्तिः । तस्याग्न्यादेः कार्यं तत्कार्यं तस्य भावस्तत्कार्यता । न ह्यन्यथा शक्यो दर्शयितुमिति लिङ्गवचनविपरिणामेन सम्बन्धनीयम् ॥

१९. अस्मिंश्चार्थे दर्शिते दर्शित एव दृष्टान्तो भवति । एतावन्मात्रत्वात्तस्येति । एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति । एतेनैवेति हेतुलक्षणाभिधानेनैव दृष्टान्तस्यापि सामर्थ्याद्गतार्थत्वेन दृष्टान्तदोषा (पृष्ठ ३०७) अपि साधनत्वेन प्रत्याख्याता भवन्ति । येन हेतोः सामान्यविशेषलक्षणं यथोक्तं प्रदर्श्यते <स> संयग्दृष्टान्तः । येन पुनस्तस्य लक्षणद्वयं न प्रदर्श्यते सो दृष्टान्ताभास इत्युक्तं भवति । यथा नित्यः शब्दः । अमूर्तत्वात् । कर्मवदिति साध्यधर्मविकलो दृष्टान्ताभासः । अत्र हि कर्मणि नित्यत्वं साध्यधर्मो नास्ति । अनित्यत्वात्कर्मनः । अमूर्तत्वं हि साधनधर्मोऽस्ति । अमूर्तत्वादस्य । नित्यः शब्दः । अमूर्तत्वात्परमाणुवदिति । साधनधर्मविकलः । साध्यधर्मोऽत्र नित्यत्वमस्ति नित्यत्वात्परमाणोः । नित्यः शब्दोऽमूर्तत्वाद्घटवदिति । उभयधर्मविकलोऽनित्यत्वान्मूर्तत्वाद्घटस्य । रागादिमानयं पुरुषो वचनात् । रथ्यापुरुषवत् । संदिग्धसाध्यधर्मोऽयं दृष्टान्ताभासः । रथ्यापुरुषे वचनं प्रत्यक्षेणैव निश्चितमिति साधनधर्मस्तत्र सिद्धः । साध्यधर्मस्तु रागादिमत्वं संदिग्धम् । मरणधर्माऽयं पुरुषः । रागादिमत्वाद्रथ्यापुरुषवत् । रथ्यापुरुषे मरणधर्मत्वं साध्यधर्म उत्पत्तिमत्त्वादिना लिङ्गेन निश्चितं रागादिमत्त्वं त्वनिश्चितमिति संदिग्ध<साधन>धर्मा । असर्वज्ञोऽयं पुरुषो रागादीमत्त्वाद्रथ्यापुरुषवत् । संदिग्धोभयधर्मा । साध्यधर्मसाधनधर्मव्यावृत्तेर्रथ्यापुरुषे निश्चेतुमशक्यत्वादन्वयो । यत्र साध्येन हेतोर्व्याप्तिर्नास्ति सोऽनन्वयः । यो वक्ता स रागादिमानिष्टपुरुषवत् । अत्रान्वयो नास्ति । न हि रागादीनां वचनस्य तादात्म्यलक्षणस्तदुत्पत्तिलक्षनो वा प्रतिबन्धोऽस्ति येनात्रान्वयः (पृष्ठ ३०८) स्यात् । अप्रतिदर्शितान्वयः । यथानित्यः शब्दः कृतकत्वाद्घटवद् । अत्र यद्यपि कृतकत्वस्यानित्यत्वेनान्वयोऽस्ति । न तु वचनेनाख्यात इत्यविद्यमान इवासौ । व्याप्यव्यापकभावस्य वचनेनाप्रदर्शितत्वादिति । विपरीतान्वयः । यथा यदनित्यं तत्कृतकम् । अत्र हि यत्कृतकं तदनित्यमित्यन्वये वक्तव्ये यदनित्यं तत्कृतकमिति विपरीतमन्वयं करोति सर्व एते दृष्टान्तदोषाः साधर्म्येण ॥

२०. तथा वैधर्म्येणापि । यथा नित्यः शब्दः । अमूर्तत्वात् । परमाणुवदिति साध्याव्यतिरेकी । नित्यत्वात्परमाणोः साध्यं न व्यावृत्तम् । अत्रैव कर्मवदिति दृष्टान्ते साधनाव्यतिरेकी । अमूर्तत्वात्कर्मणः । साधनमत्राव्यावृत्तम् । आकाशवदिति कृत उभयाव्यतिरेकी । अतो ह्युभयं न व्यावृत्तम् । नित्यत्वादमूर्तत्वादाकाशस्य । तथा संदिग्धसाध्यव्यतिरेकः । यथाऽसर्वज्ञाः कपिलादयः । अविद्यमानसर्वज्ञतालिङ्गभूतप्रमाणातिशयशासनत्वात् । अत्र वैधर्म्योदाहरणम् । यः सर्वज्ञः स ज्योतिर्ज्ञानादिकमुपदिष्टवान् । यथा वर्धमानादिः । वर्धमानादेरसर्वज्ञतायाः साध्यधर्मस्य संदिग्धो उभयव्यतिरेकः । संदिगह व्यतिरेकः । <संदिग्धसाधन्व्यतिरेकः> यथा न त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वात् । अत्र वैधर्म्योदाहरणम् । ये ग्राह्यवचना न ते रागादिमन्तस्तद्यथा गौतमादयो धर्मशास्त्राणां प्रणेतारः । गौतमादिभ्यो रगादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः संदिग्धा । संदिग्धोभयव्यतिरेकः । यथावीतरागाः कपिलादयः । परिग्रहाग्रहयोगात् । परिग्रहो जीवितपरिष्काराणं स्वीकारः । आग्रहस्तेष्व्(पृष्ठ ३०९) एवाभिष्वङ्गः । अत्र वैधर्म्यादुदाहरणम् । यो वीतरागो न तस्य परिग्रहाग्रहौ । यथा ऋषभादेः । ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोः साध्यसाधनधर्मयोर्व्यतिरेकः संदिग्धः । अव्यतिरेको यथावीतरागो वक्तृत्वात् । यत्र वीतरागत्वं नास्ति न स वक्ता यथोपलखण्ड इति । यद्यपि उपलखण्डादुभयं व्यावृत्तम् । तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकः । अप्रदर्शितव्यतिरेकः । यथानित्यः शब्दः कृतकत्वादाकाशवदिति वैधर्म्येण । यो ह्यनित्यः शब्दः कृतकत्वादिति प्रयोगे वैधर्म्येणाकाशवदिति ब्रूयात्तेन विद्यमानोऽपि व्यतिरेको न प्रदर्शितः तथा । यदाशेषपदार्थोपसंहारेणानित्यत्वाभावे कृतकत्वाभावो यथाकाशवदिति करोति तदा व्यतिरेको दर्शितो भवति । न पुनरुपमानमात्रेण । विपरीतव्यतिरेकः । यथा यदकृतकं तन्नित्यम् । अत्र हि यन्नित्यं तदकृतकमिति वक्तव्ये । यदकृतकं तन्नित्यमिति वदति ॥

२१. न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वमसपक्षे चासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । एभिः साध्यविकलैर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं निश्चयेन <न> शक्यं दर्शयितुं विशेषलक्षणं वेति संबन्धनीयं तदर्थापत्त्यैषा<ं> निरासो वेदितव्यः । यस्मादेभिर्दृष्टान्ताभासैर्द्विविधमपि लक्षणं न शक्यं दर्शयितुम् । तस्मादर्थापत्त्यैषां निरासो द्रष्टव्यः ॥

२२. दूषणा न्यूनताद्युक्तिः । दूष्यतेऽनयेति दूषणा । (पृष्ठ ३१०) ण्यासश्रन्थो युच् । आदिशब्देनासिद्धविरुद्धानैकान्तिकाः । दृष्टान्तदोषाश्च गृह्यन्ते ये पूर्वं न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं तेन परेष्टार्थसिद्धिप्रतिबन्धात् । अनेन च यदह्रीकेणोक्तं विपर्ययसाधनमेव दूषणं नान्यदिति तदपि परास्तं द्रष्टव्यम् । न हि विपर्ययसाधनादेव दूषणम् । विरुद्धवत् । अपि तु परस्याभिप्रेतनिश्चयप्रतिबन्धात् । निश्चयाभावो वा भवति निश्चयविपर्यय इत्यस्त्येव विपर्ययसिद्धिः । दूषणाभासास्तु जातयः । अभूतदोषोद्भावनानि जात्युत्तराणि । जात्या सदृश्येनोत्तराणि । उत्तरस्थानप्रयुक्तत्वाद् ॥

इति तर्कसोपाने परार्थानुमानपरिच्छेदस्तृतीयः ।

यत्तर्कसोपानमिदं विधाय पुण्यं मयाप्तं शरदिन्दुशुभ्रम् ।
तेनोत्तमां बोधिमहं लभेय लोकश्च निर्यातु भवादशेषः ॥

कृतिरियं पण्डितविद्याकरशान्तिपादानाम् ॥ ॥

"https://sa.wikisource.org/w/index.php?title=तर्कसोपानम्&oldid=395597" इत्यस्माद् प्रतिप्राप्तम्