तां विद्यामिह लभेमहि।

. . . तां विद्यामिह लभेमहि।

या दर्शयेद् ज्ञानसूर्यम्,अज्ञानतिमिरापहा। या दद्यात् शाश्वतं सौख्यं, तां विद्यामिह लभेमहि॥१॥

दैन्यं दु:खं लोपयेद् या, पापं तापं च वारयेत्। चित्तं शान्तं च या कुर्यात् ,तां विद्यामिह लभेमहि॥२॥

मोक्षकारणभूता या, नानात्वे चैक्यदर्शिनी। अन्त: प्रसन्नतां दद्यात्, तां विद्यामिह लभेमहि॥३॥

अहंभावं लोपयेद् या,हितं विश्वस्य साधयेत्। अनाथाय करं दद्यात्, तां विद्यामिह लभेमहि॥४॥

धर्मादिपुरुषार्थानां यत्र सार्थकता भवेत्। सार्था साक्षरता यत्र, तां विद्यामिह लभेमहि॥५॥

आनन्दजा, तथा विश्वं यानन्देन प्रपूरयेत्। आनन्दे या भवेल्लीना तां विद्यामिह लभेमहि॥६॥

वर्ग:स्वरूपानन्दस्वामिकृतय: