प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तारसारोपनिषत्


तारसारोपनिषत्


यन्नारायणतारार्थसत्यज्ञानसुखाकृति ।
त्रिपान्नारायणाकरं तद्ब्रह्मैवास्मि केवलम् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्शेत्रं देवानां
देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र
क्वचन गcघ्च्हेत्तदेव मन्येतेति । इदं वै कुरुक्शेत्रं देवानां
देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः
प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे
येनासावमृतीभूत्वा मोक्शी भवति । तस्मादविमुक्तमेव निषेवेत ।
अविमुक्तं न विमुञ्चेत् । एवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥ १॥

अथ हैनं भारद्वाजः पप्रच्च्ह याज्ञवल्क्यं किं तारकम् ।
किं तारयतीति । स होवाच याज्ञवल्क्यः । ॐ नमो नारायणायेति
तारकं चिदात्मकमित्युपासितव्यम् । ओमित्येकाक्शरमात्मस्वरूपम् ।
नम इति द्व्यक्शरं प्रकृतिस्वरूपम् । नारायणायेति पञ्चाक्शरं
परंब्रह्मस्वरूपम् । इति य एवं वेद । सोऽमृतो भवति । ओमिति ब्रह्मा
भवति । नकारो विष्णुर्भवति । मकारो रुद्रो भवति । नकार ईश्वरो भवति ।
रकारोऽण्डं विराड् भवति । यकारः पुरुषो भवति । णकारो भगवान्भवति ।
यकारः परमात्मा भवति । एतद्वै नारायणस्याष्टाक्शरं वेद
परमपुरुषो भवति ।
अयमृग्वेदः प्रथमः पादः ॥ १॥

ॐइत्येतदक्शरं परं ब्रह्म । तदेवोपासितव्यम् । एतदेव
सूक्श्माष्टाक्शरं भवति । तदेतदष्टात्मकोऽष्टधा
भवति । अकारः प्रथमाक्शरो भवति । उकारो द्वितीयाक्शरो भवति ।
मकारस्तृतीयाक्शरो भवति । बिन्दुस्तुरीयाक्शरो भवति । नादः
पञ्चमाक्शरो भवति । कला षष्ठाक्शरो भवति । कलातीता
सप्तमाक्शरो भवति । तत्परश्चाष्टमाक्शरो भवति ।
तारकत्त्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि ।
तदेवोपासितव्यम् ॥ अत्रैते श्लोका भवन्ति ॥
अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः ।
उकाराक्शरसंभूत उपेन्द्रो हरिनायकः ॥ १॥

मकाराक्शरसंभूतः शिवस्तु हनुमान्स्मृतः ।
बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् ॥ २॥

नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः ।
कलायाः पुरुषः साक्शाल्लक्श्मणो धरणीधरः ॥ ३॥

कलातीता भगवती स्वयं सीतेति संज्ञिता ।
तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः ॥ ४॥

ओमित्येतदक्शरमिदं सर्वम् । तस्योपव्याख्यानं भूतं
भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताच्हन्दो
ऋक्कलाशक्तिसृष्ट्यात्मकमिति । य एवं वेद ।
यजुर्वेदो द्वितीयः पादः ॥ २॥

अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः
परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि
भगव इति । स होवाच याज्ञवल्क्यः ।
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो
जाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्य
उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ २॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यः
शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै नमोनमः ॥ ३॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः
शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो
भरतो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ५॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपो
लक्श्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता
भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ७॥

यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् ।
उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः

शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो
भरतः ५ कलास्वरूपो लक्श्मणः ६ कलातीता भगवती सीता

चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः
परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य
परमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि
भूर्भुवः सुवस्तस्मै नमोनमः ॥ ८॥

एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति । स वायुपूतो
भवति । स आदित्यपूतो भवति । स स्थाणुपूतो भवति । स सर्वैर्देवैर्ज्ञातो
भवति । तेनेतिहासपुराणानं रुद्राणां शतसहस्राणि जप्तानि फलानि
भवन्ति । श्रीमन्नारायणाष्टाक्शरानुस्मरणेन गायत्र्याः
शतसहस्रं जप्तं भवति । प्रणवानामयुतं जप्तं भवति ।
दशपूर्वान्दशोत्तरान्पुनाति । नारायणपदमवाप्नोति य एवं वेद ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्शुराततम् ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥
इत्युपनिषत् ॥
सामवेदस्तृतीयः पादः ॥ ३॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति तारसारोपनिषत्समाप्ता ॥

अधिकाध्ययनायसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=तारसारोपनिषत्&oldid=100770" इत्यस्माद् पुनः प्राप्तिः