तेजोबिन्दूपनिषद्
- ॥ तेजोबिन्दूपनिषत् ॥
- यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा ।
- तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम्॥
- ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
- ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
प्रथमॊऽध्यायः
सम्पाद्यताम्- ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् ।
- आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् ॥ १ ॥
- दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् ।
- दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥ २ ॥
- यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः ।
- निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ॥ ३ ॥
- अगम्यागमकर्ता यो गम्याऽगमयमानसः ।
- मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते ॥ ४ ॥
- परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः ।
- सोमरूपकला सूक्ष्मा विष्णोस्तत्परमं पदम् ॥ ५ ॥
- त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् ।
- निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥ ६ ॥
- उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् ।
- स्वभावं भावसंग्राह्यमसङ्घातं पदाच्च्युतम् ॥ ७ ॥
- अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तिमव्ययम् ।
- चिन्त्यमेवं विनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् ॥ ८ ॥
- तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् ।
- अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् ॥ ९ ॥
- अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् ।
- न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥ १० ॥
- सर्वं च न परं शून्यं न परं नापरात्परम् ।
- अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः ॥ ११ ॥
- मुनीनां संप्रयुक्तं च न देवा न परं विदुः ।
- लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् ॥ १२ ॥
- शीतोष्णे क्षुत्पिपासे च सङ्कल्पकविकल्पकम् ।
- न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसञ्चयम् ॥ १३ ॥
- न भयं न सुखं दुःखं तथा मानावमानयोः ।
- एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् ॥ १४ ॥
- यमो हि नियमस्त्यागो मौनं देशश्च कालतः ।
- आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥ १५ ॥
- प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।
- आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १६ ॥
- सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः ।
- यमोऽऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १७ ॥
- सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।
- नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १८ ॥
- त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः ॥ १९ ॥
- यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह ।
- यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥ २० ॥
- वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते ।
- प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ २१ ॥
- इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् ।
- गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २२ ॥
- आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते ।
- येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ २३ ॥
- कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः ।
- कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् ॥ २४ ॥
- सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।
- आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥ २५ ॥
- सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् ।
- यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ २६ ॥
- यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् ।
- मूलबन्धः सदा सेव्यो योग्योऽसौ ब्रह्मवादिनाम् ॥ २७ ॥
- अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते ।
- नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ २८ ॥
- दृष्टीं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् ।
- सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ २९ ॥
- द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् ।
- दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ३० ॥
- चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ।
- निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ३१ ॥
- निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः ।
- ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥ ३२ ॥
- ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ।
- अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ ३३ ॥
- विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् ।
- प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः ॥ ३४ ॥
- यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।
- मनसा धारणं चैव धारणा सा परा मता ॥ ३५ ॥
- ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ।
- ध्यानशब्देन विख्यातः परमानन्ददायकः ॥ ३६ ॥
- निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
- वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥ ३७ ॥
- इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।
- लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं सम्भवेत्स्वयम् ॥ ३८ ॥
- ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।
- तत्स्वं रूपं भवेत्तस्य विषयो मनसो गिराम् ॥ ३९ ॥
- समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् ।
- अनुसन्धानराहित्यमालस्यं भोगलालसम् ॥ ४० ॥
- लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता ।
- एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः ॥ ४१ ॥
- भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता ।
- ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥ ४२ ॥
- ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् ।
- वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ ४३ ॥
- ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये ।
- ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ ४४ ॥
- येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः ।
- ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ ४५ ॥
- कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः ।
- तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥ ४६ ॥
- निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।
- यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ ४७ ॥
- कारणं यस्य वै कार्यं कारणं तस्य जायते ।
- कारणं तत्त्वतो नश्येत्कार्याभावे विचारतः ॥ ४८ ॥
- अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् ।
- उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ ४९ ॥
- भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् ।
- दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥ ५० ॥
- विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥
॥ द्वितीयॊऽध्यायः ॥
सम्पाद्यताम्- अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरसचिन्मात्रस्वरूपमनुब्रूहीति । स होवाच परमः शिवः ।
- अखण्डैकरसं दृश्यमखण्डैकरसं जगत् ।
- अखण्डैकरसं भावमखण्डैकरसं स्वयम् ॥ १ ॥
- अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया ।
- अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥ २ ॥
- अखण्डैकरसा भूमिरखण्डैकरसं वियत् ।
- अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी ॥ ३ ॥
- अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् ।
- अखण्डैकरसो जीव अखण्डैकरसो ह्यजः ॥ ४ ॥
- अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः ।
- अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् ॥ ५ ॥
- अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः ।
- अखण्डैकरसं लक्ष्यमखण्डैकरसं महः ॥ ६ ॥
- अखण्डैकरसो देह अखण्डैकरसं मनः ।
- अखण्डैकरसं चित्तमखण्डैकरसं सुखम् ॥ ७ ॥
- अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ।
- अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥ ८ ॥
- अखण्डैकरसं किञ्चिदखण्डैकरसं परम् ।
- अखण्डैकरसादन्यन्नास्ति नास्ति षडानन ॥ ९ ॥
- अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि ।
- अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् ॥ १० ॥
- अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् ।
- अखण्डैकरसं वेद्यमखण्डैकरसो भवान् ॥ ११ ॥
- अखण्डैकरसं गुह्यमखण्डैकरसादिकम् ।
- अखण्डैकरसो ज्ञाता ह्यखण्डैकरसा स्थितिः ॥ १२ ॥
- अखण्डैकरसा माता अखण्डैकररसः पिता ।
- अखण्डैकरसो भ्राता अखण्डैकरसः पतिः ॥ १३ ॥
- अखण्डैकरसं सूत्रमखण्डैकरसो विराट् ।
- अखण्डैकरसं गात्रमखण्डैकरसं शिरः ॥ १४ ॥
- अखण्डैकरसं चान्तरखण्डैकरसं बहिः ।
- अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ॥ १५ ॥
- अखैण्डैकरसं गोत्रमखण्डैकरसं गृहम् ।
- अखण्डैकरसं गोप्यमखण्डैकरसशशशी ॥ १६ ॥
- अखण्डैकरसास्तारा अखण्डैकरसो रविः ।
- अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा ॥ १७ ॥
- अखण्डैकरस शान्त अखण्डैकरसोऽगुणः ।
- अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ १८ ॥
- अखण्डैकरसो बन्धुरखण्डैकरसः सखा ।
- अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ १९ ॥
- अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः ।
- अखण्डैकरसं तारमखण्डैकरसो जपः ॥ २० ॥
- अखण्डैकरसं ध्यानमखण्डैकरसं पदम् ।
- अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् ॥ २१ ॥
- अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् ।
- अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ २२ ॥
- अखण्डैकरसो होम अखण्डैकरसो जपः ।
- अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् ॥ २३ ॥
- अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् ।
- चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥ २४ ॥
- भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि ।
- इदं च सर्वं चिन्मात्रमयं चिन्मयमेव हि ॥ २५ ॥
- आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः ।
- सर्वलोकं च चिन्मात्रं वत्ता मत्ता च चिन्मयम् ॥ २६ ॥
- आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः ।
- यत्किञ्चिद्यन्न किञ्चिच्च सर्वं चिन्मात्रमेव हि ॥ २७ ॥
- अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि ।
- भूतं भव्यं भविष्यञ्च सर्वं चिन्मात्रमेव हि ॥ २८ ॥
- द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि ।
- ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि ॥ २९ ॥
- संभाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि ।
- असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा ॥ ३० ॥
- आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् ।
- दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा ॥ ३१ ॥
- सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि ।
- लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते ॥ ३२ ॥
- अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादिचिन्मयम् ।
- पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः ॥ ३३ ॥
- चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् ।
- चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता ॥ ३४ ॥
- चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् ।
- चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥ ३५ ॥
- चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् ।
- चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् ॥ ३६ ॥
- चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु ।
- चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नस्त्यमौनकम् ॥ ३७ ॥
- चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि ।
- यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ॥ ३८ ॥
- यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ।
- यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते ॥ ३९ ॥
- यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि ।
- चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् ॥ ४० ॥
- चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि ।
- अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते ॥ ४१ ॥
- शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् ।
- इत्येकरूपतया यो वा जानात्यहं त्विति ॥ ४२ ॥
- सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः ॥ ४३ ॥
॥ तृतीयोऽध्यायः ॥
सम्पाद्यताम्- कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ । स होवाच परः शिवः ।
- परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् ।
- केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ॥ १ ॥
- केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् ।
- केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ॥ २ ॥
- केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् ।
- सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥ ३ ॥
- केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः ।
- सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् ॥ ४ ॥
- केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा ।
- केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥ ५ ॥
- निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः ।
- सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः ॥ ६ ॥
- सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः ।
- अपरिच्छिन्नरूपोऽस्मि ह्यखण्डानन्दरूपवान् ॥ ७ ॥
- सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् ।
- अन्तरान्तररूपोऽहमवाङ्मनसगोचरः ॥ ८ ॥
- आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा ।
- आत्मारामस्वरूपोऽस्मि ह्ययमात्मा सदाशिवः ॥ ९ ॥
- आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहम् ।
- आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् ॥ १० ॥
- नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः ।
- नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् ॥ ११ ॥
- नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा ।
- रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः ॥ १२ ॥
- भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा ।
- सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ॥ १३ ॥
- देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा ।
- चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् ॥ १४ ॥
- सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहमेव हि ।
- सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥ १५ ॥
- अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि ।
- अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् ॥ १६ ॥
- अहमेव महानात्मा ह्यहमेव परात्परः ।
- अहमन्यवदाभामि ह्यहमेव शरीरवत् ॥ १७ ॥
- अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः ।
- अहं कालत्रयातीत अहं वेदैरुपासितः ॥ १८ ॥
- अहं शास्त्रेण निर्णीत अहं चित्ते व्यवस्थितः ।
- मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च वा ॥ १९ ॥
- मयातिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु ।
- अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ॥ २० ॥
- निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा ।
- केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् ॥ २१ ॥
- स्वयमेव स्वयं भामि स्वयमेव सदात्मकः ।
- स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः ॥ २२ ॥
- स्वयमेव स्वयं भञ्जे स्वयमेव स्वयं रमे ।
- स्वयमेव स्वयं ज्योतिः स्वयमेव स्वयं महः ॥ २३ ॥
- स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये ।
- स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः ॥ २४ ॥
- स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे ।
- स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये ॥ २५ ॥
- चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् ।
- आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् ॥ २६ ॥
- सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् ।
- नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि नित्यदा ॥ २७ ॥
- अहमेव हृदाकाशश्चिदादित्यस्वरूपवान् ।
- आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः ॥ २८ ॥
- एकसंख्याविहीनोऽस्मि नित्यमुक्तस्वरूपवान् ।
- आकाशादपि सूक्ष्मोऽहमाद्यन्ताभाववानहम् ॥ २९ ॥
- सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् ।
- सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् ॥ ३० ॥
- सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् ।
- विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः ॥ ३१ ॥
- ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन ।
- तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् ॥ ३२ ॥
- त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किञ्चन ।
- चिच्चैतन्यस्वरूपोऽहमहमेव शिवः परः ॥ ३३ ॥
- अतिभावस्वरूपोऽहमहमेव सुखात्मकः ।
- साक्षिवस्तुविहीनत्वात्साक्षित्वं नास्ति मे सदा ॥ ३४ ॥
- केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः ।
- अहमेवादिशेषोऽहमहं शेषोऽहमेव हि ॥ ३५ ॥
- नामरूपविमुक्तोऽहमहमानन्दविग्रहः ।
- इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः ॥ ३६ ॥
- बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः ।
- आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् ॥ ३७ ॥
- वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् ।
- सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् ॥ ३८ ॥
- सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् ।
- एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः ॥ ३९ ॥
- सर्वशून्यस्वरूपोऽहं सकलागमगोचरः ।
- मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् ॥ ४० ॥
- सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।
- तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् ॥ ४१ ॥
- सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः ।
- अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ॥ ४२ ॥
- ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् ।
- चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ॥ ४३ ॥
- न हि किञ्चित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् ।
- निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ॥ ४४ ॥
- न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् ।
- न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् ॥ ४५ ॥
- न तापत्रयरूपोऽहं नेषणात्रयवानहम् ।
- श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि ॥ ४६ ॥
- सजातीयं न मे किञ्चिद्विजातीयं न मे क्वचित् ।
- स्वगतं च न मे किञ्चिन्न मे भेदत्रयं क्वचित् ॥ ४७ ॥
- असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् ।
- अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्यजः ॥ ४८ ॥
- देहत्रयमसद्विद्धि कालत्रयमसत्सदा ।
- गुणत्रयमसत्विद्धि ह्ययं सत्यात्मकः शुचिः ॥ ४९ ॥
- श्रुतं सर्वमसत्द्विद्धि वेदं सर्वमसत्सदा ।
- शास्त्रं सर्वमसत्द्विद्धि ह्यहं सत्यचिदात्मकः ॥ ५० ॥
- मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा ।
- सर्वतत्त्वमसद्विद्धि ह्यहं भूमा सदाशिवः ॥ ५१ ॥
- गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः ।
- यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५२ ॥
- यच्चिन्त्यं तदसद्विद्धि यन्न्यायं तदसत्सदा ।
- यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५३ ॥
- सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति ।
- दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् ॥ ५४ ॥
- कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् ।
- दुःखादुःखमसद्विद्धि सर्वासर्वमन्मयम् ॥ ५५ ॥
- पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् ।
- लाभालाभावसद्विद्धि जयाजयमसन्मयम् ॥ ५६ ॥
- शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा ।
- रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् ॥ ५७ ॥
- गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् ।
- असदेव सदा सर्वमसदेव भवोद्भवम् ॥ ५८ ॥
- असदेव गुणं सर्वं सन्मात्रमहमेव हि ।
- स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् ॥ ५९ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापं विनाशयेत् ।
- अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् ॥ ६० ॥
- अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् ।
- अहं ब्रह्मास्मि मन्त्रोऽयं जन्मपापं विनाशयेत् ॥ ६१ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् ।
- अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् ॥ ६२ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं विनाशयेत् ।
- अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विनाशयेत् ॥ ६३ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् ।
- अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् ॥ ६४ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन्विनाशयेत् ।
- अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत् ॥ ६५ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्षणात् ।
- अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्तिं विनाशयेत् ॥ ६६ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्तिं विनाशयेत् ।
- अहं ब्रह्मास्मि मन्त्रोऽयं सङ्कल्पादीन्विनाशयेत् ॥ ६७ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् ।
- अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं विनाशयेत् ॥ ६८ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं विनाशयेत् ।
- अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः ॥ ६९ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयमप्रतर्क्यसुखप्रदः ।
- अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति ॥ ७० ॥
- अहं ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः ।
- अहं ब्रह्मास्मि वज्रोऽयमानात्माखग्रिन्हेत् ॥ ७१ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् ।
- अहं ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति ॥ ७२ ॥
- अहं ब्रह्मास्मि मन्त्रोऽयं ज्ञानानन्दं प्रयच्छति ।
- सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् ॥ ७३ ॥
- सर्वमन्त्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् ।
- सद्यो मोक्षमवाप्नोति नात्र सन्देहमण्वपि ॥ ७४ ॥
॥ चतुर्थोध्यायः ॥
सम्पाद्यताम्- कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः स्थितिमनुब्रूहीति । स होवाच परः शिवः।
- चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।
- आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ १ ॥
- देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् ।
- ब्रह्माहमिति यस्यान्तः स जीवनमुक्त उच्यते ॥ २ ॥
- आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् ।
- यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।
- परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ३ ॥
- यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते ।
- चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् ॥ ४ ॥
- सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः ।
- आनन्दरतिरव्यक्तः परिपूर्णश्चिदात्मकः ॥ ५ ॥
- शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः ।
- नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः ॥ ६ ॥
- किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ।
- न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियम् ॥ ७ ॥
- न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् ।
- न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् ॥ ८ ॥
- न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् ।
- न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः ॥ ९ ॥
- न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः ।
- न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि ॥ १० ॥
- न मे तुरीयमिति यः स जीवन्मुक्त उच्यते ।
- इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ॥ ११ ॥
- न मे कालो न मे देशो न मे वस्तु न मे मतिः ।
- न मे स्नानं न मे सन्ध्या न मे दैवं न मे स्थलम् ॥ १२ ॥
- न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् ।
- न मे बन्धो न मे जन्म न मे वाक्यं न मे रविः ॥ १३ ॥
- न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् ।
- ने मे जीव इति स्वात्मा न मे किञ्चिज्जगत्रयम् ॥ १४ ॥
- न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः ।
- न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः ॥ १५ ॥
- न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः ।
- न मे ब्रह्म न मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥ १६ ॥
- न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् ।
- न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः ॥ १७ ॥
- न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः ।
- न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा ॥ १८ ॥
- न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः ।
- न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः ॥ १९ ॥
- न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि ।
- न मे गन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ॥ २० ॥
- न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि ।
- न मे भोगो न मे रागो न मे यागो न मे लयः ॥ २१ ॥
- न मे मौर्ख्यं न मे शान्तं न मे बन्धो न मे प्रियम् ।
- न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् ॥ २२ ॥
- न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयः ।
- अध्यारोपोऽपवादो वा न मे चैकं न मे बहु ॥ २३ ॥
- न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि ।
- न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् ॥ २४ ॥
- न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातुसप्तकम् ।
- न मे शुक्लं न मे रक्तं न मे नीलं नमे पृथक् ॥ २५ ॥
- न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् ।
- न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् ॥ २६ ॥
- न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः ।
- न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् ॥ २७ ॥
- न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् ।
- न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहम् ॥ २८ ॥
- न मे जरा न मे बाल्यं न मे यौवनमण्वपि ।
- अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ॥ २९ ॥
- चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ।
- ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः ॥ ३० ॥
- स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः ।
- स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् ॥ ३१ ॥
- स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते ।
- स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः ।
- स्वस्वरूपे स्वयं स्वप्स्ये स जीवन्मुक्त उच्यते ॥ ३२ ॥
- ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी ।
- स्वच्छरूपो महामौनी वैदेही मुक्त एव सः ॥ ३३ ॥
- सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः ।
- एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः ॥ ३४ ॥
- अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः ।
- लक्ष्यात्मा ललितात्माहं तूष्णीमात्मस्वभाववान् ॥ ३५ ॥
- आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धवर्जितः ।
- ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ॥ ३६ ॥
- चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः ॥ ३७ ॥
- निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् ।
- आनन्दभरितस्वान्तो वैदेही मुक्त एव सः ॥ ३८ ॥
- सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ।
- अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः ॥ ३९ ॥
- किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ ।
- तूष्णीमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ४० ॥
- परमात्मा गुणातीतः सर्वात्मा भूतभावनः ।
- कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ॥ ४१ ॥
- किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते ।
- अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः ॥ ४२ ॥
- शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः ।
- देवात्मा देवहीनात्मा मेयात्मा मेयवर्जितः ॥ ४३ ॥
- सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।
- सर्वसङ्कल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा ॥ ४४ ॥
- केवलः परमात्माहं केवलो ज्ञानविग्रहः ।
- सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगद्भयम् ॥ ४५ ॥
- जीवेश्वरेति वाक्क्वेति वेदशास्त्राद्यहं त्विति ।
- इदं चैतन्यमेवेति अहं चैतन्यमित्यपि ॥ ४६ ॥
- इति निश्चयशून्यो यो वैदेही मुक्त एव सः ।
- चैतन्यमात्रसंसिद्धः स्वात्मारामः सुखासनः ॥ ४७ ॥
- अपरिच्छिन्नरूपात्मा अणुस्थूलादिवर्जितः ।
- तुर्यतुर्या परानन्दो वैदेही मुक्त एव सः ॥ ४८ ॥
- नामरूपविहीनात्मा परसंवित्सुखात्मकः ।
- तुरीयातीतरूपात्मा शुभाशुभविवर्जितः ॥ ४९ ॥
- योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः ।
- गुणागुणविहीनात्मा देशकालादिवर्जितः ॥ ५० ॥
- साक्ष्यसाक्षित्वहीनात्मा किञ्चित्किञ्चिन्न किञ्चन ।
- यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न ॥ ५१ ॥
- स्वस्वरूपे स्वयंज्योतिः स्वस्वरूपे स्वयंरतिः ।
- वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् ॥ ५२ ॥
- अतीतातीतभावो यो वैदेही मुक्त एव सः ।
- चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः ॥ ५३ ॥
- सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः ।
- तस्मिन्काले विदेहीति देहस्मरणवर्जितः ॥ ५४ ॥
- ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः ।
- परैरदृष्टबाह्यात्मा परमानन्दचिद्धनः ॥ ५५ ॥
- परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः ।
- ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः ॥ ५६ ॥
- ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् ।
- ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः ॥ ५७ ॥
- ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः ।
- ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः ॥ ५८ ॥
- ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः ।
- ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः ॥ ५९ ॥
- ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः ।
- ब्रह्मानन्दरसोद्बाहो ब्रह्मानन्दरसम्भरः ॥ ६० ॥
- ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः ।
- आत्मरूपमिदं सर्वमात्मनोऽन्यन्न कञ्चन ॥ ६१ ॥
- सर्वमात्माहमात्मास्मि परमात्मा परात्मकः ।
- नित्यानन्दस्वरूपात्मा वैदेही मुक्त एव सः ॥ ६२ ॥
- पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः ।
- सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः ॥ ६३ ॥
- निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः ।
- शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः ॥ ६४ ॥
- जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः ।
- मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ॥ ६५ ॥
- बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः ।
- द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥ ६६ ॥
- सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः ।
- मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥ ६७ ॥
- सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः ।
- निष्कलात्मा निर्मलात्मा बुद्धात्मापुरुषात्मकः ॥ ६८ ॥
- आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः ।
- कालत्रयस्वरूपात्मा कालत्रयविवर्जितः ॥ ६९ ॥
- अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः ।
- नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ॥ ७० ॥
- अन्यहीनस्वभावात्मा अन्यहीनस्वयंप्रभः ।
- विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः ॥ ७१ ॥
- नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः ।
- शमादिषट्कशून्यात्मा मुमुक्षुत्वादिवर्जितः ॥ ७२ ॥
- स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः ।
- कारणादिविहीनात्मा तुरीयादिविवर्जितः ॥ ७३ ॥
- अन्नकोशविहीनात्मा प्राणकोशविवर्जितः ।
- मनःकोशविहीनात्मा विज्ञानादिविवर्जितः ॥ ७४ ॥
- आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः ।
- निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ॥ ७५ ॥
- दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः ।
- सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः ॥ ७६ ॥
- प्रज्ञानवाक्यहीनात्मा अहंब्रह्मास्मिवर्जितः ।
- तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ॥ ७७ ॥
- ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः ।
- अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः ॥ ७८ ॥
- आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदमात्मकः ।
- भानाभानविहीनात्मा वैदेही मुक्त एव सः ॥ ७९ ॥
- आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् ।
- स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन ॥ ८० ॥
- स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर ।
- आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् ॥
॥ पञ्चमोऽध्यायः ॥
सम्पाद्यताम्- निदाघो नाम वै मुनिः पप्रच्छ ऋभुं भगवन्तमात्मानात्मविवेकमनुब्रूहीति । स होवाच ऋभुः।
- सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः ।
- सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १ ॥
- सर्वसङ्कल्परहितः सर्वनादमयः शिवः ।
- सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः ॥ २ ॥
- सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः ।
- सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ ३ ॥
- सर्वनादकलातीत एष आत्माहमव्ययः ।
- आत्मानात्मविवेकादिभेदाभेदविवर्जितः ॥ ४ ॥
- शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः ।
- महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः ॥ ५ ॥
- तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।
- क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ ६ ॥
- अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः ।
- सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ ७ ॥
- आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः ।
- सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ ८ ॥
- स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः ।
- यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च ॥ ९ ॥
- यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः ।
- नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १० ॥
- नामरूपादिकं नास्ति भोज्यं वा भोगभुक्च वा ।
- सद्वाऽसद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम् ॥ ११ ॥
- गुणं वा विगुणं वापि सम आत्मा न संशयः ।
- यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १२ ॥
- गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः ।
- यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि ॥ १३ ॥
- यत्र कालमकालं वा निश्चयः संशयो न हि ।
- यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते ॥ १४ ॥
- द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् ।
- अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा ॥ १५ ॥
- अनात्मेति जगद्वापि नास्ति नास्ति निश्चिनु ।
- सर्वसङ्कल्पशून्यत्वात्सर्वकार्यविवर्जनात् ॥ १६ ॥
- केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु ।
- देहत्रयविहीनत्वात्कालत्रयविवर्जनात् ॥ १७ ॥
- जीवत्रयगुणाभावात्तापत्रयविवर्जनात् ।
- लोकत्रयविहीनत्वात्सर्वमात्मेति शासनात् ॥ १८ ॥
- चित्ताभाच्चिन्तनीयं देहाभावाज्जरा न च ।
- पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया न च ॥ १९ ॥
- मृत्युर्नास्ति जनाभावाद्बुद्ध्यभावात्सुखादिकम् ।
- धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ॥ २० ॥
- अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि ।
- एकाभावे द्वितीयं न न द्वितीये न चैकता ॥ २१ ॥
- सत्यत्वमस्ति चेत्किञ्चिदसत्यं न च संभवेत् ।
- असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति ॥ २२ ॥
- शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते ।
- भयं यद्यभवं विद्धि अभयाद्भयमापतेत् ॥ २३ ॥
- बन्धत्वमपि चेन्मोक्षो बन्धाभावे क्व मोक्षता ।
- मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ २४ ॥
- त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।
- इदं यदि तदेवास्ति तदभादिदं न च ॥ २५ ॥
- अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किञ्चन ।
- कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥ २६ ॥
- द्वैतं यदि तदाऽद्वैतं द्वैताभावे द्वयं न च ।
- दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेन न ॥ २७ ॥
- अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च ।
- पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥ २८ ॥
- तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् ।
- नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे ॥ २९ ॥
- परंब्रह्माहमस्मीति स्मरणस्य मनो न हि ।
- ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ॥ ३० ॥
- चिन्मात्रं केवलं चाहं नास्त्यनात्म्येति निश्चिनु ।
- इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् ॥ ३१ ॥
- चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा ।
- न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः ॥ ३२ ॥
- मायाकार्यादिकं नास्ति माया नास्ति भयं नहि ।
- कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि ॥ ३३ ॥
- समाधिद्वितयं नास्ति मातृमानादि नास्ति हि ।
- अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन ॥ ३४ ॥
- अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न ।
- न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ॥ ३५ ॥
- न भूमिर्न जलं नाग्निर्न न वायुर्न च खं क्वचित् ।
- न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् ॥ ३६ ॥
- न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थितम् ।
- नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च ॥ ३७ ॥
- बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा ।
- जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ॥ ३८ ॥
- सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि ।
- चिदित्येवेति नास्त्येव चिदहंभाषणं न हि ॥ ३९ ॥
- अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् ।
- वाचा यदुच्यते किञ्चिन्मनसा मनुते क्वचित् ॥ ४० ॥
- बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ।
- योगी योगादिकं नास्ति सदा सर्वं सदा न च ॥ ४१ ॥
- अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि ।
- भ्रान्तिरभ्रान्तिर्नास्त्येव नास्त्यनात्मेति निश्चिनु ॥ ४२ ॥
- वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः ।
- लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ॥ ४३ ॥
- बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः ।
- गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥ ४४ ॥
- वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् ।
- मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः ॥ ४५ ॥
- बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् ।
- शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते ॥ ४६ ॥
- श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ।
- नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ ४७ ॥
- इदमित्येव निर्दिष्टमयमित्येव कल्प्यते ।
- त्वमहं तदिदं सोऽहमन्यत्सद्भावमेव च ॥ ४८ ॥
- यद्यत्संभाव्यते लोके सर्वसङ्कल्पसंभ्रमः ।
- सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ॥ ४९ ॥
- सर्वदोषप्रभेदाच्च नास्त्यनात्मेति निश्चिनु ।
- मदीयं च त्वदीयं च ममेति च तवेति च ॥ ५० ॥
- मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ।
- रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ॥ ५१ ॥
- संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ।
- स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ॥ ५२ ॥
- मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् ।
- अन्तःकरणसद्भाव अविद्याश्च संभवः ॥ ५३ ॥
- अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ।
- सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् ॥ ५४ ॥
- दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते ।
- वर्तते जगति यद्यत्सर्वं मिथ्येति निश्चिनु ॥ ५५ ॥
- येन केनाक्षरेणोक्तं येन केन विनिश्चितम् ।
- येन केनापि गदितं येन केनापि मोदितम् ॥ ५६ ॥
- येन केनापि यद्दत्तं येन केनापि यत्कृतम् ।
- यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ॥ ५७ ॥
- यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु ।
- त्वमेव परमात्मासि त्वमेव परमो गुरुः ॥ ५८ ॥
- त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा ।
- त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः ॥ ५९ ॥
- कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ।
- सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि॥ ६० ॥
- सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि ।
- देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥ ६१ ॥
- समोऽसि सच्चापि सनातनोऽसि सत्यादिवाक्यैः प्रतिबोधितोऽसि ।
- सर्वाङ्गहीनोऽसि सदा स्थितोऽसि ब्रह्मेन्द्ररुद्रादिविभावितोऽसि ॥ ६२ ॥
- सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु च भासितोऽसि ।
- सर्वत्र सङ्कल्पविवर्जितोऽसि सर्वागमान्तार्थविभावितोऽसि ॥ ६३ ॥
- सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र गत्यादिविवर्जितोऽसि ।
- सर्वत्र लक्ष्यादिविवर्जितोऽसि ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् ॥ ६४ ॥
- चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः ।
- आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः ॥ ६५ ॥
- आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः ।
- चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः ॥ ६६ ॥
- सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्षसि ।
- सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः ॥ ६७ ॥
- अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि ।
- सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः ॥ ६८ ॥
- सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि ।
- नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥ ६९ ॥
- ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः ।
- अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ७० ॥
- लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः ।
- सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः ॥ ७१ ॥
- ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
- स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥ ७२ ॥
- स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः ।
- शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि ॥ ७३ ॥
- स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि ।
- स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु ॥ ७४ ॥
- इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते ।
- दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ७५ ॥
- भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
- अहङ्कारश्च तेजश्च लोकं भुवनमण्डलम् ॥ ७६ ॥
- नाशो जन्म च सत्यं च पुण्यपापजयादिकम् ।
- रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम् ॥ ७७ ॥
- गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् ।
- भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् ॥ ७८ ॥
- शमो विचारः सन्तोषो भोक्तृभोज्यादिरूपकम् ।
- यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् ॥ ७९ ॥
- आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः ।
- इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा ॥ ८० ॥
- चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् ।
- सजातीयं विजातीयं लोका भूरादयः क्रमात् ॥ ८१ ॥
- सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसंग्रहम् ।
- विद्याविद्यादिरूपं च सर्ववेदं जडाजडम् ॥ ८२ ॥
- बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम् ।
- बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम् ॥ ८३ ॥
- सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् ।
- अनेकजीवसद्भावमेकजीवादिनिर्णयम् ॥ ८४ ॥
- यद्यद्ध्यायति चित्तेन यद्यत्सङ्कल्पते क्वचित् ।
- बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् ॥ ८५ ॥
- यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम् ।
- यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांसते पृथक् ॥ ८६ ॥
- यद्यन्न्यायेन निर्णीतं महद्भिर्वेदपारगैः ।
- शिवः क्षरति लोकान्वै विष्णुः पाति जगत्त्रयम् ॥ ८७ ॥
- ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् ।
- यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम् ॥ ८८ ॥
- सर्वोपनिषदां भावं सर्वं शशविषाणवत् ।
- देहोऽहमिति सङ्कल्पं तदन्तःकरणं स्मृतम् ॥ ८९ ॥
- देहोऽहमिति सङ्कल्पो महत्संसार उच्यते ।
- देहोऽहमिति सङ्कल्पस्तद्बन्धमिति चोच्यते ॥ ९० ॥
- देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते ।
- देहोऽहमिति यद्भानं तदेव नरकं स्मृतम् ॥ ९१ ॥
- देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते ।
- देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितिः ॥ ९२ ॥
- देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते ।
- देहोऽहमिति यज्ज्ञानं तदसद्भावमेव च ॥ ९३ ॥
- देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते ।
- देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ ९४ ॥
- देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि ।
- देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥ ९५ ॥
- देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् ।
- देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल ॥ ९६ ॥
- यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् ।
- कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् ।
- यत्किञ्चेदं सर्वसङ्कल्पजालं तत्किञ्चेदं मानसं सोम विद्धि ॥ ९७ ॥
- मन एव जगत्सर्वं मन एव महारिपुः ।
- मन एव हि संसारो मन एव जगत्त्रयम् ॥ ९८ ॥
- मन एव महद्दुःखं मन एव जरादिकम् ।
- मन एव हि कालश्च मन एव मलं तथा ॥ ९९ ॥
- मन एव हि सङ्कल्पो मन एव हि जीवकः ।
- मन एव हि चित्तं च मनोऽहङ्कार एव च ॥ १०० ॥
- मन एव महद्बन्धं मनोऽन्तःकरणं च तत् ।
- मन एव हि भूमिश्च मन एव हि तोयकम् ॥ १०१ ॥
- मन एव हि तेजश्च मन एव मरुन्महान् ।
- मन एव हि चाकाशं मन एव हि शब्दकम् ॥ १०२ ॥
- स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः ।
- जाग्रत्स्वप्नसुषुप्त्यादि मनोमयरितीरितम् ॥ १०३ ॥
- दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः ।
- दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ १०४ ॥
- सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु ।
- नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत् ॥ १०५ ॥
॥ षष्ठोऽध्यायः ॥
सम्पाद्यताम्- ऋभुः॥सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् ।
- सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम् ॥ १ ॥
- सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।
- सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥ २ ॥
- सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् ।
- मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ॥ ३ ॥
- न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् ।
- न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥ ४ ॥
- न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम् ।
- न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ ५ ॥
- न देहं न मुखं घ्राणं न जिह्वा न च तालुनी ।
- न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥ ६ ॥
- न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् ।
- न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् ॥ ७ ॥
- न हस्तपादचलनं न शास्त्रं न च शासनम् ।
- न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ८ ॥
- तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् ।
- नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥ ९ ॥
- न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेश्वरः ।
- न गमागमचेष्टा च न नष्टं न प्रयोजनम् ॥ १० ॥
- त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा ।
- न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥ ११ ॥
- न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः ।
- न ध्यानं योगसंसिद्धिर्न ब्रह्मवैश्यक्षत्रकम् ॥ १२ ॥
- न पक्षी न मृगो नाङ्गी न लोभो मोह एव च ।
- न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥ १३ ॥
- न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् ।
- न प्रौढहीनो नास्तिक्यं न वार्तावसरोऽति हि ॥ १४ ॥
- न लौकिको न लोको वा न व्यापारो न मूढता ।
- न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् ॥ १५ ॥
- न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा ।
- न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥ १६ ॥
- न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः ।
- न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः ॥ १७ ॥
- न वारपक्षमासादि वत्सरं न च चञ्चलम् ।
- न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः ॥ १८ ॥
- न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः ।
- न यमो यमलोको वा न लोका लोकपालकाः ॥ १९ ॥
- न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् ।
- नाविद्या न च विद्या च न माया प्रकृतिर्जडा ॥ २० ॥
- न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् ।
- न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् ॥ २१ ॥
- न पदार्था न पूजार्हं नाभिषेको न चार्चनम् ।
- न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥ २२ ॥
- न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि ।
- न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् ॥ २३ ॥
- न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् ।
- न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥ २४ ॥
- न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः ।
- न दुःसहं दुरालापं न किरातो न कैतवम् ॥ २५ ॥
- न पक्षपातं न पक्षं वा न विभूषणतस्करौ ।
- न च दम्भो दाम्भिको वा न हीनो नाधिको नरः ॥ २६ ॥
- नैकं द्वयं त्रयं तुर्यं न महत्वं न चाल्पता ।
- न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥ २७ ॥
- न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता ।
- न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता ॥ २८ ॥
- न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः ।
- न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ २९ ॥
- सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि ।
- सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् ॥ ३० ॥
- ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा ।
- तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥ ३१ ॥
- ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः ।
- ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियः ॥ ३२ ॥
- ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः ।
- ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः ॥ ३३ ॥
- ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः ।
- ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥ ३४ ॥
- इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः ।
- कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥ ३५ ॥
- एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् ।
- दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः ॥ ३६ ॥
- लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः ।
- पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३७ ॥
- जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् |
- सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३८ ॥
- स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन ।
- सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ॥ ३९ ॥
- नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।
- अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥ ४० ॥
- अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् ।
- अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥ ४१ ॥
- ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् ।
- आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन ॥ ४२ ॥
- चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् ।
- अहमेव जगत्सर्वमहमेव परं पदम् ॥ ४३ ॥
- अहमेव गुणातीत अहमेव परात्परः ।
- अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ॥ ४४ ॥
- अहमेवाखिलाधार अहमेव सुखात्सुखम् ।
- आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत्सुखं न च ॥ ४५ ॥
- आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् ।
- आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं नहि ॥ ४६ ॥
- आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् ।
- ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥ ४७ ॥
- ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् ।
- ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥ ४८ ॥
- ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् ।
- ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥ ४९ ॥
- ब्रह्मणोऽन्यदह नास्ति ब्रह्मणोऽन्यत्फलं नहि ।
- ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि ॥ ५० ॥
- ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः ।
- ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदन्ते नहि क्वचित् ॥ ५१ ॥
- स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किञ्चन ।
- यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥ ५२ ॥
- यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ।
- कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ॥ ५३ ॥
- लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् ।
- कालभेदं देशभेदं वस्तुभेदं जयाजयम् ॥ ५४ ॥
- यद्यद्भेदं च तत्सर्वमसदेव हि केवलम् ।
- असदन्तःकरणकमसदेवेन्द्रियादिकम् ॥ ५५ ॥
- असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् ।
- असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः ॥ ५६ ॥
- असत्यं षड्विकारादि असत्यमरिवर्गकम् ।
- असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा ॥ ५७ ॥
- सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।
- आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः ॥ ५८ ॥
- सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः ।
- अहमेव परानन्द अहमेव परात्परः ॥ ५९ ॥
- ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः ।
- सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकम् ॥ ६० ॥
- अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् ।
- त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥ ६१ ॥
- चिदाकारं चिदाकाशं चिदेव परमं सुखम् ।
- आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ॥ ६२ ॥
- सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।
- कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न ॥ ६३ ॥
- अहमेव हरिः साक्षादहमेव सदाशिवः ।
- शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः ॥ ६४ ॥
- अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् ।
- सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् ॥ ६५ ॥
- सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् ।
- सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः ॥ ६६ ॥
- परमात्मा परं ज्योतिः परं धाम परा गतिः ।
- सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः ॥ ६७ ॥
- योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः ।
- सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः ॥ ६८ ॥
- तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः ।
- चिदक्षरॊऽहं सत्योऽहं वासुदवोऽजररोऽमरः ॥ ६९ ॥
- अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् ।
- शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् ॥ ७० ॥
- सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ।
- त्यासत्यं जगन्नास्ति सङ्कल्पकलनादिकम् ॥ ७१ ॥
- नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ।
- अनन्तमव्ययं शान्तमेकरूपमनामयम् ॥ ७२ ॥
- मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका ।
- वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन ॥ ७३ ॥
- शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् ।
- मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् ॥ ७४ ॥
- नरशृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि ।
- गन्धर्वनगरे सत्ये जगद्भवति सर्वदा ॥ ७५ ॥
- गगने नीलिमासत्ये जगत्सत्यं भविष्यति ।
- शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् ॥ ७६ ॥
- रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः ।
- जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् ॥ ७७ ॥
- विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्भवः ।
- रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्भवेत् ॥ ७८ ॥
- सद्यः कुमारिकरूपैः पाके सिद्धे जगद्भवेत् ।
- चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् ॥ ७९ ॥
- मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् ।
- तक्रं क्षीरस्वरूपं चेत्क्वचिन्नित्यं जगद्भवेत् ॥ ८० ॥
- गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् ।
- भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा ॥ ८१ ॥
- कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे ।
- नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् ॥ ८२ ॥
- तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् ।
- अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ॥ ८३ ॥
- ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् ।
- ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् ॥ ८४ ॥
- महच्छैलेन्द्रनीलं वा सम्भवच्चेदिदं जगत् ।
- मेरुरागत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ॥ ८५ ॥
- निगिरेच्चेद्भृङ्गसूनुर्मेरुं चलवदस्त्विदम् ।
- व्मशकेन हते सिंहे जगत्सत्यं तदास्तु ते ॥ ८६ ॥
- अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्भवेत् ।
- तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्भवेत् ॥ ८७ ॥
- स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः ।
- नदीवेगो निश्चलश्चेत्केनापीदं भवेज्जगत् ॥ ८८ ॥
- क्षुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् ।
- जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत्सदा ॥ ८९ ॥
- नपुंसककुमारस्य स्त्रीसुखं चेद्भवज्जगत् ।
- निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् ॥ ९० ॥
- सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् ।
- वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् ॥ ९१ ॥
- काको वा हंसवद्गच्छेज्जगद्भवतु निश्चलम् ।
- महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः ॥ ९२ ॥
- महाखरो गजगतिं गतश्चेज्जगदस्तु तत् ।
- सम्पूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् ॥ ९३ ॥
- चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद्दृश्यते जगत् ।
- भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् ॥ ९४ ॥
- दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् ।
- शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा ॥ ९५ ॥
- ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा ।
- श्वानेन सागरे पीते निःशेषेण मनो भवेत् ॥ ९६ ॥
- शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् ।
- भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् ॥ ९७ ॥
- शुद्धाकाशे वने जाते चलिते तु तदा जगत् ।
- केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ९८ ॥
- अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्नहि ।
- सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ९९ ॥
- मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् ।
- देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः ॥ १०० ॥
- हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मचक्रकम् ।
- संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ॥ १०१ ॥
- अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणम् ।
- नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ १०२ ॥
- एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् ।
- ब्रह्मैव सर्वभवनं भुवनं नाम सन्त्यज ॥ १०३ ॥
- अहं ब्रह्मेति निश्चित्य अहंभावं परित्यज ।
- सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् ॥ १०४ ॥
- न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् ।
- न भूतं न च कार्यं च न चावस्थाचतुष्टयम् ॥ १०५ ॥
- लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् ।
- सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय ॥ १०६ ॥
- अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् ।
- सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज ॥ १०७ ॥
- शाङ्करीयं महाशास्त्रं न देयं यस्य कस्यचित् ।
- नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ १०८ ॥
- गुरुभक्तिविशुद्धान्तःकरणाय महात्मने ।
- सम्यक्परीक्ष्य दातव्यं मासं षाण्मासवत्सरम् ॥ १०९ ॥
- सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् ।
- तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा ॥ ११० ॥
- सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् ।
- ब्रह्मैव भवति स्वयमित्युपनिषत् ॥
- ॐ सह नाववतु ॥सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ||
- ॐ सह नाववतु ॥सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
- ॥ इति तेजोबिन्दूपनिषत्समाप्ता ॥