प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०४

< तैत्तिरीयब्राह्मणम् (विस्वरपाठः)‎ | काण्डः १

1.4.1.1

उभये वा एते प्रजापतेरध्यसृज्यन्त । देवाश्चासुराश्च । तान्न व्यजानात् । इमेऽन्य इमेऽन्य इति । स देवानँ शूनकरोत् । तानभ्यषुणोत् । तान्पवित्रेणापुनात् । तान्परस्तात्पवित्रस्य व्यगृह्णात् । ते ग्रहा अभवन् । तद्ग्रहाणां ग्रहत्वम् १

देवता वा एता यजमानस्य गृहे गृह्यन्ते । यद्ग्रहाः । विदुरेनं देवाः । यस्यैवं विदुष एते ग्रहा गृह्यन्ते । एषा वै सोमस्याहुतिः । यदुपाँ शुः । सोमेन देवाँ स्तर्पयाणीति खलु वै सोमेन यजते । यदुपाँ शुं जुहोति । सोमेनैव तद्देवाँ स्तर्पयति । यद्ग्रहाञ्जुहोति २

देवा एव तद्देवान्गच्छन्ति । यच्चमसाञ्जुहोति । तेनैवानुरूपेण यजमानः सुवर्गं लोकमेति । किं न्वेतदग्र आसीदित्याहुः । यत्पात्राणीति । इयं वा एतदग्र आसीत् । मृन्मयानि वा एतान्यासन् । तैर्देवा न व्यावृतमगच्छन् । त एतानि दारुमयाणि पात्राण्यपश्यन् । तान्यकुर्वत ३

तैर्वै ते व्यावृतमगच्छन् । यद्दरुमयाणि पात्राणि भवन्ति । व्यावृतमेव तैर्यजमानो गच्छति । यानि दरुमयाणि पात्राणि भवन्ति । अमुमेव तैर्लोकमभिजयति । यानि मृन्मयानि । इममेव तैर्लोकमभिजयति । ब्रह्मवादिनो वदन्ति । काश्चतस्रः स्थालीर्वायव्याः सोमग्रहणीरिति । देवा वै पृश्निमदुह्रन् ४

तस्या एते स्तना आसन् । इयं वै पृश्निः । तामादित्या आदित्यस्थाल्या चतुष्पदः पशूनदुह्रन् । यदादित्यस्थाली भवति । चतुष्पद एव तया पशून्य-जमान इमां दुहे । तामिन्द्र उक्थ्यस्थाल्येन्द्रि यमदुहत् । यदुक्थ्यस्थाली भवति । इन्द्रि यमेव तया यजमान इमां दुहे । तां विश्वे देवा आग्रयण- स्थाल्योर्जमदुह्रन् । यदाग्रयणस्थाली भवति ५

ऊर्जमेव तया यजमान इमां दुहे । तां मनुष्या ध्रुवस्थाल्यायुरदुह्रन् । यद्ध्रुव-स्थाली भवति । आयुरेव तया यजमान इमां दुहे । स्थाल्या गृह्णाति । वायव्येन जुहोति । तस्मादन्येन पात्रेण पशून्दुहन्ति । अन्येन प्रतिगृह्णन्ति । अथो व्यावृतमेव तद्यजमानो गच्छति ६


1.4.2.1

युवँ सुराममश्विना । नमुचावासुरे सचा । विपिपाना शुभस्पती ।इन्द्रं कर्म-स्वावतम् । पुत्रमिव पितरावश्विनोभा । इन्द्रा वतं कर्मणा दँ सनाभिः । य-त्सुरामं व्यपिबः शचीभिः । सरवती त्वा मघवन्नभीष्णात् । अहाव्यग्ने हविरास्ये ते । स्रुचीव घृतं चमू इव सोमः ७

वाजसनिँ रयिमस्मे सुवीरम् । प्रशस्तं धेहि यशसं बृहन्तम् । यस्मिन्नश्वास ऋषभास उक्षणः । वशा मेषा अवसृष्टास आहुताः । कीलालपे सोमपृष्ठाय वेधसे । हृदा मतिं जनय चारुमग्नये । नाना हि वां देवहितँ सदो मितम् । मा सँ सृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एषः । मा मा हिँ सीः स्वां योनिमाविशन् ८

यदत्र शिष्टँ रसिनः सुतस्य । यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन । सोमँ राजानमिह भक्षयामि । द्वे स्रुती अशृणवं पितॄणाम् । अहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वं भुवनँ समेति । अन्तरा पूर्वमपरं च केतुम् । यस्ते देव वरुण गायत्रछन्दाः पाशः । तं त एतेनावयजे ९

यस्ते देव वरुण त्रिष्टुप्छन्दाः पाशः । तं त एतेनावयजे । यस्ते देव वरुण जगतीछन्दाः पाशः । तं त एतेनावयजे । सोमो वा एतस्य राज्यमादत्ते । यो राजा सन्राज्यो वा सोमेन यजते । देवसुवामेतानि हवीँ षि भवन्ति । एतावन्तो वै देवानाँ सवाः । त एवास्मै सवान्प्रयच्छन्ति । त एनं पुनः सुवन्ते राज्याय । देवसू राजा भवति १०


1.4.3.1

उदस्थाद्देव्यदितिर्विश्वरूपी ।आयुर्यज्ञपतावधात् । इन्द्रा य कृण्वती भागम् । मित्राय वरुणाय च । इयं वा अग्निहोत्री ।इयं वा एतस्य निषीदति । यस्याग्निहोत्री निषीदति । तामुत्थापयेत् । उदस्थाद्देव्यदितिरिति । इयं वै देव्यदितिः ११

इमामेवास्मा उत्थापयति । आयुर्यज्ञपतावधादित्याह । आयुरेवास्मिन्दधाति । इन्द्रा य कृण्वती भागं मित्राय वरुणाय चेत्याह । यथायजुरेवैतत् । अवर्तिं वा एषैतस्य पाप्मानं प्रतिख्याय निषीदति । यस्याग्निहोत्र्! युपसृष्टा निषीदति । तां दुग्ध्वा ब्राह्मणाय दद्यात् । यस्यान्नं नाद्यात् । अवर्तिमेवास्मिन्पाप्मानं प्रतिमुञ्चति १२

दुग्ध्वा ददाति । न ह्यदृष्टा दक्षिणा दीयते । पृथिवीं वा एतस्य पयः प्रविशति । यस्याग्निहोत्रं दुह्यमानँ स्कन्दति । यदद्य दुग्धं पृथिवीमसक्त । यदोषधीरप्यसरद्यदापः । पयो गृहेषु पयो अघ्नियासु । पयो वत्सेषु पयो अस्तु तन्मयीत्याह । पय एवात्मन्गृहेषु पशुषु धत्ते । अप उपसृजति १३

अद्भिरेवैनदाप्नोति । यो वै यज्ञस्यार्तेनानार्तँ सँ सृजति । उभे वै ते तर्ह्यार्छतः । आर्छति खलु वा एतदग्निहोत्रम् । यद्दुह्यमानँ स्कन्दति । यदभिदुह्यात् । आर्तेनानार्तं यज्ञस्य सँ सृजेत् । तदेव यादृक्कीदृक्च होतव्यम् । अथान्यां दुग्ध्वा पुनर्होतव्यम् । अनार्तेनैवार्तं यज्ञस्य निष्करोति १४

यद्युद्द्रुतस्य स्कन्देत् । यत्ततोऽहुत्वा पुनरेयात् । यज्ञं विच्छिन्द्यात् । यत्र स्कन्देत् । तन्निषद्य पुनर्गृह्णीयात् । यत्रैव स्कन्दति । तत एवैनत्पुनर्गृह्णाति । तदेव यादृक्कीदृक्च होतव्यम् । अथान्यां दुग्ध्वा पुनर्होतव्यम् । अनार्तेनैवार्तं यज्ञस्य निष्करोति १५

वि वा एतस्य यज्ञश्छिद्यते । यस्याग्निहोत्रेऽधिश्रिते श्वान्तरा धावति । रुद्र ः! खलु वा एषः । यदग्निः । यद्गामन्वत्यावर्तयेत् । रुद्रा य पशूनपिदध्यात् । अपशुर्यजमानः स्यात् । यदपोऽन्वतिषिञ्चेत् । अनाद्यमग्नेरापः । अनाद्यमाभ्यामपिदध्यात् । गार्हपत्याद्भस्मादाय । इदं विष्णुर्विचक्रम इति वैष्णव्यर्चाहवनीयाद्ध्वँ सयन्नुद्द्रवेत् । यज्ञो वै विष्णुः । यज्ञेनैव यज्ञँ संत नोति । भस्मना पदमपिवपति शान्त्यै १६


1.4.4.1

नि वा एतस्याहवनीयो गार्हपत्यं कामयते । नि गार्हपत्य आहवनीयम् । यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचति । दर्भेण हिरण्यं प्रबध्य पुरस्ताद्धरेत् । अथाग्निम् । अथाग्निहोत्रम् । यद्धिरण्यं पुरस्ताद्धरति । ज्योतिर्वै हिरण्यम् । ज्योतिरेवैनं पश्यन्नुद्धरति । यदग्निं पूर्वँ हरत्यथाग्निहोत्रम् १७

भागधेयेनैवैनं प्रणयति । ब्राह्मण आर्षेय उद्धरेत् । ब्राह्मणो वै सर्वा देवताः । सर्वाभिरेवैनं देवताभिरुद्धरति । अग्निहोत्रमुपसाद्यातमितोरासीत । व्रतमेव हतमनुम्रियते । अन्तं वा एष आत्मनो गच्छति । यस्ताम्यति । अन्तमेष यज्ञस्य गच्छति । यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचति १८

पुनः समन्य जुहोति । अन्तेनैवान्तं यज्ञस्य निष्करोति । वरुणो वा एतस्य यज्ञं गृह्णाति । यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचति । वारुणं चरुं निर्वपेत् । तेनैव यज्ञं निष्क्रीणीते । नि वा एतस्याहवनीयो गार्हपत्यं कामयते । नि गार्हपत्य आहवनीयम् । यस्याग्निमनुद्धृतँ सूर्योऽभ्युदेति । चतुर्गृहीतमाज्यं पुरस्ताद्धरेत् १९

अथाग्निम् । अथाग्निहोत्रम् । यदाज्यं पुरस्ताद्धरति । एतद्वा अग्नेः प्रियं धाम । यदाज्यम् । प्रियेणैवैनं धाम्ना समर्धयति । यदग्निं पूर्वँ हर-त्यथाग्निहोत्रम् । भागधेयेनैवैनं प्रणयति । ब्राह्मण आर्षेय उद्धरेत् । ब्राह्मणो वै सर्वा देवताः २०

सर्वाभिरेवैनं देवताभिरुद्धरति । पराची वा एतस्मै व्युच्छन्ती व्युच्छति । यस्याग्निमनुद्धृतँ सूर्योऽभ्युदेति । उषाः केतुना जुषताम् । यज्ञं देवेभिरन्वितम् । देवेभ्यो मधुमत्तमँ स्वाहेति प्रत्यङ्निषद्याज्येन जुहुयात् । प्रतीचीमेवास्मै विवासयति । अग्निहोत्रमुपसाद्यातमितोरासीत । व्रतमेव हतमनुम्रियते । अन्तं वा एष आत्मनो गच्छति २१

यस्ताम्यति । अन्तमेष यज्ञस्य गच्छति । यस्याग्निमनुद्धृतँ सूर्योऽभ्युदेति । पुनः समन्य जुहोति । अन्तेनैवान्तं यज्ञस्य निष्करोति । मित्रो वा एतस्य यज्ञं गृह्णाति । यस्याग्निमनुद्धृतँ सूर्योऽभ्युदेति । मैत्रं चरुं निर्वपेत् । तेनैव यज्ञं निष्क्रीणीते । यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेत् २२

यदाहवनीयमनुद्वाप्य गार्हपत्यं मन्थेत् । विच्छिन्द्यात् । भ्रातृव्यमस्मै जनयेत् । यद्वै यज्ञस्य वास्तव्यं क्रियते । तदनु रुद्रो ऽवचरति । यत्पूर्वमन्ववस्येत् । वास्तव्यमग्निमुपासीत । रुद्रो ऽस्य पशून्घातुकः स्यात् । आहवनीयमुद्वाप्य । गार्हपत्यं मन्थेत् २३

इतः प्रथमं जज्ञे अग्निः । स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या । देवेभ्यो हव्यं वहतु प्रजानन्निति । छन्दोभिरेवैनँ स्वाद्योनेः प्रजनयति । गार्हपत्यं मन्थति । गार्हपत्यं वा अन्वाहिताग्नेः पशव उपतिष्ठन्ते । स यदुद्वायति । तदनु पशवोऽपक्रामन्ति । इषे रय्यै रमस्व २४

सहसे द्युम्नाय । ऊर्जेऽपत्यायेत्याह । पशवो वै रयिः । पशूनेवास्मै रमयति । सारस्वतौ त्वोत्सौ समिन्धातामित्याह । ऋक्सामे वै सारसवतावुत्सौ । ऋक्सामाभ्यामेवैनँ समिन्धे । सम्राडसि विराडसीत्याह । रथन्तरं वै सम्राट् । बृहद्विराट् २५

ताभ्यामेवैनँ समिन्धे । वज्रो वै चक्रम् । वज्रो वा एतस्य यज्ञं विच्छिनत्ति । यस्यानो वा रथो वान्तराग्नी याति । आहवनीयमुद्वाप्य । गार्हपत्यादुद्धरेत् । यदग्ने पूर्वं प्रभृतं पदँ हि ते । सूर्यस्य रश्मीनन्वाततान । तत्र रयिष्ठामनु संभरैतम् । सं नः सृज सुमत्या वाजवत्येति २६ पूर्वेणैवास्य यज्ञेन यज्ञमनु संतनोति । त्वमग्ने सप्रथा असीत्याह । अग्निः सर्वा देवताः । देवताभिरेव यज्ञँ संतनोति । अग्नये पथिकृते पुरोडा-शमष्टाकपालं निर्वपेत् । अग्निमेव पथिकृतँ स्वेन भागधेयेनोपधावति । स एवैनं यज्ञियं पन्थामपिनयति । अनड्वान्दक्षिणा । वही ह्येष समृद्ध्यै २७


1.4.5.1

यस्य प्रातःसवने सोमोऽतिरिच्यते । माध्यन्दिनँ सवनं कामयमानोऽभ्य-तिरिच्यते । गौर्धयति मरुतामिति धयद्वतीषु कुर्वन्ति । हिनस्ति वै सन्ध्य-धीतम् । सन्धीव खलु वा एतत् । यत्सवनस्यातिरिच्यते । यद्धयद्वतीषु कुर्वन्ति । सन्धेः शान्त्यै । गायत्रँ साम भवति पञ्चदशः स्तोमः । तेनैव प्रातःसवनान्न यन्ति २८

मरुत्वतीषु कुर्वन्ति । तेनैव माध्यन्दिनात्सवनान्न यन्ति । होतुश्चमसमनून्नयन्ते । होतानुशँ सति । मध्यत एव यज्ञँ समादधाति । यस्य माध्यन्दिने सवने सोमोऽतिरिच्यते । आदित्यं तृतीयसवनं कामयमानोऽभ्यतिरिच्यते । गौरि-वीतँ साम भवति । अतिरिक्तं वै गौरिवीतम् । अतिरिक्तं यत्सवन- स्यातिरिच्यते २९

अतिरिक्तस्य शान्त्यै । बण्महाँ असि सूर्येति कुर्वन्ति । यस्यैवादित्यस्य सवनस्य कामेनातिरिच्यते । तेनैवैनं कामेन समर्धयन्ति । गौरिवीतँ साम भवति । तेनैव माध्यन्दिनात्सवनान्न यन्ति । सप्तदशः स्तोमः । तेनैव तृतीयसवनान्न यन्ति । होतुश्चमसमनून्नयन्ते । होतानुशँ सति ३०

मध्यत एव यज्ञँ समादधाति । यस्य तृतीयसवने सोमोऽतिरिच्येत । उक्थ्यं कुर्वीत । यस्योक्थ्येऽतिरिच्येत । अतिरात्रं कुर्वीत । यस्यातिरात्रेऽतिरिच्येत । तत्त्वै दुष्प्रज्ञानम् । यजमानं वा एतत्पशव आसाह्य यन्ति । बृहत्साम भवति । बृहद्वा इमाँ ल्लोकान्दाधार । बार्हताः पशवः । बृहतैवास्मै पशून्दाधार । शिपिविष्टवतीषु कुर्वन्ति शिपिविष्टो वै देवानां पुष्टं ।पुष्ट्यैवैनँ समर्धयन्ति । होतुश्चमसमनून्नयन्ते । होतानुशँ सति । मध्यत एव यज्ञँ समादधाति ३१


1.4.6.1

एकैको वै जनतायामिन्द्रः । एकं वा एताविन्द्र मभि सँ सुनुतः । यौ द्वौ सँ सुनुतः । प्रजापतिर्वा एष वितायते । यद्यज्ञः । तस्य ग्रावाणो दन्ताः । अन्यतरं वा एते सँ सुन्वतोर्निर्बप्सति । पूर्वेणोपसृत्या देवता इत्याहुः । पूर्वोपसृतस्य वै श्रेयान्भवति । एतिवन्त्याज्यानि भवन्त्यभिजित्यै ३२

मरुत्वतीः प्रतिपदः । मरुतो वै देवानामपराजितमायतनम् । देवानामेवाप-राजित आयतने यतते । उभे बृहद्र थन्तरे भवतः । इयं वाव रथन्तरम् । असौ बृहत् । आभ्यामेवैनमन्तरेति । वाचश्च मनसश्च । प्राणाच्चापानाच्च । दिवश्च पृथिव्याश्च ३३

सर्वस्माद्वित्ताद्वेद्यात् । अभिवर्तो ब्रह्मसामं भवति । सुवर्गस्य लोकस्या-भिवृत्त्यै । अभिजिद्भवति । सुवर्गस्य लोकस्याभिजित्यै । विश्वजिद्भवति । विश्वस्य जित्यै । यस्य भूयाँ सो यज्ञक्रतव इत्याहुः । स देवता वृङ्क्त इति । यद्यग्निष्टोमः सोमः परस्तात्स्यात् ३४

उक्थ्यं कुर्वीत । यद्युक्थ्यः स्यात् । अतिरात्रं कुर्वीत । यज्ञक्रतुभिरेवास्य देवता वृङ्क्ते । यो वै छन्दोभिरभिभवति । स संसुन्वतोरभिभवति । संवेशाय त्वोपवेशाय त्वेत्याह । छन्दाँ सि वै संवेश उपवेषः । छन्दोभिरेवास्य छन्दाँ स्यभिभवति । इष्टर्गो वा ऋत्विजामध्वर्युः ३५

इष्टर्गः खलु वै पूर्वोऽर्ष्टुः क्षीयते । प्राणापानौ मृत्योर्मा पातमित्याह । प्राणापानयोरेव श्रयते । प्राणापानौ मा मा हासिष्टमित्याह । नैनं पुरायुषः प्राणापानौ जहितः । आर्तिं वा एते नियन्ति । येषां दीक्षितानां प्रमीयते । तं यदववर्जेयुः । क्रूरकृतामिवैषां लोकः स्यात् । आहर दहेति ब्रूयात् ३६

तं दक्षिणतो वेद्यै निधाय । सर्पराज्ञिया ऋग्भिः स्तुयुः । इयं वै सर्पतो राज्ञी ।अस्या एवैनं परिददति । व्यृद्धं तदित्याहुः । यत्स्तुतमननुशस्तमिति । होता प्रथमः प्रचीनावीती मार्जालीयं परीयात् । यामीरनुब्रुवन् । सर्पराज्ञीनां कीर्तयेत् । उभयोरेवैनं लोकयोः परिददति ३७

अथो धुवन्त्येवैनम् । अथो न्ये वास्मै ह्नुवते । त्रिः परियन्ति । त्रय इमे लोकाः । एभ्य एवैनं लोकेभ्यो धुवते । त्रिः पुनः परियन्ति । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवैनं धुवते । अग्न आयूँ षि पवस इति प्रतिपदं कुर्वीरन् । रथन्तरसामैषाँ सोमः स्यात् । आयुरेवात्मन्दधते । अथो पाप्मा- नमेव विजहतो यन्ति ३८


1.4.7.1

असुर्यं वा एतस्माद्वर्णं कृत्वा । पशवो वीर्यमपक्रामन्ति । यस्य यूपो विरोहति । त्वाष्ट्रं बहुरूपमालभेत । त्वष्टा वै रूपाणामीशे । य एव रूपाणामीशे । सोऽस्मिन्पशून्वीर्यं यच्छति । नास्मात्पशवो वीर्यमप क्रामन्ति । आर्तिं वा एते नियन्ति । येषां दीक्षितानामग्निरुद्वायति ३९

यदाहवनीय उद्वायेत् । यत्तं मन्थेत् । विच्छिन्द्यात् । भ्रातृव्यमस्मै जनयेत् । यदाहवनीय उद्वायेत् । आग्नीध्रादुद्धरेत् । यदाग्नीध्र उद्वायेत् । गार्हपत्यादुद्धरेत् । यद्गार्हपत्य उद्वायेत् । अत एव पुनर्मन्थेत् ४०

अत्र वाव स निलयते । यत्र खलु वै निलीनमुत्तमं पश्यन्ति । तदेनमिच्छन्ति । यस्माद्दारोरुद्वायेत् । तस्यारणी कुर्यात् । क्रुमुकमपि कुर्यात् । एषा वा अग्नेः प्रिया तनूः । यत्क्रुमुकः । प्रिययैवैनं तनुवा समर्धयति । गार्हपत्यं मन्थति ४१

गार्हपत्यो वा अग्नेर्योनिः । स्वादेवैनं योनेर्जनयति । नास्मै भ्रातृव्यं जनयति । यस्य सोम उपदस्येत् । सुवर्णँ हिरण्यं द्वेधा विच्छिद्य । ऋजीषेऽन्य-दाधूनुयात् । जुहुयादन्यत् । सोममेवाभिषुणोति । सोमं जुहोति । सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत् ४२

तत्सुवर्णँ हिरण्यमभवत् । यत्सुवर्णँ हिरण्यं कुर्वन्ति । प्रिययैवैनं तनुवा समर्धयन्ति । यस्याक्रीतँ सोममपहरेयुः । क्रीणीयादेव । सैव ततः प्रायश्चित्तिः । यस्य क्रीतमपहरेयुः । आदाराँ श्च फाल्गुनानि चाभिषुणुयात् । गायात्री यँ सोममाहरत् । तस्य योऽँ! शुः परापतत् ४३

त आदारा अभवन् । इन्द्रो वृत्रमहन् । तस्य वल्कः परापतत् । तानि फाल्गुनान्यभवन् । पशवो वै फाल्गुनानि । पशवः सोमो राजा । यदा-दाराँ श्च फाल्गुनानि चाभिषुणोति । सोममेव राजानमभिषुणोति । शृतेन प्रातःसवने श्रीणीयात् । दध्ना मध्यंदिने ४४

नीतमिश्रेण तृतीयसवने । अगिष्टोमः सोमः स्याद्र थन्तरसामा । य एवर्त्विजो वृताः स्युः । त एनं याजयेयुः । एकां गां दक्षिणां दद्यात्तेभ्य एव । पुनः सोमं क्रीणीयात् । यज्ञेनैव तद्यज्ञमिच्छति । सैव ततः प्रायश्चित्तिः । सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानमागुरते । यः सत्त्रायागुरते । एतावान्खलु वै पुरुषः । यावदस्य वित्तम् । सर्ववेदसेन यजेत । सर्व-पृष्ठोऽस्य सोमः स्यात् । सर्वाभ्य एव देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानं निष्क्रीणीते ४५


1.4.8.1

पवमानः सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूँ रनु ४६

यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे । उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे । वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तः सध माद्येषु । वयँ स्याम पतयो रयीणाम् ४७

वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषिरो मयोभूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भिः सवितस्तृभिः । वर्षिष्ठैर्देव मन्मभिः । अग्ने दक्षैः पुनाहि मा । येन देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन ब्रह्मणा ४८

इदं ब्रह्म पुनीमहे । यः पावमानीरध्येति । ऋषिभिः संभृतँ रसम् । सर्वँ स पूतमश्नाति । स्वदितं मातरिश्वना । पावमानीर्यो अध्येति । ऋषिभिः संभृतँ रसम् । तस्मै सरस्वती दुहे । क्षीरँ सर्पिर्मधूदकम् । पावमानीः स्वस्त्ययनीः ४९

सुदुघा हि पयस्वतीः । ऋषिभिः संभृतो रसः । ब्राह्मणेष्वमृतँ हितम् । पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान्समर्धयन्तु नः । देवीर्देवैः समाभृताः । पावमानीः स्वस्त्ययनीः । सुदुघा हि घृतश्चुतः । ऋषिभिः सम्भृतो रसः ५०

ब्राह्मणेष्वमृतँ हितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्रधारेण । पावमान्यः पुनन्तु मा ।प्राजापत्यं पवित्रम् । शतोद्यामँ हिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे । इन्द्रः सुनीती सह मा पुनातु । सोमः स्वस्त्या वरुणः समीच्या । यमो राजा प्रमृणाभिः पुनातु मा । जातवेदा मोर्जयन्त्या पुनातु ५१


1.4.9.1

प्रजा वै सत्रमासत तपस्तप्यमाना अजुह्वतीः । देवा अपश्यं चमसं घृतस्य पूर्णँ स्वधाम् । तमुपोदतिष्ठन्तमजुहवुः । तेनार्धमास ऊर्जमवारुन्धत । तस्मादर्धमासे देवा इज्यन्ते । पितरोऽपश्यं चमसं घृतस्य पूर्णँ स्वधाम् । तमुपोदतिष्ठन्तमजुहवुः । तेन मास्यूर्जमवारुन्धत । तस्मान्मासि पितृभ्यः क्रियते । मनुष्या अपश्यं चमसं घृतस्य पूर्णँ स्वधाम् ५२

तमुपोदतिष्ठन्तमजुहवुः । तेन द्वयीमूर्जमवारुन्धत । तस्माद्द्विरह्नो मनुष्येभ्य उपह्रियते । प्रातश्च सायं च । पशवोऽपश्यं चमसं घृतस्य पूर्णँ स्वधाम् । तमुपोदतिष्ठन्तमजुहवुः । तेन त्रयीमूर्जमवारुन्धत । तस्मात्त्रिरह्नः पशवः प्रेरते । प्रातः संगवे सायम् । असुरा अपश्यं चमसं घृतस्य पूर्णँ स्वधाम् ५३तमुपोदतिष्ठन्तमजुहवुः । तेन संवत्सर ऊर्जमवारुन्धत । ते देवा अमन्यन्त । अमी वा इदमभूवन् । यद्वयँ स्म इति । त एतानि चातुर्मास्यान्यपश्यन् । तानि निरवपन् । तैरेवैषां तामूर्जमवृञ्जत । ततो देवा अभवन् । परासुराः ५४

यद्यजते । यामेव देवा ऊर्जमवारुन्धत । तां तेनावरुन्धे । यत्पितृभ्यः करोति । यामेव पितर ऊर्जमवारुन्धत । तां तेनावरुन्धे । यदावसथेऽन्नँ हरन्ति । यामेव मनुष्या ऊर्जमवारुन्धत । तां तेनावरुन्धे । यद्दक्षिणां ददाति ५५

यामेव पशव ऊर्जमवारुन्धत । तां तेनावरुन्धे । यच्चातुर्मास्यैर्यजते । यामेवासुरा ऊर्जमवारुन्धत । तां तेनावरुन्धे । भवत्यात्मना । परास्य भ्रातृव्यो भवति । विराजो वा एषा विक्रान्तिः । यच्चातुर्मास्यानि । वैश्वदे-वेनास्मिँ ल्लोके प्रत्यतिष्ठत् । वरुणप्रघासैरन्तरिक्षे । साकमेधैरमुष्मिँ ल्लोके । एष हत्वावै तत्सर्वं भवति । य एवं विद्वाँ श्चातुर्मास्यैर्यजते ५६


1.4.10.1

अग्निर्वाव संवत्सरः । आदित्यः परिवत्सरः । चन्द्र मा इदावत्सरः । वायु-रनुवत्सरः । यद्वैश्वदेवेन यजते । अग्निमेव तत्संवत्सरमाप्नोति । तस्मा-द्वैश्वदेवेन यजमानः । संवत्सरीणाँ स्वस्तिमाशास्त इत्याशासीत । यद्वरु- णप्रघासैर्यजते । आदित्यमेव तत्परिवत्सरमाप्नोति ५७

तस्माद्वरुणप्रघासैर्यजमानः । परिवत्सरीणाँ स्वस्तिमाशास्त इत्याशासीत । यत्साकमेधैर्यजते । चन्द्र मसमेव तदिदावत्सरमाप्नोति । तस्मात्साकमे-धैर्यजमानः । इदावत्सरीणाँ सवस्तिमाशास्त इत्याशासीत । यत्पितृयज्ञेन यजते । देवानेव तदन्ववस्यति । अथ वा अस्य वायुश्चानुवत्सरश्चा- प्रीतावुच्छिष्येते । यच्छुनासीरीयेण यजते ५८

वायुमेव तदनुवत्सरमाप्नोति । तस्माच्छुनासीरीयेण यजमानः । अनुवत्सरी-णाँ स्वस्तिमाशास्त इत्याशासीत । संवत्सरं वा एष ईप्सतीत्याहुः । यश्चा-तुर्मास्यैर्यजत इति । एष ह त्वै संवत्सरमाप्नोति । य एवं विद्वाँ श्चातुर्मास्यैर्यजते । विश्वे देवाः समयजन्त । तेऽग्निमेवायजन्त । त एतं लोकमजयन् ५९

यस्मिन्नग्निः । यद्वैश्वदेवेन यजते । एतमेव लोकं जयति । यस्मिन्नग्निः । अग्नेरेव सायुज्यमुपैति । यदा वैश्वदेवेन यजते । अथ संवत्सरस्य गृहपति-माप्नोति । यदा संवत्सरस्य गृहपतिमाप्नोति । अथ सहस्रयाजिनमाप्नोति । यदा सहस्रयाजिनमाप्नोति ६० अथ गृहमेधिनमाप्नोति । यदा गृहमेधिनमाप्नोति । अथाग्निर्भवति । यदाग्निर्भवति । अथ गौर्भवति । एषा वै वैश्वदेवस्य मात्रा । एतद्वा एतेषामवमम् । अतोऽतो वा उत्तराणि श्रेयाँ सि भवन्ति । यद्विश्वे देवाः समयजन्त । तद्वैश्वदेवस्य वैश्वदेवत्वम् ६१

अथादित्यो वरुणँ राजानं वरुणप्रघासैरयजत । स एतं लोकमजयत् । यस्मिन्नादित्यः । यद्वरुणप्रघासैर्यजते । एतमेव लोकं जयति । यस्मिन्ना-दित्यः । आदित्यस्यैव सायुज्यमुपैति । यदादित्यो वरुणँ राजाअं वरुणप्रघा-सैरयजत । तद्वरुणप्रघासानं वरुणप्रघासत्वम् । अथ सोमो राजा छन्दाँ सि साकमेधैरयजत ६२

स एतं लोकमजयत् । यस्मिँ श्चन्द्र मा विभाति । यत्साकमेधैर्यजते । एतमेव लोकं जयति । यस्मिँ श्चन्द्र मा विभाति । चन्द्र मस एव सायुज्यमुपैति । सोमो वै चन्द्र माः । एष ह त्वै साक्षात्सोमं भक्षयति । य एवं विद्वान्सा- कमेधैर्यजते । यत्सोमश्च राजा छन्दाँ सि च समैधन्त ६३

तत्साकमेधानाँ साकमेधात्वम् । अथर्तवः पितरः प्रजापतिं पितरं पितृयज्ञेना-यजन्त । त एतं लोकमजयन् । यस्मिन्नृतवः । यत्पितृयज्ञेन यजते । एतमेव लोकं जयति । यस्मिन्नृतवः । ऋतूनामेव सायुज्यमुपैति । यदृतवः पितरः प्रजापतिं पितरं पितृयज्ञेनायजन्त । तत्पितृयज्ञस्य पितृयज्ञत्वम् ६४

अथौषधय इमं देवं त्र्! यम्बकैरयजन्त प्रथेमहीति । ततो वै ता अप्रथन्त । य एवं विद्वाँ स्त्र्! यम्बकैर्यजते । प्रथते प्रजया पशुभिः । अथ वायुः परमेष्ठिनँ शुनासीरीयेणायजत । स एतं लोकमजयत् । यस्मिन्वायुः । यच्छुनासी- रीयेण यजते । एतमेव लोकं जयति । यस्मिन्वायुः ६५

वायोरेव सायुज्यमुपैति । ब्रह्मवादिनो वदन्ति । प्र चातुर्मास्ययाजी मीयता३ न प्रमीयता३ इति । जीवन्वा एष ऋतूनप्येति । यदि वसन्ता प्रमीयते । वसन्तो भवति । यदि ग्रीष्मे ग्रीष्मः । यदि वर्षासु वर्षाः । यदि शरदि शरत् । यदि हेमन्हेमन्तः । ऋतुर्भूत्वा संवत्सरमप्येति । संवत्सरः प्रजापतिः । प्रजापतिर्वावैषः ६६ ४