तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०६

1.6.1.1 राजसूयः

अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति । ये प्रत्यञ्चः शम्याया अवशीयन्ते । तन्नैरृतमेककपालम् । इयं वा अनुमतिः । इयं निरृतिः । नैरृतेन पूर्वेण प्रचरति । पाप्मानमेव निरृतिं पूर्वां निरवदयते । एककपालो भवति । एकधैव निरृतिं निरवदयते । यदहुत्वा गार्हपत्य ईयुः १

रुद्रो भूत्वाग्निरनूत्थाय । अध्वर्युं च यजमानं च हन्यात् । वीहि स्वाहाहुतिं जुषाण इत्याह । आहुत्यैवैनꣳ शमयति । नार्तिमार्च्छत्यध्वर्युर्न यजमानः । एकोल्मुकेन यन्ति । तद्धि निरृत्यै भागधेयम् । इमां दिशम्यन्ति । एषा वै निरृत्यै दिक् । स्वायामेव दिशि निरृतिं निरवदयते २

स्वकृत इरिणे जुहोति प्रदरे वा । एतद्वै निरृत्या आयतनम् । स्व एवायतने निरृतिं निरवदयते । एष ते निरृते भाग इत्याह । निर्दिशत्येवैनाम् । भूते हविष्मत्यसीत्याह । भूतिमेवोपावर्तते । मुञ्चेममꣳ हस इत्याह । अꣳहस एवैनं मुञ्चति । अङ्गुष्ठाभ्यां जुहोति ३

अन्तत एव निरृतिं निरवदयते । कृष्णं वासः कृष्णतूषं दक्षिणा । एतद्वै निरृत्यै रूपम् । रूपेणैव निरृतिं निरवदयते । अप्रतीक्षमायन्ति । निरृत्या अन्तर्हित्यै । स्वाहा नमो य इदं चकारेति पुनरेत्य गार्हपत्ये जुहोति । आहुत्यैव नमस्यन्तो गार्हपत्यमुपावर्तन्ते । आनुमतेन प्रचरति । इयं वा अनुमतिः ४

इयमेवास्मै राज्यमनुमन्यते । धेनुर्दक्षिणा । इमामेव धेनुं कुरुते । आदित्यं चरुं निर्वपति । उभयीष्वेव प्रजास्वभिषिच्यते । दैवीषु च मानुषीषु च । वरो दक्षिणा । वरो हि राज्यꣳ समृद्ध्यै । आग्नावैष्णवमेकादशकपालं निर्वपति । अग्निः सर्वा देवताः ५

विष्णुर्यज्ञः । देवताश्चैव यज्ञं चावरुन्धे । वामनो वही दक्षिणा । यद्वही । तेनाग्नेयः । यद्वामनः । तेन वैष्णवः समृद्ध्यै । अग्नीषोमयमेकादश-कपालं निर्वपति । अग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति । यदग्नीषोमीयमेकादशकपालं निर्वपति ६

वार्त्रघ्नमेव विजित्यै । हिरण्यं दक्षिणा समृद्ध्यै । इन्द्रो वृत्रꣳ हत्वा । देवताभिश्चेन्द्रि येण च व्यार्ध्यत । स एतमैन्द्रा ग्नमेकादशकपालमपश्यत् । तं निरवपत् । तेन वै स देवताश्चेन्द्रि यं चावारुन्ध । यदैन्द्रा ग्नमेकादशकपालं निर्वपति । देवताश्चैव तेनेन्द्रि यं च यजमानोऽवरुन्धे । ऋषभो वही दक्षिणा ७

यद्वही ।तेनाग्नेयः । यदृषभः । तेनाइन्द्रः समृद्ध्यै । आग्नेयमष्टाकपालं निर्वपति । ऐन्द्रं दधि । यदाग्नेयो भवति । अग्निर्वै यज्ञमुखम् । यज्ञमुख-
मेवर्द्धिं पुरास्ताद्धत्ते । यदैन्द्रं दधि ८

इन्द्रि यमेवावरुन्धे । ऋषभो वही दक्षिणा । यद्वही ।तेनाग्नेयः । यदृषभः । तेनाइन्द्रः समृद्ध्यै । यावतीर्वै प्रजा ओषधीनामहुतानामाश्नन् । ताः
पराभवन् । आग्रयणं भवति हुताद्याय । यजमानस्यापराभावाय ९

देवा वा ओषधीष्वाजिमयुः । ता इन्द्रा ग्नी उदजयताम् । तावेतमैन्द्रा ग्नं द्वादशकपालं निरवृणाताम् । यदैन्द्रा ग्नो भवत्युज्जित्यै । द्वादशकपालो भवति । द्वादश मासाः संवत्सरः । संवत्सरेणैवास्मा अन्नमवरुन्धे । वैश्वदेवश्चरुर्भवति । वैश्वदेवं वा अन्नम् । अन्नमेवास्मै स्वदयति १०

प्रथमजो वत्सो दक्षिणा समृद्ध्यै । सौम्यꣳ श्यामाकं चरुं निर्वपति । सोमो वा अकृष्टपच्यस्य राजा । अकृष्टपच्यमेवास्मै स्वदयति । वासो दक्षिणा । सौम्यꣳ हि देवतया वासः समृद्ध्यै । सरस्वत्यै चरुं निर्वपति । सरस्वते चरुम् । मिथुनमेवावरुन्धे । मिथुनौ गावौ दक्षिणा समृद्ध्यै । एति वा एष यज्ञमुखादृद्ध्याः । योऽग्नेर्देवताया एति । अष्टावेतानि हवीꣳ षि भवन्ति । अष्टाक्षरा गायत्री ।गायत्रोऽग्निः । तेनैव यज्ञमुखादृद्ध्या अग्नेर्देवतायै नैति
११


1.6.2.1 राजसूय वैश्वदेव

वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ताः सृष्ट न प्राजायन्त । सोऽग्नि-रकामयत । अहमिमाः प्रजनयेयमिति । स प्रजापतये । शुचमदधात् । सोऽशोचत्प्रजामिच्छमानः । तस्माद्यं च प्रजा भुनक्ति यं च न । तावुभौ शोचतः प्रजामिच्छमानौ । तास्वग्निमप्यसृजत् । ता अग्निरध्यैत् १

सोमो रेतोऽदधात् । सविता प्राजनयत् । सरस्वती वाचमदधात् । पूषा-पोषयत् । ते वा एते त्रिः संवत्सरस्य प्रयुज्यन्ते । ये देवाः पुष्टिपतयः । संवत्सरो वै प्रजापतिः । संवत्सरेणैवास्मै प्रजाः प्राजनयत् । ताः प्रजा जाता मरुतोऽघ्नन् । अस्मानपि न प्रायुक्षतेति २

स एतं प्रजापतिर्मारुतꣳ सप्तकपालमपश्यत् । तं निरवपत् । ततो वै प्रजा-भ्योऽकल्पत । यन्मारुतो निरुप्यते । यज्ञस्य क्ळ्प्त्यै । प्रजानामघाताय । सप्तकपालो भवति । सप्तगणा वै मरुतः । गणश एवास्मै विशं कल्पयति । स प्रजापतिरशोचत् ३

याः पूर्वाः प्रजा असृक्षि । मरुतस्ता अवधिषुः । कथमपराः सृजेयेति । तस्य शुष्म आण्डं भूतं निरवर्तत । तद्व्युदहरत् । तदपोषयत् । तत्प्राजायत । आण्डस्य वा एतद्रू पम् । यदामिक्षा । यद्व्युद्धरति ४

प्रजा एव तद्यजमानः पोषयति । वैश्वदेव्यामिक्षा भवति । वैश्वदेव्यो वै प्रजाः । प्रजा एवास्मै प्रजनयति । वाजिनमानयति । प्रजास्वेव प्रजातासु रेतो दधाति । द्यावापृथिव्य एककपालो भवति । प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयतः परिगृह्णाति । देवासुराः संयत्ता आसन् । सोऽग्निरब्रवीत् ५

मामग्रे यजत । मया मुखेनासुराञ्जेष्यथेति । मां द्वितीयमिति सोमोऽब्रवीत् । मया राज्ञा जेष्यथेति । मां तृतीयमिति सविता । मया प्रसूता जेष्यथेति । मां चतुर्थीमिति सरस्वती । इन्द्रि यं वोऽहं धास्यामीति मां पञ्चममिति पूषा । मया प्रतिष्ठया जेष्यथेति ६

तेऽग्निना मुखेनासुरानजयन् । सोमेन राज्ञा । सवित्रा प्रसूताः । सरस्वतीन्द्रियमदधात् । पूषा प्रतिष्ठासीत् । ततो वै देवा व्यजयन्त । यदेतानि हवीꣳषि निरुप्यन्ते विजित्यै । नोत्तरवेदिमुपवपति । पशवो वा उत्तरवेदिः । अजाता इव ह्येतर्हि पशवः ७


1.6.3.1 राजसूय वैश्वदेव

त्रिवृद्बर्हिर्भवति । माता पिता पुत्रः । तदेव तन्मिथुनम् । उल्बं गर्भो जरायु । तदेव तन्मिथुनम् । त्रेधा बर्हिः संनद्धं भवति । त्रय इमे लोकाः । एष्वेव लोकेषु प्रतितिष्ठति । एकधा पुनः संनद्धं भवति । एक इव ह्ययं लोकः १

अस्मिन्नेव तेन लोके प्रतितिष्ठति । प्रसुवो भवन्ति । प्रथमजामेव पुष्टिमवरुन्धे । प्रथमजो वत्सो दक्षिणा समृद्ध्यै । पृषदाज्यं गृह्णाति । पशवो वै पृषदाज्यम् । पशूनेवावरुन्धे । पञ्चगृहीतं भवति । पाङ्क्ता हि पशवः । बहुरूपं भवति २

बहुरूपा हि पशवः समृद्ध्यै । अग्निं मन्थन्ति । अग्निमुखा वै प्रजापतिः प्रजा असृजत । यदग्निं मन्थन्ति । अग्निमुखा एव तत्प्रजा यजमानः सृजते । नव प्रयाजा इज्यन्ते । नवानूयाजाः । अष्टौ हवीꣳ षि । द्वावाघारौ । द्वावाज्यभागौ ३

त्रिꣳ शत्संपद्यन्ते । त्रिꣳ शदक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । यजमानो वा एककपालः । तेज आज्यम् । यदेककपाल आज्यमानयति । यजमानमेव तेजसा समर्धयति । यजमानो वा एककपालः । पशव आज्यम् ४

यदेककपाल आज्यमानयति । यजमानमेव पशुभिः समर्धयति । यदल्पमानयेत् । अल्पा एनं पशवो भुञ्जन्त उपतिष्ठेरन् । यद्बह्वानयेत् । बहव एनं पशवो भुञ्जन्त उपतिष्ठेरन् । बह्वानीयाविः पृष्ठं कुर्यात् । बहव एवैनं पशवो भुञ्जन्त उपतिष्ठन्ते । यजमानो वा एककपालः । यदेककपालस्यावद्येत् २३
यजमानस्यावद्येत् । उद्वा मद्येद्यजमानः । प्र वा मीयेत । सकृदेव होतव्यः । सकृदिव हि सुवर्गो लोकः । हुत्वाभिजुहोति । यजमानमेव सुवर्गं लोकं गमयित्वा । तेजसा समर्धयति । यजमानो वा एककपालः । सुवर्गो लोक आहवनीयः ५

यदेककपालमाहवनीये जुहोति । यजमानमेव सुवर्गं लोकं गमयति । यद्धस्तेन जुहुयात् । सुवर्गाल्लोकाद्यजमानमवविध्येत् । स्रुचा जुहोति । सुवर्गस्य लोकस्य समष्ट्यै । यत्प्राङ्पद्येत । देवलोकमभिजयेत् । यद्दक्षिणा पितृलोकम् । यत्प्रत्यक् ६

रक्षाꣳ सि यज्ञꣳ हन्युः । यदुदङ्।मनुष्यलोकमभिजयेत् । प्रतिष्ठितो होतव्यः । एककपालं वै प्रतितिष्ठन्तं द्यावापृथिवी अनु प्रतितिष्ठतः । द्यावापृथिवी ऋतवः । ऋतून्यज्ञः । यज्ञं यजमानः । यजमानं प्रजाः । तस्मात्प्रतिष्ठितो होतव्यः ७

वाजिनो यजति । अग्निर्वायुः सूर्यः । ते वै वाजिनः । तानेव तद्यजति । अथो खल्वाहुः । छन्दाꣳसि वै वाजिन इति । तान्येव तद्यजति । ऋक्सामे वा इन्द्रस्य हरी सोमपानौ । तयोः परिधय आधानम् । वाजिनं भागधेयम् ८

यदप्रहृत्य परिधीञ्जुहुयात् । अन्तराधानाभ्यां घासं प्रयच्छेत् । प्रहृत्य परिधीञ्जुहोति । निराधानाभ्यामेव घासं प्रयच्छति । बर्हिषि विषिञ्चन्वाजिनमानयति । प्रजा वै बर्हिः । रेतो वाजिनम् । प्रजास्वेव रेतो दधाति । समुपहूय भक्षयन्ति । एतत्सोमपीथा ह्येते । अथो आत्मन्नेव रेतो दधते । यजमान उत्तमो भक्षयति । पशवो वै वाजिनम् । यजमान एव पशून्प्रतिष्ठापयन्ति ९


1.6.4.1 राजसूय वरुणप्रघास

प्रजापतिः सविता भूत्वा प्रजा असृजत । ता एनमत्यमन्यन्त । ता अस्माद-पाक्रामन् । ता वरुणो भूत्वा प्रजा वरुणेनाग्राहयत् । ताः प्रजा वरुणगृहीताः । प्रजापतिं पुनरुपाधावन्नाथमिच्छमानाः । स एतान्प्रजापतिर्वरुणप्रघासा-नपश्यत् । तान्निरवपत् । तैर्वै स प्रजा वरुणपाशादमुञ्चत् । यद्वरुणप्रघासा निरुप्यन्ते १

प्रजानामवरुणग्राहाय । तासां दक्षिणो बाहुर्न्यक्न आसीत् । सव्यः प्रसृतः । स एतां द्वितीयां दक्षिणतो वेदिमुदहन् । ततो वै स प्रजानां दक्षिणं बाहुं प्रासारयत् । यद्द्वितीयां दक्षिणतो वेदिमुद्धन्ति । तस्माच्चातुर्मास्ययाज्य-मुष्मिꣳ ल्लोक उभयाबाहुः । यज्ञाभिजितꣳ ह्यस्य । पृथमात्राद्वेदी असंभिन्ने भवतः २

तस्मात्पृथमात्रं व्यꣳ सौ । उत्तरस्यां वेद्यामुत्तरवेदिमुपवपति । पशवो वा उत्तरवेदिः । पशूनेवावरुन्धे । अथो यज्ञपरुषोऽनन्तरित्यै । एतद्ब्राह्मणान्येव पञ्च हवीꣳ षि । अथैष ऐन्द्रा ग्नो भवति । प्राणापानौ वा एतौ देवानाम् । यदिन्द्रा ग्नी । यदैन्द्राग्नो भवति ३

प्राणापानावेवावरुन्धे । ओजो बलं वा एतौ देवानाम् । यदिन्द्रा ग्नी ।यदैन्द्रा ग्नो भवति । ओजो बलमेवावरुन्धे । मारुत्यामिक्षा भवति । वारुण्यामिक्षा । मेषी च मेषश्च भवतः । मिथुना एव प्रजा वरुणपाशान्मुञ्चति । लोमशौ भवतो मेध्यत्वाय ४

शमीपर्णान्युपवपति । घासमेवाभ्यामपियच्छति । प्रजापतिमन्नाद्यं नोपानमत् । स एतेन शतेध्मेन हविषान्नाद्यमवारुन्ध । यत्परःशतानि शमीपर्णानि भवन्ति । अन्नाद्यस्यावरुद्ध्यै । सौम्यानि वै करीराणि । सौम्या खलु वा आहुतिर्दिवो वृष्टिं च्यावयति । यत्करीराणि भवन्ति । सौम्ययैवाहुत्या दिवो वृष्टिमवरुन्धे । काय एककपालो भवति । प्रजानं कन्त्वाय । प्रतिपूरुषं करम्भपात्राणि भवन्ति । जाता एव प्रजा वरुणपाशान्मुञ्चति । एकमतिरिक्तम् । जनिष्यमाणा एव प्रजा वरुणपाशान्मुञ्चति ५


1.6.5.1 राजसूय वरुणप्रघास

उत्तरस्यां वेद्यामन्यानि हवीꣳ षि सादयति । दक्षिणायां मारुतीम् । अपधुर-मेवैनां युनक्ति । अथो ओज एवासामवहरति । तस्माद्ब्रह्मणश्च क्षत्त्राच्च विशोऽन्यतोऽपक्रमिणीः । मारुत्या पूर्वया प्रचरति । अनृतमेवावयजते । वारुण्योत्तरया । अन्तत एव वरुणमवयजते । यदेवाध्वर्युः करोति १

तत्प्रतिप्रस्थाता करोति । तस्माद्यच्छ्रेयान्करोति । तत्पापीयान्करोति । पत्नीं वाचयति । मेध्यामेवैनां करोति । अथो तप एवैनामुपनयति । यज्जारꣳ सन्तं न प्रब्रूयात् । प्रियं ज्ञातिꣳ रुन्ध्यात् । असौ मे जार इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयति २

प्रघास्यान्हवामह इति पत्नीमुदानयति । अहूतैवैनाम् । यत्पत्नी पुरोनुवा-क्यामनुब्रूयात् । निर्वीर्यो यजमानः स्यात् । यजमानोऽन्वाह । आत्मन्नेव वीर्यं धत्ते । उभौ याज्याꣳ सवीर्यत्वाय । यद्ग्रामे यदरण्य इत्याह । यथोदितमेव वरुणमवयजते । यजमानदेवत्यो वा आहवनीयः ३

भ्रातृव्यदेवत्यो दक्षिणः । यदाहवनीये जुहुयात् । यजमानं वरुणपाशेन ग्राहयेत् । दक्षिणेऽग्नौ जुहोति । भ्रातृव्यमेव वरुणपाशेन ग्राहयति । शूर्पेण जुहोति । अन्यमेव वरुणमवयजते । शीर्षन्नधिनिधाय जुहोति । शीर्षत एव वरुणमवयजते । प्रत्यङ्तिष्ठञ्जुहोति ४

प्रत्यङ्ङेव वरुणपाशान्निर्मुच्यते । अक्रन्कर्म कर्मकृत इत्याह । देवानृणं निरवदाय । अनृणा गृहानुपप्रेतेति वावैतदाह । वरुणगृहीतं वा एतद्यज्ञस्य । यद्यजुषा गृहीतस्यातिरिच्यते । तुषाश्च निष्कासश्च । तुषैश्च निष्कासेन चावभृथमवैति । वरुणगृहीतेनैव वरुणमवयजते । अपोऽवभृथमवैति ५

अप्सु वै वरुणः । साक्षादेव वरुणमवयजते । प्रतियुतो वरुणस्य पाश इत्याह । वरुणपाशादेव निर्मुच्यते । अप्रतीक्षमायन्ति । वरुणस्यान्तर्हित्यै । एधोऽस्येधिषीमहीत्याह । समिधैवाग्निं नमस्यन्त उपायन्ति । तेजोऽसि तेजो मयि धेहीत्याह । तेज एवात्मन्धत्ते ६


1.6.6.1 राजसूय साकमेध

देवासुराः संयत्ता आसन् । सोऽग्निरब्रवीत् । ममेयमनीकवती तनूः । तां प्रीणीत । अथासुरानभिभविष्यथेति । ते देवा अग्नयेऽनीकवते पुरोडाशमष्टा-कपालं निरवपन् । सोऽग्निरनीकवान्स्वेन भागधेयेन प्रीतः । चतुर्धानीकान्यजनयत । ततो देवा अभवन् । परासुराः १

यदग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति । अग्निमेवानीकवन्तꣳ स्वेन भागधेयेन प्रीणाति । सोऽग्निरनीकवान्स्वेन भागधेयेन प्रीतः । चतुर्धानीकानि जनयते । असौ वा आदित्योऽग्निरनीकवान् । तस्य रश्मयोऽनीकानि । साकꣳ सूर्येणोद्यता निर्वपति । साक्षादेवास्मा अनीकानि जनयति । तेऽसुराः पराजिता यन्तः । द्यावापृथिवी उपाश्रयन् २

ते देवा मरुद्भ्यः सांतपनेभ्यश्चरुं निरवपन् । तां द्यावापृथिवीभ्यामेवोभयतः समतपन् । यन्मरुद्भ्यः सांतपनेभ्यश्चरुं निर्वपति । द्यावापृथिवीभ्यामेव तदुभ-यतो यजमानो भ्रातृव्यान्संतपति । मध्यंदिने निर्वपति । तर्हि हितेऽक्ष्निष्ठं तपति । चरुर्भवति । सर्वत एवैनान्संतपति । ते देवाः श्वोविजयिनः सन्तः । सर्वासां दुग्धे गृहमेधीयं चरुं निरवपन् ३

आशिता एवाद्योपवसाम । कस्य वा हेदम् । कस्य वा श्वो भवितेति । स शृतोऽभवत् । तस्याहुतस्य नाश्नन्न् । न हि देवा अहुतस्याश्नन्ति । तेऽब्रुवन् । कस्मा इमꣳ होष्याम इति । मरुद्भ्यो गृहमेधिभ्य इत्यब्रुवन् । तं मरुद्भ्यो गृहमेधिभ्योऽजुहवुः ४

ततो देवा अभवन् । परासुराः । यस्यैवं विदुषो मरुद्भ्यो गृहमेधिभ्यो गृहे जुह्वति । भवत्यात्मना । परास्य भ्रातृव्यो भवति । यद्वै यज्ञस्य पाकत्रा क्रियते । पशव्यं तत् । पाकत्रा वा एतत्क्रियते । यन्नेध्माबर्हिर्भवति । न सामिधेनीरन्वाह ५

न प्रयाजा इज्यन्ते । नानूयाजाः । य एवं वेद । पशुमान्भवति । आज्यभागौ यजति । यज्ञस्यैव चक्षुषी नान्तरेति । मरुतो गृहमेधिनो यजति । भागधेयेनैवैनान्समर्धयति । अग्निꣳ स्विष्टकृतं यजति प्रतिष्ठित्यै । इडान्तो भवति । पशवो वा इडा । पशुष्वेवोपरिष्टात्प्रतितिष्ठति ६


1.6.7.1 राजसूय साकमेध

यत्पत्नी गृहमेधीयस्याश्नीयात् । गृहमेध्येव स्यात् । वि त्वस्य यज्ञ ऋध्येत । यन्नाश्नीयात् । अगृहमेधी स्यात् । नास्य यज्ञो व्यृद्ध्येत । प्रतिवेशं पचेयुः । तस्याश्नीयात् । गृहमेध्येव भवति । नास्य यज्ञो व्यृध्यते १

ते देवा गृहमेधीयेनेष्ट्वा । आशिता अभवन् । आञ्जताभ्यञ्जत । अनु वत्सानवासयन् । तेभ्योऽसुराः क्षुधं प्राहिण्वन् । सा देवेषु लोकमवित्त्वा । असुरान्पुनरगच्छत् । गृहमेधीयेनेष्ट्वा । आशिता भवन्ति । आञ्जतेऽभ्यञ्जते २

अनु वत्सान्वासयन्ति । भ्रातृव्यायैव तद्यजमानः क्षुधं प्रहिणोति । ते देवा गृहमेधीयेनेष्ट्वा । इन्द्राय निष्कासं न्यदधुः । अस्मानेव श्व इन्द्रो निहितभाग उपावर्तितेति । तानिन्द्रो निहितभाग उपावर्तत । गृहमेधीयेनेष्ट्वा । इन्द्राय निष्कासं निदध्यात् । इन्द्र एवैनं निहितभाग उपावर्तते । गार्हपत्ये जुहोति ३

भागधेयेनैवैनꣳ समर्धयति । ऋषभमाह्वयति । वषट्कार एवास्य सः । अथो इन्द्रियमेव तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते । इन्द्रो वृत्रꣳ हत्वा । परां परावतमगच्छत् । अपाराधमिति मन्यमानः । सोऽब्रवीत् । क इदं वेदिष्यतीति । तेऽब्रुवन्मरुतो वरं वृणामहै ४

अथ वयं वेदाम । अस्मभ्यमेव प्रथमꣳ हविर्निरुप्याता इति । त एनमध्यक्रीडन् । तत्क्रीडिनां क्रीडित्वम् । यन्मरुद्भ्यः क्रीडिभ्यः प्रथमꣳ हविर्निरुप्यते विजित्यै । साकꣳ सूर्येणोद्यता निर्वपति । एतस्मिन्वै लोक इन्द्रो वृत्रमहन्समृद्ध्यै । एतद्ब्राह्मणान्येव पञ्च हवीꣳषि । एतद्ब्राह्मण ऐन्द्राग्नः । अथैष ऐन्द्रश्चरुर्भवति ५

उद्धारं वा एतमिन्द्र उदहरत । वृत्रꣳ हत्वा । अन्यासु देवतास्वधि । यदेष ऐन्द्र श्चरुर्भवति । उद्धारमेव तं यजमान उद्धरते । अन्यासु प्रजास्वधि । वैश्वकर्मण एककपालो भवति । विश्वान्येव तेन कर्माणि यजमानोऽवरुन्धे ६


1.6.8.1 राजसूय पिण्डपितृयज्ञ

वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ता वरुणप्रघासैर्वरुणपाशादमुञ्चत् । साकमेधैः प्रत्यस्थापयत् । त्र्यम्बकै रुद्रं निरवादयत । पितृयज्ञेन सुवर्गं लोकमगमयत् । यद्वैश्वदेवेन यजते । प्रजा एव तद्यजमानः सृजते । ता वरुणप्रघासैर्वरुणपाशान्मुञ्चति । साकमेधैः प्रतिष्ठापयति । त्र्यम्बकै रुद्रं निरवदयते १

पितृयज्ञेन सुवर्गं लोकं गमयति । दक्षिणतः प्राचीनावीती निर्वपति । दक्षिणावृद्धि पितृणाम् । अनादृत्य तत् । उत्तरत एवोपवीय निर्वपेत् । उभये हि देवाश्च पितरश्चेज्यन्ते । अथो यदेव दक्षिणार्धेऽधिश्रयति । तेन दक्षिणावृत् । सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति । संवत्सरो वै सोमः पितृमान् २

संवत्सरमेव प्रीणाति । पितृभ्यो बर्हिषद्भ्यो धानाः । मासा वै पितरो बर्हिषदः । मासानेव प्रीणाति । यस्मिन्वा ऋतौ पुरुषः प्रमीयते । सोऽस्यामुष्मिꣳ ल्लोके भवति । बहुरूपा धाना भवन्ति । अहोरात्राणामभिजित्यै । पितृभ्योऽग्निष्वात्तेभ्यो मन्थम् । अर्धमासा वै पितरोऽग्निष्वाताः ३

अर्धमासानेव प्रीणाति । अभिवान्यायै दुग्धे भवति । सा हि पितृदेवत्यं दुहे । यत्पूर्णम् । तन्मनुष्याणाम् । उपर्यर्धो देवानाम् । अर्धः पितृणाम् । अर्ध उपमन्थति । अर्धो हि पितृणाम् । एकयोपमन्थति ४

एका हि पितृणाम् । दक्षिणोपमन्थति । दक्षिणावृद्धि पितृणाम् । अनार-भ्योपमन्थति । तद्धि पितॄन्गच्छति । इमां दिशं वेदिमुद्धन्ति । उमये हि देवाश्च पितरश्चेज्यन्ते । चतुःस्रक्तिर्भवति । सर्वा ह्यनु दिशः पितरः । अखाता भवति ५

खाता हि देवानाम् । मध्यतोऽग्निराधीयते । अन्ततो हि देवानामाधीयते । वर्षीयानिध्म इध्माद्भवति व्यावृत्त्यै । परिश्रयति । अन्तर्हितो हि पितृलोको मनुष्यलोकात् । यत्परुषि दिनम् । तद्देवानाम् । यदन्तरा । तन्मनुष्याणाम् ६

यत्समूलम् । तत्पितृणाम् । समूलं बर्हिर्भवति व्यावृत्त्यै । दक्षिणा स्तृणाति । दक्षिणावृद्धि पितृणाम् । त्रिः पर्येति । तृतीये वा इतो लोके पितरः । तानेव प्रीणाति । त्रिः पुनः पर्येति । षट्संपद्यन्ते ७

षड्वा ऋतवः । ऋतूनेव प्रीणाति । यत्प्रस्तरं यजुषा गृह्णीयात् । प्रमायुको यजमानः स्यात् । यन्न गृह्णीयात् । अनायतनः स्यात् । तूष्णीमेव न्यस्येत् । न प्रमायुको भवति । नानायतनः । यत्त्रीन्परिधीन्परिदध्यात् ८

मृत्युना यजमानं परिगृह्णीयात् । यन्न परिदध्यात् । रक्षाꣳ सि यज्ञꣳ हन्युः । द्वौ परिधी परिदधाति । रक्षसामपहत्यै । अथो मृत्योरेव यजमानमुत्सृजति । यत्त्रीणित्रीणि हवीꣳ ष्युदाहरेयुः । त्रयस्त्रय एषाꣳ साकं प्रमीयेरन् । एकैकम-नूचीनान्युदाहरन्ति । एकैक एवैषामन्वञ्चः प्रमीयते । कशिपु कशिपव्याय । उपबर्हणमुपबर्हण्याय । आञ्जनमाञ्जन्याय । अभ्यञ्जनमभ्यञ्जन्याय ।
यथाभागमेवैनान्प्रीणाति ९


1.6.9.1राजसूय पितृयज्ञः

अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीत्याह । उभये हि देवाश्च पितरश्चेज्यन्ते । एकामन्वाह । एका हि पितृणाम् । त्रिरन्वाह । त्रिर्हि देवानाम् । आघारावाघारयति । यज्ञपरुषोरनन्तरित्यै । नार्षेयं वृणीते । न होतारम् १

यदार्षेयं वृणीत । यद्धोतारम् । प्रमायुको यजमानः स्यात् । प्रमायुको होता । तस्मान्न वृणीते । यजमानस्य होतुर्गोपीथाय । अपबर्हिषः प्रयाजान्यजति । प्रजा वै बर्हिः । प्रजा एव मृत्योरुत्सृजति । आज्यभागौ यजति २

यज्ञस्यैव चक्षुषी नान्तरेति । प्राचीनावीती सोमं यजति । पितृदेवत्या हि । एषाहुतीः । पञ्चकृत्वोऽवद्यति । पञ्च ह्येता देवताः । द्वे पुरोऽनुवाक्ये । याज्या देवता वषट्कारः । ता एव प्रीणाति । सन्ततमवद्यति ३

ऋतूनाꣳ संतत्यै । प्रैवैभ्यः पूर्वया पुरोऽनुवाक्ययाह । प्रणयति द्वितीयया । गमयति याज्यया । तृतीये वा इतो लोके पितरः । अह्न एवैनान्पूर्वया पुरोऽनुवाक्ययात्यानयति । रात्रियै द्वितीयया । ऐवैनान्याज्यया गमयति । दक्षिणतोऽवदाय । उदङ्ङतिक्रामति व्यावृत्त्यै ४

आ स्वधेत्याश्रावयति । अस्तु स्वधेति प्रत्याश्रावयति । स्वधा नम इति वषट्करोति । स्वधाकारो हि पितृणाम् । सोममग्रे यजति । सोमप्रयाजा हि पितरः । सोमं पितृमन्तं यजति । संवत्सरो वै सोमः पितृमान् । संवत्सरमेव तद्यजति । पितॄन्बर्हिषदो यजति ५

ये वै यज्वानः । ते पितरो बर्हिषदः । तानेव तद्यजति । पितॄनग्निष्वा-त्तान्यजति । ये वा अयज्वानो गृहमेधिनः । ते पितरोऽग्निष्वात्ताः । तानेव तद्यजति । अग्निं कव्यवाहनं यजति । य एव पितृणामग्निः । तमेव तद्यजति ६

अथो यथाग्निꣳ स्विष्टकृतं यजति । तादृगेव तत् । एतत्ते तत ये च त्वामन्विति तिसृषु स्रक्तीषु निदधाति । तस्मादा तृतीयात्पुरुषान्नाम निगृह्णन्ति । एतावन्तो हीज्यन्ते । अत्र पितरो यथाभागं मन्दध्वमित्याह । ह्लीका हि पितरः । उदञ्चो निष्क्रामन्ति । एषा वै मनुष्याणां दिक् । स्वामेव तद्दिशमनु निष्क्रामन्ति ७

आहवनीयमुपतिष्ठन्ते । न्येवास्मै तद्ध्नुवते । यत्सत्याहवनीये । अथान्यत्र चरन्ति । आ तमितोरुपतिष्ठन्ते । अग्निमेवोपद्र ष्टारं कृत्वा । पितॄन्निरवदयन्ते । अन्तं वा एते प्राणानां गच्छन्ति । य आ तमितोरुपतिष्ठन्ते । सुसंदृशं त्वा वयमित्याह ८

प्राणो वै सुसंदृक् । प्राणमेवात्मन्दधते । योजा न्विन्द्र ते हरी इत्याह । प्राणमेव पुनरयुङ्क्त । अक्षन्नमीमदन्त हीति गार्हपत्यमुपतिष्ठन्ते । अक्षन्नमीम-दन्ताथ त्वोपतिष्ठामह इति वावैतदाह । अमीमदन्त पितरः सोम्या इत्यभि-प्रपद्यन्ते । अमीमदन्त पितरोऽथ त्वाभिप्रपद्यामह इति वावैतदाह । अपः परिषिञ्चति । मार्जयत्येवैनान् ९

अथो तर्पयत्येव । तृप्यति प्रजया पशुभिः । य एवं वेद । अपबर्हिषावनूयाजौ यजति । प्रजा वै बर्हिः । प्रजा एव मृत्योरुत्सृजति । चतुरः प्रयाजान्यजति । द्वावनूयाजौ । षट्संपद्यन्ते । षड्वा ऋतवः १०

ऋतूनेव प्रीणाति । न पत्न्यन्वास्ते । न संयाजयन्ति । यत्पत्न्यन्वासीत । यत्संयाजयेयुः । प्रमायुका स्यात् । तस्मान्नान्वास्ते । न संयाजयन्ति
। पत्नियै गोपीथाय ११


1.6.10.1 राजसूय त्र्यम्बकहविः

प्रतिपूरुषमेककपालान्निर्वपति । जाता एव प्रजा रुद्रा न्निरवदयते । एकमति-रिक्तम् । जनिष्यमाणा एव प्रजा रुद्रा न्निरवदयते । एककपाला भवन्ति । एकधैव रुद्रं निरवदयते । नाभिघारयति । यदभिघारयेत् । अन्तरवचारिणꣳ रुद्रं कुर्यात् । एकोल्मुकेन यन्ति १

तद्धि रुद्र स्य भागधेयम् । इमां दिशं यन्ति । एषा वै रुद्र स्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते । रुद्रो वा अपशुकाया आहुत्यै नातिष्ठत । असौ ते पशुरिति निर्दिशेद्यं द्विष्यात् । यमेव द्वेष्टि । तमस्मै पशुं निर्दिशति । यदि न द्विष्यात् । आखुस्ते पशुरिति ब्रूयात् २

न ग्राम्यान्पशून्हिनस्ति । नारण्यान् । चतुष्पथे जुहोति । एष वा अग्नीनां पड्बीशो नाम । अग्निवत्येव जुहोति । मध्यमेन पर्णेन जुहोति । स्रुग्ध्येषा । अथो खलु । अन्तमेनैव होतव्यम् । अन्तत एव रुद्रं निरवदयते ३

एष ते रुद्र भागः सह स्वस्राम्बिकया इत्याह । शरद्वा अस्याम्बिका स्वसा । तया वा एष हिनस्ति । यꣳ हिनस्ति । तयैवैनꣳ सह शमयति । भेषजं गव इत्याह । यावन्त एव ग्राम्याः पशवः । तेभ्यो भेषजं करोति । अवाम्ब रुद्र मदिमहीत्याह । आशिषमेवैतामाशास्ते ४

त्र्! यम्बकं यजामह इत्याह । मृत्योर्मुक्षीय मामृतादिति वावैतदाह । उत्किरन्ति । भगस्य लीप्सन्ते । मूते कृत्वा सजन्ति । यथा जनं यतेऽवसं करोति । तादृगेव तत् । एष ते रुद्र भाग इत्याह निरवत्त्यै । अग्रतीक्षमायन्ति । अपः परिषिञ्चति । रुद्र स्यान्तर्हित्यै । प्र वा एतेऽस्माल्लोकाच्च्यवन्ते । ये त्र्यम्बकैश्चरन्ति । आदित्यं चरुं पुनरेत्य निर्वपति । इयं वा अदितिः ।
अस्यामेव प्रतितिष्ठन्ति ५