तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०७
1.7.1.1 राजसूय शुनासीरः
एतद्ब्राह्मणान्येव पञ्च हवीꣳषि । अथेन्द्राय शुनासीराय पुरोडाशं द्वादश्कपालं निर्वप्तै । संवत्सरो वा इन्द्रा शुनासीरः । संवत्सरेणैवास्मा अन्नमवरुन्धे । वायव्यं पयो भवति । वायुर्वै वृष्ट्यै प्रदापयिता । स एवास्मै वृष्टिं प्रदापयति । सौर्य एककपालो भवति । सूर्येण वा अमुष्मिꣳल्लोके वृष्टिर्धृता । स एवास्मै वृष्टिं नियच्छति १
द्वादशगवꣳ सीरं दक्षिणा समृद्ध्यै । देवासुराः संयत्ता आसन् । ते देवा अग्निमब्रुवन् । त्वया वीरेणासुरानभिभवामेति । सोऽब्रवीत् । त्रेधाहमात्मानं विकरिष्य इति । स त्रेधात्मानं व्यकुरुत । अग्निं तृतीयम् । रुद्रं तृतीयम् । वरुणं तृतीयम् २
सोऽब्रवीत् । क इदं तुरीयमिति । अहमितीन्द्रो ऽब्रवीत् । सं तु सृजावहा इति । तौ समसृजेताम् । स इन्द्रस्तुरीयमभवत् । यदिन्द्रस्तुरीयमभवत् । तदिन्द्रतुरीयस्येन्द्र तुरीयत्वम् । ततो वै देवा व्यजयन्त । यदिन्द्रतुरीयं निरुप्यते विजित्यै ३
वहिनी धेनुर्दक्षिणा । यद्वहिनी तेनाग्नेयी । यद्गौः । तेन रौद्री ।यद्धेनुः । तेनैन्द्री ।यत्स्त्री सती दान्ता । तेन वारुणी समृद्ध्यै । प्रजापतिर्यज्ञमसृजत ४
तꣳ सृष्टꣳ रक्षाꣳस्यजिघाꣳसन् । स एताः प्रजापतिरात्मनो देवता निरमिमीत । ताभिर्वै स दिग्भ्यो रक्षाꣳसि प्राणुदत । यत्पञ्चावत्तीयं जुहोति । दिग्भ्य एव तद्यजमानो रक्षाꣳसि प्रणुदते । समूढꣳ रक्षः संदग्धꣳ रक्ष इत्याह । रक्षाꣳस्येव संदहति । अग्नये रक्षोघ्ने स्वाहेत्याह । देवताभ्य एव विजिग्यानाभ्यो भगधेयं करोति । प्रष्टिवाही रथो दक्षिणा समृद्ध्यै ५
इन्द्रो वृत्रꣳ हत्वा । असुरान्पराभाव्य । नमुचिमासुरं नालभत नालभत । तꣳ शच्यागृह्णात् । तौ समलभेताम् । सोऽस्मादभिशुनतरोऽभवत् । सोऽब्रवीत् । संधाꣳ संदधावहै । अथ त्वावः स्रक्ष्यामि । न मा शुष्केण नार्द्रेण हनः ६
न दिवा न नक्तमिति । स एतमपां फेनमसिञ्चत् । न वा एष शुष्को नार्द्रो व्युष्टासीत् । अनुदितः सूर्यः । न वा एतद्दिवा न नक्तम् । तस्यैतस्मिꣳल्लोके । अपां फेनेन शिर उदवर्तयत् । तदेनमन्ववर्तत । मित्रध्रुगिति ७
स एतानपामार्गानजनयत् । तानजुहोत् । तैर्वै स रक्षाꣳस्यपाहत । यदपामार्गहोमो भवति । रक्षसामपहत्यै । एकोल्मुकेन यन्ति । तद्धि रक्षसां भागधेयम् । इमां दिशं यन्ति । एषा वै रक्षसां दिक् । स्वायामेव दिशि रक्षाꣳसि हन्ति ८
स्वकृत इरिणे जुहोति प्रदरे वा । एतद्वै रक्षसामायतनम् । स्व एवायतने रक्षाꣳसि हन्ति । पर्णमयेन स्रुवेण जुहोति । ब्रह्म वै पर्णः । ब्रह्मणैव रक्षाꣳसि हन्ति । देवस्य त्वा सवितुः प्रसव इत्याह । सवितृप्रसूत एव रक्षाꣳसि हन्ति । हतꣳ रक्षो वधिष्म रक्ष इत्याह । रक्षसाꣳ स्तृत्यै । यद्वस्ते तद्दक्षिणा निरवत्त्यै । अप्रतीक्षमायन्ति । रक्षसामन्तर्हित्यै ९
1.7.2.1 राजसूये देविकाहवींषि
धात्रे पुरोडाशं द्वादशकपालं निर्वपति । संवत्सरो वै धाता । संवत्सरेणैवास्मै प्रजाः प्रजनयति । अन्वेवास्मा अनुमतिर्मन्यते । राते राका । प्र सिनीवाली जनयति । प्रजास्वेव प्रजातासु कुह्वा वाचं दधाति । मिथुनौ गावौ दक्षिणा समृद्ध्यै । आग्नावैष्णवमेकादशकपालं निर्वपति । ऐन्द्रावैष्णवमेकादशक-पालम् १
वैष्णवं त्रिकपालम् । वीर्यं वा अग्निः । वीर्यमिन्द्रः । वीर्यं विष्णुः । प्रजा एव प्रजाता वीर्ये प्रतिष्ठापयति । तस्मात्प्रजा वीर्यवतीः । वामन ऋषभो वही दक्षिणा । यद्वही तेनाग्नेयः । यदृषभः २
तेनाइन्द्रः । यद्वामनः । तेन वैष्णवः समृद्ध्यै । अग्नीषोमीयमेकादशकपालं निर्वपति । इन्द्रा सोमीयमेकादशकपालम् । सौम्यं चरुम् । सोमो वै रेतोधाः । अग्निः प्रजानां प्रजनयिता । वृद्धानामिन्द्रः प्रदापयिता । सोम एवास्मै रेतो दधाति ३
अग्निः प्रजां प्रजनयति । वृद्धामिन्द्रः प्रयच्छति । बभ्रुर्दक्षिणा समृद्ध्यै । सोमापौष्णं चरुं निर्वपति । ऐन्द्रा पौष्णं चरुम् । सोमो वै रेतोधाः । पूषा पशूनां प्रजनयिता । वृद्धानामिन्द्रः प्रदापयिता । सोम एवास्मै रेतो दधाति । पूषा पशून्प्रजनयति ४
वृद्धानिन्द्रः प्रयच्छति । पौष्णश्चरु भवति । इयं वै पूषा । अस्यामेव प्रतितिष्ठति । श्यामो दक्षिणा समृद्ध्यै । बहु वै पुरुषोऽमेध्यमुपगच्छति । वैश्वानरं द्वादशकपाअं निर्वपति । संवत्सरो वा अग्निर्वैश्वानरः । संवत्सरे-णैवैनꣳ स्वदयति । हिरण्यं दक्षिणा ५
पवित्रं वै हिरण्यम् । पुनात्येवैनम् । बहु वै राजन्योऽनृतं करोति । उप जाम्यै हरते । जिनाति ब्राह्मणम् । वदत्यनृतम् । अनृते खलु वै क्रियमाणे वरुणो गृह्णाति । वारुणं यवमयं चरुं निर्वपति । वरुणपाशदेवैनं मुञ्चति । अश्वो दक्षिणा । वारुणो हि देवतयाश्वः समृद्ध्यै ६
1.7.3.1 राजसूये रत्निनां हविः
रत्निनामेतानि हवीꣳषि भवन्ति । एते वै राष्ट्रस्य प्रदातारः । एतेऽपादातारः । य एव राष्ट्रस्य प्रदातारः । येऽपादातारः । त एवास्मै राष्ट्रं प्रयच्छन्ति । राष्ट्रमेव भवति । यत्समाहृत्य निर्वपेत् । अरत्निनः स्युः । यथायथं निर्वपति रत्नित्वाय १
यत्सद्यो निर्वपेत् । यावतीमेकेन हविषाशिषमवरुन्धे । तावतीमवरुन्धीत । अन्वहं निर्वपति । भुयसीमेवाशिषमवरुन्धे । भूयसो यज्ञक्रतूनुपैति । बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृहे । मुखत एवास्मै ब्रह्म सꣳश्यति । अथो ब्रह्मन्नेव क्षत्त्रमन्वारम्भयति । शितिपृष्ठो दक्षिणा समृद्ध्यै २
न्द्रै! मेकादशकपालꣳ राजन्यस्य गृहे । इन्द्रि यमेवावरुन्धे । ऋषभो दक्षिणा समृद्ध्यै । आदित्यं चरुं महिष्यै गृहे । इयं वा अदितिः । अस्यामेव प्रतितिष्ठति । धेनुर्दक्षिणा समृद्ध्यै । भगाय चरुं वावातायै गृहे । भगमेवास्मिन्दधाति । विचित्तगर्भा पष्ठौही दक्षिणा समृद्ध्यै ३
नैरृतं चरुं परिवृक्त्यै गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नम् । पाप्मानमेव निरृतिं निरवदयते कृष्णा कूटा दक्षिणा समृद्ध्यै । आग्नेयमष्टाकपालꣳ सेनान्यो गृहे । सेनामेवास्य सꣳश्यति । हिरण्यं दक्षिणा समृद्ध्यै । वारुणं दशकपालꣳ सूतस्य गृहे । वरुणसवमेवावरुन्धे । महानिरष्टो दक्षिणा समृद्ध्यै । मारुतꣳ सप्तकपालं ग्रामण्यो गृहे ४
अन्नं वै मरुतः । अन्नमेवावरुन्धे । पृश्निर्दक्षिणा समृद्ध्यै । सावित्रं द्वादशकपालं क्षत्तुर्गृहे प्रसूत्यै । उपध्वस्तो दक्षिणा समृद्ध्यै । आश्विनं द्विकपालꣳ संग्रहीतुर्गृहे । अश्विनौ वै देवानां भिषजौ । ताभ्यामेवास्मै भेषजं करोति । सवात्यौ दक्षिणा समृद्ध्यै । पौष्णं चरुं भागदुघस्य गृहे ५
अन्नं वै पूषा । अन्नमेवावरुन्धे । श्यामो दक्षिणा समृद्ध्यै । रौद्रं गावीधुकं चरुमक्षावापस्य गृहे । अन्तत एव रुद्रं निरवदयते । शबल उद्वारो दक्षिणा समृद्ध्यै । द्वादशैतानि हवीꣳषि भवन्ति । द्वादश मासाः संवत्सरः । संवत्सरेनैवास्मै राष्ट्रमवरुन्धे । राष्ट्रमेव भवति ६
यन्न प्रतिनिर्वपेत् । रत्निन आशिषोऽवरुन्धीरन्न् । प्रतिनिर्वपति । इन्द्रा य सुत्राम्णे पुरोडाशमेकादशकपालम् । इन्द्रा याꣳहोमुचे । आशिष एवावरुन्धे । आयन्नो राजा वृत्रहा राजा । भूत्वा वृत्रं वध्यादित्याह । आशिषमेवैता-माशास्ते । मैत्राबार्हस्पत्यं भवति । श्वेतायै श्वेतवत्सायै दुग्धे ७
बार्हस्पत्ये मैत्रमपिदधाति । ब्रह्म चैवास्मै क्षत्त्रं च समीची दधाति । अथो ब्रह्मन्नेव क्षत्त्रं प्रतिष्ठापयति । बार्हस्पत्येन पूर्वेण प्रचरति । मुखत एवास्मै ब्रह्म सꣳश्यति । अथो ब्रह्मन्नेव क्षत्त्रमन्वारम्भयति । स्वयंकृता वेदिर्भवति । स्वयंदिनं बर्हिः । स्वयंकृत इध्मः । अनभिजितस्याभिजित्यै । तस्माद्रा ज्ञामरण्यमभिजितम् । सैव श्वेता श्वेतवत्सा दक्षिणा समृद्ध्यै ८
1.7.4.1 राजसूये देवसुवां हविः
देवसुवामेतानि हवीꣳषि भवन्ति । एतावन्तो वै देवानाꣳ सवाः । त एवास्मै सवान्प्रयच्छन्ति । त एनꣳ सुवन्ते । अग्निरेवैनं गृहपतीनाꣳ सुवते । सोमो वनस्पतीनाम् । रुद्र ः! पशूनाम् । बृहस्पतिर्वाचाम् । इन्द्रो ज्येष्ठानाम् । मित्रः सत्यानाम् १
वरुणो धर्मपतीनाम् । एतदेव सर्वं भवति । सविता त्वा प्रसवानाꣳ सुवतामिति हस्तं गृह्णाति प्रसूत्यै । ये देवा देवसुवः स्थेत्याह । यथायजुरेवैतत् । महते क्षत्त्राय महत आधिपत्याय महते जानराज्यायेत्याह । आशिषमेवैतामाशास्ते । एष वो भरता राजा सोमोऽस्माकं ब्राह्मणानाꣳ राजेत्याह । तस्मात्सोमराजानो ब्राह्मणाः । प्रति त्यन्नाम राज्यमधायीत्याह २
राज्यमेवास्मिन्प्रतिदधाति । स्वां तनुवं वरुणो अशिश्रेदित्याह । वरुणसवमेवावरुन्धे । शुचेर्मित्रस्य व्रत्या अभूमेत्याह । शुचिमेवैनं व्रत्यं करोति । अमन्महि महत ऋतस्य नामेत्याह । मनुत एवैनम् । सर्वे व्राता वरुणस्याभूवन्नित्याह । सर्वव्रातमेवैनं करोति । वि मित्र एवैररातिमतारीदित्याह ३
अरातिमेवैनं तारयति । असूषुदन्त यज्ञिया ऋतेनेत्याह । स्वदयत्येवैनम् । व्यु त्रितो जरिमाणं न आनडित्याह । आयुरेवास्मिन्दधाति । द्वाभ्यां विमृष्टे । द्विपाद्यजमानः प्रतिष्ठित्यै । अग्नीषोमीयस्य चैकादशकपालस्य देवसुवां च हविषामग्नये स्विष्टकृते समवद्यति । देवताभिरेवैनमुभयतः परिगृह्णाति । विष्णुक्रमान्क्रमते । विष्णुरेव भूत्वेमान्लोकानभिजयति ४
1.7.5.1 राजसूये जलग्रहणम् जलाहरणम्
अर्थेतः स्थेति जुहोति । आहुत्यैवैना निष्क्रीय गृह्णाति । अथो हविष्कृतानामेवाभिघृतानां गृह्णाति । वहन्तीनां गृह्णाति । एता वा अपाꣳ रष्ट्रम् । राष्ट्रमेवास्मै गृह्णाति । अथो श्रियमेवैनमभिवहन्ति । अपां पतिरसीत्याह । मिथुनमेवाकः । वृषास्यूर्मिरित्याह १
ऊर्मिमन्तमेवैनं करोति । वृषसेनोऽसीत्याह । सेनामेवास्य सꣳश्यति । व्रजक्षितः स्थेत्याह । एता वा अपां विशः । विशमेवास्मै पर्यूहति । मरुतामोजः स्थेत्याह । अन्नं वै मरुतः । अन्नमेवावरुन्धे । सूर्यवर्चसः स्थेत्याह २
राष्ट्रमेव वर्चस्व्यकः । सूर्यत्वचसः स्थेत्याह । सत्यं वा एतत् । यद्वर्षति । अनृतं यदातपति वर्षति । सत्यानृते एवावरुन्धे । नैनꣳ सत्यानृते उदिते हिꣳस्तः । य एवं वेद । मान्दा स्थेत्याह । राष्ट्रमेव ब्रह्मवर्चस्यकः ३
वाशाः स्थेत्याह । राष्ट्रमेव वश्यकः । शक्वरीः स्थेत्याह । पशवो वै शक्वरीः । पशूनेवावरुन्धे । विश्वभृतः स्थेत्याह । राष्ट्रमेव पयस्व्यकः । जनभृतः स्थेत्याह । राष्ट्रमेवेन्द्रि याव्यकः । अग्नेस्तेजस्याः स्थेत्याह ४
राष्ट्रमेव तेजस्व्यकः । अपामोषधीनाꣳ रसः स्थेत्याह । राष्ट्रमेव मधव्यमकः । सारस्वतं ग्रहं गृह्णाति । एषा वा अपां पृष्ठम् । यत्सरस्वती ।पृष्ठमेवैनꣳ समानानां करोति । षोडशभिर्गृह्णाति । षोडशकलो वै पुरुषः । यावानेव पुरुषः । तस्मिन्वीर्यं दधाति । षोडशभिर्जुहोति षोडशभिर्गृह्णाति । द्वात्रिꣳश-त्संपद्यन्ते । द्वात्रिꣳशदक्षरानुष्टुक् । वागनुष्टुप्सर्वाणि च्छन्दाꣳसि । वाचैवैनꣳ सर्वेभिश्छन्दोभिरभिषिञ्चति ५
1.7.6.1 राजसूये जलसंस्कारः
देवीरापः सं मधुमतीर्मधुमतीभिः सृज्यध्वमित्याह । ब्रह्मणैवैनाः सꣳसृजति । अनाधृष्टाः सीदतेत्याह । ब्रह्मणैवैनाः सादयति । अन्तरा होतुश्च धिष्णियं ब्राह्मणाच्छꣳसिनश्च सादयति । आग्नेयो वै होता । ऐन्द्रो ब्राह्मणाच्छꣳसी । तेजसा चैवेन्द्रि येण चोभयतो राष्ट्रं परिगृह्णाति । हिरण्येनोत्पुनाति । आहुत्यै हि पवित्राभ्यामुत्पुनन्ति व्यावृत्त्यै १
शतमानं भवति । शतायुः । पुरुषश्शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति । अनिभृष्टमसीत्याह । अनिभृष्टꣳ ह्येतत् । वाचो बन्धुरित्याह । वाचो ह्येष बन्धुः । तपोजा इत्याह । तपोजा ह्येतत् । सोमस्य दात्रमसीत्याह २
सोमस्य ह्येतद्दात्रम् । शुक्रा वः शुक्रेणोत्पुनामीत्याह । शुक्रा ह्यापः । शुक्रꣳ हिरण्यम् । चन्द्राश्चन्द्रेणेत्याह । चन्द्रा ह्यापः । चन्द्रꣳ हिरण्यम् । अमृता अमृतेनेत्याह । अमृता ह्यापः । अमृतꣳ हिरण्यम् ३
स्वाहा राजसूयायेत्याह । राजसूयाय ह्येना उत्पुनाति । सधमादो द्युम्नि नीरुज एता इति वारुण्यर्चा गृह्णाति । वरुणसवमेवावरुन्धे । एकया गृह्णाति । एकधैव यजमाने वीर्यं दधाति । क्षत्रस्योल्बमसि क्षत्रस्य योनिरसीति तार्प्यं चोष्णीषं च प्रयच्छति सयोनित्वाय । एकशतेन दर्भपुञ्जीलैः पवयति । शतायुर्वै पुरुषः शतवीर्यः । आत्मैकशतः ४
यावानेव पुरुषः । तस्मिन्वीर्यं दधाति । दध्याशयति । इन्द्रि यमेवावरुन्धे । उदुम्बरमाशयति । अन्नाद्यस्यावरुद्ध्यै । शष्पाण्याशयति । सुराबलि-मेवैनं करोति । आविद एता भवन्ति । आविदमेवैनं गमयन्ति ५
अग्निरेवैनं गार्हपत्येनावति । इन्द्र इन्द्रि येण । पूषा पशुभिः । मित्रावरुणौ प्राणापानाभ्याम् । इन्द्रो वृत्राय वज्रमुदयच्छत् । स दिवमलिखत् । सोऽर्यम्णः पन्था अभवत् । स आविन्ने द्यावापृथिवी धृतव्रते इति द्यावापृथिवी उपाधावत् । स आभ्यामेव प्रसूत इन्द्रो वृत्राय वज्रं प्राहरत् । आविन्ने द्यावापृथिवी धृतव्रते इति यदाह ६
आभ्यामेव प्रसूतो यजमानो वज्रं भ्रातृव्याय प्रहरति । आविन्ना देव्यदितिर्विश्वरूपीत्याह । इयं वै देव्यदितिर्विश्वरूपी ।अस्यामेव प्रतितिष्ठति । आविन्नोऽयमसावामुष्यायणोऽस्यां विश्यस्मिन्राष्ट्र इत्याह । विशैवैनꣳ राष्ट्रेण समर्धयति । महते क्षत्राय महत आधिपत्याय महते जानराज्यायेत्याह । आशिषमेवैतामाशस्ते । एष वो भरता राजा सोमोऽस्माकं ब्राह्मणानाꣳ राजे-त्याह । तस्मात्सोमराजानो ब्राह्मणाः ७
इन्द्र स्य वज्रोऽसि वार्त्रघ्न इति धनुः प्रयच्छति विजित्यै । शत्रुबाधनाः स्थेतीषून् । शत्रूनेवास्य बाधन्ते । पात मा प्रत्यञ्चं पात मा तिर्यञ्चमन्वञ्चं मा पातेत्याह । तिस्रो वै शरव्याः । प्रतीची तिरश्च्यनूची ।तभ्य एवैनं पान्ति । दिग्भ्यो मा पातेत्याह । दिग्भ्य एवैनं पान्ति । विश्वाभ्यो मा नाष्ट्राभ्यः पातेत्याह । अपरिमितादेवैनं पान्ति । हिरण्यवर्णावुषसां विरोक इति त्रिष्टुभा बाहू उद्गृह्णाति । इन्द्रि यं वै वीर्यं त्रिष्टुक् । इन्द्रि यमेव वीर्यमुपरिष्टादात्मन्धत्ते ८
1.7.7.1 राजसूये दिग्जयध्यानम्
दिशो व्यास्थापयति । दिशामभिजित्यै । यदनुप्रक्रामेत् । अभि दिशो जयेत् । उत्तु माद्येत् । मनसानुप्रक्रामति । अभि दिशो जयति । नोन्माद्यति । समिधमातिष्ठेत्याह । तेज एवावरुन्धे १
उग्रामातिष्ठेत्याह इन्द्रि यमेवावरुन्धे । विराजमातिष्ठेत्याह । अन्नाद्यमेवा-वरुन्धे । उदीचीमातिष्ठेत्याह । पशूनेवावरुन्धे । ऊर्ध्वामातिष्ठेत्याह । सुवर्गमेव लोकमभिजयति । अनूज्जिहीते । सुवर्गस्य लोकस्य समष्ट्यै २
मारुत एष भवति । अन्नं वै मरुतः । अन्नमेवावरुन्धे । एकविꣳशतिकपालो भवति प्रतिष्ठित्यै । योऽरण्येऽनुवाक्यो गणः । तं मध्यत उपदधाति । ग्रा-म्यैरेव पशुभिरारण्यान्पशून्परिगृह्णाति । तस्माद्ग्राम्यैः पशुभिरारण्याः पशवः परिगृहीताः । पृथिर्वैन्यः । अभ्यषिच्यत ३
स राष्ट्रं नाभवत् । स एतानि पार्थान्यपश्यत् । तान्यजुहोत् । तैर्वै स राष्ट्रमभवत् । यत्पार्थानि जुहोति । राष्ट्रमेव भवति । बार्हस्पत्यं पूर्वेषामुत्तमं भवति । ऐन्द्र मुत्तरेषां प्रथमम् । ब्रह्म चैवास्मै क्षत्रं च समीची दधाति । अथो ब्रह्मन्नेव क्षत्रं प्रतिष्ठापयति ४
षट्पुरस्तादभिषेकस्य जुहोति । षडुपरिष्टात् । द्वादश संपद्यन्ते । द्वादश मासाः संवत्सरः । संवत्सरः खलु वै देवानां पूः । देवानामेव पुरं मध्यतो व्यवसर्पति । तस्य न कुतश्चनोपाव्याधो भवति । भूतानामवेष्टीर्जुहोति । अत्रात्र वै मृत्युर्जायते । यत्रयत्रैव मृत्युर्जायते । तत एवैनमवयजते । तस्माद्रा जसूयेनेजानः सर्वमायुरेति । सर्वे ह्यस्य मृत्यवोऽवेष्टाः । तस्मा-द्रा जसूयेनेजानो नाभिचरितवै । प्रत्यगेनमभिचारः स्तृणुते ५
1.7.8.1 राजसूये अभिषेकः
सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादिति शार्दूलचर्मोपस्तृणाति । यैव सोमे त्विषिः । या शार्दूले । तामेवावरुन्धे । मृत्योर्वा एष वर्णः । य-च्छार्दूलः । अमृतꣳ हिरण्यम् । अमृतमसि मृत्योर्मा पाहीति हिरण्यमुपास्यति । अमृतमेव मृत्योरन्तर्धत्ते । शतमानं भवति १
शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति । दिद्योन्मा पाही-त्युपरिष्टादधिनिदधाति । उभयत एवास्मै शर्म दधाति । अवेष्टा दन्दशूका इति क्लीबꣳ सीसेन विध्यति । दन्दशूकानेवावयजते । तस्मात्क्लीबं दन्दशूका दꣳशुकाः । निरस्तं नमुचेः शिर इति लोहितायसं निरस्यति । पाप्मानमेव नमुचिं निरवदयते । प्राणा आत्मनः पूर्वेऽभिषिच्या इत्याहुः २
सोमो राजा वरुणः । देवा धर्मसुवश्च ये । तेते वाचꣳ सुवन्तां तेते प्राणꣳ सुवन्तामित्याह । प्राणानेवात्मनः पूर्वानभिषिञ्चति । यद्ब्रूयात् । अग्नेस्त्वा तेजसाभिषिञ्चामीति । तेजस्व्येव स्यात् । दुश्चर्मा तु भवेत् । सोमस्य त्वा द्युम्नेनाभिषिञ्चामीत्याह । सौम्यो वै देवतया पुरुषः ३
स्वयैवैनं देवतयाभिषिञ्चति । अग्नेस्तेजसेत्याह । तेज एवास्मिन्दधाति । सूर्यस्य वर्चसेत्याह । वर्च एवास्मिन्दधाति । इन्द्र स्येन्द्रि येणेत्याह । इन्द्रि यमेवास्मिन्दधाति । मित्रावरुणयोर्वीर्येणेत्याह । वीरमेवास्मिन्दधाति । मरुतामोजसेत्याह ४
ओज एवास्मिन्दधाति । क्षत्राणां क्षत्रपतिरसीत्याह । क्षत्राणामेवैनं क्षत्रपतिं करोति । अति दिवस्पाहीत्याह । अत्यन्यान्पाहीति वावैतदाह । समाव-वृत्रन्नधरागुदीचीरित्याह । राष्ट्रमेवास्मिन्ध्रुवमकः । उच्छेषणेन जुहोति । उच्छेषणभागो वै रुद्र ः! । भागधेयेनैव रुद्रं निरवदयते ५
उदङ्परेत्याग्नीद्ध्रे जुहोति । एषा वै रुद्र स्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते । रुद्र यत्ते क्रयी परं नामेत्याह । यद्वा अस्य क्रयी परं नाम । तेन वा एष हिनस्ति । यꣳ हिनस्ति । तेनैवैनꣳ सह शमयति । तस्मै हुतमसि यमेष्टमसीत्याह । यमादेवास्य मृत्युमवयजते ६
प्रजापते न त्वदेतान्यन्य इति तस्यै गृहे जुहुयात् । यां कामयेत राष्ट्रमस्यै प्रजा स्यादिति । राष्ट्रमेवास्यै प्रजा भवति । पर्णमयेनाध्वर्युरभिषिञ्चति । ब्रह्मवर्चसमेवास्मिन्त्विषिं दधाति । औदुम्बरेण राजन्यः । ऊर्जमेवास्मिन्न-न्नाद्यं दधाति । आश्वत्थेन वैश्यः । विशमेवास्मिन्पुष्टिं दधाति । नैयग्रोधेन जन्यः । मित्राण्येवास्मै कल्पयति । अथो प्रतिष्ठित्यै ७
1.7.9.1 राजसूये रथारोहणेन विजयः
इन्द्र स्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति विजित्यै । मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीत्याह । ब्रह्मणैवैनं देवताभ्यां युनक्ति । प्रष्टिवाहिनं युनक्ति । प्रष्टिवाही वै देवरथः । देवरथमेवास्मै युनक्ति । त्रयोऽश्वा भवन्ति । रथश्चतुर्थः । द्वौ सव्येष्ठसारथी ।षट्संपद्यन्ते १
षड्वा ऋतवः । ऋतुभिरेवैनं युनक्ति । विष्णुक्रमान्क्रमते । विष्णुरेव भूत्वेमाꣳल्लोकानभिजयति । यः क्षत्रियः प्रतिहितः । सोऽन्वारभते । राष्ट्रमेव भवति । त्रिष्टुभान्वारभते । इन्द्रि यं वै त्रिष्टुक् । इन्द्रि यमेव यजमाने दधाति २
मरुतां प्रसवे जेषमित्याह । मरुद्भिरेव प्रसूत उज्जयति । आप्तं मन इत्याह । यदेव मनसाइप्सीत् । तदापत् । राजन्यं जिनाति । अनाक्रान्त एवाक्रमते । वि वा एष इन्द्रि येण वीर्येणर्ध्यते । यो राजन्यं जिनाति । समहमिन्द्रि येण वीर्येणेत्याह ३
इन्द्रियमेव वीर्यमात्मन्धत्ते । पशूनां मन्युरसि तवेव मे मन्युर्भूयादिति वाराही उपानहावुपमुञ्चते । पशूनां वा एष मन्युः । यद्वराहः । तेनैव पशूनां मन्युमात्मन्धत्ते । अभि वा इयꣳ सुषुवाणं कामयते । तस्येश्वरेन्द्रियं वीर्यमादातोः । वाराही उपानहावुपमुञ्चते । अस्या एवान्तर्धत्ते । इन्द्रियस्य वीर्यस्यानार्त्त्यै(नात्त्यै?) ४
नमो मात्रे पृथिव्या इत्याहाहिꣳसायै । इयदस्यायुरस्यायुर्मे धेहीत्याह । ऊर्जमेवात्मन्धत्ते । ऊर्जस्यूर्जं मे धेहीत्याह । ऊर्जमेवात्मन्धत्ते ।युङ्ङसि वर्चोऽसि वर्चो मयि धेहीत्याह । वर्च एवात्मन्धत्ते । एकधा ब्रह्मण उपहरति । एकधैव यजमान आयुरूर्जं वर्चो दधाति । रथविमोचनीया जुहोति प्रतिष्ठित्यै ५
त्रयोऽश्वा भवन्ति । रथश्चतुर्थः । तस्माच्चतुर्जुहोति । यदुभौ सहावतिष्ठेताम् । समानं लोकमियाताम् । सह संग्रहीत्रा रथवाहने रथमादधाति । सुव-र्गादेवैनं लोकादन्तर्दधाति । हꣳसः शुचिषदित्यादधाति । ब्रह्मणैवैनमुपावहरति । ब्रह्मणा दधाति । अतिच्छन्दसादधाति । अतिच्छन्दा वै सर्वाणि छन्दाꣳसि । सर्वेभिरेवैनं छन्दोभिरादधाति । वर्ष्म वा एषा छन्दसाम् । यदतिच्छन्दाः । यदतिच्छन्दसा दधाति । वर्ष्मैवैनꣳ समानानां करोति ६
1.7.10.1 राजसूये विजयादूर्ध्वम् यजमानस्य सवैः सेव्यत्वम्
मित्रोऽसि वरुणोऽसीत्याह । मैत्रं वा अहः । वारुणी रात्रिः । अहोरात्रा-भ्यामेवैनमुपावहरति । मित्रोऽसि वरुणोऽसीत्याह । मैत्रो वै दक्षिणः । वारुणः सव्यः । वैश्वदेव्यामिक्षा । स्वमेवैनौ भागधेयमुपावहरति । समहं विश्वैर्देवैरित्याह १
वैश्वदेव्यो वै प्रजाः । ताएवाद्याः कुरुते । क्षत्रस्य नाभिरसि क्षत्रस्य योनिरसी-त्यधीवासमास्तृणाति सयोनित्वाय । स्योनामासीद सुषदामासीदेत्याह । यथायजुरेवैतत् । मा त्वा हिꣳसीन्मामा हिꣳसीदित्याहाहिꣳसायै । निषसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुरित्याह । साम्राज्यमेवैनꣳ सुक्रतुं करोति । ब्रह्मा३ँ! त्वꣳ राजन्ब्रह्मासि सवितासि सत्यसव इत्याह । सविता-रमेवैनꣳ सत्यसवं करोति २
ब्रह्मा३ँ! त्वꣳ राजन्ब्रह्मासीन्द्रो ऽसि सत्यौजा इत्याह । इन्द्र मेवैनꣳ सत्यौजसं करोति । ब्रह्मा३ँ! त्वꣳ राजन्ब्रह्मासि मित्रोऽसि सुशेव इत्याह । मित्रमेवैनꣳ सुशेवं करोति । ब्रह्मा३ँ! त्वꣳ राजन्ब्रह्मासि वरुणोऽसि सत्यधर्मेत्याह । वरुण-मेवैनꣳ सत्यधर्माणं करोति । सवितासि सत्यसव इत्याह । गायत्रीमेवैतेना-भिव्याहरति । इन्द्रो ऽसि सत्यौजा इत्याह । त्रिष्टुभमेवैतेनाभिव्याहरति ३
मित्रोऽसि सुशेव इत्याह । जगतीमेवैतेनाभिव्याहरति । सत्यमेता देवताः । सत्यमेतानि छन्दाꣳसि । सत्यमेवावरुन्धे । वरुणोऽसि सत्यधर्मेत्याह । अनुष्टुभमेवैतेनाभिव्याहरति । सत्यानृते वा अनुष्टुप् । सत्यानृते वरुणः । सत्यानृते एवावरुन्धे ४
नैनꣳ सत्यानृते उदिते हिꣳस्तः । य एवं वेद । इन्द्र स्य वज्रोऽसि वार्त्रघ्न इति स्फ्यं प्रयच्छति । वज्रो वै स्फ्यः । वज्रेणैवास्मा अवरपरꣳ रन्धयति । एवꣳ हि तच्छ्रेयः । यदस्मा एते रध्येयुः । दिशोऽभ्ययꣳ राजाभूदिति पञ्चाक्षान्प्रयच्छति । एते वै सर्वेऽयाः । अपराजायिनमेवैनं करोति ५
ओदनमुद्ब्रुवते । परमेष्ठी वा एषः । यदोदनः । परमामेवैनꣳ श्रियं गमयति । सुश्लोका३ँ! सुमङ्गला३ँ! सत्यराजा३नित्याह । आशिषमेवैतामाशास्ते । शौनःशेपमाख्यापयते । वरुणपाशादेवैनं मुञ्चति । परःशतं भवति । शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति । मारुतस्य चैक-विꣳशतिकपालस्य वैश्वदेव्यै चामिक्षाया अग्नये स्विष्टकृते समवद्यति । देवताभिरेवैनमुभयतः परिगृह्णाति । अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहेति तिस्र आहुतीर्जुहोति । त्रय इमे लोकाः । एष्वेव लोकेषु प्रतितिष्ठति ६