प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०८

< तैत्तिरीयब्राह्मणम् (विस्वरपाठः)‎ | काण्डः १

1.8.1.1 राजसूये संसृपां हविः

वरुणस्य सुषुवाणस्य दशधेन्द्रि यं वीर्यं परापतत् । तत्सँ सृद्भिरनुसमसर्पत् । तत्सँ सृपाँ सँ सृत्त्वम् । अग्निना देवेन प्रथमेऽहन्ननुप्रायुङ्क्त । सरस्वत्या वाचा द्वितीये । सवित्रा प्रसवेन तृतीये । पुष्णा पशुभिश्चतुर्थे । बृहस्पतिना ब्रह्मणा पञ्चमे । इन्द्रे ण देवेन षष्ठे । वरुणेन स्वया देवतया सप्तमे १

सोमेन राज्ञाष्टमे । त्वष्ट्रा रूपेण नवमे । विष्णुना यज्ञेनाप्नोत् । यत्सँ सृपो भवन्ति । इन्द्रि यमेव तद्वीर्यं यजमान आप्नोति । पूर्वापूर्वा वेदिर्भवति । इन्द्रि यस्य वीर्यस्यावरुद्ध्यै । पुरस्तादुपसदाँ सौम्येन प्रचरति । सोमो वै रेतोधाः । रेत एव तद्दधाति । अन्तरा त्वाष्ट्रेण । रेत एव हितं त्वष्टा रूपाणि विकरोति । उपरिष्टाद्वैष्णवेन । यज्ञो वै विष्णुः । यज्ञ एवान्ततः प्रतितिष्ठति २


1.8.2.1 राजसूये दशपेयविधिः

जामि वा एतत्कुर्वन्ति । यत्सद्यो दीक्षयन्ति । सद्यः सोमं क्रीणन्ति । पुण्डरिस्रजां प्रयच्छत्यजामित्वाय । अङ्गिरसः सुवर्गं लोकं यन्तः । अप्सु दीक्षातपसी प्रावेशयन् । तत्पुण्डरीकमभवत् । यत्पुण्डरिस्रजां प्रयच्छति । साक्षादेव दीक्षातपसी अवरुन्धे । दशभिर्वत्सतरैः सोमं क्रीणाति । दशाक्षरा विराट् ३

अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । मुष्करा भवन्ति सेन्द्र त्वाय । दशपेयो भवति । अन्नाद्यस्यावरुद्ध्यै । शतं ब्राह्मणाः पिबन्ति । शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति । सप्तदशँ स्तोत्रं भवति । सप्तदशः प्रजापतिः ४

प्रजापतेराप्त्यै । प्रकाशावध्वर्यवे ददाति । प्रकाशमेवैनं गमयति । स्रज-मुद्गात्रे । व्येवास्मै वासयति । रुक्मँ होत्रे । आदित्यमेवास्मा उन्नयति । अश्वं प्रस्तोतृप्रतिहर्तृभ्याम् । प्राजापत्यो वा अश्वः । प्रजापतेराप्त्यै ५

द्वादश पष्ठौहीर्ब्रह्मणे । आयुरेवावरुन्धे । वशां मैत्रावरुणाय । राष्ट्रमेव वश्यकः । ऋषभं ब्राह्मणाच्छँ सिने । राष्ट्रमेवेन्द्रि याव्यकः । वाससी नेष्टापोतृभ्यां ।पवित्रे एवास्यैते । स्थूरि यवाचितमच्छावाकाय । अन्तत एव व्वरुणमवयजते ६

अनड्वाहमग्नीधे । वह्निर्वा अनड्वान् । वह्निरग्नीत् । वह्निनैव वह्नि यज्ञस्यावरुन्धे । इन्द्र स्य सुषुवाणस्य त्रेधेन्द्रि यं वीर्यं परापतत् । भृगुस्तृती-यमभवत् । श्रायन्तीयं तृतीयम् । सरस्वती तृतीयम् । भार्गवो होता भवति । श्रायन्तीयं ब्रह्मसामं भवति । वारवन्तीयमग्निष्टोमसामम् । सारस्वतीरपो गृह्णाति । इन्द्रि यस्य वीर्यस्यावरुद्ध्यै । श्रायन्तीयं ब्रह्मसामं भवति । इन्द्रि यमेवास्मिन्वीर्यँ श्रयति । वारवन्तीयमग्निष्टोमसामम् । इन्द्रि यमेवा-स्मिन्वीर्यं वारयति ७


1.8.3.1 राजसूये दिशामवेष्टयः, पशुयुक्तकर्मविधिः, सत्यदूत हविषां विधिः

ईश्वरो वा एष दिशोऽनून्मदितोः । यं दिशोऽनु व्यास्थापयन्ति । दिशामवेष्टयो भवन्ति । दिक्ष्वेव प्रतितिष्ठत्यनुन्मादाय । पञ्च देवता यजति । पञ्च दिशः । दिक्ष्वेव प्रतितिष्ठति । हविषोहविष इष्ट्वा बार्हस्पत्यमभिघारययति । यजमानदेवत्यो वै बृहस्पतिः । यजमानमेव तेजसा समर्धयति ८

आदित्यां मल्हां गर्भिणीमालभते । मारुतीं पृश्निं पष्ठौहीम् । विशं चैवास्मै राष्ट्रं च समीची दधाति । आदित्यया पूर्वया प्रचरति । मारुत्योत्तरया । राष्ट्र एव विशमनुबध्नाति । उच्चैरादित्याया आश्रावयति । उपाँ शु मारुत्यै । तस्माद्रा ष्ट्रं विशमतिवदति । गर्भिण्यादित्या भवति ९

इन्द्रि यं वै गर्भः । राष्ट्रमेवेन्द्रि याव्यकः । अगर्भा मारुती ।विड्वै मरुतः । विशमेव निरिन्द्रि यामकः । देवासुराः संयत्ता आसन् । ते देवा अश्विनोः पूषन्वाचः सत्यँ संनिधाय । अनृतेनासुरानभ्यभवन् । तेऽश्विभ्यां पूष्णे पुरो-डाशं द्वादशकपालं निरवपन् । ततो वै ते वाचः सत्यमवारुन्धत १०

यदश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निर्वपति । अनृतेनैव भ्रातृव्यानभिभूय । वाचः सत्यमवरुन्धे । सरस्वते सत्यवाचे चरुम् । पूर्वमेवोदितम् । उत्तरेणाभिगृणाति । सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालं प्रसूत्यै । दूतान्प्रहिणोति । आविद एता भवन्ति । आविदमेवैनं गमयन्ति । अथो दूतेभ्य एव न च्छिद्यते । तिसृधन्वँ शुष्कदृतिर्दक्षिणा समृद्ध्यै ११


1.8.4.1 राजसूये प्रयुजां हविर्विधिः

आग्नेयमष्टाकपालं निर्वपति । तस्माच्छिशिरे कुरुपञ्चालाः प्राञ्चो यान्ति । सौम्यं चरुम् । तस्माद्वसन्तं व्यवसायादयन्ति । सावित्रं द्वादशकपालम् । तस्मात्पुरस्ताद्यवानाँ सवित्रा विरुन्धते । बार्हस्पत्यं चरुम् । सवित्रैव वि-रुध्य । ब्रह्मणा यवानादधते । त्वाष्ट्रमष्टाकपालम् १२

रूपाण्येव तेन कुर्वते । वैश्वानरं द्वादशकपालम् । तस्माज्जघन्ये नैदाघे प्रत्यञ्चः कुरुपञ्चाला यान्ति । सारस्वतं चरुं निर्वपति । तस्मात्प्रावृषि सर्वा वाचो वदन्ति । पौष्णेन व्यवस्यन्ति । मैत्रेण कृषन्ते । वारुणेन विधृता आसते । क्षैत्रपत्येन पाचयन्ते । आदित्येनादधते १३

मासिमास्येतानि हवीँ षि निरुप्याणीत्याहुः । तेनैवर्तून्प्रयुङ्क्त इति । अथो खल्वाहुः । कः संवत्सरं जीविष्यतीति । षडेव पूर्वेद्युर्निरुप्याणि । षडुत्तरेद्युः । तेनैवर्तून्प्रयुङ्क्ते । दक्षिणो रथवाहनवाहः पूर्वेषां दक्षिणा । उत्तर उत्तरेषाम् । संवत्सरस्यैवान्तौ युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै १४


1.8.5.1 राजसूये सौत्रामणीयाग विधिः

इन्द्रस्य सुषुवाणस्य दशधेन्द्रियं वीर्यं परापतत् । स यत्प्रथमं निरष्ठीवत् । तत्क्वलमभवत् । यद्द्वितीयम् । तद्बदरम् । यत्तृतीयम् । तत्कर्कन्धु । यन्नस्तः । स सिँहः । यदक्ष्योः १५

स शार्दूलः । यत्कर्णयोः । स वृकः । य ऊर्ध्वः । स सोमः । यावाची । सा सुरा । त्रयाः सक्तवो भवन्ति । इन्द्रि यस्यावरुद्ध्यै । त्रयाणि लोमानि १६

त्विषिमेवावरुन्धे । त्रयो ग्रहाः । वीर्यमेवावरुन्धे । नाम्ना दशमी ।नव वै पुरुषे प्राणाः । नाभिर्दशमी ।प्राणा इन्द्रि यं वीर्यम् । प्राणानेवेन्द्रि यं वीर्यं यजमान आत्मन्धत्ते । सीसेन क्लीबाच्छष्पाणि क्रीणाति । न वा एतदयो न हिरण्यम् १७

यत्सीसम् । न स्त्री न पुमान् । यत्क्लीबः । न सोमो न सुरा । यत्सौत्रामणी समृद्ध्यै । स्वाद्वीं त्वा स्वादुनेत्याह । सोममेवैनां करोति । सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्रा य सुत्राम्णे पच्यस्वेत्याह । एताभ्यो ह्येषा देवताभ्यः पच्यते । तिस्रः सँ सृष्टा वसति १८

तिस्रो हि रात्रीः क्रीतः सोमो वसति । पुनातु ते परिस्रुतमिति यजुषा पुनाति व्यावृत्त्यै । पवित्रेण पुनाति । पवित्रेण हि सोमं पुनन्ति । वारेण शश्वता तनेत्याह । वारेण हि सोमं पुनन्ति । वायुः पूतः पवित्रेणेति नैतया पुनीयात् । व्यृद्धा ह्येषा । अतिपवितस्यैतया पुनीयात् । कुविदङ्गेत्यनिरुक्तया प्राजापत्यया गृह्णाति १९

अनिरुक्तः प्रजापतिः । प्रजापतेराप्त्यै । एकयर्चा गृह्णाति । एकधैव यजमाने वीर्यं दधाति । आश्विनं धूम्रमालभते । अश्विनौ वै देवानां भिषजौ । ताभ्यामेवास्मै भेषजं करोति । सारस्वतं मेषम् । वाग्वै सरस्वती । वाचैवैनं भिषज्यति । ऐन्द्र मृषभँ सेन्द्र त्वाय २०


1.8.6.1 राजसूये सौत्रामणी विधिः

यत्त्रिषु यूपेष्वालभेत । बहिर्धास्मादिन्द्रि यं वीर्यं दध्यात् । भ्रातृव्यमस्मै जनयेत् । एकयूप आलभते । एकधैवास्मिन्निन्द्रि यं वीर्यं दधाति । नास्मै भ्रातृव्यं जनयति । नैतेषां पशूनां पुरोडाशा भवन्ति । ग्रहपुरोडाशा ह्येते । युवँ सुराममश्विनेति सर्वदेवत्ये याज्यानुवाक्ये भवतः । सर्वा एव देवताः प्रीणाति २१

ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम् । ब्राह्मणो ह्याहुत्या उच्छेषणस्य पाता । यदि ब्राह्मणं न विन्देत् । वल्मीकवपायामवनयेत् । सैव ततः प्रायश्चित्तिः । यद्वै सौत्रामण्यै व्यृद्धम् । तदस्यै समृद्धम् । नानादेवत्याः पशवश्च पुरोडाशाश्च भवन्ति समृद्ध्यै । ऐन्द्रः पशूनामुत्तमो भवति । ऐन्द्रः पुरोडाशानां प्रथमः २२

इन्द्रि ये एवास्मै समीची दधाति । पुरस्तादनूयाजानां पुरोडाशैः प्रचरति । पशवो वै पुरोडाशाः । पशूनेवावरुन्धे । ऐन्द्र मेकादशकपालं निर्वपति । इन्द्रि यमेवावरुन्धे । सावित्रं द्वादशकपालं प्रसूत्यै । वारुणं दशकपालम् । अन्तत एव वरुणमवयजते । वडबा दक्षिणा २३

उत वा एषाश्वँ सूते । उताश्वतरम् । उत सोम उत सुरा । यत्सौत्रामणी समृद्ध्यै । बार्हस्पत्यं पशुं चतुर्थमतिपवितस्यालभते । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैव यज्ञस्य व्यृद्धमपिवपति । पुरोडाशवानेष पशुर्भवति । न ह्येतस्य ग्रहं गृह्णन्ति । सोमप्रतीकाः पितरस्तृप्णुतेति शतातृण्णायाँ समवनयति २४

शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति । दक्षिणेऽगनु जुहोति । पापवस्यसस्य व्यावृत्त्यै । हिरण्यमन्तरा धारयति । पूतामेवैनां जुहोति । शतमानं भवति । शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति । यत्रैव शतातृण्णां धारयति २५

तन्निदधाति प्रतिष्ठित्यै । पितॄन्वा एतस्येन्द्रि यं वीर्यं गच्छति । यँ सोमोऽतिपवते । पितृणां याज्यानुवाक्याभिरुप तिष्ठते । यदेवास्य पितॄनिन्द्रि यं वीर्यं गच्छति । तदेवावरुन्धे । तिसृभिरुपतिष्ठते । तृतीये वा इतो लोके पितरः । तानेव प्रीणाति । अथो त्रीणि वै यज्ञस्येन्द्रि याणि । अध्वर्युर्होता ब्रह्मा । त उपतिष्ठन्ते । यान्येव यज्ञस्येन्द्रि याणि । तैरेवास्मै भेषजं करोति २६


1.8.7.1 राजसूये पवित्राहविधिः, अभिषेचनीयविधिः

अग्निष्टोममग्र आहरति । यज्ञमुखं वा अग्निष्टोमः । यज्ञमुखमेवारभ्य सवमाक्रमते । अथैषोऽभिषेचनीयश्चतुस्त्रिंशः पवमानो भवति । त्रयस्त्रिँ शद्वै देवताः । ता एवाप्नोति । प्रजापतिश्चतुस्त्रिँ शः । तमेवाप्नोति । सँ शर एष स्तोमानामयथापूर्वम् । यद्विषमाः स्तोमाः २७

एतावान्वै यज्ञः । यावान्पवमानाः । अन्तःश्लेषणं त्वा अन्यत् । यत्समाः पवमानाः । तेनासँ शरः । तेन यथापूर्वम् । आत्मनैवाग्निष्टोमेनर्ध्नोति । आत्मना पुण्यो भवति । प्रजा वा उक्थानि । पशव उक्थानि ।यदुक्थ्यो भवत्यनुसंतत्यै २८


1.8.8.1 राजसूये साममन्त्रयोर्विशेषाभिधानम्

उप त्वा जामयो गिर इति प्रतिपद्भवति । वाग्वै वायुः । वाच एवैषोऽभिषेकः । सर्वासामेव प्रजानाँ सूयते । सर्वा एनं प्रजा राजेति वदन्ति । एतमु त्यं दशक्षिप इत्याह । आदित्या वै प्रजाः । प्रजानामेवैतेन सूयते । यन्ति वा एते यज्ञमुखात् । ये सम्भार्या अक्रन् २९

यदाह पवस्व वाचो अग्रिय इति । तेनैव यज्ञमुखान्न यन्ति । अनुष्टुक्प्रथमा भवति । अनुष्टुगुत्तमा । वाग्वा अनुष्टुक् । वाचैव प्रयन्ति । वाचोद्यन्ति । उद्वतीर्भवन्ति । उद्वद्वा अनुष्टुभो रूपम् । आनुष्टुभो राजन्यः ३०

तस्मादुद्वतीर्भवन्ति । सौर्यनुष्टुगुत्तमा भवति । सुवर्गस्य लोकस्य संतत्यै । यो वै सवादेति । नैनँ सव उपनमति । यः सामभ्य एति । पापीयान्सुषुवाणो भवति । एतानि खलु वै सामानि । यत्पृष्ठानि । यत्पृष्ठानि भवन्ति ३१

तैरेव सवान्नैति । यानि देवराजानाँ सामानि । तैरमुष्मिँ ल्लोक ऋध्नोति । यानि मनुष्यराजानाँ सामानि । तैरस्मिँ ल्लोक ऋध्नोति । उभयोरेव लोकयोरृध्नोति । देवलोके च मनुष्यलोके च । एकविँ शोऽभिषेचनी-यस्योत्तमो भवति । एकविँ शः केशवपनीयस्य प्रथमः । सप्तदशो दशपेयः ३२

विड्वा एकविँशः । राष्ट्रँ सप्तदशः । विश एवैतन्मध्यतोऽभिषिच्यते । तस्माद्वा एष विशां प्रियः । विशो हि मध्यतोऽभिषिच्यते । यद्वा एनमदो दिशोऽनु व्यास्थापयन्ति । तत्सुवर्गं लोकमभ्यारोहति । यदिमं लोकं न प्रत्यवरोहेत् । अतिजनं वेयात् । उद्वा माद्येत् । यदेष प्रतीचीनस्तोमो भवति । इममेव तेन लोकं प्रत्यवरोहति । अथो अस्मिन्नेव लोके प्रतितिष्ठत्यनुन्मादाय ३३


1.8.9.1 राजसूये अभिषेकगतविशेषाभिधानम्

इयं वै रजता । असौ हरिणी ।यद्रुक्मौ भवतः । आभ्यामेवैनमुभयतः परिगृह्णाति । वरुणस्य वा अभिषिच्यमानस्यापः । इन्द्रि यं वीर्यं निरघ्नन् । तत्सुवर्णँ हिरण्यमभवत् । यद्रुक्क्ममन्तर्दधाति । इन्द्रि यस्य वीर्यस्यानिर्घाताय । शतमानो भवति शतक्षरः । शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रिये प्रतितिष्ठति । आयुर्वै हिरण्यम् । आयुष्या एवैनमभ्यतिक्षरन्ति । तेजो वै हिरण्यम् । तेजस्या एवैनमभ्यतिक्षरन्ति । वर्चो वै हिरण्यम् । वर्चस्या एवैनमभ्यतिक्षरन्ति ३४

1.8.10.1 राजसूये

अप्रतिष्ठितो वा एष इत्याहुः । यो राजसुयेन यजत इति । यदा वा एष एतेन द्विरात्रेण यजते । अथ प्रतिष्ठा । अथ संवत्सरमाप्नोति । यावन्ति संवत्सरस्याहोरात्राणि । तावतीरेतस्य स्तोत्रीयाः । अहोरात्रेष्वेव प्रतितिष्ठति । अग्निष्टोमः पूर्वमहर्भवति । अतिरात्र उत्तरम् ३५

नानैवाहोरात्रयोः प्रतितिष्ठति । पौर्णमास्यां पूर्वमहर्भवति । व्यष्टकायामुत्तरम् । नानैवार्धमासयोः प्रतितिष्ठै । अमावास्यायां पूर्वमहर्भवति । उद्दृष्ट उत्तरम् । नानैव मासयोः प्रतितिष्ठति । अथो खलु । ये एव समानपक्षे पुण्याहे स्याताम् । तयोः कार्यं प्रतिष्ठित्यै ३६

अपशव्यो द्विरात्र इत्याहुः । द्वे ह्येते छन्दसी ।गायत्रं च त्रैष्टुभं च । जगतीमन्तर्यन्ति । न तेन जगती कृतेत्याहुः । यदेनां तृतीयसवने कुर्वन्तीति । यदा वा एषाहीनस्याहर्भजते । साह्नस्य वा सवनम् । अथैव जगती कृता । अथ पशव्यः । व्युष्टिर्वा एष द्विरात्रः । य एवं विद्वान्द्विरात्रेण यजते । व्येवास्मा उच्छति । अथो तम एवापहते । अग्निष्टोममन्तत आहरति । अग्निः सर्वा देवताः । देवतास्वेव प्रतितिष्ठति ३७ ८