प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०३

< तैत्तिरीयब्राह्मणम् (विस्वरपाठः)‎ | काण्डः २

2.3.1.1 चतुर्होतृ

ब्रह्मवादिनो वदन्ति । किं चतुर्होतृणां चतुर्होतृत्वमिति । यदेवैषु चतुर्धा होतारः । तेन चतुर्होतारः । तस्माच्चतुर्होतार उच्यन्ते । तच्चतुर्होतृणां चतुर्होतृत्वम् । सोमो वै चतुर्होता । अग्निः पञ्चहोता । धाता षड्ढोता । इन्द्रः सप्तहोता १ प्रजापतिर्दशहोता । य एवं चतुर्होतृणामृद्धिं वेद । ऋध्नोत्येव । य एषामेवं बन्धुतां वेद । बन्धुमान्भवति । य एषामेवं क्ळ्प्तिं वेद । कल्पतेऽस्मै । य एषामेवमायतनं वेद । आयतनवान्भवति । य एषामेवं प्रतिष्ठां वेद २

प्रत्येव तिष्ठति । ब्रह्मवादिनो वदन्ति । दशहोता चतुर्होता । पञ्चहोता षड्ढोता सप्तहोता । अथ कस्माच्चतुर्होतार उच्यन्त इति । इन्द्रो वै चतुर्होता । इन्द्रा ः! खलु वै श्रेष्ठो देवतानामुपदेशनात् । य एवमिन्द्र ँ! श्रेष्ठं देवता-नामुपदेशनाद्वेद । वसिष्ठः समानानां भवति । तस्माच्छ्रेष्ठमायन्तं प्रथमेनैवानुबुध्यन्ते । अयमागन् । अयमवासादिति । कीर्तिरस्य पूर्वागच्छति जनतामायतः । अथो एनं प्रथमेनैवानुबुध्यन्ते । अयमागन् । अयम-वासादिति ३


2.3.2.1नैमित्तिकयाग विधिः

दक्षिणां प्रतिग्रहीष्यन्त्सप्तदश कृत्वोऽपान्यात् । आत्मानमेव समिन्धे । तेजसे वीर्याय । अथो प्रजापतिरेवैनां भूत्वा प्रतिगृह्णाति । आत्मनोऽनार्त्यै । यद्येनमार्त्विज्याद्वृतँ सन्तं निर्हरेरन् । आग्नीध्रे जुहुयाद्दशहोतारम् । चतुर्गृही-तेनाज्येन । पुरस्तात्प्रत्यङ्तिष्ठन् । प्रतिलोमं विग्राहम् ४

प्राणानेवास्योपदासयति । यदेनं पुनरुपशिक्षेयुः । आग्नीध्र एव जुहुया-द्दशहोतारम् । चतुर्गृहीतेनाज्येन । पश्चात्प्राङासीनः । अनुलोममविग्राहम् । प्राणानेवास्मै कल्पयति । प्रायश्चित्ती वाग्घोतेत्यृतुमुख ऋतुमुखे जुहोति । ऋतूनेवास्मै कल्पयति । कल्पन्तेऽस्मा ऋतवः ५

क्ळ्प्ता अस्मा ऋतव आयन्ति । षड्ढोता वै भूत्वा प्रजापतिरिदँ सर्वमसृजत । स मनोऽसृजत । मनसोऽधि गायत्रीमसृजत । तद्गायत्रीं यश आर्च्छत् । तामालभत । गायत्रिया अधि छन्दाँ स्यसृजत । छन्दोभ्योऽधि साम । तत्साम यश आर्च्छत् । तदालभत ६

साम्नोऽधि यजूँ ष्यसृजत । यजुर्भ्योऽधि विष्णुम् । तद्विष्णुं यश आर्च्छत् । तमालभत । विष्णोरध्योषधीरसृजत । ओषधीभ्योऽधि सोमम् । तत्सोमं यश आर्च्छत् । तमालभत । सोमादधि पशूनसृजत । पशुभ्योऽधीन्द्र म् ७ तदिन्द्रं यश आर्च्छत् । तदेनं नातिप्राच्यवत । इन्द्र इव यशस्वी भवति । य एवं वेद नैनं यशोऽतिप्रच्यवते । यद्वा इदं किं च । तत्सर्वमुत्तान एवाङ्गीरसः प्रत्यगृह्णात् । तदेनं प्रतिगृहीतं नाहिनत् । यत्किं च प्रतिगृह्णीयात् । तत्सर्वमुत्तानस्त्वाङीरसः प्रतिगृह्णात्वित्येव प्रतिगृह्णीयात् । इयं वा उत्तान आङ्गीरसः । अनयैवैनत्प्रतिगृह्णाति । नैनँ हिनस्ति । बर्हिषा प्रतीयाद्गां वाश्वं वा । एतद्वै पशूनां प्रियं धाम । प्रियेणैवैनं धाम्ना प्रत्येति ८


2.3.3.1 केशवपनम् पुष्टिवेदनम्

यो वा अविद्वान्निवर्तयते । विशीर्षा सपाप्मामुष्मिँ ल्लोके भवति । अथ यो विद्वान्निवर्तयते । सशीर्षा विपाप्मामुष्मिँ ल्लोके भवति । देवता वै सप्त पुष्टिकामा न्यवर्तयन्त । अग्निश्च पृथिवी च । वायुश्चान्तरिक्षं च । आदित्यश्च द्यौश्च चन्द्र माः । अग्निर्न्यवर्तयत । स साहस्रमपुष्यत् ९

पृथिवी न्यवर्तयत । सौषधीभिर्वनस्पतिभिरपुष्यत् । वायुर्न्यवर्तयत । स मरीचीभिरपुष्यत् । अन्तरिक्षं न्यवरतयत । तद्वयोभिरपुष्यत् । आदित्यो न्यवर्तयत । स रश्मिभिरपुष्यत् । द्यौर्न्यवर्तयत । सा नक्षत्रैरपुष्यत् । चन्द्र मा न्यवर्तयत । सोऽहोरात्रैरर्धमासैर्मासैरृतुभिः संवत्सरेनापुष्यत् । तान्पोषान्पुष्यति । याँ स्तेऽपुष्यन् । य एवं विदान्नि च वर्तयते परि च १०


2.3.4.1प्रतिग्रहमन्त्रविज्ञानम्

तस्य वा अग्नेर्हिरण्यं प्रतिजग्रहुषः । अर्धमिन्द्रि यस्यापाक्रामत् । तदेतेनैव प्रत्यगृह्णात् । तेन वै सोऽर्धमिन्द्रि यस्यात्मन्नुपाधत्त । अर्धमिन्द्रि यस्यात्म-न्नुपाधत्ते । य एवं विद्वान्हिरण्यं प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । अर्धमस्येन्द्रि यस्यापक्रामति । तस्य वै सोमस्य वासः प्रतिजग्रहुषः । तृतीयमिन्द्रि यस्यापाक्रामत् ११

तदेतेनैव प्रत्यगृह्णात् । तेन वै स तृतीयमिन्द्रि यस्यात्मन्नुपाधत्त । तृतीय-मिन्द्रि यस्यात्मन्नुपाधत्ते । य एवं विद्वान्वासः प्रतिगृह्णाति । अथ योऽवि-द्वान्प्रतिगृह्णाति । तृतीयमस्येन्द्रि यस्यापक्रामति । तस्य वै रुद्र स्य गां प्रति-जग्रहुषः । चतुर्थमिन्द्रि यस्यापाक्रामत् । तामेतेनैव प्रत्यगृह्णात् । तेन वै स चतुर्थमिन्द्रि यस्यात्मन्नुपाधत्त १२

चतुर्थमिन्द्रि यस्यात्मन्नुपाधत्ते । य एवं विद्वान्गां प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । चतुर्थमस्येन्द्रि यस्यापक्रामति । तस्य वै वरुणस्याश्वं प्रतिजग्रहुषः । पञ्चममिन्द्रि यस्यापाक्रामत् । तमेतेनैव प्रत्यगृह्णात् । तेन वै स पञ्चममिन्द्रि यस्यात्मन्नुपाधत्त । पञ्चममिन्द्रि यस्यात्मन्नुपाधत्ते । य एवं विद्वानश्वं प्रतिगृह्णाति १३

अथ योऽविद्वान्प्रतिगृह्णाति । पञ्चममस्येन्द्रि यस्यापक्रामति । तस्य वै प्रजापतेः पुरुषं प्रतिजग्रहुषः । षष्ठमिन्द्रि यस्यापाक्रामत् । तमेतेनैव प्रत्यगृह्णात् । तेन वै स षष्ठमिन्द्रि यस्यात्मन्नुपाधत्त । षष्ठमिन्द्रि यस्यात्मन्नुपाधत्ते । य एवं विद्वान्पुरुषं प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । षष्ठमस्येन्द्रि य-स्यापक्रामति १४

तस्य वै मनोस्तल्पं प्रतिजग्रहुषः । सप्तममिन्द्रि यस्यापाक्रामत् । तमेतेनैव प्रत्यगृह्णात् । तेन वै स सप्तममिन्द्रि यस्यात्मन्नुपाधत्त । सप्तममिन्द्रि यस्यात्मन्नुपाधत्ते । य एवं विद्वाँ स्तल्पं प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । सप्तममस्येन्द्रि यस्यापक्रामति । तस्य वा उत्तानस्याङ्गीरसस्याप्राणत्प्रतिजग्रहुषः । अष्टममिन्द्रि यस्यापाक्रामत् १५

तदेतेनैव प्रत्यगृह्णात् । तेन वै सोऽष्टममिन्द्रि यस्यात्मन्नुपाधत्त । अष्टममिन्द्रि यस्यात्मन्नुपाधत्ते । य एवं विद्वानप्राणत्प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । अष्टममस्येन्द्रि यस्यापक्रामति । यद्वा इदं किं च । तत्सर्वमुत्तान एवाङ्गीरसः प्रत्यगृह्णात् । तदेनं प्रतिगृहीतं नाहिनत् । यत्किं च प्रतिगृह्णीयात् । तत्सर्वमुत्तानस्त्वाङ्गीरसः प्रतिगृह्णात्वित्येव प्रतिगृह्णीयात् । इयं वा उत्तान आङ्गीरसः । अनयैवैनत्प्रतिगृह्णाति । नैनँ हिनस्ति १६


2.3.5.1 दशमे अहनि ब्रह्मविषयः संवादः

ब्रह्मवादिनो वदन्ति । यद्दशहोतारः सत्त्रमासत । केन ते गृहपतिनार्ध्नुवन् । केन प्रजा असृजन्तेति । प्रजापतिना वै ते गृहपतिनार्ध्नुवन् । तेन प्रजा असृजन्त । यच्चतुर्होतारः सत्त्रमासत । केन ते गृहपतिनार्ध्नुवन् । केनौषधीरसृजन्तेति । सोमेन वै ते गृहपतिनार्ध्नुवन् १७

तेनौषधीरसृजन्त । यत्पञ्चहोतारः सत्त्रमासत । केन ते गृहपतिनार्ध्नुवन् । केनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त । केनैषां पशूनवृञ्जतेति । अग्निना वै ते गृहपतिनार्ध्नुवन् । तेनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त । तेनैषां पशूनवृञ्जत । यत्षड्ढोतारः सत्त्रमासत । केन ते गृहपतिनार्ध्नुवन् १८

केनर्तूनकल्पयन्तेति । धात्रा वै ते गृहपतिनार्ध्नुवन् । तेनर्तूनकल्पयन्त । यत्सप्तहोतारः सत्त्रमासत । केन ते गृहपतिनार्ध्नुवन् । केन सुवरायन् । केनेमाँ ल्लोकान्त्समतन्वन्निति । अर्यम्णा वै ते गृहपतिनार्ध्नुवन् । तेन सुवरायन् । तेनेमाँ ल्लोकान्समतन्वन्निति १९

एते वै देवा गृहपतयः । तान्य एवं विद्वान् । अप्यन्यस्य गार्हपते दीक्षते । अवान्तरमेव सत्त्रिणामृध्नोति । यो वा अर्यमणं वेद । दानकामा अस्मै प्रजा भवन्ति । यज्ञो वा अर्यमा । आर्या वसतिरिति वै तमाहुर्यं प्रशँ सन्ति । आर्या वसतिर्भवति । य एवं वेद २०

यद्वा इदं किं च । तत्सर्वं चतुर्होतारः । चतुर्होतृभ्योऽधि यज्ञो निर्मितः । स य एवं विद्वान्विवदेत । अहमेव भूयो वेद । यश्चतुर्होतॄन्वेदेति । स ह्येव भूयो वेद । यश्चतुर्होतॄन्वेद । यो वै चतुर्होतृणाँ होतॄन्वेद । सर्वासु प्रजास्वन्नमत्ति २१

सर्वा दिशोऽभिजयति । प्रजापतिर्वै दशहोतृणाँ होता । सोमश्चतुर्होतृणाँ होता । अग्निः पञ्चहोतृणाँ होता । धाता षड्ढोतृणाँ होता । अर्यमा सप्तहोतृणाँ होता । एते वै चतुर्होतृणाँ होतारः । तान्य एवं वेद । सर्वासु प्रजास्वन्नमत्ति । सर्वा दिशोऽभिजयति २२


2.3.6.1 क्रतूनां ऋत्विग्विशेषम्

प्रजापतिः प्रजाः सृष्ट्वा व्यस्रँ सत । स हृदयंभूतोऽशयत् । आत्मन्हा३ इत्यह्वयत् । आपः प्रत्यशृण्वन् । ता अग्निहोत्रेणैव यज्ञक्रतुनोपपर्यावर्तन्त । ताः कुसिन्धमुपौहन् । तस्मादग्निहोत्रस्य यज्ञक्रतोः । एक ऋत्विक् । चतुष्कृ-त्वोऽह्वयत् । अग्निर्वायुरादित्यश्चन्द्र माः २३

ते प्रत्यशृण्वन् । ते दर्शपूर्णमासाभ्यामेव यज्ञक्रतुनोपपर्यावर्तन्त । त उपौहँ श्चत्वार्यङ्गानि । तस्माद्दर्शपूर्णमासयोर्यज्ञक्रतोः । चत्वार ऋत्विजः । पञ्चकृत्वोऽह्वयत् । पशवः प्रत्यशृण्वन् । ते चातुर्मास्यैरेव यज्ञक्रतुनोपपर्यावर्तन्त । त उपौहँ ल्लोम च्छवीं माँ समस्थि मज्जानम् । तस्माच्चातु-र्मास्यानां यज्ञक्रतोः २४

पञ्चर्त्विजः । षट्कृत्वोऽह्वयत् । ऋतवः प्रत्यशृण्वन् । ते पशुबन्धेनैव यज्ञक्रतुनोपपर्यावर्तन्त । त उपौहं स्तनावाण्डौ शिश्नमवाञ्चं प्राणम् । तस्मात्पशुबन्धस्य यज्ञक्रतोः । षडृत्विजः । सप्तकृत्वोऽह्वयत् । होत्राः प्रत्यशृण्वन् । ताः सौम्येनैवाध्वरेण यज्ञक्रतुनोपपर्यावर्तन्त २५

ता उपौहन्त्सप्त शीर्षण्यान्प्राणान् । तस्मात्सौम्यस्याध्वरस्य यज्ञक्रतोः । सप्त होत्राः प्राचीर्वषट्कुर्वन्ति । दशकृत्वोऽह्वयत् । तपः प्रत्यशृणोत् । तत्कर्मणैव संवत्सरेण सर्वैर्यज्ञक्रतुभिरुपपर्यावर्तत । तत्सर्वमात्मानमपरिवर्गमुपौहत् । तस्मात्संवत्सरे सर्वे यज्ञक्रतवोऽवरुध्यन्ते । तस्माद्दशहोता चतुर्होता । पञ्चहोता षड्ढोता सप्तहोता । एकहोत्रे बलिँ हरन्ति हरन्त्यस्मै प्रजा बलिम् । ऐनमप्रतिख्यातं गच्छति । य एवं वेद २६


2.3.7.1 एकहोतृकाग्निहोत्रे एकहोता प्रशंसा

प्रजापतिः पुरुषमसृजत । सोऽग्निरब्रवीत् । ममायमन्नमस्त्विति । सोऽबिभेत् । सर्वं वै मायं प्रधक्ष्यतीति । स एताँ श्चतुर्होतॄनात्मस्परणानपश्यत् । तानजुहोत् । तैर्वै स आत्मानमस्पृणोत् । यदग्निहोत्रं जुहोति । एकहोतारमेव तद्यज्ञक्रतुमाप्नोत्यग्निहोत्रम् २७

कुसिन्धं चात्मनः स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुरुन्नयति । चतुर्होतारमेव तद्यज्ञक्रतुमाप्नोति । दर्शपूर्णमासौ । चत्वारि चात्मनोऽङ्गानि स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुरुन्नयति । समित्पञ्चमी ।पञ्चहोतारमेव तद्यज्ञक्रतुमाप्नोति । चातुर्मास्यानि । लोम च्छवीं माँसमस्थि मज्जानम् २८

तानि चात्मनः स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुरुन्नयति । द्विर्जुहोति । षड्ढोतारमेव तद्यज्ञक्रतुमाप्नोति पशुबन्धम् । स्तनावाण्डौ शिश्नमवाञ्चं प्राणम् । तानि चात्मनः स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुरुन्नयति । द्विर्जुहोति २९

समित्सप्तमी ।सप्तहोतारमेव तद्यज्ञक्रतुमाप्नोति सौम्यमध्वरम् । सप्त चात्मनः शीर्षण्यान्प्राणान्स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुरुन्नयति । द्विर्जुहोति । द्विर्निमार्ष्टि । द्विः प्राश्नाति । दशहोतारमेव तद्यज्ञक्रतुमाप्नोति संवत्सरम् । सर्वं चात्मानमपरिवर्गँ स्पृणोति । आदित्यस्य च सायुज्यं गच्छति ३०


2.3.8.1 होतृमन्त्राः प्रशंसा

प्रजापतिरकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽन्तर्वानभवत् । स हरितः श्यावोऽभवत् । तस्मार्त्स्त्यन्तर्वत्नी ।हरिणी सती श्यावा भवति । स विजायमानो गर्भेणाताम्यत् । स तान्तः कृष्णः श्यावोऽभवत् । तस्मात्तान्तः कृष्णः श्यावो भवति । तस्यासुरेवाजीवत् ३१

तेनासुनासुरानसृजत । तदसुराणामसुरत्वम् । य एवमसुराणामसुरत्वं वेद । असुमानेव भवति । नैनमसुर्जहाति । सोऽसुरान्सृष्ट्वा पितेवामन्यत । तदनु पितॄनसृजत । तत्पितृणां पितृत्वम् । य एवं पितृणां पितृत्वं वेद । पितेवैव स्वानां भवति ३२

यन्त्यस्य पितरो हवम् । स पितॄन्त्सृष्ट्वामनस्यत् । तदनु मनुष्यानसृजत । तन्मनुष्याणां मनुष्यत्वम् । य एवं मनुष्याणां मनुष्यत्वं वेद । मनस्व्येव भवति । नैनं मनुर्जहाति । तस्मै मनुष्यान्त्ससृजानाय । दिवा देवत्राभवत् । तदनु देवानसृजत । तद्देवानां देवत्वम् । य एवं देवानां देवत्वं वेद । दिवा हैवास्य देवत्रा भवति । तानि वा एतानि चत्वार्यम्भाँ सि । देवा मनुष्याः पितरोऽसुराः । तेषु सर्वेष्वम्भो नभ इव भवति । य एवं वेद ३३


2.3.9.1 वायोरुपासनम्

ब्रह्मवादिनो वदन्ति । यो वा इमं विद्यात् । यतोऽयं पवते । यदभिपवते । यदभिसंपवते । सर्वमायुरियात् । न पुरायुषः प्रमीयेत । पशुमान्त्स्यात् । विन्देत प्रजाम् । यो वा इमं वेद ३४ यतोऽयं पवते । यदभिपवते । यदभिसंपवते । सर्वमायुरेति । न पुरायुषः प्रमीयते । पशुमान्भवति । विन्दते प्रजाम् । अद्भ्यः पवते । अपोऽभिपवते । अपोऽभिसंपवते ३५

अस्याः पवते । इमामभिपवते । इमामभिसंपवते । अग्नेः पवते । अग्निमभिपवते । अग्निमभिसंपवते । अन्तरिक्षात्पवते । अन्तरिक्षमभिपवते । अन्तरिक्षमभिसंपवते । आदित्यात्पवते ३६

आदित्यमभिपवते । आदित्यमभिसंपवते । द्योः पवते । दिवमभिपवते । दिवमभिसंपवते । दिग्भ्यः पवते । दिशोऽभिपवते । दिशोऽभिसंपवते । स यत्पुरस्ताद्वाति । प्राण एव भूत्वा पुरस्ताद्वाति ३७

तस्मात्पुरस्ताद्वान्तम् । सर्वाः प्रजाः प्रतिनन्दन्ति । प्राणो हि प्रियः प्रजानाम् । प्राण इव प्रियः प्रजानां भवति । य एवं वेद । स वा एष प्राण एव । अथ यद्दक्षिणतो वाति । मातरिश्वैव भूत्वा दक्षिणतो वाति । तस्माद्दक्षिणतो वान्तं विद्यात् । सर्वा दिश आवाति ३८

सर्वा दिशोऽनुविवाति । सर्वा दिशोऽनुसंवातीति । स वा एष मातरिश्वैव । अथ यत्पश्चाद्वाति । पवमान एव भूत्वा पश्चाद्वाति । पूतमस्मा आहरन्ति । पूतमुपहरन्ति । पूतमश्नाति । य एवं वेद । स वा एष पवमान एव ३९

अथ यदुत्तरतो वाति । सवितैव भूत्वोत्तरतो वाति । सवितेव स्वानां भवति । य एवं वेद । स वा एष सवितैव । ते य एनं पुरस्तादायन्तमुपवदन्ति । य एवास्य पुरस्तात्पाप्मानः । ताँ स्तेऽपघ्नन्ति । पुरस्तादितरान्पाप्मनः सचन्ते । अथ य एनं दक्षिणत आयन्तमुपवदन्ति ४०

य एवास्य दक्षिणतः पाप्मानः । ताँ स्तेऽपघ्नन्ति । दक्षिणत इतरान्पाप्मनः सचन्ते । अथ य एनं पश्चादायन्तमुपवदन्ति । य एवास्य पश्चात्पाप्मानः । ताँ स्तेऽपघ्नन्ति । पश्चादितरान्पाप्मनः सचन्ते । अथ य एनमुत्तरत आयन्तमुपवदन्ति । य एवास्योत्तरतः पाप्मानः । ताँ स्तेऽपघ्नन्ति ४१

उत्तरत इतरान्पाप्मनः सचन्ते । तस्मादेवं विद्वान् । वीव नृत्येत् । प्रेव चलेत् । व्यस्येवाक्ष्यौ भाषेत । मण्टयेदिव । क्राथयेदिव । शृङ्गायेतेव । उत मोपवदेयुः । उत मे पाप्मानमपहन्युरिति । स यां दिशँ सनिमेष्यन्त्स्यात् । यदा तां दिशं वातो वायात् । अथ प्रवेयात् । प्र वा धावयेत् । सातमेव रदितं व्यूढं गन्धमभि प्रच्यवते । आस्य तं जनपदं पूर्वा कीर्तिर्गच्छति । दानकामा अस्मै प्रजा भवन्ति । य एवं वेद ४२


2.3.10.1 होतृमन्त्राणां काम्यप्रयोगविधिः

प्रजापतिः सोमँ राजानमसृजत । तं त्रयो वेदा अन्वसृज्यन्त । तान्हस्तेऽकुरुत । अथ ह सीता सावित्री ।सोमँ राजानं चकमे । श्रद्धामु स चकमे । सा ह पितरं प्रजापतिमुपससार । तँ होवाच । नमस्ते अस्तु भगवः । उप त्वायानि ४३

प्र त्वा पद्ये । सोमं वै राजानं कामये । श्रद्धामु स कामयत इति । तस्या उ ह स्थागरमलङ्कारं कल्पयित्वा । दशहोतारं पुरस्ताद्व्याख्याय । चतुर्होतारं दक्षिणतः । पञ्चहोतारं पश्चात् । षड्ढोतारमुत्तरतः । सप्तहोतारमुपरिष्टात् । सम्भारैश्च पत्निभिश्च मुखेऽलङ्कृत्य ४४

आस्यार्धं वव्राज । ताँ होदीक्ष्योवाच । उप मा वर्तस्वेति । तं होवाच । भोगं तु म आचक्ष्व । एतन्म आचक्ष्व । यत्ते पाणाविति । तस्या उ ह त्रीन्वेदान्प्रददौ । तस्मादु ह स्त्रियो भोगमैव हारयन्ते । स यः कामयेत प्रियः स्यामिति ४५

यं वा कामयेत प्रियः स्यादिति । तस्मा एतँ स्थागरमलङ्कारं कल्पयित्वा । दशहोतारं पुरस्ताद्व्याख्याय । चतुर्होतारं दक्षिणतः । पञ्चहोतारं पश्चात् । षड्ढोतारमुत्तरतः । सप्तहोतारमुपरिष्टात् । सम्भारैश्च पत्निभिश्च मुखेऽलङ्कृत्य । आस्यार्धं व्रजेत् । प्रियो हैव भवति ४६


2.3.11.1 दशहोत्रादिमन्त्रनाम्नां प्रवृत्तिनिमित्तम्

ब्रह्मात्मन्वदसृजत । तदकामयत । समात्मना पद्येयेति । आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै दशमँ हूतः प्रत्यशृणोत् । स दशहूतोऽभवत् । दशहूतो ह वै नामैषः । तं वा एतं दशहूतँ सन्तम् । दशहोतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ४७

आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै सप्तमँ हूतः प्रत्यशृणोत् । स सप्तहूतोऽभवत् । सप्तहूतो ह वै नामैषः । तं वा एतँ सप्तहूतँ सन्तम् । सप्तहोतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै षष्ठँ हूतः प्रत्यशृणोत् । स षड्ढूतोऽभवत् ४८

षड्धूतो ह वै नामैषः । तं वा एतँ षड्ढूतँ सन्तम् । षड्ढोतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै पञ्चमँ हूतः प्रत्यशृणोत् । स पञ्चहूतोऽभवत् । पञ्चहूतो ह वै नामैषः । तं वा एतं पञ्चहूतँ सन्तं ।पञ्चहोतेत्याचक्षते परोक्षेण ४९

परोक्षप्रिया इव हि देवाः । आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै चतुर्थँ हूतः प्रत्यशृणोत् । स चतुर्हूतोऽभवत् । चतुर्हूतो ह वै नामैषः । तं वा एतं चतुर्हूतँ सन्तम् । चतुर्होतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । तमब्रवीत् । त्वं वै मे नेदिष्ठँ हूतः प्रत्यश्रौषीः । त्वयैनानाख्यातार इति । तस्मान्नु हैनाँ श्चतुर्होतार इत्याचक्षते । तस्माच्शुश्रूषुः पुत्राणाँ हृद्यतमः । नेदिष्ठो हृद्यतमः । नेदिष्ठो ब्रह्मणो भवति । य एवं वेद ५० ३