तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०४

2.4.1.1 उपहोमाः

जुष्टो दमूना अतिथिर्दुरोणे । इमं नो यज्ञमुपयाहि विद्वान् । विश्वा अग्नेऽभियुजो विहत्य । शत्रूयतामाभरा भोजनानि । अग्ने शर्ध महते सौभगाय । तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्यꣳ सुयममाकृणुष्व । शत्रूयतामभितिष्ठा महाꣳ सि । अग्ने यो नोऽभितो जनः । वृको वारो जिघाꣳ सति १

ताꣳ स्त्वं वृत्रहञ्जहि । वस्वस्मभ्यमाभर । अग्ने यो नोऽभिदासति । समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतः । मा तस्योच्छेषि किञ्चन । त्वमिन्द्रा -भिभूरसि । देवो विज्ञातवीर्यः । वृत्रहा पुरुचेतनः । अप प्राच इन्द्र विश्वाꣳ अमित्रान् २
अपापाचो अभिभूते नुदस्व । अपोदीचो अप शूरधराच ऊरौ । यथा तव शर्मन्मदेम । तमिन्द्रं वाजयामसि । महे वृत्राय हन्तवे । स वृषा वृषभो भुवत्ऽभुवत् ।युजे रथं गवेषणꣳ हरिभ्याम् । उप ब्रह्माणि जुजुषाणमस्थुः । विबाधिष्टास्य रोदसी महित्वा । इन्द्रो वृत्राण्यप्रतीजघन्वान् ३

हव्यवाहमभिमातिषाहम् । रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दीद्यतं पुरन्धिम् । अग्निꣳ स्विष्टकृतमाहुवेम । स्विष्टमग्ने अभि तत्पृणाहि । विश्वा देव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन्विभाहि । ज्योतिष्मद्धेह्यजरं न आयुः । त्वामग्ने हविष्मन्तः । देवं मर्तास ईडते ४

मन्ये त्वा जातवेदसम् । स हव्या वक्ष्यानुषक् । विश्वानि नो दुर्गहा जातवेदः । सिन्धुं न नावा दुरितातिपर्षि । अग्ने अत्रिवन्मनसा गृणानः । अस्माकं बोध्यविता तनूनाम् । पूषा गा अन्वेतु नः । पूषा रक्षत्वर्वतः । पूषा वाजꣳ सनोतु नः । पूषेमा आशा अनुवेद सर्वाः ५

सो अस्माꣳ अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरः । अप्रयुच्छन्पुर एतु प्रजानन् । त्वमग्ने सप्रथा असि । जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते । अग्नी रक्षाꣳ सि सेधति । शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्यः । अग्ने रक्षाणो अꣳ हसः ६

प्रतिष्म देव रीषतः । तपिष्ठैरजरो दह । अग्ने हꣳ सि न्यत्रिणम् । दीद्यन्मर्त्येष्वा । स्वे क्षये शुचिव्रत । आ वात वाहि भेषजम् । वि वात वाहि यद्र पः । त्वꣳ हि विश्वभेषजः । देवानां दूत ईयसे । द्वाविमौ वातौ वातः ७

आ सिन्धोरा परावतः । दक्षं मे अन्य आवातु । परान्यो वातु यद्र पः । यददो वात ते गृहे । अमृतस्य निधिर्हितः । ततो नो देहि जीवसे । ततो नो धेहि भेषजम् । ततो नो मह आवह । वात आवातु भेषजम् । शम्भूर्मयोभूर्नो हृदे ८

प्र ण आयूꣳ षि तारिषत् । त्वमग्ने अयासि । अया सन्मनसा हितः । अया सन्हव्यमूहिषे । अया नो धेहि भेषजम् । इष्टो अग्निराहुतः । स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नमः । कामो भूतस्य भव्यस्य । सम्राडेको विराजति ९

स इदं प्रतिपप्रथे । ऋतूनुत्सृजते वशी ।कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषा । त्वया मन्यो सरथमारुजन्तः । हर्षमाणासो धृषता मरुत्वः । तिग्मेषव आयुधा सꣳ शिशानाः । उपप्रयन्ति नरो अग्निरूपाः १०

मन्युर्भगो मन्युरेवास देवः । मन्युर्होता वरुणो विश्ववेदाः । मन्युं विश ईडते देवयन्तीः । पाहि नो मन्यो तपसा श्रमेण । त्वमग्ने व्रतभृच्छुचिः । देवाꣳ आसादया इह । अग्ने हव्याय वोढवे । व्रता नु बिभ्रद्व्रतपा अदाभ्यः । यजानो देवाꣳ अजरः सुवीरः । दधद्र त्नानि सुविदानो अग्ने । गोपाय नो जीवसे जातवेदः ११


2.4.2.1 उपहोमाः

चक्षुषो हेते मनसो हेते । वाचो हेते ब्रह्मणो हेते । यो माघायुरभिदासति । तमग्ने मेन्यामेनिं कृणु । यो मा चक्षुषा यो मनसा । यो वाचा ब्रह्मणाघायुरभिदासति । तयाग्ने त्वं मेन्या । अमुममेनिं कृणु । यत्किं चासौ मनसा यच्च वाचा । यज्ञैर्जुहोति यजुषा हविर्भिः १

तन्मृत्युर्निरृत्या संविदानः । पुरा दिष्टादाहुतीरस्य हन्तु । यातुधाना निरृतिरादु रक्षः । ते अस्य घ्नन्त्वनृतेन सत्यम् । इन्द्रे षिता आज्यमस्य मथ्नन्तु । मा तत्समृद्धि यदसौ करोति । हन्मि तेऽहं कृतꣳ हविः । यो मे घोरमचीकृतः । अपाञ्चौ त उभौ बाहू । अपनह्याम्यास्यम् २

अपनह्यामि ते बाहू ।अपनह्याम्यास्यम् । अग्नेर्देवस्य ब्रह्मणा । सर्वं तेऽवधिषं कृतं ।पुरामुष्य वषट्कारात् । यज्ञं देवेषु नस्कृधि । स्विष्टमस्माकं भूयात् । मास्मान्प्रापन्नरातयः । अन्ति दूरे सतो अग्ने । भ्रातृव्यस्याभिदासतः ३

वषट्कारेण वज्रेण । कृत्याꣳ हन्मि कृतामहम् । यो मा नक्तं दिवा सायम् । प्रातश्चाह्नो निपीयति । अद्या तमिन्द्र वज्रेण । भ्रातृव्यं पादयामसि । इन्द्र स्य गृहोऽसि तं त्वा । प्रपद्ये सगुः साश्वः । सह यन्मे अस्ति तेन । ईडे अग्निं विपश्चितम् ४

गिरा यज्ञस्य साधनम् । श्रुष्टीवानं धितावानम् । अग्ने शकेम ते वयम् । यमं देवस्य वाजिनः । अति द्वेषाꣳ षि तरेम । अवतं मा समनसौ समोकसौ । सचेतसौ सरेतसौ । उभौ मामवतं जातवेदसौ । शिवौ भवतमद्य नः । स्वयं कृण्वानः सुगमप्रयावम् ५

तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नꣳ सधस्थमनुपश्यमानः । आ तन्तुमग्निर्दिव्यं ततान । त्वं नस्तन्तुरुत सेतुरग्ने । त्वं पन्था भवसि देवयानः । त्वयाग्ने पृष्ठं वयमारुहेम । अथा देवैः सधमादं मदेम । उदुत्तमं मुमुग्धि नः । वि पाशं मध्यमं चृत । अवाधमानि जीवसे ६

वयꣳ सोम व्रते तव । मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहि । इन्द्रा णी देवी सुभगा सुपत्नी ।उदꣳ शेन पतिविद्ये जिगाय । त्रिꣳ शदस्या जघनं योजनानि । उपस्थ इन्द्र ꣳ! स्थविरं बिभर्ति । सेना ह नाम पृथिवी धनंजया । विश्वव्यचा अदितिः सूर्यत्वक् । इन्द्रा णी देवी प्रासहा ददाना ७

सा नो देवी सुहवा शर्म यच्छतु । आ त्वाहार्षमन्तरभूः । ध्रुवस्तिष्ठाविचाचलिः । विशस्त्वा सर्वा वाञ्छन्तु । मा त्वद्रा ष्ट्रमधिभ्रशत् । ध्रुवा द्यौर्ध्रुवा पृथिवी ।ध्रुवं विश्वमिदं जगत् । ध्रुवा ह पर्वता इमे । ध्रुवो राजा विशामयम् । इहैवैधि मा व्यथिष्ठाः ८

पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठ । इह राष्ट्रमु धारय । अभितिष्ठ पृतन्यतः । अधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठ । अपः क्षेत्राणि संजयन् । इन्द्र एणमदीधरत् । ध्रुवं ध्रुवेण हविषा । तस्मै देवा अधिब्रवन् । अयं च ब्रह्मणस्पतिः ९


2.4.3.1 उपहोमाः

जुष्टी नरो ब्रह्मणा वः पितृणाम् । अक्षमव्ययं न किला रिषाथ । यच्छक्वरीषु बृहता रवेण । इन्द्रे शुष्ममदधाथा वसिष्ठाः । पावका नः सरस्वती ।वाजेभिर्वाजिनीवती ।यज्ञं वष्टु धिया वसुः । सरस्वत्यभि नो नेषि वस्यः मा पस्फरीः पयसा मा न आधक् । जुषस्व नः सख्या वेश्या च १

मा त्वत्क्षेत्राण्यरणानि गन्म । वृञ्जे हविर्नमसा बर्हिरग्नौ । अयामि स्रुग्घृतवती सुवृक्तिः । अम्यक्षि सद्म सदने पृथिव्याः । अश्रायि यज्ञः सूर्ये न चक्षुः । इहार्वाञ्चमतिह्वये । इन्द्रं जैत्राय जेतवे । अस्माकमस्तु केवलः । अर्वाञ्चमिन्द्र ममुतो हवामहे । यो गोजिद्धनजिदश्वजिद्यः २

इमं नो यज्ञं विहवे जुषस्व । अस्य कुर्मो हरिवो मेदिनं त्वा । असंमृष्टो जायसे मातृवोः शुचिः । मन्द्रः कविरुदतिष्ठो विवस्वतः । घृतेन त्वा वर्धयन्नग्न आहुत । धूमस्ते केतुरभवद्दिवि श्रितः । अग्निरग्रे प्रथमो देवतानाम् । संयातानामुत्तमो विष्णुरासीत् । यजमानाय परिगृह्य देवान् । दीक्षयेदꣳ हविरागच्छतं नः ३

अग्निश्च विष्णो तप उत्तमं महः । दीक्षापालेभ्यो वनतꣳ हि शक्रा । विश्वैर्देवैर्यज्ञियैः संविदानौ । दीक्षामस्मै यजमानाय धत्तम् । प्र तद्विष्णुः स्तवते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा । नू मर्तो दयते सनिष्यन्यः । विष्णव उरुगायाय दाशत् ४

प्र यः सत्राचा मनसा यजातै । एतावन्तं नर्यमाविवासात् । विचक्रमे पृथिवीमेष एताम् । क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनासः । उरुक्षितिꣳ सुजनिमा चकार । त्रिर्देवः पृथिवीमेष एताम् । विचक्रमे शतर्चसं महित्वा । प्र विष्णुरस्तु तवसस्तवीयान् । त्वेषꣳ ह्यस्य स्थविरस्य नाम ५

होतारं चित्ररथमध्वरस्य । यज्ञस्य यज्ञस्य केतुꣳ रुशन्तम् । प्रत्यर्धिं देवस्य देवस्य मह्ना । श्रिया त्वाग्निमतिथिं जनानाम् । आ नो विश्वाभिरूतिभिः सजोषाः । ब्रह्म जुषाणो हर्यश्व याहि । वरीवृजत्स्थविरेभिः सुशिप्र । अस्मे दधद्वृषणꣳ शुष्ममिन्द्र । इन्द्रः सुवर्षा जनयन्नहानि । जिगायोशिग्भिः पृतना अभिश्रीः ६

प्रारोचयन्मनवे केतुमह्नाम् । अविन्दज्ज्योतिर्बृहते रणाय । अश्विनाववसे निह्वये वाम् । आ नूनं यातꣳ सुकृताय विप्रा । प्रातर्युक्तेन सुवृता रथेन । उपागच्छतमवसागतं नः । अविष्टं धीष्वश्विना न आसु । प्रजावद्रे तो अह्रयं नो अस्तु । आवां तोके तनये तूतुजानाः । सुरत्नासो देववीतिं गमेम ७

त्वꣳ सोम क्रतुभिः सुक्रतुर्भूः । त्वं दक्षैःसुदक्षो विश्ववेदाः । त्वं वृषा वृषत्वेभिर्महित्वा । द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः । अषाढं युत्सु पृतनासु पप्रियम् । सुवर्षामप्स्वां वृजनस्य गोपाम् । भरेषुजाꣳ सुक्षितिꣳ सुश्रवसम् । जयन्तं त्वामनु मदेम सोम । भवा मित्रो न शेव्यो घृतासुतिः । विभूतद्युम्न एवया उ सप्रथाः ८

अधा ते विष्णो विदुषाचिदृध्यः । स्तोमो यज्ञस्य राध्यो हविष्मतः । यः पूर्व्याय वेधसे नवीयसे । सुमज्जानये विष्णवे ददाशति । यो जातमस्य महतो महि ब्रवात् । सेदुः श्रवोभिर्युज्यंचिदभ्यसत् । तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य । गर्भꣳ हविषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन । बृहत्ते विष्णो सुमतिं भजामहे ९

इमा धाना घृतस्नुवः । हरी इहोपवक्षतः । इन्द्र ꣳ! सुखतमे रथे । एष ब्रह्मा प्र ते महे । विदथे शꣳ सिषꣳ हरी ।य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु १०

हरिवर्पसं गिरः । आ चर्षणिप्रा वृषभो जनानाम् । राजा कृष्टीनां पुरुहूत इन्द्रः । स्तुतः श्रवस्यन्नवसोप मद्रिक् । युक्त्वा हरी वृषणायाह्यर्वाङ्।प्र यत्सिन्धवः प्रसवं यदायन् । आपः समुद्र ꣳ! रथ्येव जग्मुः । अतश्चिदिन्द्रः सदसो वरीयान् । यदीꣳ सोमः पृणाति दुग्धो अꣳ शुः । ह्वयामसि त्वेन्द्र याह्यर्वाङ् ११

अरं ते सोमस्तनुवे भवाति । शतक्रतो मादयस्वा सुतेषु । प्रास्माꣳ अव पृतनासु प्र युत्सु । इन्द्रा य सोमाः प्रदिवो विदानाः । ऋभुर्येभिर्वृषपर्वा विहायाः । प्रयम्यमाणान्प्रति षू गृभाय । इन्द्र पिब वृषधूतस्य वृष्णः । अहेडमान उपयाहि यज्ञम् । तुभ्यं पवन्त इन्दवः सुतासः । गावो न वज्रिन्त्स्वमोको अच्छ १२

इन्द्रा गहि प्रथमो यज्ञियानाम् । या ते काकुत्सुकृता या वरिष्ठा । यया शश्वत्पिबसि मध्व ऊर्मिम् । तया पाहि प्र ते अध्वर्युरस्थात् । सं ते वज्रो वर्ततामिन्द्र गव्युः । प्रातर्युजा विबोधय । अश्विनावेह गच्छतम् । अस्य सोमस्य पीतये । प्रातर्यावाणा प्रथमा यजध्वम् । पुरा गृध्रादररुषः पिबाथः । प्रातर्हि यज्ञमश्विना दधाते । प्रशꣳ सन्ति कवयः पूर्वभाजः । प्रातर्यजध्वमश्विना हिनोत । न सायमस्ति देवया अजुष्टम् । उतान्यो अस्मद्यजते विचायः । पूर्वः पूर्वो यजमानो वनीयान् १३


2.4.4.1 उपहोमाः

नक्तं जातास्योषधे । रामे कृष्णे असिक्नि च । इदꣳ रजनि रजय । किलासं पलितं च यत् । किलासं च पलितं च । निरितो नाशया पृषत् । आ नः स्वो अश्नुतां वर्णः । परा श्वेतानि पातय । असितं ते निलयनम् । आस्थानमसितं तव १

असिक्नियस्योषधे । निरितो नाशया पृषत् । अस्थिजस्य किलासस्य । तनूजस्य च यत्त्वचि । कृत्यया कृतस्य ब्रह्मणा । लक्ष्म श्वेतमनीनशम् । सरूपा नाम ते माता । सरूपो नाम ते पिता । सरूपास्योषधे सा । सरूपमिदं कृधि २

शुनꣳ हुवेम मघवानमिन्द्र म् । अस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये । समत्सु । घ्नन्तं वृत्राणि संजितं धनानाम् । धूनुथ द्यां पर्वतान्दाशुषे वसु । नि वो वना जिहते यामनो भिया । कोपयथ पृथिवीं पृश्निमातरः । युधे यदुग्राः पृषतीरयुग्ध्वम् । प्रवेपयन्ति पर्वतान् । विविञ्चन्ति वनस्पतीन् ३

प्रोऽवारत मरुतो दुर्मदा इव । देवासः सर्वया विशा । पुरुत्रा हि सदृङ्ङसि । विशो विश्वा अनु प्रभु । समत्सु त्वा हवामहे । समत्स्वग्निमवसे । वाजयन्तो हवामहे । वाजेषु चित्रराधसम् । संगच्छध्वꣳ संवदध्वम् । सं वो मनाꣳ सि जानताम् ४

देवा भागं यथा पूर्वे । संजानाना उपासत । समानो मन्त्रः समितिः समानी ।समानं मनः सह चित्तमेषाम् । समानं केतो अभि सꣳ रभध्वम् । संज्ञानेन वो हविषा यजामः । समानी व आकूतिः । समाना हृदयानि वः । समा-नमस्तु वो मनः । यथा वः सुसहासति ५

संज्ञानं नः स्वैः । संज्ञानमरणैः । संज्ञानमश्विना युवम् । इहास्मासु निय-च्छतम् । संज्ञानं मे बृहस्पतिः । संज्ञानꣳ सविताकरत् । संज्ञानमश्विना युवम् । इह मह्यं नियच्छतम् । उप च्छायामिव घृणेः । अगन्म शर्म ते वयम् ६

अग्ने हिरण्यसंदृशः । अदब्धेभिः सवितः पायुभिष्ट्वम् । शिवेभिरद्य परिपाहि नो गयम् । हिरन्यजिह्वः सुविताय नव्यसे । रक्षा माकिर्नो अघशꣳ स ईशत । मदेमदे हि नो ददुः । युथा गवामृजुक्रतुः । संगृभाय पुरू शता । उभया हस्त्या वसु । शिशीहि राय आभर ७

शिप्रिन्वाजानां पते । शचीवस्तव दꣳ सना । आ तू न इन्द्र भाजय । गोष्वश्वेषु शुभ्रुषु । सहस्रेषु तुवीमघ । यद्देवा देव हेडनम् । देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा यूयम् । ऋतस्यर्तेन मुञ्चत । ऋतस्यर्तेनादित्याः ८

यजत्रा मुञ्चतेह मा । यज्ञैर्वो यज्ञवाहसः । आशिक्षन्तो न शेकिम । मेदस्वता यजमानाः । स्रुचाज्येन जुह्वतः । अकामा वो विश्वे देवाः । शिक्षन्तो नोपशेकिम । यदि दिवा यदि नक्तम् । एन एनस्योऽकरत् । भूतं मा तस्माद्भव्यं च ९

द्रुपदादिव मुञ्चतु । द्रुपदादिवेन्मुमुचानः । स्विन्नः स्रात्वी मलादिव । पूतं पवित्रेणेवाज्यम् । विश्वे मुञ्चन्तु मैनसः । उद्वयं तमसस्परि । पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यम् । अगन्म ज्योतिरुत्तमम् १०


2.4.5.1 उपहोमाः

वृषा सो अꣳ शुः पवते हविष्मान्त्सोमः । इन्द्र स्य भाग ऋतयुः शतायुः । स मा वृषाणं वृषभं कृणोतु । प्रियं विशाꣳ सर्ववीरꣳ सुवीरम् । कस्य वृषा सते सचा । नियुत्वान्वृषभो रणत् । वृत्रहा सोमपीतये । यस्ते शृङ्ग वृषो नपात् । प्रणपात्कुण्डपाय्यः । न्यस्मिन्दध्र आ मनः १

तꣳ सध्रीचीरूतयो वृष्णियानि । पौꣳ स्यानि नियुतः सश्चुरिन्द्र म् । समुद्रं न सिन्धव उक्थशुष्माः । उरुव्यचसं गिर आविशन्ति । इन्द्रा य गिरो अनिशितसर्गाः । अपः प्रैरयन्त्सगरस्य बुध्नात् । यो अक्षेणेव चक्रिया शचिभिः । विष्वक्तस्तम्भ पृथिवीमुत द्याम् । अक्षोदयच्छवसा क्षाम बुध्नम् । वार्णवातस्तविषीभिरिन्द्रः २

दृढान्यौघ्नादुशमान ओजः । अवाभिनत्ककुभः पर्वतानाम् । आ नो अग्ने सुकेतुना । क्त्!विश्वायुपोषसम् । मार्डीकं धेहि जीवसे । त्वꣳ सोम महे भगम् । त्वं यून ऋतायते । दक्षं दधासि जीवसे । रथं युञ्जते मरुतः शुभे सुगम्सूरो न मित्रावरुणा गविष्टिषु ३

रजाꣳ सि चित्रा विचरन्ति तन्यवः । दिवः सम्राजा पयसा न उक्षतम् । []वाचꣳ सु मित्रावरुणाविरावतीम् । पर्जन्यश्चित्रां वदति त्विषीमतीम् । अभ्रा वसत मरुतः सु मायया । द्यां वर्षयतमरुणामरेपसम् । अयुक्त सप्त शुन्ध्युवः । सूरो रथस्य नप्त्रियः । ताभिर्याति स्वयुक्तिभिः । वहिष्ठेभिर्विहरन्यासि तन्तुम् ४

अवव्ययन्नसितं देव वस्वः । दविध्वतो रश्मयः सूर्यस्य । चर्मेवावाधुस्तमो अप्स्वन्तः । पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु । अच्छा वद तवसं गीर्भिराभिः । स्तुहि पर्जन्यं नमसा विवास । कनि-क्रदद्वृषभो जीरदानुः । रेतो दधात्वोषधीषु गर्भम् ५

यो गर्भमोषधीनाम् । गवां कृणोत्यर्वताम् । पर्जन्यः पुरुषीणाम् । तस्मा इदास्ये हविः । जुहोता मधुमत्तमम् । इडां नः संयतं करत् । तिस्रो यदग्ने शरदस्त्वामित् । शुचिं घृतेन शुचयः सपर्यन् । नामानि चिद्दधिरे यज्ञियानि । असूदयन्त तनुवः सुजाताः ६

इन्द्र श्च नः शुनासीरौ । इमं यज्ञं मिमिक्षतम् । गर्भं धत्तꣳ स्वस्तये । ययोरिदं विश्वं भुवनमाविवेश । ययोरानन्दो निहितो महश्च । शुनासीरावृतुभिः संविदानौ । इन्द्र वन्तौ हविरिदं जुषेथाम् । आ घा ये अग्निमिन्धते । स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा । अग्ने इन्द्र श्च मेदिना । हथो वृत्राण्यप्रति । युवꣳ हि वृत्रहन्तमा । याभ्याꣳ सुवरजयन्नग्र एव । यावातस्थतुर्भुवनस्य मध्ये । प्रचर्षणी वृषणा वज्रबाहू ।अग्नी इन्द्रा वृत्रहणा हुवे वाम् ७


2.4.6.1 उपहोमाः

उत नः प्रिया प्रियासु । सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्याभूत् । इमा जुह्वाना युष्मदा नमोभिः । प्रति स्तोमꣳ सरस्वति जुषस्व । तव शर्मन्प्रियतमे दधानाः । उपस्थेयाम शरणं न वृक्षम् । त्रीणि पदा विचक्रमे । विष्णुर्गोपा अदाभ्यः । ततो धर्माणि धारयन् १

तदस्य प्रियमभि पाथो अश्याम् । नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था । विष्णोः पदे परमे मध्व उत्सः । क्रत्वा दा अस्थु श्रेष्ठः । अद्य त्वा वन्वन्त्सुरेक्णाः । मर्त आनाश सुवृक्तिम् । इमा ब्रह्म ब्रह्मवाह । प्रिया त आ बर्हिः सीद । वीहि सूर पुरोडाशम् २

उप नः सूनवो गिरः । शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु नः । अद्या नो देव सवितः । प्रजावत्सावीः सौभगम् । परा दुष्ष्वप्नियꣳ सुव । विश्वानि देव सवितः । दुरितानि परासुव । यद्भद्रं तन्म आसुव । शुचिमर्कैर्बृहस्पतिम् ३

अध्वरेषु नमस्यत । अनाम्योज आचके । याधारयन्त देवा सुदक्षा दक्षपितारा । असुर्याय प्रमहसा । स इत्क्षेति सुधित ओकसि स्वे । तस्मा इडा पिन्वते विश्वदानी । तस्मै विशः स्वयमेवानमन्ति । यस्मिन्ब्रह्मा राजनि पूर्व एति । सकूतिमिन्द्र सच्युतिम् । सच्युतिं जघनच्युतिम् ४

कनात्काभां न आभर । प्रयप्स्यन्निव सक्थ्यौ । वि न इन्द्र मृधो जहि । कनीखुनदिव सापयन् । अभि नः सुष्टुतिं नय । प्रजापतिः स्त्रियां यशः । मुष्कयोरदधात्सपम् । कामस्य तृप्तिमानन्दम् । तस्याग्ने भाजयेह मा । मोदः प्रमोद आनन्दः ५

मुष्कयोर्निहितः सपः । सृत्वेव कामस्य तृप्याणि । दक्षिणानां प्रतिग्रहे । मनसश्चित्तमाकूतिम् । वाचः सत्यमशीमहि । पशूनाꣳ रूपमन्नस्य । यशः श्रीः श्रयतां मयि । यथाहमस्या अतृपꣳ स्त्रियै पुमान् । यथा स्त्री तृप्यति पुꣳ सि प्रिये प्रिया । एवं भगस्य तृप्याणि ६

यज्ञस्य काम्यः प्रियः । ददामीत्यग्निर्वदति । तथेति वायुराह तत् । हन्तेति सत्यं चन्द्र माः । आदित्यः सत्यमोमिति । आपस्तत्सत्यमाभरन् । यशो यज्ञस्य दक्षिणाम् । असौ मे कामः समृध्यताम् । न हि स्पशमविदन्नन्यमस्मात् । वैश्वानरात्पुरएतारमग्नेः ७

अथेममन्थन्नमृतममूराः । वैश्वानरं क्षेत्रजित्याय देवाः । येषामिमे पूर्वे अर्मास आसन् । अयूपाः सद्म विभृता पुरूणि । वैश्वानर त्वया ते नुत्ताः । पृथिवीमन्यामभितस्थुर्जनासः । पृथिवीं मातरं महीम् । अन्तरिक्षमुपब्रुवे । बृहतीमूतये दिवम् । विश्वं बिभर्ति पृथिवी ८

अन्तरिक्षं विपप्रथे । दुहे द्यौर्बृहती पयः । न ता नशन्ति न दभाति तस्करः । नैना अमित्रो व्यथिरादधर्षति । देवाꣳ श्च याभिर्यजते ददाति च । ज्योगित्ताभिः सचते गोपतिः सह । न ता अर्वा रेणुककाटो अश्नुते । न सꣳ स्कृतत्रमुपयन्ति ता अभि । उरुगायमभयं तस्य ता अनु । गावो मर्त्यस्य विचरन्ति यज्वनः ९

रात्री व्यख्यदायती ।पुरुत्रा देव्यक्षभिः । विश्वा अधि श्रियोऽधित । उप ते गा इवाकरम् । वृणीष्व दुहितर्दिवः । रात्री स्तोमं न जिग्युषी ।देवीं वाचमजनयन्त देवाः । तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रे षमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु १०

यद्वाग्वदन्त्यविचेतनानि । राष्ट्री देवानां निषसाद मन्द्रा । चतस्र ऊर्जं दुदुहे पयाꣳ सि । क्व स्विदस्याः परमं जगाम । गौरी मिमाय सलिलानि तक्षती ।एकपदी द्विपदी सा चतुष्पदी ।अष्टापदी नवपदी बभूवुषी ।सहस्राक्षरा परमे व्योमन् । तस्याꣳ समुद्रा अधि विक्षरन्ति । तेन जीवन्ति प्रदिशश्चतस्रः ११

ततः क्षरत्यक्षरम् । तद्विश्वमुपजीवति । इन्द्रा सूरा जनयन्विश्वकर्मा । मरुत्वाꣳ अस्तु गणवान्त्सजातवान् । अस्य स्नुषा श्वशुरस्य प्रशिष्टिम् । सपत्ना वाचं मनसा उपासताम् । इन्द्रः सूरो अतरद्र जाꣳ सि । स्नुषा सपत्नः श्वशु-रोऽयमस्तु । अयꣳ शत्रूञ्जयतु जर्हृषाणः । अयं वाजं जयतु वाजसातौ । अग्निः क्षत्रभृदनिभृष्टमोजः । सहस्रियो दीप्यतामप्रयुच्छन् । विभ्राजमानः समिधान उग्रः । आन्तरिक्षमरुहदगन्द्याम् १२


2.4.7.1 उपहोमाः

वृषास्यꣳ शुर्वृषभाय गृह्यसे । वृषायमुग्रो नृचक्षसे । दिव्यः कर्मण्यो हितो बृहन्नाम । वृषभस्य या ककुत् । विषूवान्विष्णो भवतु । अयं यो मामको वृषा । अथो इन्द्र इव देवेभ्यः । विब्रवीतु जनेभ्यः । आयुष्मन्तं वर्चस्वन्तम् । अथो अधिपतिं विशाम् १

अस्याः पृथिव्या अध्यक्षम् । इममिन्द्र वृषभं कृणु । यः सुशृङ्गः सुवृषभः । कल्याणो द्रो ण आहितः । कार्षीवलप्रगाणेन । वृषभेण यजामहे । वृषभेण यजमानाः । अक्रूरेणेव सर्पिषा । मृधश्च सर्वा इन्द्रे ण । पृतनाश्च जयामसि २

यस्यायमृषभो हविः । इन्द्रा य परिणीयते । जयाति शत्रुमायन्तम् । अथो हन्ति पृतन्यतः । नृणामह प्रणीरसत् । अग्र उद्भिन्दतामसत् । इन्द्र शुष्मं तनुवा मेरयस्व । नीचा विश्वा अभितिष्ठाभिमातीः । निशृणीह्याबाधं यो नो अस्ति । उरुं नो लोकं कृणुहि जीरदानो ३

प्रेह्यभिप्रेहि प्रभरा सहस्व । मा विवेनो विशृणुष्वा जनेषु । उदीडितो वृषभ तिष्ठ शुष्मैः । इन्द्र शत्रून्पुरो अस्माक युध्य । अग्ने जेता त्वं जय । शत्रून्त्सहस ओजसा । वि शत्रून्विमृधो नुद । एतं ते स्तोमं तुविजात विप्रः । रथं न धीरः स्वपा अतक्षम् । यदीदग्ने प्रति त्वं देव हर्याः ४

सुवर्वतीरप एना जयेम । यो घृतेनाभिमानितः । इन्द्र जैत्राय जज्ञिषे । स नः संकासु पारय । पृतनासाह्येषु च । इन्द्रो जिगाय पृथिवीम् । अन्तरिक्षꣳ सुवर्महत् । वृत्रहा पुरुचेतनः । इन्द्रो जिगाय सहसा सहाꣳ सि । इन्द्रो जिगाय पृतनानि विश्वा ५

इन्द्रो जातो वि पुरो रुरोज । स नः परस्पा वरिवः कृणोतु । अयं कृत्नुरगृभीतः । विश्वजिदुद्भिदित्सोमः । ऋषिर्विप्रः काव्येन । वायुरग्रेगा यज्ञप्रीः । साकं गन्मनसा यज्ञम् । शिवो नियुद्भिः शिवाभिः । वायो शुक्रो अयामि ते । मध्वो अग्रं दिविष्टिषु ६

आयाहि सोमपीतये । स्वारुहो देव नियुत्वता । इममिन्द्र वर्धय क्षत्रियाणाम् । अयं विशां विश्पतिरस्तु राजा । अस्मा इन्द्र महि वर्चाꣳ सि धेहि । अवर्चसं कृणुहि शत्रुमस्य । इममाभज ग्रामे अश्वेषु गोषु । निरमुं भज योऽमित्रो अस्य । वर्ष्मन्क्षत्रस्य ककुभि श्रयस्व । ततो न उग्रो विभजा वसूनि ७

अस्मे द्यावापृथिवी भूरि वामम् । संदुहाथां घर्मदुघेव धेनुः । अयꣳ राजा प्रिय इन्द्र स्य भूयात् । प्रियो गवामोषधीनामुतापाम् । युनज्मि त उत्तरावन्तमिन्द्र म् । येन जयासि न पराजयासै । स त्वाकरेकवृषभꣳ स्वानाम् । अथो राजन्नुत्तमं मानवानाम् । उत्तरस्त्वमधरे ते सपत्नाः । एकवृषा इन्द्र सखा जिगीवान् ८

विश्वा आशाः पृतनाः संजयं जयन् । अभितिष्ठ शत्रूयतः सहस्व । तुभ्यं भरन्ति क्षितयो यविष्ठ । बलिमग्ने अन्ति त ओत दूरात् । आ भन्दिष्ठस्य सुमतिं चिकिद्धि । बृहत्ते अग्ने महि शर्म भद्र म् । यो देह्यो अनमयद्वधस्नैः । यो अर्यपत्नीरुषसश्चकार । स निरुध्या नहुषो यह्वो अग्निः । विशश्चक्रे बलिहृतः सहोभिः ९

प्र सद्यो अग्ने अत्येष्यन्यान् । आविर्यस्मै चारुतरो बभूथ । ईडेऽन्यो वपुष्यो विभावा । प्रियो विशामतिथिर्मानुषीणाम् । ब्रह्म ज्येष्ठा वीर्या संभृतानि । ब्रह्माग्रे ज्येष्ठं दिवमाततान । ऋतस्य ब्रह्म प्रथमोत जज्ञे । तेनार्हति ब्रह्मणा स्पर्धितुं कः । ब्रह्म स्रुचो घृतवतीः । ब्रह्मणा स्वरवो मिताः १०

ब्रह्म यज्ञस्य तन्तवः । ऋत्विजो ये हविष्कृतः । शृङ्गाणीवेच्छृङ्गिणाꣳ संददृश्रिरे । चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवाꣳ सः । नमः सखिभ्यः सन्नान्मावगात । अभिभूरग्निरतरद्र जाꣳ सि । स्पृधो विहत्य पृतना अभिश्रीः । जुषाणो म आहुतिं मा महिष्ट । हत्वा सपत्नान्वरिवस्करं नः । ईशानं त्वा भुवनानामभिश्रियम् । स्तौम्यग्न उरुकृतꣳ सुवीरम् । हविर्जुषाणः सपत्नाꣳ अभिभूरसि । जहि शत्रूꣳ रप मृधो नुदस्व ११


2.4.8.1 उपहोमाः। आग्रयणसूक्तम्।

स प्रत्नवन्नवीयसा । अग्ने द्युम्नेन संयता । बृहत्तनन्थ भानुना । नवं नु स्तोममग्नये । दिवः श्येनाय जीजनम् । वसोः कुविद्वनाति नः । स्वारुहा यस्य श्रियो दृशे । रयिर्वीरवतो यथा । अग्रे यज्ञस्य चेततः । अदाभ्यः पुरएता १

अग्निर्विशां मानुषीणाम् । तूर्णी रथः सदा नवः । नवꣳ सोमाय वाजिने । आज्यं पयसोऽजनि । जुष्टꣳ शुचितमं वसु । नवꣳ सोम जुषस्व नः । पीयूषस्येह तृप्णुहि । यस्ते भाग ऋता वयम् । नवस्य सोम ते वयम् । आ सुमतिं वृणीमहे २

स नो रास्व सहस्रिणः । नवꣳ हविर्जुषस्व नः । ऋतुभिः सोम भूतमम् । तदङ्ग प्रतिहर्य नः । राजन्त्सोम स्वस्तये । नवꣳ स्तोमं नवꣳ हविः । इन्द्रा ग्निभ्यां निवेदय । तज्जुषेताꣳ सचेतसा । शुचिं नु स्तोमं नवजातमद्य । इन्द्रा ग्नी वृत्रहणा जुषेथाम् ३

उभा हि वाꣳ सुहवा जोहवीमि । ता वाजꣳ सद्य उशते धेष्ठा । अग्निरिन्द्रो नवस्य नः । अस्य हव्यस्य तृप्यताम् । इह देवौ सहस्रिणौ । यज्ञं न आ हि गच्छताम् । वसुमन्तꣳ सुवर्विदम् । अस्य हव्यस्य तृप्यताम् । अग्निरिन्द्रो नवस्य नः । विश्वान्देवाꣳ स्तर्पयत ४

हविषोऽस्य नवस्य नः । सुवर्विदो हि जज्ञिरे । एदं बर्हिः सुष्टरीमा नवेन । अयं यज्ञो यजमानस्य भागः । अयं बभूव भुवनस्य गर्भः । विश्वे देवा इदमद्यागमिष्ठाः । इमे नु द्यावापृथिवी समीची ।तन्वाने यज्ञं पुरुपेशसं धिया । आस्मै पृणीतां भुवनानि विश्वा । प्रजां पुष्टिममृतं नवेन ५

इमे धेनू अमृतं ये दुहाते । पयस्वत्युत्तरामेतु पुष्टिः । इमं यज्ञं जुषमाणे नवेन । समीची द्यावापृथिवी घृताची ।यविष्ठो हव्यवाहनः । चित्रभानुर्घृतासुतिः । नवजातो विरोचसे । अग्ने तत्ते महित्वनम् । त्वमग्ने देवताभ्यः । भागे देव न मीयसे ६

स एना विद्वान्यक्ष्यसि । नवꣳ स्तोमं जुषस्व नः । अग्निः प्रथमः प्राश्नातु । स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः । कृणोतु विश्वचर्षणिः । भद्रान्नः श्रेयः समनैष्ट देवाः । त्वया वसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व । शं तोकाय तनुवे स्योनः । एतमु त्यं मधुना संयुतं यवम् । सरस्वत्या अधिमनाव चर्क्रुषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः । कीनाशा आसन्मरुतः सुदानवः ७

  1. ऋ. ५.६३.६