प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०५

< तैत्तिरीयब्राह्मणम् (विस्वरपाठः)‎ | काण्डः २

2.5.1.1 उपहोमशेषः

प्राणो रक्षति विश्वमेजत् । इर्यो भूत्वा बहुधा बहूनि । स इत्सर्वं व्यानशे । यो देवो देवेषु विभूरन्तः । आवृदूदात्क्षेत्रियध्वगद्वृषा । तमित्प्राणं मनसोपशिक्षत । अग्रं देवानामिदमत्तु नो हविः । मनसश्चित्तेदम् । भूतं भव्यं च गुप्यते । तद्धि देवेष्वग्रियम् १

आ न एतु पुरश्चरम् । सह देवैरिमँ हवम् । मनः श्रेयसिश्रेयसि । कर्मन्यज्ञपतिं दधत् । जुषतां मे वागिदँ हविः । विराड्देवी पुरोहिता । हव्यवाडनपायिनी ।यया रूपाणि बहुधा वदन्ति । पेशाँ सि देवाः परमे जनित्रे । सा नो विराडनपस्फुरन्ती २

वाग्देवी जुषतामिदँ हविः । चक्षुर्देवानां ज्योतिरमृते न्यक्तम् । अस्य विज्ञानाय बहुधा निधीयते । तस्य सुम्नमशीमहि । मा नो हासीद्विचक्षणम् । आयुरिन्नः प्रतीर्यताम् । अनन्धाश्चक्षुषा वयम् । जीवा ज्योतिरशीमहि । सुवर्ज्योतिरुतामृतम् । श्रोत्रेण भद्र मुत शृण्वन्ति सत्यम् । श्रोत्रेण वाचं बहुधोद्यमानाम् । श्रोत्रेण मोदश्च महश्च श्रूयते । श्रोत्रेण सर्वा दिश आशृणोमि । येन प्राच्या उत दक्षिणा । प्रतीच्यै दिशः शृण्वन्त्युत्तरात् । तदिच्छ्रोत्रं बहुधा उद्यमानम् । अरान्न नेमिः परि सर्वं बभूव ३


2.5.2.1 उपहोमशेषः

उदेहि वाजिन्यो अस्यप्स्वन्तः । इदँ राष्ट्रमाविश सूनृतावत् । यो रोहितो विश्वमिदं जजान । स नो राष्ट्रेषु सुधितान्दधातु । रोहँ रोहँ रोहित आरुरोह । प्रजाभिर्वृद्धिं जनुषामुपस्थम् । ताभिः सँ रब्धो अविदत्षडुर्वीः । गातुं प्रपश्यन्निह राष्ट्रमाहाः । आहार्षीद्रा ष्ट्रमिह रोहितः । मृधो व्यास्थदभयं नो अस्तु ४

अस्मभ्यं द्यावापृथिवी शक्वरीभिः । राष्ट्रं दुहाथामिह रेवतीभिः । विममर्श रोहितो विश्वरूपः । समाचकाणः प्ररुहो रुहश्च । दिवं गत्वाय महता महिम्ना । वि नो राष्ट्रमुनत्तु पयसा स्वेन । यास्ते विशस्तपसा संबभूवुः । गायत्रं वत्समनु तास्त आगुः । तास्त्वा विशन्तु महसा स्वेन । सं माता पुत्रो अभ्येतु रोहितः ५

यूयमुग्रा मरुतः पृश्निमातरः । इन्द्रे ण सयुजा प्रमृणीथ शत्रून् । आ वो रोहितो अशृणोदभिद्यवः । त्रिसप्तासो मरुतः स्वादुसंमुदः । रोहितो द्यावापृथिवी जजान । तस्मिँ स्तन्तुं परमेष्ठी ततान । तस्मिञ्शिश्रिये अज एकपात् । अदृँ हद्द्यावापृथिवी बलेन । रोहितो द्यावापृथिवी अदृँ हत् । तेन सुवः स्तभितं तेन नाकः ६

सो अन्तरिक्षे रजसो विमानः । तेन देवाः सुवरन्वविन्दन् । सुशेवं त्वा भानवो दीदिवाँ सम् । समग्रासो जुह्वो जातवेदः । उक्षन्ति त्वा वाजिनमा घृतेन । सँ समग्ने युवसे भोजनानि । अग्ने शर्ध महते सौभगाय । तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्यँ सुयममाकृणुष्व । शत्रूयतामभितिष्ठा महाँ सि ७


2.5.3.1 उपहोमशेषः

पुनर्न इन्द्रो मघवा ददातु । धनानि शक्रो घन्यः सुराधाः । अर्वाचीनम्कृणुतां याचितो मनः । श्रुष्टी नो अस्य हविषो जुषाणः । यानि नो जिनन्धनानि । जहर्थ शूर मन्युना । इन्द्रा नुविन्द नस्तानि । अनेन हविषा पुनः । इन्द्र आशाभ्यः परि । सर्वाभ्योऽभयं करत् ८

जेता शत्रून्विचर्षणिः । आकूत्यै त्वा कामाय त्वा समृधे त्वा । पुरो दधे अमृतत्वाय जीवसे । आकूतिमस्यावसे । काममस्य समृद्ध्यै । इन्द्र स्य युञ्जते धियः । आकूतिं देवीं मनसः पुरो दधे । यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा सकामः । विदेयमेनद्धृदये निविष्टम् ९

सेदग्निरग्नीँ रत्येत्यन्यान् । यत्र वाजी तनयो वीडुपाणिः । सहस्रपाथा अक्षरा समेति । आशानां त्वाशापालेभ्यः । चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यः । वेधेम हविषा वयम् । विश्वा आशा मधुना सँ सृजामि । अनमीवा आप ओषधयो भवन्तु । अयं यजमानो मृधो व्यस्यताम् १०

अगृभीताः पशवः सन्तु सर्वे । अग्निः सोमो वरुणो मित्र इन्द्रः । बृहस्पतिः सविता यः सहस्री ।पूषा नो गोभिरवसा सरस्वती ।त्वष्टा रूपाणि समनक्तु यज्ञैः । त्वष्टा रूपाणि दधती सरस्वती ।पूषा भगँ सविता नो ददातु । बृहस्पतिर्दददिन्द्रः सहस्रम् । मित्रो दाता वरुणः सोमो अग्निः ११


2.5.4.1 उपहोमशेषः

आ नो भर भगमिन्द्र द्युमन्तम् । नि ते देष्णस्य धीमहि प्ररेके । उर्व इव पप्रथे कामो अस्मे । तमापृणा वसुपते वसूनाम् । इमं कामं मन्दया गोभिरश्वैः । चन्द्र वता राधसा पप्रथश्च । सुवर्यवो मतिभिस्तुभ्यं विप्राः । इन्द्रा य वाहः कुशिकासो अक्रन् । इन्द्र स्य नु वीर्याणि प्रवोचम् । यानि चकार प्रथमानि वज्री १२

अहन्नहिमन्वपस्ततर्द । प्र वक्षणा अभिनत्पर्वतानाम् । अहन्नहिं पर्वते शिश्रियाणम् । त्वष्टास्मै वज्रँ स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमानाः । अञ्जः समुद्र मवजग्मुरापः । वृषायमाणोऽवृणीत सोमम् । त्रिकद्रुकेष्व-पिबत्सुतस्य । आ सायकं मघवादत्त वज्रम् । अहन्नेनं प्रथमजामहीनाम् १३

यदिन्द्रा हन्प्रथमजामहीनाम् । आन्मायिनाममिनाः प्रोत मायाः । आत्सूर्यं जनयन्द्यामुषासम् । तादीक्ना शत्रून्न किलाविवित्से । अहन्वृत्रं वृत्रतरं व्यँ सम् । इन्द्रो वज्रेण महता वधेन । स्कन्धाँ सीव कुलिशेना विवृक्णा । १३अहिः शयत उपपृक्पृथिव्याम् । अयोध्येव दुर्मद आ हि जुह्वे । महावीरं तु विबाधमृजीषम् १४

नातारीरस्य समृतिं वधानाम् । सँ रुजानाः । पिपिष इन्द्र शत्रुः । विश्वो विहाया अरतिः । वसुर्दधे हस्ते दक्षिणे । तरणिर्न शिश्रथत् । श्रवस्यया न शिश्रथत् । विश्वस्मा इदिषुध्यसे । देवत्रा हव्यमूहिषे । विश्वस्मा इत्सुकृते वारमृण्वति । अग्निर्द्वारा व्यृण्वति १५

उदुज्जिहानो अभि काममीरयन् । प्रपृञ्चन्विश्वा भुवनानि पूर्वथा । आ केतुना सुषमिद्धो यजिष्ठः । कामं नो अग्ने अभिहर्य दिग्भ्यः । जुषाणो हव्यममृतेषु दूढ्यः । आ नो रयिं बहुला गोमतीमिषम् । निधेहि यक्षदमृतेषु भूषन् । अश्विना यज्ञमागतम् । दाशुषः पुरुदँ ससा । पूषा रक्षतु नो रयिम् १६

इमं यज्ञमश्विना वर्धयन्ता । इमौ रयिं यजमानाय धत्तम् । इमौ पशून्रक्षतां विश्वतो नः । पूषा नः पातु सदमप्रयुच्छन् । प्र ते महे सरस्वति । सुभगे वाजिनीवति । सत्यवाचे भरे मतिम् । इदं ते हव्यं घृतवत्सरस्वति । सत्यवाचे प्रभरेमा हवीँ षि । इमानि ते दुरिता सौभगानि । तेभिर्वयँ सुभः स्याम १७


2.5.5.1 उपहोमशेषः

यज्ञो रायो यज्ञ ईशे वसूनाम् । यज्ञः सस्यानामुत सुक्षितीनाम् । यज्ञ इष्टः पूर्वचित्तिं दधातु । यज्ञो ब्रह्मण्वाँ अप्येतु देवान् । अयं यज्ञो वर्धतां गोभिरश्वैः । इयं वेदिः स्वपत्या सुवीरा । इदं बर्हिरति बर्हीँ ष्यन्या । इमं यज्ञं विश्वे अवन्तु देवाः । भग एव भगवाँ अस्तु देवाः । तेन वयं भगवन्तः स्याम १८

तं त्वा भग सर्व इज्जोहवीमि । स नो भग पुरएता भवेह । भग प्रणेतर्भग सत्यराधः । भगेमां धियमुदवददन्नः । भग प्र णो जनय गोभिरश्वैः । भग प्र नृभिर्नृवन्तः स्याम । शश्वतीः समा उपयन्ति लोकाः । शश्वतीः समा उपयन्त्यापः । इष्टं पूर्तँ शश्वतीनाँ समानाँ शाश्वतेन । हविषेष्ट्वानन्तं लोकं परमारुरोह १९

इयमेव सा या प्रथमा व्यौच्छत् । सा रूपाणि कुरुते पञ्च देवी।द्वे स्वसारौ वयतस्तन्त्रमेतत् । सनातनं विततँ षण्मयूखम् । अवान्याँ स्तन्तून्किरतो धत्तो अन्यान् । नावपृज्याते न गमाते अन्तम् । आ वो यन्तूदवाहासो अद्य । वृष्टिं ये विश्वे मरुतो जुनन्ति । अयं यो अग्निर्मरुतः समिद्धः । एतं जुषध्वं कवयो युवानः २०


2.5.5.4

धारावरा मरुतो धृष्णु वोजसः । मृगा न भीमास्तविषेभिरूर्मिभिः । अग्नयो न शुशुचाना ऋजीषिणः । भ्रुमिं धमन्त उप गा अवृण्वत । विचक्रमे त्रिर्देवः । आवेधसं नीलपृष्ठं बृहन्तम् । बृहस्पतिँ सदने सादयध्वम् । सादद्योनिं दम आदीदिवाँ सम् । हिरण्यवर्णमरुषँ सपेम । स हि शुचिः शतपत्रः स शुन्ध्यूः २१

हिरण्यवाशीरिषिरः सुवर्षाः । बृहस्पतिः स स्वावेश ऋष्वाः । पूरू सखिभ्य आसुतिं करिष्ठः । पूषँ स्तव व्रते वयम् । न रिष्येम कदा चन । स्तोतारस्त इह स्मसि । यास्ते पूषन्नावो अन्तः समुद्रे । हिरण्ययीरन्तरिक्षे चरन्ति । याभिर्यासि दूत्याँ सूर्यस्य । कामेन कृतः श्रव इच्छमानः २२

अरण्यान्यरण्यान्यसौ । या प्रेव नश्यसि । कथा ग्रामं न पृच्छसि । न त्वा भीरिव विन्दती३ ।वृषारवाय वदते । यदुपावति चिच्चिकः । आघाटी-भिरिव धावयन् । अरण्यानिर्महीयते । उत गाव इवादन् । उतो वेश्मेव दृश्यते २३

उतो अरण्यानिः सायम् । शकटीरिव सर्जति । गामङ्गैष आह्वयति । दार्वङ्गैष उपावर्धीत् । वसन्नरण्यान्याँ सायम् । अक्रुक्षदिति मन्यते । न वा अरण्यानिर्हन्ति । अन्यश्चेन्नाभिगच्छति । स्वादोः फलस्य जग्ध्वा । यत्र कामं निपद्यते । आञ्जनगन्धीँ सुरभीम् । बह्वन्नामकृषीवलाम् । प्राहं मृगाणां मातरम् । अरण्यानीमशँ सिषम् २४


2.5.6.1 उपहोमशेषः

वार्त्रहत्याय शवसे । पृतनासाह्याय च । इन्द्र त्वावर्तयामसि । सुब्रह्माणं वीरवन्तं बृहन्तम् । उरुं गभीरं पृथुबुध्नमिन्द्र । श्रुतर्षिमुग्रमभिमातिषाहम् । अस्मभ्यं चित्रं वृषणँ रयिं दाः । क्षेत्रियै त्वा निरृत्यै त्वा । द्रुहो मुञ्चामि वरुणस्य पाशात् । अनागसं ब्रह्मणे त्वा करोमि २५

शिवे ते द्यावापृथिवी उभे इमे । शं ते अग्निः सहाद्भिरस्तु । शं ते चतस्रः प्रदिशो भवन्तु । या दैवीश्चतस्रः प्रदिशः । वातपत्नीरभि सूर्यो विचष्टे । तासां त्वा जरस आदधामि । प्र यक्ष्म एतु निरृतिं पराचैः । अमोचि यक्ष्माद्दुरितादवर्त्यै २६

द्रुहः पाशान्निरृत्यै चोदमोचि । अहा अवर्तिमविदत्स्योनम् । अप्यभूद्भद्रे सुकृतस्य लोके । सूर्यमृतं तमसो ग्राह्या यत् । देवा अमुञ्चन्नसृजन्व्येनसः । एवमहमिमं क्षेत्रियाज्जामिशँ सात् । द्रुहो मुञ्चामि वरुणस्य पाशात् । बृहस्पते युवमिन्द्र श्च वस्वः । दिव्यस्येशाथे उत पार्थिवस्य । धत्तँ रयिँ स्तुवते कीरये चित् २७

यूयं पात स्वस्तिभिः सदा नः । देवायुधमिन्द्र माजोहुवानाः । विश्वावृधमभि ये रक्षमाणाः । येन हता दीर्घमध्वानमायन् । अनन्तमर्थम्निवर्त्स्यमानाः । यत्ते सुजाते हिमवत्सु भेषजम् । मयोभूः शंतमा यद्धृदोऽसि । ततो नो देहि सीबले । अदो गिरिभ्यो अधि यत्प्रधावसि । सँ शोभमाना कन्येव शुभ्रे २८

तां त्वा मुद्गला हविषा वर्धयन्ति । सा नः सीबले रयिमाभाजयेह । पूर्वं देवा अपरेणानुपश्यञ्जन्मभिः । जन्मान्यवरैः पराणि । वेदानि देवा अयमस्मीति माम् । अहँ हित्वा शरीरं जरसः परस्तात् । प्राणापानौ चक्षुः श्रोत्रम् । वाचं मनसि संभृताम् । हित्वा शरीरं जरसः परस्तात् । आ भूतिं भूतिं वयमश्नवामहै । इमा एव ता उषसो याः प्रथमा व्यौच्छन् । ता देव्यः कुर्वते पञ्च रूपा । शश्वतीर्नावपृज्यन्ति । न गमन्त्यन्तम् २९


2.5.7.1 उपहोमशेषः

वसूनां त्वाधीतेन । रुद्रा णामूर्म्या । आदित्यानां तेजसा । विश्वेषां देवानां क्रतुना । मरुतामेम्ना जुहोमि स्वाहा । अभिभूतिरहमागमम् । इन्द्र सखा स्वायुधः । आस्स्वाशासु दुष्षहः । इदं वर्चो अग्निना दत्तमागात् । यशो भर्गः सह ओजो बलं च ३०

दीर्घायुत्वाय शतशारदाय । प्रतिगृभ्णामि महते वीर्याय । आयुरसि विश्वायुरसि । सर्वायुरसि सर्वमायुरसि । सर्वं म आयुर्भूयात् । सर्वमायुर्गेषम् । भूर्भुवः सुवः । अग्निर्धर्मेणान्नादः । मृत्युर्धर्मेणान्नपतिः । ब्रह्म क्षत्रँ स्वाहा ३१

प्रजापतिः प्रणेता । बृहस्पतिः पुरएता । यमः पन्थाः । चन्द्र माः पुनरसुः स्वाहा । अग्निरन्नादोऽन्नपतिः । अन्नाद्यमस्मिन्यज्ञे यजमानाय ददातु स्वाहा । सोमो राजा राजपतिः । राज्यमस्मिन्यज्ञे यजमानाय ददातु स्वाहा । वरुणः सम्राट्सम्राट्पतिः । साम्राज्यमस्मिन्यज्ञे यजमानाय ददातु स्वाहा ३२

मित्रः क्षत्रं क्षत्रपतिः । क्षत्रमस्मिन्यज्ञे यजमानाय ददातु स्वाहा । इन्द्रो बलं बलपतिः । बलमस्मिन्यज्ञे यजमानाय ददातु स्वाहा । बृहस्पतिर्ब्रह्म ब्रह्म-पतिः । ब्रह्मास्मिन्यज्ञे यजमानाय ददातु स्वाहा । सविता राष्ट्रँ राष्ट्रपतिः । राष्ट्रमस्मिन्यज्ञे यजमानाय ददातु स्वाहा । पूषा विशां विट्पतिः विशम-स्मिन्यज्ञे यजमानाय ददातु स्वाहा । सरस्वती पुष्टिः पुष्टिपत्नी ।पुष्टिमस्मिन्यज्ञे यजमानाय ददातु स्वाहा । त्वष्टा पशूनां मिथुनानाँ रूपकृद्रुपपतिः । रूपेणास्मिन्यज्ञे यजमानाय पशून्ददातु स्वाहा ३३


2.5.8.1 उपहोमशेषः

स ईं पाहि य ऋजीषी तरुत्रः । यश्शिप्रवान्वृषभो यो मतीनाम् । यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः । स इन्द्र चित्राँ अभितृन्धि वाजान् । आ ते शुष्मो वृषभ एतु पश्चात् । ओत्तरादधरागा पुरस्तात् । आ विश्वतो अभि समेत्व-र्वाङ्।इन्द्र द्युम्नँ सुवर्वद्धेह्यस्मे । प्रोष्वस्मै पुरोरथम् । इन्द्रा य शूषमर्चत ३४

अभीके चिदु लोककृत् । सङ्गे समत्सु वृत्रहा । अस्माकं बोधि चोदिता । नभन्तामन्यकेषाम् । ज्याका अधि धन्वसु । इन्द्रं वयँ शुनासीरम् । अस्मि-न्यज्ञे हवामहे । आ वाजैरुप नो गमत् । इन्द्रा य शुनासीराय । स्रुचा जुहुत नो हविः ३५

जुषतां प्रति मेधिरः । प्र हव्यानि घृतवन्त्यस्मै । हर्यश्वाय भर्ता सजोषाः । इन्द्र र्तुभिर्ब्रह्मणा वावृधानः । शुनासीरी हविरिदं जुषस्व । वयः सुपर्णा उपसेदुरिन्द्र म् । प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुः । मुमुग्ध्यस्मान्निधयेव बद्धान् । बृहदिन्द्रा य गायत ३६

मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधः । देवं देवाय जागृवि । का मिहैकाः क इमे पतङ्गाः । मान्थालाः कुलि परि मा पतन्ति । अनावृतैनान्प्रधमन्तु देवाः । सौपर्णं चक्षुस्तनुवा विदेय । एवावन्दस्व वरुणं बृहन्तम् । नमस्या धीरममृतस्य गोपाम् । स नः शर्म त्रिवरूथं वियँ सत् ३७

यूयं पात स्वस्तिभिः सदा नः । नाके सुपर्णमुप यत्पतन्तम् । हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतम् । यमस्य योनौ शकुनं भुरण्युम् । शं नो देवीरभिष्टये । आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः । ईशाना वार्याणाम् । क्षयन्तीश्चर्षणीनाम् ३८

अपो याचामि भेषजम् । अप्सु मे सोमो अब्रवीत् । अन्तर्विश्वानि भेषजा । अग्निं च विश्वशंभुवम् । आपश्च विश्वभेषजीः । यदप्सु ते सरस्वति । गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति । मुखमङ्ग्धि सरस्वति । या सरस्वती वैशम्भल्या ३९ तस्यां मे रास्व । तस्यास्ते भक्षीय । तस्यास्ते भूयिष्ठभाजो भूयास्म । अहं त्वदस्मि मदसि त्वमेतत् । ममासि योनिस्तव योनिरस्मि । ममेव सन्वह हव्यान्यग्ने । पुत्रः पित्रे लोककृज्जातवेदः । इहैव सन्तत्र सन्तं त्वाग्ने । प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीत् ४०

ज्योतिषा त्वा वैश्वानरेणोपतिष्ठे । अयं ते योनिरृत्वियः । यतो जातो अरोचथाः । तं जानन्नग्न आरोह । अथा नो वर्धया रयिम् । या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मानम् । अच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिम् । जातवेदो भुव आजायमानः सक्षय एहि । उपावरोह जातवेदः पुनस्त्वम् ४१

देवेभ्यो हव्यं वह नः प्रजानन् । आयुः प्रजाँ रयिमस्मासु धेहि । अजस्रो दीदिहि नो दुरोणे । तमिन्द्रं जोहवीमि । मघवानमुग्रम् । सत्रादधानमप्रतिष्कुतँ शवाँ सि । मँ हिष्ठो गीर्भिरा च यज्ञियोऽववर्तत् । राये नो विश्वा सुपथा कृणोतु वज्री ।त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत् । सोममपिबद्विष्णुना सुतं यथावशत् । स ईं ममाद महि कर्म कर्तवे महामुरुम् ४२

सैनँ सश्चद्देवं देवः सत्यमिन्दुँ सत्य इन्द्रः । विदद्यती सरमा रुग्णमद्रे ः! । महि पाथः पूर्व्यँ सध्रियक्कः । अग्रं नयत्सुपद्यक्षराणाम् । अच्छा रवं प्रथमा जानती गात् । विदद्गव्यँ सरमा दृढमूर्वम् । येना नुकं मानुसी भोजते विट् । आ ये विश्वा स्वपत्यानि चक्रुः । कृण्वानासो अमृतत्वाय गातुम् । त्वं नृभिर्नृपते देवहूतौ ४३

भूरीणि वृत्वा हर्यश्व हँ सि । त्वं निदस्युं चुमुरिम् । धुनिं चास्वापयो दभीतये सुहन्तु । एवा पाहि प्रत्नथा मन्दतु त्वा । श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । आविः सूर्यं कृणुहि पीपिहीषः । जहि शत्रूँ रभि गा इन्द्र तृन्धि । अग्ने बाधस्व वि मृधो नुदस्व । अपामीवा अप रक्षाँ सि सेध । अस्मात्समुद्रा द्बृहतो दिवो नः ४४

अपां भूमानमुप नः सृजेह । यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा । वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन् । अधामृतेन जरितारमङ्ग्धि । इन्द्रः शुनावद्वितनोति सीरम् । संवत्सरस्य प्रतिमाणमेतत् । अर्कस्य ज्योतिस्तदिदास ज्येष्ठम् । संवत्सरँ शुनवत्सीरमेतत् । इन्द्र स्य राधः प्रयतं पुरु त्मना । तदर्करूपं विमिमानमेति । द्वादशारे प्रतितिष्ठतीद्वृषा । अश्वायन्तो गव्यन्तो वाजयन्तः । हवामहे त्वोपगन्त वा उ । आभूषन्तस्त्वा सुमतौ नवायाम् । वयमिन्द्र त्वा शुनँ हुवेम ४५ ५