तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०६

2.6.1.1 सौत्रामणेः कौकिल्या ग्रहाः
स्वाद्वीं त्वा स्वादुना । तीव्रां तीव्रेण । अमृताममृतेन । मधुमतीं मधुमता । सृजामि सꣳ सोमेन । सोमोऽस्यश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे पच्यस्व । परीतो षिञ्चता सुतम् । सोमो य उत्तमꣳ हविः १

दधन्वा न्यो नर्यो अप्स्वन्तरा । सुषाव सोममद्रिभिः । पुनातु ते परिस्रुतम् । सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना । वायुः पूतः पवित्रेण । प्राङ्सोमो अतिद्रुतः २

इन्द्रस्य युज्यः सखा । ब्रह्म क्षत्रं पवते तेज इन्द्रियम् । सुरया सोमः सुत आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि । रसेनान्नं यजमानाय धेहि । कुविदङ्ग यवमन्तो यवं चित् । यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि । ये बर्हिषो नमोवृक्तिं न जग्मुः । उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामि ३

सरस्वत्या इन्द्राय सुत्राम्णे । एष ते योनिस्तेजसे त्वा । वीर्याय त्वा बलाय त्वा । तेजोऽसि तेजो मयि धेहि । वीर्यमसि वीर्यं मयि धेहि । बलमसि बलं मयि धेहि । नाना हि वां देवहितꣳ सदः कृतम् । मा सꣳ सृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एषः । मा मा हिँसीः स्वां योनिमाविशन् ४

उपयामगृहीतोऽस्याश्विनं तेजः । सारस्वतं वीर्यम् । ऐन्द्रं बलम् । एष ते योनिर्मोदाय त्वा । आनन्दाय त्वा महसे त्वा । ओजोऽस्योजो मयि धेहि । मन्युरसि मन्युं मयि धेहि । महोऽसि महो मयि धेहि । सहोऽसि सहो मयि धेहि । या व्याघ्रं विषूचिका । उभौ वृकं च रक्षति । श्येनं पतत्रिणꣳ सिꣳ हम् । सेमं पात्वꣳ हसः । संपृचः स्थ सं मा भद्रे ण पृङ्क्त । विपृचः स्थ वि मा पाप्मना पृङ्क्त ५

2.6.2.1सौत्रामणेः कौकिल्या ग्रहोपस्थानम्

सोमो राजामृतꣳ सुतः । ऋजीषेणाजहान्मृत्युम् । ऋतेन सत्यमिन्द्रियम् । विपानꣳ शुक्रमन्धसः । इन्द्रस्येन्द्रियम् । इदं पयोऽमृतं मधु । सोममद्भ्यो व्यपिबत् । छन्दसा हँसः शुचिषत् । ऋतेन सत्यमिन्द्रियम् । अद्भ्यः क्षीरं व्यपिबत् १

क्रुङ्ङाङ्गिरसो धिया । ऋतेन सत्यमिन्द्रियम् । अन्नात्परिस्रुतो रसम् । ब्रह्मणा व्यपिबत्क्षत्रम् । ऋतेन सत्यमिन्द्रियम् । रेतो मूत्रं विजहाति । योनिं प्रविशदिन्द्रियम् । गर्भो जरायुणावृतः । उल्बं जहाति जन्मना । ऋतेन सत्यमिन्द्रियम् २

वेदेन रूपे व्यकरोत् । सतासती प्रजापतिः । ऋतेन सत्यमिन्द्रियम् । सोमेन सोमौ व्यपिबत् । सुतासुतौ प्रजापतिः । ऋतेन सत्यमिन्द्रियम् । दृष्ट्वा रूपे व्याकरोत् । सत्यानृते प्रजापतिः । अश्रद्धामनृतेऽदधात् । श्रद्धाꣳ सत्ये प्रजापतिः । ऋतेन सत्यमिन्द्रियम् । दृष्ट्वा परिस्रुतो रसम् । शुक्रेण शुक्रं व्यपिबत् । पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियम् । विपानꣳ शुक्रमन्धसः । इन्द्रस्येन्द्रियम् । इदं पयोऽमृतं मधु ३

2.6.3.1 कौकिल्याः ग्रहहोमः
सुरावन्तं बर्हिषदꣳ सुवीरम् । यज्ञꣳ हिन्वन्ति महिषा नमोभिः । दधानाः सोमं दिवि देवतासु । मदेमेन्द्रं यजमानाः स्वर्काः । यस्ते रसः संभृत ओषधीषु । सोमस्य शुष्मः सुरया सुतस्य । तेन जिन्व यजमानं मदेन । सरस्वतीमश्विनाविन्द्रमग्निम् । यमश्विना नमुचेरासुरादधि । सरस्वत्यसनोदिन्द्रियाय १

इमं तꣳ शुक्रं मधुमन्तमिन्दुम् । सोमꣳ राजानमिह भक्षयामि । यदत्र रिप्तꣳ रसिनः सुतस्य । यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन । सोमꣳ राजानमिह भक्षयामि । पितृभ्यः स्वधाविभ्यः स्वधा नमः । पितामहेभ्यः स्वधाविभ्यः स्वधा नमः । प्रपितामहेभ्यः स्वधाविभ्यः स्वधा नमः । अक्षन्पितरः २

अमीमदन्त पितरः । अतीतृपन्त पितरः । अमीमृजन्त पितरः । पितरः शुन्धध्वम् । पुनन्तु मा पितरः सोम्यासः । पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः । पवित्रेण शतायुषा । पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः ३

पवित्रेण शतायुषा । विश्वमायुर्व्यश्नवै । अग्न आयूँषि पवसे । ऽग्ने पवस्व । पवमानः सुवर्जनः । पुनन्तु मा देवजनाः । जातवेदः पवित्रवद् । यत्ते पवित्रमर्चिषि । उभाभ्यां देव सवितर् । वैश्वदेवी पुनती ।ये समानाः समनसः । पितरो यमराज्ये । तेषां लोकः स्वधा नमः । यज्ञो देवेषु कल्पताम् ४

ये सजाताः समनसः । जीवा जीवेषु मामकाः । तेषाꣳ श्रीर्मयि कल्पताम् । अस्मिँल्लोके शतꣳ समाः । द्वे स्रुती अशृणवं पितृणाम् । अहं देवानामुत मर्त्यानाम् । याभ्यामिदं विश्वमेजत्समेति । यदन्तरा पितरं मातरं च । इदꣳ हविः प्रजननं मे अस्तु । दशवीरꣳ सर्वगणꣳ स्वस्तये । आत्मसनि प्रजासनि । पशुसन्यभयसनि लोकसनि । अग्निः प्रजां बहुलां मे करोतु । अन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा ५

उदरे यकृत, क्लोम, आन्त्र आदि
प्लीहा


2.6.4.1 कौकिल्याः उपहोमाः

सीसेन तन्त्रं मनसा मनीषिणः । ऊर्णासूत्रेण कवयो वयन्ति । अश्विना यज्ञꣳ सविता सरस्वती ।इन्द्रस्य रूपं वरुणो भिषज्यन् । तदस्य रूपममृतꣳ शचीभिः । तिस्रो दधुर्देवताः सँरराणाः । लोमानि शष्पैर्बहुधा न तोक्मभिः । त्वगस्य माँसमभवन्न लाजाः । तदश्विना भिषजा रुद्रवर्तनी ।सरस्वती वयति पेशो अन्तरः १

अस्थि मज्जानं मासरैः । कारोतरेण दधतो गवां त्वचि । सरस्वती मनसा पेशलं वसु । नासत्याभ्यां वयति दर्शतं वपुः । रसं परिस्रुता न रोहितम् । नग्नहुर्धीरस्तसरं न वेम । पयसा शुक्रममृतं जनित्रम् । सुरया मूत्राज्जनयन्ति रेतः । अपामतिं दुर्मतिं बाधमानाः । ऊवध्यं वातꣳ सबुवं तदारात् २

इन्द्रः सुत्रामा हृदयेन सत्यम् । पुरोडाशेन सविता जजान । यकृत्क्लोमानं वरुणो भिषज्यन् । मतस्ने वायव्यैर्न मिनाति पित्तम् । आन्त्राणि स्थाली मधु पिन्वमाना । गुदा पात्राणि सुदुघा न धेनुः । श्येनस्य पत्रं न प्लीहा शचीभिः । आसन्दी नाभिरुदरं न माता । कुम्भो वनिष्ठुर्जनिता शचीभिः । यस्मिन्नग्रे योन्यां गर्भो अन्तः ३

प्लाशीर्व्यक्तः शतधार उत्सः । दुहे न कुम्भीꣳ स्वधां पितृभ्यः । मुखꣳ सदस्य शिर इत्सदेन । जिह्वा पवित्रमश्विना सꣳ सरस्वती । चप्यं न पायुर्भिषगस्य वालः । वस्तिर्न शेपो हरसा तरस्वी ।अश्विभ्यां चक्षुरमृतं ग्रहाभ्याम् । छागेन तेजो हविषा शृतेन । पक्ष्माणि गोधूमैः क्वलैरुतानि । पेशो न शुक्लमसितं वसाते ४

सायणभाष्यम्

उलूकपक्षिसदृशो मांसवििशेषो वनिष्ठुः। योऽयमत्र द्रवद्रव्यस्थापनार्थः कुम्भः स वनिष्ठुस्थानीयः। स च शचीभिः स्वशक्तिभिर्जनितोत्पादयिता। यस्मिन्वनिष्ठावग्रे पुरोभागे योन्यामन्तर्यो गर्भो वर्तते। अत्र सुरावनयनार्थं शतच्छिद्रयुक्तः कुम्भो योऽस्ति सोऽयं व्यक्तः स्पष्टः। बहुच्छिद्रोपेतत्वाच्छतधारः। सुरास्रवणयुक्तत्वादुत्सः। तादृशः कुम्भः प्लासी(शी)र्नासिकाछिद्रस्थानीयः। येयं द्रवद्रव्यधारणार्था कुम्भी तां कुम्भीं पितृभ्यः पित्रर्थं स्वधां दुहे नामृतं दोग्धीव। अध्वर्युरिति शेषः।

तु. माश १२.९.१.३


अविर्न मेषो नसि वीर्याय । प्राणस्य पन्था अमृतो ग्रहाभ्याम् । सरस्वत्युप वाकैर्व्यानम् । नस्यानि बर्हिर्बदरैर्जजान । इन्द्रस्य रूपमृषभो बलाय । कर्णभ्याꣳ श्रोत्रममृतं ग्रहाभ्याम् । यवा न बर्हिर्भ्रुवि केसराणि । कर्कन्धु जज्ञे मधु सारघं मुखात् । आत्मन्नुपस्थे न वृकस्य लोम । मुखे श्मश्रूणि न व्याघ्रलोमम् ५

केशा न शीर्षन्यशसे श्रियै शिखा । सिꣳ हस्य लोम त्विषिरिन्द्रि याणि । अङ्गान्यात्मन्भिषजा तदश्विना । आत्मानमङ्गैः समधात्सरस्वती ।इन्द्र स्य रूपꣳ शतमानमायुः । चन्द्रे ण ज्योतिरमृतं दधाना । सरस्वती योन्यां गर्भमन्तः । अश्विभ्यां पत्नी सुकृतं बिभर्ति । अपाꣳ रसेन वरुणो न साम्ना । इन्द्रꣳ श्रियै जनयन्नप्सु राजा । तेजः पशूनाꣳ हविरिन्द्रियावत् । परिस्रुता पयसा सारघं मधु । अश्विभ्यां दुग्धं भिषजा सरस्वत्या । सुतासुताभ्याममृतः सोम इन्दुः ६

2.6.5.1 सौत्रामणेः कौकिल्या अभिषेकः
मित्रोऽसि वरुणोऽसि । समहं विश्वैर्देवैः । क्षत्रस्य नाभिरसि । क्षत्रस्य योनिरसि । स्योनामासीद । सुषदामासीद । मा त्वा हिँसीत् । मा मा हिँसीत् । निषसाद धृतव्रतो वरुणः । पस्त्यास्वा १

साम्राज्याय सुक्रतुः । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । अश्विनोर्भैषज्येन । तेजसे ब्रह्मवर्चसायाभिषिञ्चामि । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । सरस्वत्यै भैषज्येन २

वीर्यायान्नाद्यायाभिषिञ्चामि । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बहुभ्याम् । पूष्णो हस्ताभ्याम् । इन्द्रस्येन्द्रियेण । श्रियै यशसे बलायाभिषिञ्चामि । कोऽसि कतमोऽसि । कस्मै त्वा काय त्वा । सुश्लोका३ँ! सुमङ्गला३ँ! सत्यराजा३न् । शिरो मे श्रीः ३

यशो मुखम् । त्विषिः केशाश्च श्मश्रूणि । राजा मे प्राणोऽमृतम् । सम्राट्चक्षुः । विराट्श्रोत्रम् । जिह्वा मे भद्रम् । वाङ्महः । मनो मन्युः । स्वराड्भामः । मोदाः प्रमोदा अङ्गुलीरङ्गानि ४

चित्तं मे सहः । बाहू मे बलमिन्द्रियम् । हस्तौ मे कर्म वीर्यम् । आत्मा क्षत्रमुरो मम । पृष्टीर्मे राष्ट्रमुदरम् । अँसौ ग्रीवाश्च श्रोण्यौ । ऊरू अरत्नी जानुनी । विशो मेऽङ्गानि सर्वतः । नाभिर्मे चित्तं विज्ञानम् । पायुर्मेऽपचितिर्भसत् ५

आनन्दनन्दावाण्डौ मे । भगः सौभाग्यं पसः । जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि । विशि राजा प्रतिष्ठितः । प्रति क्षत्रे प्रतितिष्ठति राष्ट्रे । प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् । प्रति प्राणेषु प्रतितिष्ठामि पुष्टे । प्रति द्यावापृथिव्योः । प्रतितिष्ठामि यज्ञे ६

त्रया देवा एकादश । त्रयस्त्रिँशाः सुराधसः । बृहस्पतिपुरोहिताः । देवस्य सवितुः सवे । देवा देवैरवन्तु मा । प्रथमा द्वितीयैः । द्वितीयास्तृतीयैः । तृतीयाः सत्येन । सत्यं यज्ञेन । यज्ञो यजुर्भिः ७

यजूँषि सामभिः । सामान्यृग्भिः । ऋचो याज्याभिः । याज्या वषट्कारैः । वषट्कारा आहुतिभिः । आहुतयो मे कामान्त्समर्धयन्तु । भूः स्वाहा । लोमानि प्रयतिर्मम । त्वङ्म आनतिरागतिः । माँसं म उपनतिः वस्वस्थि । मज्जा म आनतिः ८

2.6.6.1 सौत्रामणेः कौकिल्या अवभृथः
यद्देवा देवहेडनम् । देवासश्चकृमा वयम् । अग्निर्मा तस्मादेनसः । विश्वान्मुञ्चत्वँहसः । यदि दिवा यदि नक्तम् । एनाँसि चकृमा वयम् । वायुर्मा तस्मादेनसः । विश्वान्मुञ्चत्वँहसः । यदि जाग्रद्यदि स्वप्ने । एनाँसि चकृमा वयम् १

सूर्यो मा तस्मादेनसः । विश्वान्मुञ्चत्वँहसः । यद्ग्रामे यदरण्ये । यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्ये । एनश्चकृमा वयम् । यदेकस्याधि धर्मणि । तस्यावयजनमसि । यदापो अघ्निया वरुणेति शपामहे । ततो वरुण नो मुञ्च २

अवभृथ निचङ्कुण निचेरुरसि निचङ्कुण । अव देवैर्देवकृतमेनोऽयाट् । अव मर्त्यैर्मर्त्यकृतम् । उरोरा नो देव रिषस्पाहि । सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भुूयासुः । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः । द्रुपदादिवेन्मुमुचानः । स्विन्नः स्नात्वी मलादिव ३

पूतं पवित्रेणेवाज्यम् । आपः शुन्धन्तु मैनसः । उद्वयं तमसस्परि । पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यम् । अगन्म ज्योतिरुत्तमम् । प्रतियुतो वरुणस्य पाशः । प्रत्यस्तो वरुणस्य पाशः । एधोऽस्येधिषीमहि । समिदसि ४

तेजोऽसि तेजो मयि धेहि । अपो अन्वचारिषम् । रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमम् । तं मा सꣳ सृज वर्चसा । प्रजया च धनेन च । समाववर्ति पृथिवी ।समुषाः । समु सूर्यः । समु विश्वामिदं जगत् । वैश्वानरज्योतिर्भूयासम् । विभुं कामं व्यश्नवै । भूः स्वाहा ५

2.6.7.1 सौत्रामणेः कौकिल्या हौत्रम्, प्रयाजानाम् मैत्रावरुण प्रैषाः
होता यक्षत्समिधेन्द्रमिडस्पदे । नाभा पृथिव्या अधि । दिवो वर्ष्मन्त्समिध्यते । ओजिष्ठश्चर्षणीसहान् । वेत्वाज्यस्य होतर्यज । होता यक्षत्तनूनपातम् । ऊतिभिर् । जेतारमपराजितम् । इन्द्रं देवꣳ सुवर्विदम् । पथिभिर्मधुमत्तमैः । नराशँसेन तेजसा १

वेत्वाज्यस्य होतर्यज । होता यक्षदिडाभिरिन्द्रमीडितम् । आजुह्वानममर्त्यम् । देवो देवैः सवीर्यः । वज्रहस्तः पुरंदरः । वेत्वाज्यस्य होतर्यज । होता यक्षद्बर्हिषीन्द्रं निषद्वरम् । वृषभं नर्यापसम् । वसुभी रुद्रैरादित्यैः । सयुग्भिर्बर्हिरासदत् २

वेत्वाज्यस्य होतर्यज । होता यक्षदोजो न वीर्यम् । सहो । द्वार इन्द्रमवर्धयन् । सुप्रायणा विश्रयन्तामृतावृधः । द्वार इन्द्राय मीढुषे । वियन्त्वाज्यस्य होतर्यज । होता यक्षदुषे इन्द्रस्य धेनू ।सुदुघे मातरौ मही ।सवातरौ न तेजसी ।वत्समिन्द्रमवर्धताम् ३

वीतामाज्यस्य होतर्यज । होता यक्षद्दैव्या होतारा । भिषजा सखाया । हविषेन्द्रं भिषज्यतः । कवी देवौ प्रचेतसौ । इन्द्राय धत्त इन्द्रियम् । वीतामाज्यस्य होतर्यज । होता यक्षत्तिस्रो देवीः । त्रयस्त्रिधातवोऽपसः । इडा सरस्वती भारती ४

महीन्द्र पत्नीर्हविष्मतीः । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टारमिन्द्रं देवम् । भिषजꣳ सुयजं घृतश्रियम् । पुरुरूपꣳ सुरेतसं मघोनिम् । इन्द्राय त्वष्टा दधदिन्द्रियाणि । वेत्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिम्शमितारꣳ शतक्रतुम् । धियो जोष्टारमिन्द्रियम् ५

मध्वा समञ्जन्पथिभिः सुगेभिः । स्वदाति हव्यं मधुना घृतेन । वेत्वाज्यस्य होतर्यज । होता यक्षदिन्द्रꣳ स्वाहाज्यस्य । स्वाहा मेदसः । स्वाहा स्तोकानाम् । स्वाहा स्वाहाकृतीनाम् । स्वाहा हव्यसूक्तीनाम् । स्वाहा देवाꣳ आज्यपान् । स्वाहेन्द्रꣳ होत्राज्जुषाणाः । इन्द्राज्यस्य वियन्तु । होतर्यज ६

2.6.8.1 सौत्रामणेः कौकिल्या प्रयाजानां पुरोरुक्
समिद्ध इन्द्र उषसामनीके । पुरोरुचा पूर्वकृद्वावृधानः । त्रिभिर्देवैस्त्रिँशता वज्रबाहुः । जघान वृत्रं वि दुरो ववार । नराशँसः प्रति शूरो मिमानः । तनूनपात्प्रति यज्ञस्य धाम । गोभिर्वपावान्मधुना समञ्जन् । हिरण्यैश्चन्द्री यजति प्रचेताः । ईडितो देवैर्हरिवाꣳ अभिष्टिः । आजुह्वानो हविषा शर्धमानः १

पुरंदरो मघवान्वज्रबाहुः । आयातु यज्ञमुप नो जुषाणः । जुषाणो बर्हिर्हरिवान्न इन्द्रः । प्राचीनꣳ सीदत्प्रदिशा पृथिव्याः । उरुव्यचाः प्रथमानꣳ स्योनम् । आदित्यैरक्तं वसुभिः सजोषाः । इन्द्रं दुरः कवष्यो धावमानाः । वृषाणं यन्तु जनयः सुपत्नीः । द्वारो देवीरभितो विश्रयन्ताम् । सुवीरा वीरं प्रथमाना महोभिः २

उषासानक्ता बृहती बृहन्तम् । पयस्वती सुदुघे शूरमिन्द्रम् । पेशस्वती तन्तुना संव्ययन्ती । देवानां देवं यजतः सुरुक्मे । दैव्या मिमाना मनसा पुरुत्रा । होताराविन्द्रं प्रथमा सुवाचा । मूर्धन्यज्ञस्य मधुना दधाना । प्राचीनं ज्योतिर्हविषा वृधातः । तिस्रो देवीर्हविषा वर्धमानाः । इन्द्रं जुषाणा वृषणं न पत्नीः ३

अच्छिन्नं तन्तुं पयसा सरस्वती । इडा देवी भारती ।विश्वतूर्तिः । त्वष्टा दधदिन्द्राय शुष्मम् । अपाकोऽर्चिष्टुर्यशसे पुरूणि । वृषा यजन्वृषणं भूरिरेताः । मूर्धन्यज्ञस्य समनक्तु देवान् । वनस्पतिरवसृष्टो न पाशैः । त्मन्या समञ्जञ्शमिता न देवः । इन्द्रस्य हव्यैर्जठरं पृणानः । स्वदाति हव्यं मधुना घृतेन । स्तोकानामिन्दुं प्रति शूर इन्द्रः । वृषायमाणो वृषभस्तुराषाट् । घृतप्रुषा मधुना हव्यमुन्दन् । मूर्धन्यज्ञस्य जुषताꣳ स्वाहा ४

2.6.9 ऐन्द्रस्य पुरोडाशहविषां याज्यापुरोनुवाक्या
आ चर्षणिप्रा । विवेष यन्मा । तꣳ सध्रीचीः । सत्यमित्तन्न त्वावाꣳ अन्यो अस्ति । इन्द्र देवो न मर्त्यो ज्यायान् । अहन्नहिं परिशयानमर्णः । अवासृजोऽपो अच्छा समुद्र म् । प्रससाहिषे पुरुहूत शत्रून् । ज्येष्ठस्ते शुष्म इह रातिरस्तु । इन्द्रा भर दक्षिणेना वसूनि । पतिः सिन्धूनामसि रेवतीनाम् । स शेवृधमधिधा द्युम्नमस्मे । महि क्षत्रं जनाषाडिन्द्र तव्यम् । रक्षा च नो मघोनः पाहि सूरीन् । राये च नः स्वपत्या इषे धाः १

2.6.10 अनूयाजानाम् एकादश मैत्रावरुणप्रैषाः
देवं बर्हिरिन्द्रꣳ सुदेवं देवैः । वीरवत्स्तीर्णं वेद्यामवर्धयत् । वस्तोर्वृतं प्राक्तोर्भृतम् । राया बर्हिष्मतोऽत्यगात् । वसुवने वसुधेयस्य वेतु यज । देवीर्द्वार इन्द्रꣳ संघाते । विड्वीर्यामन्नवर्धयन् । आ वत्सेन तरुणेन कुमारेण च मीविता अपार्वाणम् । रेणुककाटं नुदन्ताम् । वसुवने वसुधेयस्य वियन्तु यज १

देवी उषासानक्ता । इन्द्रं यज्ञे प्रयत्यह्वेताम् । दैवीर्विशः प्रायासिष्टाम् । सुप्रीते सुधिते अभूताम् । वसुवने वसुधेयस्य वीतां यज । देवी जोष्ट्री वसुधिती ।देवमिन्द्र मवर्धताम् । अयाव्यन्याघा द्वेषाँसि । आन्यावाक्षीद्वसु वार्याणि । यजमानाय शिक्षिते २

वसुवने वसुधेयस्य वीतां यज । देवी ऊर्जाहुती दुघे सुदुघे । पयसेन्द्रमवर्धताम् । इषमूर्जमन्यावाक्षीत् । सग्धिꣳ सपीतिमन्या । नवेन पूर्वं दयमाने । पुराणेन नवम् । अधातामूर्जमूर्जाहुती वसु वार्याणि । यजमानाय शिक्षिते । वसुवने वसुधेयस्य वीतां यज ३

देवा दैव्या होतारा । देवमिन्द्रमवर्धताम् । हताघशँसावाभार्ष्टां वसु वार्याणि । यजमानाय शिक्षितौ । वसुवने वसुधेयस्य वीतां यज । देवीस्तिस्रस्तिस्रो देवीः । पतिमिन्द्र मवर्धयन् । ।
अस्पृक्षद्भारती दिवम् । रुद्रैर्यज्ञꣳ सरस्वती ।इडा वसुमती गृहान् ४

वसुवने वसुधेयस्य वियन्तु यज । देव इन्द्रो नराशँसः । त्रिवरूथस्त्रिवन्धुरः । देवमिन्द्रमवर्धयत् । शतेन शितिपृष्ठानामाहितः । सहस्रेण प्रवर्तते । मित्रावरुणेदस्य होत्रमर्हतः । बृहस्पतिः स्तोत्रम् । अश्विनाध्वर्यवम् । वसुवने वसुधेयस्य वेतु यज ५

देव इन्द्रो वनस्पतिः । हिरण्यपर्णो मधुशाखः सुपिप्पलः । देवमिन्द्रमवर्धयत् । दिवमग्रेणाप्रात् । आन्तरिक्षं पृथिवीमदृँहीत् । वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर्वारितीनाम् । देवमिन्द्रमवर्धयत् । स्वासस्थमिन्द्रेणासन्नम् । अन्या बर्हीँष्यभ्यभूत् । वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृत् । देवमिन्द्रमवर्धयत् । स्विष्टं कुर्वन्त्स्विष्टकृत् । स्विष्टमद्य करोतु नः । वसुवने वसुधेयस्य वेतु यज ६

2.6.11 उदकप्राप्त पशुत्रये प्रयाजार्था मैत्रावरुणप्रैषाः
होता यक्षत्समिधाग्निमिडस्पदे । अश्विनेन्द्रꣳ सरस्वतीम् । अजो धूम्रो न गोधूमैः क्वलैर्भेषजम् । मधु शष्पैर्न तेज इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्तनूनपात्सरस्वती ।अविर्मेषो न भेषजम् । पथा मधुमताऽऽभरन् । अश्विनेन्द्राय वीर्यम् १

बदरैरुपवाकाभिर्भेषजं तोक्मभिः । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षन्नराशँसं न नग्नहुम् । पतिꣳ सुरायै भेषजम् । मेषः सरस्वती भिषक् । रथो न चन्द्र्यश्विनोर्वपा इन्द्रस्य वीर्यम् । बदरैरुपवाकाभिर्भेषजं तोक्मभिः । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज २

होता यक्षदिडेडित आजुह्वानः सरस्वतीम् । इन्द्रं बलेन वर्धयन् । ऋषभेण गवेन्द्रियम् । अश्विनेन्द्राय वीर्यम् । यवैः कर्कन्धुभिः । मधु लाजैर्न मासरम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्बर्हिः । सुष्टरीमोर्णम्रदाः । भिषङ् नासत्या ३

भिषजाश्विनाश्वा शिशुमती भिषग् । धेनुः सरस्वती भिषग् । दुह इन्द्राय भेषजम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्दुरो दिशः । कवष्यो न व्यचस्वतीः । अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी दुघे । दुहे कामान्त्सरस्वती ४

अश्विनेन्द्राय भेषजम् । शुक्रं न ज्योतिरिन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्सुपेशसोषे नक्तं दिवा । अश्विना संजानाने । समञ्जाते सरस्वत्या । त्विषिमिन्द्रे न भेषजम् । श्येनो न रजसा हृदा । पयः सोमः परिस्रुता घृतं मधु ५

वियन्त्वाज्यस्य होतर्यज । होता यक्षद्दैव्या होतारा भिषजाश्विना । इन्द्रं न जागृवी दिवा नक्तं न भेषजैः । शूषꣳ सरस्वती भिषक् । सीसेन दुह इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्तिस्रो देवीर्न भेषजम् । त्रयस्त्रिधातवोऽपसः । रूपमिन्द्रे हिरण्ययम् ६

अश्विनेडा न भारती । वाचा सरस्वती मह । इन्द्राय दधुरिन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टारमिन्द्रमश्विना । भिषजं न सरस्वतीम् । ओजो न जूतिरिन्द्रियम् । वृको न रभसो भिषक् । यशः सुरया भेषजम् ७

श्रिया न मासरम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिम् । शमितारꣳ शतक्रतुम् । भीमं न मन्युꣳ राजानं व्याघ्रं नमसाश्विना । भामम् सरस्वती भिषक् । इन्द्राय दुह इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु वियन्त्वाज्यस्य होतर्यज ८

होता यक्षदग्निꣳ स्वाहाज्यस्य स्तोकानाम् । स्वाहा मेदसां पृथक् । स्वाहा छागमश्विभ्याम् । स्वाहा मेषꣳ सरस्वत्यै । स्वाहर्षभमिन्द्राय सिँहाय सहसेन्द्रियम् । स्वाहाग्निं न भेषजम् । स्वाहा सोममिन्द्रियम् । स्वाहेन्द्रꣳ सुत्रामाणꣳ सवितारं वरुणं भिषजां पतिम् । स्वाहा वनस्पतिं प्रियं पाथो न भेषजम् । स्वहा देवाꣳ आज्यपान् ९

स्वाहाग्निꣳ होत्राज्जुषाणो अग्निर्भेषजम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षदश्विना सरस्वतीमिन्द्रꣳ सुत्रामाणम् । इमे सोमाः सुरामाणः । छागैर्न मेषैर्ऋषभैः सुताः । शष्पैर्न तोक्मभिः । लाजैर्महस्वन्तः । मदा मासरेण परिष्कृताः । शुक्राः पयस्वन्तोऽमृताः । प्रस्थिता वो मधुश्चुतः तानश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा । जुषन्ताꣳ सौम्यं मधु । पिबन्तु मदन्तु वियन्तु सोमम् । होतर्यज १०

2.6.12 आप्री प्रयाजयाज्या
समिद्धो अग्निरश्विना । तप्तो घर्मो विराट्सुतः । दुहे धेनुः सरस्वती । सोमꣳ शुक्रमिहेन्द्रियम् । तनूपा भिषजा सुते । अश्विनोभा सरस्वती । मध्वा रजाँसीन्द्रियम् । इन्द्राय पथिभिर्वहान् । इन्द्रायेन्दुꣳ सरस्वती । नराशँसेन नग्नहुः १

अधातामश्विना मधु । भेषजं भिषजा सुते । आजुह्वाना सरस्वती । इन्द्रायेन्द्रियाणि वीर्यम् । इडाभिरश्विनाविषम् । समूर्जꣳ सꣳ रयिं दधुः । अश्विना नमुचेः सुतम् । सोमꣳ शुक्रं परिस्रुता । सरस्वती तमाभरत् । बर्हिषेन्द्राय पातवे २

कवष्यो न व्यचस्वतीः । अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी दुघे । दुहे कामान्त्सरस्वती ।उषासा नक्तमश्विना । दिवेन्द्रꣳ सायमिन्द्रियैः । संजानाने सुपेशसा । समञ्जाते सरस्वत्या पातं नो अश्विना दिवा । पाहि नक्तꣳ सरस्वति ३

दैव्या होतारा भिषजा । पातमिन्द्रꣳ सचा सुते । तिस्रस्त्रेधा सरस्वती ।अश्विना भारतीडा । तीव्रं परिस्रुता सोमम् । इन्द्राय सुषवुर्मदम् । अश्विना भेषजं मधु । भेषजं नः सरस्वती । इन्द्रे त्वष्टा यशः श्रियम् । रूपꣳ रूपमधुः सुते । ऋतुथेन्द्रो वनस्पतिः । शशमानः परिस्रुता । कीलालमश्विभ्यां मधु । दुहे धेनुः सरस्वती ।गोभिर्न सोममश्विना । मासरेण परिष्कृता । समधाताꣳ सरस्वत्या । स्वाहेन्द्रे सुतं मधु ४

2.6.13 वपादीनां याज्यानुवाक्या
अश्विना हविरिन्द्रियम् । नमुचेर्धिया सरस्वती । आ शुक्रमासुराद्वसु । मघमिन्द्राय जभ्रिरे । यमश्विना सरस्वती । हविषेन्द्रमवर्धयन् । स बिभेद बलं मघम् । नमुचावासुरे सचा । तमिन्द्रं पशवः सचा । अश्विनोभा सरस्वती १

दधाना अभ्यनूषत । हविषा यज्ञमिन्द्रियम् । य इन्द्र इन्द्रियं दधुः । सविता वरुणो भगः । स सुत्रामा हविष्पतिः । यजमानाय सश्चत । सविता वरुणो दधत् । यजमानाय दाशुषे । आदत्त नमुचेर्वसु । सुत्रामा बलमिन्द्रियम् २

वरुणः क्षत्रमिन्द्रियम् । भगेन सविता श्रियम् । सुत्रामा यशसा बलम् । दधाना यज्ञमाशत । अश्विना गोभिरिन्द्रियम् । अश्वेभिर्वीर्यं बलम् । हविषेन्द्रꣳ सरस्वती । यजमानमवर्धयन् । ता नासत्या सुपेशसा । हिरण्यवर्तनी नरा । सरस्वती हविष्मती ।इन्द्र कर्मसु नोऽवत । ता भिषजा सुकर्मणा । सा सुदुघा सरस्वती ।स वृत्रहा शतक्रतुः । इन्द्राय दधुरिन्द्रियम् ३

2.6.14 अनुयाजानां मैत्रावरुणप्रैषाः
देवं बर्हिः सरस्वती ।सुदेवमिन्द्रे अश्विना । तेजो न चक्षुरक्ष्योः । बर्हिषा दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवीर्द्वारो अश्विना । भिषजेन्द्रे सरस्वती । प्राणं न वीर्यं नसि । द्वारो दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज १

देवी उषासावश्विना । भिषजेन्द्रे सरस्वती । बलं न वाचमास्ये । उषाभ्यां दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवी जोष्ट्री अश्विना सुत्रामेन्द्रे सरस्वती । श्रोत्रं न कर्णयोर्यशः । जोष्ट्रीभ्यां दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज २

देवी ऊर्जाहुती दुघे सुदुघे । पयसेन्द्रꣳ सरस्वत्यश्विना भिषजावत । शुक्रं न ज्योतिः स्तनयोराहुती धत्त इन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवा देवानां भिषजा । होताराविन्द्रमश्विना । वषट्कारैः सरस्वती । त्विषिं न हृदये मतिम् । होतृभ्यां दधुरिन्द्रि यम् । वसुवने वसुधेयस्य वियन्तु यज ३

देवीस्तिस्रस्तिस्रो देवीः । सरस्वत्यश्विना भारतीडा । शूषं न मध्ये नाभ्याम् । इन्द्राय दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देव इन्द्रो नराशँसः । त्रिवरूथः सरस्वत्याश्विभ्यामीयते रथः । रेतो न रूपममृतं जनित्रम् । इन्द्राय त्वष्टा दधदिन्द्रियाणि वसुवने वसुधेयस्य वियन्तु यज ४

देव इन्द्रो वनस्पतिः । हिरण्यपर्णो अश्विभ्याम् । सरस्वत्याः सुपिप्पलः । इन्द्राय पच्यते मधु । ओजो न जूतिमृषभो न भामम् । वनस्पतिर्नो दधदिन्द्रियाणि । वसुवने वसुधेयस्य वियन्तु यज । देवं बर्हिर्वारितीनाम् । अध्वरे स्तीर्णमश्विभ्याम् । ऊर्णम्रदाः सरस्वत्याः ५

स्योनमिन्द्र ते सदः । ईशायै मन्युꣳ राजानं बर्हिषा दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवो अग्निः स्विष्टकृत् । देवान्यक्षद्यथायथम् । होताराविन्द्र मश्विना । वाचा वाचꣳ सरस्वतीम् । अग्निꣳ सोमꣳ स्विष्टकृत् । स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषक् । इष्टो देवो वनसपतिः । स्विष्टा देवा आज्यपाः । इष्टो अग्निरग्निना । होता होत्रे स्विष्टकृत् । यशो न दधदिन्द्रियम् । ऊर्जमपचितिꣳ स्वधाम् । वसुवने वसुधेयस्य वियन्तु यज ६

2.6.15 सूक्तवाक् प्रैषः
अग्निमद्य होतारमवृणीत । अयꣳ सुतासुती यजमानः । पचन्पक्तीः । पचन्पुरोडाशान् । गृह्णन्ग्रहान् । बध्नन्नश्विभ्यां छागꣳ सरस्वत्या इन्द्राय । बध्नन्त्सरस्वत्यै मेषमिन्द्रायाश्विभ्याम् । बध्नन्निन्द्रायर्षभमश्विभ्याꣳ सरस्वत्यै । सूपस्था अद्य देवो वनस्पतिरभवत् । अश्विभ्यां छागेन सरस्वत्या इन्द्राय १

सरस्वत्यै मेषेणेन्द्रायाश्विभ्याम् । इन्द्रायर्षभेणाश्विभ्याꣳ सरस्वत्यै । अक्षꣳ स्तान्मेदस्तः प्रति पचताग्रभीषुः । अवीवृधन्त ग्रहैः । अपातामश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा । सोमान्त्सुराम्णः । उपो उक्थामदाः श्रौद्विमदा अदन् । अवीवृधन्ताङ्गूषैः । त्वामद्यर्ष आर्षेयर्षीणां नपादवृणीत । अयꣳ सुतासुती यजमानः । बहुभ्य आ संगतेभ्यः । एष मे देवेषु वसु वार्या यक्ष्यत इति । ता या देवा देवदानान्यदुः । तान्यस्मा आ च शास्स्व । आ च गुरस्व । इषितश्च होतरसि भद्र वाच्याय प्रेषितो मानुषः । सूक्तवाकाय सूक्ता ब्रूहि २

2.6.16 पितृयज्ञविषया मन्त्राः
उशन्तस्त्वा हवामह । आ नो अग्ने सुकेतुना । त्वꣳ सोम महे भगं। त्वꣳ सोम प्र चिकितो मनीषा । त्वया हि नः पितरः सोम पूर्वे । त्वꣳ सोम पितृभिः संविदानः । बर्हिषदः पितर । आहं पितॄन् । उपहूताः पितरो । ऽग्निष्वात्ताः पितरः । अग्निष्वात्तानृतुमतो हवामहे । नराशँसे सोमपीथं य आशुः । ते नो अर्वन्तः सुहवा भवन्तु । शं नो भवन्तु द्विपदे शं चतुष्पदे । ये अग्निष्वात्ता येऽनग्निष्वात्ताः १

अँहोमुचः पितरः सोम्यासः । परेऽवरेऽमृतासो भवन्तः । अधिब्रुवन्तु ते अवन्त्वस्मान् । वान्यायै दुग्धे जुषमाणाः करम्भम् । उदीराणा अवरे परे च । अग्निष्वात्ता ऋतुभिः संविदानाः । इन्द्रवन्तो हविरिदं जुषन्ताम् । यदग्ने कव्यवाहन । त्वमग्न ईडितो जातवेदः । मातली कव्यैः । ये तातृपुर्देवत्रा जेहमानाः । होत्रावृधः स्तोमतष्टासो अर्कैः । आग्ने याहि सुविदत्रेभिरर्वाङ्।सत्यैः कव्यैः पितृभिर्घर्मसद्भिः । हव्यवाहमजरं पुरुप्रियम् । अग्निं घृतेन हविषा सपर्यन् । उपासदं कव्यवाहं पितृणाम् । स नः प्रजां वीरवतीꣳ समृण्वतु २

2.6.17 प्रयाजार्थं मैत्रावरुणप्रैषाः
होता यक्षदिडस्पदे । समिधानं महद्यशः । सुषमिद्धं वरेण्यम् । अग्निमिन्द्रं वयोधसम् । गायत्रीं छन्द इन्द्रियम् । त्र्यविं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षच्छुचिव्रतम् । तनूनपातमुद्भिदम् । यं गर्भमदितिर्दधे १

शुचिमिन्द्रं वयोधसम् । उष्णिहं छन्द इन्द्रि यम् । दित्यवाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षदीडेन्यम् । ईडितं वृत्रहन्तमम् । इडाभिरीड्यꣳ सहः । सोममिन्द्रं वयोधसम् । अनुष्टुभं छन्द इन्द्रियम् । त्रिवत्सं गां वयो दधत् २

वेत्वाज्यस्य होतर्यज । होता यक्षत्सुबर्हिषदम् । पूषण्वन्तममर्त्यम् । सीदन्तं बर्हिषि प्रिये । अमृतेन्द्रं वयोधसम् । बृहतीं छन्द इन्द्रियम् । पञ्चाविं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षद्व्यचस्वतीः । सुप्रायणा ऋतावृधः ३

द्वारो देवीर्हिरण्ययीः । ब्रह्माण इन्द्रं वयोधसम् । पङ्क्तिं छन्द इहेन्द्रियम् । तुर्यवाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्सुपेशसे । सुशिल्पे बृहती उभे । नक्तोषासा न दर्शते । विश्वमिन्द्रं वयोधसम् । त्रिष्टुभं छन्द इन्द्रियम् ४

षष्ठवाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्प्रचेतसा । देवानामुत्तमं यशः । होतारा दैव्या कवी ।सयुजेन्द्रं वयोधसम् । जगतीं छन्द इहेन्द्रियम् । अनड्वाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्पेशस्वतीः ५

तिस्रो देवीर्हिरण्ययीः । भारतीर्बृहतीर्महीः । पतिमिन्द्रं वयोधसम् । विराजं छन्द इहेन्द्रियम् । धेनुं गां न वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्सुरेतसम् । त्वष्टारं पुष्टिवर्धनम् । रूपाणि बिभ्रतं पृथक् । पुष्टिमिन्द्रं वयोधसम् ६

द्विपदं छन्द इहेन्द्रि यम् । उक्षाणं गां न वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षच्छतक्रतुम् । हिरण्यपर्णमुक्थिनम् । रशनां बिभ्रतं वशिम् । भगमिन्द्रं वयोधसम् । ककुभं छन्द इहेन्द्रि यम् । वशां वेहतं गां न वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्स्वाहाकृतीः । अग्निं गृहपतिं पृथक् । वरुणं भेषजं कविम् । क्षत्त्रमिन्द्रं वयोधसम् । अतिच्छन्दसं छन्द इन्द्रियम् । बृहदृषभं गां वयो दधत् । वेत्वाज्यस्य होतर्यज ७

2.6.18 आप्री प्रयाजयाज्या
समिद्धो अग्निः समिधा । सुषमिद्धो वरेण्यः । गायत्री छन्द इन्द्रियम् । त्र्यविर्गौर्वयो दधुः । तनूनपाच्छुचिव्रतः । तनूनपाच्च सरस्वती ।उष्णिक्छन्द इन्द्रियं दित्यवाड्गौर्वयो दधुः । इडाभिरग्निरीड्यः । सोमो देवो अमर्त्यः १

अनुष्टुप्छन्द इन्द्रियम् । त्रिवत्सो गौर्वयो दधुः । सुबर्हिरग्निः पूषण्वान् । स्तीर्णबर्हिरमर्त्यः । बृहती छन्द इन्द्रियम् । पञ्चाविर्गौर्वयो दधुः । दुरो देवीर्दिशो महीः । ब्रह्मा देवो बृहस्पतिः । पङ्क्तिश्छन्द इहेन्द्रियम् । तुर्यवाड्गौर्वयो दधुः २

उषे यह्वी सुपेशसा । विश्वे देवा अमर्त्याः । त्रिष्टुप्छन्द इन्द्रियम् । पष्ठवाड्गौर्वयो दधुः । दैव्या होतारा भिषजा । इन्द्रेण सयुजा युजा । जगती छन्द इहेन्द्रियम् । अनड्वान्गौर्वयो दधुः । तिस्र इडा सरस्वती ।भारती मरुतो विशः ३

विराट्छन्द इहेन्द्रियम् । धेनुर्गौर्न वयो दधुः । त्वष्टा तुरीपो अद्भुतः । इन्द्राग्नी पुष्टिवर्धना । द्विपाच्छन्द इहेन्द्रियम् । उक्षा गौर्न वयो दधुः । शमिता नो वनस्पतिः । सविता प्रसुवन्भगम् । ककुच्छन्द इहेन्द्रियम् । वशा वेहद्गौर्न वयो दधुः । स्वाहा यज्ञं वरुणः । सुक्षत्रो भेषजं करत् । अतिच्छन्दाश्छन्द इन्द्रियम् । बृहदृषभो गौर्वयो दधुः ४

2.6.19 वपापुरोडाशहविषां याज्यानुवाक्या
वसन्तेनर्तुना देवाः । वसवस्त्रिवृता स्तुतम् । रथन्तरेण तेजसा । हविरिन्द्रे वयो दधुः । ग्रीष्मेण देवा ऋतुना । रुद्राः पञ्चदशे स्तुतम् । बृहता यशसा बलम् । हविरिन्द्रे वयो दधुः । वर्षाभिर्ऋतुनादित्याः । स्तोमे सप्तदशे स्तुतम् १

वैरूपेण विशौजसा । हविरिन्द्रे वयो दधुः । शारदेनर्तुना देवाः । एकविꣳ श ऋभवः स्तुतम् । वैराजेन श्रिया श्रियम् । हविरिन्द्रे वयो दधुः । हेमन्तेनर्तुना देवाः । मरुतस्त्रिणवे स्तुतम् । बलेन शक्वरीः सहः । हविरिन्द्रे वयो दधुः । शैशिरेणर्तुना देवाः । त्रयस्त्रिँशेऽमृतꣳ स्तुतम् । सत्येन रेवतीः क्षत्त्रम् । हविरिन्द्रे वयो दधुः २

2.6.20 अनूयाजानां मैत्रावरुणप्रैषाः
देवं बर्हिरिन्द्रं वयोधसम् । देवं देवमवर्धयत् । गायत्रिया छन्दसेन्द्रियम् । तेज इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । देवीर्द्वारो देवमिन्द्रं वयोधसम् । देवीर्देवमवर्धयन् । उष्णिहा छन्दसेन्द्रियम् । प्राणमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वियन्तु यज १

देवी देवं वयोधसम् । उषे इन्द्रमवर्धताम् । अनुष्टुभा छन्दसेन्द्रियम् । वाचमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज । देवी जोष्ट्री देवमिन्द्रं वयोधसम् । देवी देवमवर्धताम् । बृहत्या छन्दसेन्द्रियम् । श्रोत्रमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज २

देवी ऊर्जाहुती देवमिन्द्रं वयोधसम् । देवी देवमवर्धताम् । पङ्क्त्या छन्दसेन्द्रियम् । शुक्रमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज । देवा दैव्या होतारा देवमिन्द्रं वयोधसम् । देवा देवमवर्धताम् । त्रिष्टुभा छन्दसेन्द्रियम् । त्विषिमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज ३

देवीस्तिस्रस्तिस्रो देवीर्वयोधसम् । पतिमिन्द्रमवर्धयन् । जगत्या छन्दसेन्द्रियम् । बलमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वियन्तु यज । देवो नराशँसो देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । विराजा छन्दसेन्द्रियम् । रेत इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज ४

देवो वनस्पतिर्देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । द्विपदा छन्दसेन्द्रियम् । भगमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर्वारितीनां देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । ककुभा छन्दसेन्द्रियम् । यश इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृद्देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । अतिच्छन्दसा छन्दसेन्द्रियम् । क्षत्त्रमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज ५