प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०७

< तैत्तिरीयब्राह्मणम् (विस्वरपाठः)‎ | काण्डः २

2.7.1 बृहस्पतिसवः

त्रिवृत्स्तोमो भवति । ब्रह्मवर्चसं वै त्रिवृत् । ब्रह्मवर्चसमेवावरुन्धे । अग्निष्टोमः सोमो भवति । ब्रह्मवर्चसं वा अग्निष्टोमः । ब्रह्मवर्चसमेवावरुन्धे । रथंतरँ साम भवति । ब्रह्मवर्चसं वै रथंतरम् । ब्रह्मवर्चसमेवावरुन्धे । परिस्रजी होता भवति १

अरुणो मिर्मिरस्त्रिशुक्रः । एतद्वै ब्रह्मवर्चसस्य रूपम् । रूपेणैव ब्रह्मवर्चसमवरुन्धे । बृहस्पतिरकामयत देवानां पुरोधां गच्छेयमिति । स एतं बृहस्पतिसवमपश्यत् । तमाहरत् । तेनायजत । ततो वै स देवानां पुरोधामगच्छत् । यः पुरोधाकामः स्यात् । स बृहस्पतिसवेन यजेत २ पुरोधामेव गच्छति । तस्य प्रातःसवने सन्नेषु नाराशँ सेषु । एकादश दक्षिणा नीयन्ते । एकादश माध्यंदिने सवने सन्नेषु नाराशँ सेषु । एकादश तृतीयसवने सन्नेषु नाराशँ सेषु । त्रयस्त्रिँ शत्संपद्यन्ते । त्रयस्त्रिँ शद्वै देवताः । देवता एवावरुन्धे । अश्वश्चतुस्त्रिँ शः । प्राजापत्यो वा अश्वः ३

प्रजापतिश्चतुस्त्रिँ शो देवतानां ।यावतीरेव देवताः । ता एवावरुन्धे । कृष्णाजिनेऽभिषिञ्चति । ब्रह्मणो वा एतद्रू पम् । यत्कृष्णाजिनम् । ब्रह्मवर्चसेनैवैनँ समर्धयति । आज्येनाभिषिञ्चति । तेजो वा आज्यम् । तेज एवास्मिन्दधाति ४


2.7.2 वैश्यसवः

यदाग्नेयो भवति । अग्निमुखा ह्यृद्धिः । अथ यत्पौष्णः । पुष्टिर्वै पूषा । पुष्टिर्वैश्यस्य । पुष्टिमेवावरुन्धे । प्रसवाय सावित्रः । अथ यत्त्वाष्ट्रः । त्वष्टा हि रूपाणि विकरोति । निर्वरुणत्वाय वारुणः ५

अथो य एव कश्च सन्त्सूयते । स हि वारुणः । अथ यद्वैश्वदेवः । वैश्वदेवो हि वैश्यः । अथ यन्मारुतः । मारुतो हि वैश्यः । सप्तैतानि हवीँ षि भवन्ति । सप्तगणा वै मरुतः । पृश्निः पष्ठौही मारुत्यालभ्यते । विड्वै मरुतः । विश एवैतन्मध्यतोऽभिषिच्यते । तस्माद्वा एष विशः प्रियः । विशो हि मध्यतोऽभिषिच्यते । ऋषभचर्मेऽध्यभिषिञ्चति । स हि प्रजनयिता । दध्नाभिषिञ्चति । ऊर्ग्वा अन्नाद्यं दधि । ऊर्जैवैनमन्नाद्येन समर्धयति ६


2.7.3 ब्राह्मणसवः

यदाग्नेयो भवति । आग्नेयो वै ब्राह्मणः । अथ यत्सौम्यः । सौम्यो हि ब्राह्मणः । प्रसवायैव सावित्रः । अथ यद्बार्हस्पत्यः । एतद्वै ब्राह्मणस्य वाक्पतीयम् । अथ यदग्नीषोमीयः । आग्नेयो वै ब्राह्मणः । तौ यदा संगच्छेते ७

अथ वीर्यावत्तरो भवति । अथ यत्सारस्वतः । एतद्धि प्रत्यक्षं ब्राह्मणस्य वाक्पतीयम् । निर्वरुणत्वायैव वारुणः । अथो य एव कश्च सन्त्सूयते । स हि वारुणः । अथ यद्द्यावापृथिव्यः । इन्द्रो वृत्राय वज्रमुदयच्छत् । तं द्यावापृथिवी नान्वमन्येताम् । तमेतेनैव भागधेयेनान्वमन्येताम् ८ वज्रस्य वा एषोऽनुमानाय । अनुमतवज्रः सूयाता इति । अष्टावेतानि हवीँ षि भवन्ति । अष्टाक्षरा गायत्री ।गायत्री ब्रह्मवर्चसम् । गायत्रियैव ब्रह्मवर्चसमवरुन्धे । हिरण्येन घृतमुत्पुनाति । तेजस एव रुचे । कृष्णाजिनेऽभिषिञ्चति । ब्रह्मणो वा एतदृक्सामयो रूपम् । यत्कृष्णाजिनम् । ब्रह्मन्नेवैनमृक्सामयोरध्यभिषिञ्चति । घृतेनाभिषिञ्चति । तथा वीर्यावत्तरो भवति ९


2.7.4 सोमसवः

न वै सोमेन सोमस्य सवोऽस्ति । हतो ह्येषः । अभिषुतो ह्येषः । न हि हतः सूयते । सौमीँ सूतवशामालभते । सोमो वै रेतोधाः । रेत एव तद्दधाति । सौम्यर्चाभिषिञ्चति । रेतोधा ह्येषा । रेतः सोमः । रेत एवास्मिन्दधाति । यत्किं च राजसूयमृते सोमम् । तत्सर्वं भवति । अषाढं युत्सु पृतनासु पप्रिम् । सुवर्षामप्स्वां वृजनस्य गोपाम् । भरेषुजाँ सुक्षितिं सुश्रवसम् । जयन्तं त्वामनु मदेम सोम १०


2.7.5 पृथिसवः

यो वै सोमेन सूयते । स देवसवः । यः पशुना सूयते । स देवसवः । य इष्ट्या सूयते । स मनुष्यसवः । एतं वै पृथये देवाः प्रायच्छन् । ततो वै सोऽप्यारण्यानां पशूनामसूयत । यावतीः कियतीश्च प्रजा वाचं वदन्ति । तासाँ सर्वासाँ सूयते ११

य एतेन यजते । य उ चैनमेवं वेद । नाराशँ स्यर्चाभिषिञ्चति । मनुष्या वै नराशँ सः । निह्नुत्य वावैतत् । अथाभिषिञ्चति । यत्किं च राजसूयमनुत्तरवेदीकम् । तत्सर्वं भवति । ये मे पञ्चाशतं ददुः । अश्वानाँ सधस्तुतिः । द्युमदग्ने महि श्रवः । बृहत्कृधि मघोनाम् । नृवदमृत नृणाम् १२


2.7.6 गोसवः

एष गोसवः । षट्त्रिँ श उक्थ्यो बृहत्सामा । पवमाने कण्वरथंतरं भवति । यो वै वाजपेयः । स सम्राट्त्सवः । यो राजसूयः । स वरुणसवः । प्रजापतिः स्वाराज्यं परमेष्ठी । स्वाराज्यं गौरेव । गौरिव भवति १३

य एतेन यजते । य उ चैनमेवं वेद । उभे बृहद्र थंतरे भवतः । तद्धि स्वाराज्यम् । अयुतं दक्षिणाः । तद्धि स्वाराज्यम् । प्रतिधुषाभिषिञ्चति । तद्धि स्वाराज्यम् । अनुद्धते वेद्यै दक्षिणत आहवनीयस्य बृहतस्तोत्रं प्रत्यभिषिञ्चति । इयं वाव रथंतरम् १४

असौ बृहत् । अनयोरेवैनमनन्तर्हितमभिषिञ्चति । पशुस्तोमो वा एषः । तेन गोसवः । षट्त्रिँ शः सर्वः । रेवज्जातः सहसा वृद्धः । क्षत्राणां क्षत्रभृत्तमो वयोधाः । महान्महित्वे तस्तभानः । क्षत्रे राष्ट्रे च जागृहि । प्रजापतेस्त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामीत्याह । स्वाराज्यमेवैनं गमयति १५


2.7.6 ओदनसवः

सिँ हे व्याघ्र उत या पृदाकौ । त्विषिरग्नौ ब्राह्मणे सूर्ये या । इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । या राजन्ये दुन्दुभा-वायतायाम् । अश्वस्य क्रन्द्ये पुरुषस्य मायौ । इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । या हस्तिनि द्विपिनि या हिरण्ये । त्विषिरश्वेषु पुरुषेषु गोषु १६

इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । रथे अक्षेषु वृषभस्य वाजे । वाते पर्जन्ये वरुणस्य शुष्मे । इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । राडसि विराडसि । सम्राडसि स्वराडसि । इन्द्रा य त्वा तेजस्वते तेजस्वन्तँ श्रीणामि । इन्द्रा य त्वौजस्वत ओजसवन्तँ श्रीणामि १७

इन्द्रा य त्वा पयस्वते पयस्वन्तँ श्रीणामि । इन्द्रा य त्वायुष्मत आयुष्मन्तँ श्रीणामि । तेजोऽसि । तत्ते प्रयच्छामि । तेजस्वदस्तु मे मुखम् । तेजस्वच्छिरो अस्तु मे । तेजस्वान्विश्वतः प्रत्यङ्।तेजसा संपिपृग्धि मा । ओजोऽसि । तत्ते प्रयच्छामि १८

ओजस्वदस्तु मे मुखम् । ओजस्वच्छिरो अस्तु मे । ओजस्वान्विश्वतः प्रत्यङ्।ओजसा संपिपृग्धि मा । पयोऽसि । तत्ते प्रयच्छामि । पयस्वदस्तु मे मुखम् । पयस्वच्छिरो अस्तु मे । पयस्वान्विश्वतः प्रत्यङ्।पयसा संपिपृग्धि मा १९ आयुरसि । तत्ते प्रयच्छामि । आयुष्मदस्तु मे मुखम् । आयुष्मच्छिरो अस्तु मे आयुष्मान्विश्वतः प्रत्यङ्।आयुषा संपिपृग्धि मा । इममग्न आयुषे वर्चसे कृधि । प्रियँ रेतो वरुण सोम राजन् । मातेवास्मा अदिते शर्म यच्छ । विश्वे देवा जरदष्टिर्यथा सत् २०

आयुरसि विश्वायुरसि । सर्वायुरसि सर्वमायुरसि । यतो वातो मनोजवाः । यतः क्षरन्ति सिन्धवः । तासां त्वा सर्वासाँ रुचा । अभिषिञ्चामि वर्चसा । समुद्र इवासि गह्मना । सोम इवास्यदाभ्यः । अग्निरिव विश्वतः प्रत्यङ्।सूर्य इव ज्योतिषा विभूः २१

अपां यो द्र वणे रसः । तमहमस्मा आमुष्यायणाय । तेजसे ब्रह्मवर्चसाय गृह्णामि । अपां य ऊर्मौ रसः । तमहमस्मा आमुष्यायणाय । ओजसे वीर्याय गृह्णामि । अपां यो मध्यतो रसः । तमहमस्मा आमुष्यायणाय । पुष्ट्यै प्रजननाय गृह्णामि । अपां यो यज्ञियो रसः । तमहमस्मा आमुष्यायणाय । आयुषे दीर्घायुत्वाय गृह्णामि २२


2.7.8 रथारोहणमन्त्राः

अभिप्रेहि वीरयस्व । उग्रश्चेत्ता सपत्नहा । आतिष्ठ मित्रवर्धनः । तुभ्यं देवा अधिब्रुवन् । अङ्कौ न्यङ्कावभित आतिष्ठ वृत्रहन्रथम् । आतिष्ठन्तं परि विश्वे अभूषन् । श्रियं वसानश्चरति स्वरोचाः । महत्तदस्यासुरस्य नाम । आ विश्वरूपो अमृतानि तस्थौ । अनु त्वेन्द्रो मदत्वनु बृहस्पतिः २३

अनु सोमो अन्वग्निरावीत् । अनु त्वा विश्वे देवा अवन्तु । अनु सप्त राजानो य उताभिषिक्ताः । अनु त्वा मित्रावरुणाविहावतम् । अनु द्यावापृथिवी विश्वशंभू ।सूर्यो अहोभिरनु त्वावतु । चन्द्र मा नक्षत्रैरनु त्वावतु । द्यौश्च त्वा पृथिवी च प्रचेतसा । शुक्रो बृहद्दक्षिना त्वा पिपर्तु । अनु स्वधा चिकिताँ सोमो अग्निः । आयं पृणक्तु रजसी उपस्थम् २४


2.7.9 ओदनसवः

प्रजापतिः प्रजा असृजत । ता अस्मात्सृष्टाः पराचीरायन् । स एतं प्रजापतिरोदनमपश्यत् । सोऽन्नं भूतोऽतिष्ठत् । ता अन्यत्रान्नाद्यमवित्त्वा । प्रजापतिं प्रजा उपावर्तन्त । अन्नमेवैनं भूतं पश्यन्तीः प्रजा उपावर्तन्ते । य एतेन यजते । य उ चैनमेवं वेद । सर्वाण्यन्नानि भवन्ति २५

सर्वे पुरुषाः । सर्वाण्येवान्नान्यवरुन्धे । सर्वान्पुरुषान् । राडसि विराडसीत्याह । स्वाराज्यमेवैनं गमयति । यद्धिरण्यं ददाति । तेजस्तेनावरुन्धे । यत्तिसृधन्वम् । वीर्यं तेन । यदष्ट्राम् २६

पुष्टिं तेन । यत्कमण्डलुम् । आयुष्टेन । यद्धिरण्यमाबध्नाति । ज्योतिर्वै हिरण्यम् । ज्योतिरेवास्मिन्दधाति । अथो तेजो वै हिरण्यम् । तेज एवात्मन्धत्ते । यदोदनं प्राश्नाति । एतदेव सर्वमवरुध्य २७

तदस्मिन्नेकधाधात् । रोहिण्यां कार्यः । यद्ब्राह्मण एव रोहिणी ।तस्मादेव । अथो वर्ष्मैवैनँ समानानां करोति । उद्यता सूर्येण कार्यः । उद्यन्तं वा एतँ सर्वाः प्रजाः प्रतिनन्दन्ति । दिदृक्षेण्यो दर्शनीयो भवति । य एवं वेद । ब्रह्मवादिनो वदन्ति २८

अवेत्योऽवभृथा३ ना३ इति । यद्दर्भपुञ्जीलैः पवयति । तत्स्विदेवावैति । तन्नावैति । त्रिभिः पवयति । त्रय इमे लोकाः । एभिरेवैनं लोकैः पवयति । अथो अपां वा एतत्तेजो वर्चः । यद्दर्भाः । यद्दर्भपुञ्जीलैः पवयति । अपामेवैनं तेजसा वर्चसाभिषिञ्चति २९


2.7.10 पञ्चशारदीयविधिः

प्रजापतिरकामयत बहोर्भूयान्त्स्यामिति । स एतं पञ्चशारदीयमपश्यत् । तमाहरत् । तेनायजत । ततो वै स बहोर्भूयानभवत् । यः कामयेत बहोर्भूयान्त्स्यामिति । स पञ्चशारदीयेन यजेत । बहोरेव भूयान्भवति । मरुत्स्तोमो वा एषः । मरुतो हि देवानां भूयिष्ठाः ३०

बहुर्भवति । य एतेन यजते । य उ चैनमेवं वेद । पञ्चशारदीयो भवति । पञ्च वा ऋतवः संवत्सरः । ऋतुष्वेव संवत्सरे प्रतितिष्ठति । अथो पञ्चाक्षरा पङ्क्तिः । पाङ्क्तो यज्ञः । यज्ञमेवावरुन्धे । सप्तदशँ स्तोमा नातियन्ति । सप्तदशः प्रजापतिः । प्रजापतेराप्त्यै ३१


2.7.11 पञ्चशारदीये पशुविधिः

अगस्त्यो मरुद्भ्य उक्ष्णः प्रौक्षत् । तानिन्द्र आदत्त । त एनं वज्रमुद्यत्याभ्यायन्त । तानगस्त्यश्चैवेन्द्र श्च कयाशुभीयेनाशमयताम् । ताण्शान्तानुपाह्वयत । यत्कयाशुभीयं भवति शान्त्यै । तस्मादेत ऐन्द्रा मारुता उक्षाणः सवनीया भवन्ति । त्रयः प्रथमेऽहन्नालभ्यन्ते । एवं द्वितीये । एवं तृतीये ३२

एवं चतुर्थे । पञ्चोत्तमेऽहन्नालभ्यन्ते । वर्षिष्ठमिव ह्येतदहः । वर्षिष्ठः समानानां भवति । य एतेन यजते । य उ चैनमेवं वेद । स्वाराज्यं वा एष यज्ञः । एतेन वा एकयावा कान्दमः स्वाराज्यमगच्छत् । स्वाराज्यं गच्छति । य एतेन यजते ३३

य उ चैनमेवं वेद । मारुतो वा एष स्तोमः । एतेन वै मरुतो देवानां भूयिष्ठा अभवन् । भूयिष्ठः समानानां भवति । य एतेन यजते । य उ चैनमेवं वेद । पञ्चशारदीयो वा एष यज्ञः । आ पञ्चमात्पुरुषादन्नमत्ति । य एतेन यजते । य उ चैनमेवं वेद । सप्तदशँ स्तोमा नातियन्ति । सप्तदशः प्रजापतिः । प्रजापतेरेव नैति ३४


2.7.12 अग्निष्टुत् क्रतु

अस्याजरासो दमा मरित्राः । अर्चद्धूमासो अग्नयः पावकाः । श्विचीचयः श्वात्रासो भुरण्यवः । वनर्षदो वायवो न सोमाः । यजा नो मित्रावरुणा । यजा देवाँ ऋतं बृहत् । अग्ने यक्षि स्वं दमम् । अश्विना पिबतँ सुतम् । दीद्यग्नी शुचिव्रता । ऋतुना यज्ञवाहसा ३५

द्वे विरूपे चरतः स्वर्थे । अन्यान्या वत्समुपधापयेते । हरिरन्यस्यां भवति स्वधावान् । शुक्रो अन्यस्यां ददृशे सुवर्चाः । पूर्वापरं चरतो माययैतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाभिचष्टे । ऋतूनन्यो विदधज्जायते पुनः । त्रीणि शता त्री सहस्राण्यग्निम् । त्रिँ शच्च देवा नव चासपर्यन् ३६

औक्षन्घृतैरास्तृणन्बर्हिरस्मै । आदिद्धोतारं न्यषादयन्त । अग्निनाग्निः समिध्यते । कविर्गृहपतिर्युवा । हव्यवाड्जुह्वास्यः । अग्निर्देवानां जठरम् । पूतदक्षः कविक्रतुः । देवो देवेभिरागमत् । अग्निश्रियो मरुतो विश्वकृष्टयः । आ त्वेषमुग्रमव ईमहे वयम् ३७

ते स्वामिनो रुद्रि या वर्षनिर्णिजः । सिँ हा न हेषक्रतवः सुदानवः । यदुत्तमे मरुतो मध्यमे वा । यद्वावमे सुभगासो दिविष्ठ । ततो नो रुद्रा उत वान्वस्य । अग्ने वित्ताद्धविषो यद्यजामः । ईडे अग्निँ स्ववसं नमोभिः । इह प्रसप्तो विचयत्कृतं नः । रथैरिव प्रभरे वाजपद्भिः । प्रदक्षिणिन्मरुताँ स्तोममृध्याम् ३८

श्रुधि श्रुत्कर्ण वह्निभिः । देवैरग्ने सयावभिः । आसीदन्तु बर्हिषि । मित्रो वरुणो अर्यमा । प्रातर्यावाणो अध्वरम् । विश्वेषामदितिर्यज्ञियानाम् । विश्वेषामतिथिर्मानुषाणाम् । अग्निर्देवानामव आवृणानः । सुमृडीको भवतु विश्ववेदाः । त्वे अग्ने सुमतिं भिक्षमानाः ३९

दिवि श्रवो दधिरे यज्ञियासः । नक्ता च चक्रुरुषसा विरूपे । कृष्णं च वर्णमरुणं च संधुः । त्वामग्न आदित्यास आस्यम् । त्वां जिह्वाँ शुचयश्चक्रिरे कवे । त्वाँ रातिषाचो अध्वरेषु सश्चिरे । त्वे देवा हविरदन्त्याहुतम् । नि त्वा यज्ञस्य साधनम् । अग्ने होतारमृत्विजम् । वनुष्वद्देव धीमहि प्रचेतसम् । जीरं दूतममर्त्यम् ४०


2.7.13 इन्द्रस्तुद्यागे ग्रहाणांपुरोरुक्

तिष्ठा हरी रथ आ युज्यमाना याहि । वायुर्न नियुतो नो अच्छ । पिबास्यन्धो अभिसृष्टो अस्मे । इन्द्र स्वाहा ररिमा ते मदाय । कस्य वृषा सुते सचा । नियुत्वान्वृषभो रणत् । वृत्रहा सोमपीतये । इन्द्रं वयं महाधने । इन्द्र मर्भे हवामहे । युजं वृत्रेषु वज्रिणम् ४१

द्विता यो वृत्रहन्तमः । विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम् । स सूर आ जनयञ्ज्योतिरिन्द्र म् । अया धिया तरणिरद्रि बर्हाः । ऋतेन शुष्मीनवमानो अर्कैः । व्युस्रिधो अस्रो अद्रि र्बिभेद । उत त्यदाश्वश्वियम् । यदिन्द्र नाहुषीष्वा । अग्रे विक्षु प्रतीदयत् ४२

भरेष्विन्द्र ँ! सुहवँ हवामहे । अँ होमुचँ सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुणँ सातये भगम् । द्यावापृथिवी मरुतः स्वस्तये । महि क्षेत्रं पुरुश्चन्द्रं विविद्वान् । आदित्सखिभ्यश्च रथँ समैरत् । इन्द्रो नृभिरजनद्दीद्यानः साकम् । सूर्यमुषसं गातुमग्निम् । उरुं नो लोकमनुनेषि विद्वान् । सुवर्वज्ज्योतिरभयँ स्वस्ति ४३

ऋष्वा त इन्द्र स्थविरस्य बाहू ।उपस्थेयाम शरणा बृहन्ता । आ नो विश्वाहिरूतिभिः सजोषाः । ब्रह्म जुषाणो हर्यश्व याहि । वरीवृजत्स्थविरेभिः सुशिप्र । अस्मे दधद्वृषणँ शुष्ममिन्द्र । इन्द्रा य गाव आशिरम् । दुदुह्रे वज्रिणे मधु । यत्सीमुपह्वरेऽविदत् । तास्ते वज्रिन्धेनवो जोजयुर्नः ४४

गभस्तयो नियुतो विश्ववाराः । अहरहर्भूय इज्जोगुवानाः । पूर्णा इन्द्र क्षुमतो भोजनस्य । इमां ते धियं प्रभरे महो महीम् । अस्य स्तोत्रे धिषणा यत्त आनजे । तमुत्सवे च प्रसवे च सासहिम् । इन्द्रं देवासः शवसा मदन्ननु ४५

प्रजापतिः पशूनसृजत । तेऽस्मात्सृष्टाः पराञ्च आयन् । तानग्निष्टोमेन नाप्नोत् । तानुक्थ्येन नाप्नोत् । तान्षोडशिना नाप्नोत् । तान्रात्रिया नाप्नोत् । तान्त्संधिना नाप्नोत् । सोऽग्निमब्रवीत् । इमान्म ईप्सेति । तानग्निस्त्रिवृता स्तोमेन नाप्नोत् ४६

स इन्द्र मब्रवीत् । इमान्म ईप्सेति । तानिन्द्रः पञ्चदशेन स्तोमेन नाप्नोत् । स विश्वान्देवानब्रवीत् । इमान्म ईप्सतेति । तान्विश्वे देवाः सप्तदशेन स्तोमेन नाप्नुवन् । स विष्णुमब्रवीत् । इमान्म ईप्सेति । तान्विष्णुरेकविँ शेन स्तोमेनाप्नोत् । वारवन्तीयेनावारयत ४७

इदं विष्णुर्विचक्रम इति व्यक्रमत । यस्मात्पशवः प्र प्रेव भ्रँ शेरन् । स एतेन यजेत । यदाप्नोत् । तदप्तोर्यामस्याप्तोर्यामत्वम् । एतेन वै देवा जैत्वानि जित्वा । यं काममकामयन्त तमाप्नुवन् । यं कामं कामयते । तमेतेनाप्नोति ४८

व्याघ्रोऽयमग्नौ चरति प्रविष्टः । ऋषीणां पुत्रो अभिशस्तिपा अयम् । नमस्कारेण । नमसा ते जुहोमि । मा देवानां मिथुया कर्म भागम् । सावीर्हि देव प्रसवाय पित्रे । वर्ष्माणमस्मै वरिमाणमस्मै । अथास्मभ्यँ सवितः सर्वताता । दिवे दिव आसुवा भूरिपश्वः । भूतो भुतेषु चरति प्रविष्टः । स भूतानामधिपतिर्बभूव ४९

तस्य मृत्यौ चरति राजसूयम् । स राजा राज्यमनुमन्यतामिदम् । येभिश्शिल्पैः पप्रथानामदृँ हत् । योभिर्द्यामभ्यपिँ शत्प्रजापतिः । येभिर्वाचं विश्वरूपाँ समव्ययत् । तेनेममग्न इह वर्चसा समङ्ग्धि । येभिरादित्यस्तपति प्रकेतुभिः । येभिः सूर्यो ददृशे चित्रभानुः । येभिर्वाचं पुष्कलेभिरव्ययत् । तेनेममग्न इह वर्चसा समङ्ग्धि ५०

आयं भातु शवसा पञ्च कृष्टीः । इन्द्र इव ज्वेष्ठो भवतु प्रजावान् । अस्मा अस्तु पुष्कलं चित्रभानु । आयं पृणक्तु रजसी उपस्थम् । यत्ते शिल्पं कश्यप रोचनावत् । इन्द्रि यावत्पुष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पिताः सप्त साकम् । तस्मिन्राजानमधिविश्रयेमम् । द्यौरसि पृथिव्यसि । व्याघ्रो वैयाघ्रेऽधि ५१

विश्रयस्व दिशो महीः । विशस्त्वा सर्वा वाञ्छन्तु । मा त्वद्रा ष्ट्रमधिभ्रशत् । या दिव्या आपः पयसा संबभूवुः । या अन्तरिक्ष उत पार्थिवीर्याः । तासां त्वा सर्वासाँ रुचा । अभिषिञ्चाइ वर्चसा । अभि त्वा वर्चसा सिचं दिव्येन । पयसा सह । यथासा राष्ट्रवर्धनः ५२

तथा त्वा सविता करत् । इन्द्रं विश्वा अवीवृधन् । समुद्र व्यचसं गिरः । रथीतमँ रथीनाम् । वाजानाँ सत्पतिं पतिम् । वसवस्त्वा पुरस्तादभिषिञ्चन्तु गायत्रेण छन्दसा । रुद्रा स्त्वा दक्षिणतोऽभिषिञ्चन्तु त्रैष्टुभेन छन्दसा । आदि-त्यास्त्वा पश्चादभिषिञ्चन्तु जागतेन छन्दसा । विश्वे त्वा देवा उत्तरतो-ऽभिषिञ्चन्त्वानुष्टुभेन छन्दसा । बृहस्पतिस्त्वोपरिष्टादभिषिञ्चतु पाङ्क्तेन छन्दसा ५३

अरुणं त्वा वृकमुग्रं खजंकरम् । रोचमानं मरुतामग्रे अर्चिषः । सूर्यवन्तं मघवानं विषासहिम् । इन्द्र मुक्थ्येषु नामहूतमँ हुवेम । प्र बाहवा सिसृतं जीवसे नः । आ नो गव्यूतिमुक्षतं घृतेन । आ नो जने श्रवयतं युवाना । श्रुतं मे मित्रावरुणा हवेमा । इन्द्रस्य ते वीर्यकृतः । बाहू उपावहरामि ५४

अभि प्रेहि वीरयस्व । उग्रश्चेत्ता सपत्नहा । आतिष्ठ वृत्रहन्तमः । तुभ्यं देवा अधिब्रुवन् । अङ्कौ न्यङ्कावभितो रथं यौ । ध्वान्तं वाताग्रमनुसंचरन्तौ । दूरेहेतिरिन्द्रियावान्पतत्री ।ते नोऽग्नयः पप्रयः पारयन्तु । नमस्त ऋषे गद । अव्यथायै त्वा स्वधायै त्वा ५५

मा न इन्द्रा भितस्त्वदृष्वारिष्टासः । एवा ब्रह्मन्तवेदस्तु । तिष्ठा रथे अधि यद्वज्रहस्तः । आ रश्मीन्देव युवसे स्वश्वः । आतिष्ठ वृत्रहन्नातिष्ठन्तं परि । अनु त्वेन्द्रो मदत्वनु त्वा मित्रावरुणौ । द्यौश्च त्वा पृथिवी च प्रचेतसा । शुक्रो बृहद्दक्षिणा त्वा पिपर्तु । अनु स्वधा चिकिताँ सोमो अग्निः । अनु त्वावतु सविता सवेन ५६

इन्द्रं विश्वा अवीवृधन् । समुद्र व्याचसं गिरः । रथीतमँ रथीनाम् । वाजानाँ सत्पतिं पतिम् । परि मा सेन्या घोषाः । ज्यानां वृञ्जन्तु गृध्नवः मेथिष्ठाः पिन्वमाना इह । मां गोपतिमभिसंविशन्तु । तन्मेऽनुमतिरनुमन्यताम् । तन्माता पृथिवी तत्पिता द्यौः ५७

तद्ग्रावाणः सोमसुतो मयोभुवः । तदश्विना शृणुतँ सौभगा युवम् । अवते हेड उदुत्तमम् । एना व्याघ्रं परिषस्वजानाः । सिँ हँ हिन्वन्ति महते सौभगाय । समुद्रं न सुहवं तस्थिवाँ सम् । मर्मृज्यन्ते द्वीपिनमप्स्वन्तः । उदसावेतु सूर्यः । उदिदं मामकं वचः । उदिहि देव सूर्य । सह वग्नुना मम । अहं वाचो विवाचनम् । मयि वागस्तु धर्णसिः । यन्तु नदयो वर्षन्तु पर्जन्याः । सुपिप्पला ओषधयो भवन्तु । अन्नवतामोदनवतामामिक्षवताम् । एषाँ राजा भूयासम् ५८

ये केशिनः प्रथमाः सत्त्रमासत । येभिराभृतं यदिदं विरोचते । तेभ्यो जुहोमि बहुधा घृतेन । रायस्पोषेणेमं वर्चसा सँ सृजाथ । नर्ते ब्रह्मणस्तपसो विमोकः । द्विनाम्नी दीक्षा वशिनी ह्युग्रा । प्र केशाः सुवते काण्डिनो भवन्ति । तेषां ब्रह्मेदीशे वपनस्य नान्यः । आरोह प्रोष्ठं विषहस्व शत्रून् । अवास्राग्दीक्षा वशिनी ह्युग्रा ५९

देहि दक्षिणां प्रतिरस्वायुः । अथा मुच्यस्व वरुणस्य पाशात् । येनावपत्सविता क्षुरेण । सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्योर्जेमम् । रय्या वर्चसा सँ सृजाथ । मा ते केशाननु गाद्वर्च एतत् । तथा धाता करोतु ते । तुभ्यमिन्द्रो बृहस्पतिः । सविता वर्च आदधात् ६०

तेभ्यो निधानं बहुधा व्यैच्छन् । अन्तरा द्यावापृथिवी अपः सुवः । दर्भस्तम्बे वीर्यकृते निधाय । पौँ स्येनेमं वर्चसा सँ सृजाथ । बलं ते बाहुवोः सविता दधातु । सोमस्त्वानक्तु पयसा घृतेन । स्त्रीषु रूपमश्विनैतन्निधत्तम् । पौँ स्येनेमं वर्चसा सँ सृजाथ । यत्सीमन्तं कङ्कतस्ते लिलेख । यद्वा क्षुरः परिववर्ज वपँ स्ते । स्त्रीषु रूपमश्विनैतन्निधत्तम् । पौँ स्येनेमँ सँ सृजाथो वीर्येण ६१

इन्द्रं वै स्वा विशो मरुतो नापाचायन् । सोऽनपचाय्यमान एतं विघनमपश्यत् । तमाहरत् । तेनायजत । तेनैवासां तँ सँ स्तम्भं व्यहन् । यद्व्यहन् । तद्विघनस्य विघनत्वम् । वि पाप्मानं भ्रातृव्यँ हते । य एतेन यजते । य उ चैनमेवं वेद ६२

यँ राजानं विशो नापचायेयुः । यो वा ब्राह्मणस्तमसा पाप्मना प्रावृतः स्यात् । स एतेन यजेत । विघनेनैवैनद्विहत्य । विशामाधिपत्यं गच्छति । तस्य द्वे द्वादशे स्तोत्रे भवतः । द्वे चतुर्विँ शे । औद्भिद्यमेव तत् । एतद्वै क्षत्रस्याउद्भिद्यम् । यदस्मै स्वा विशो बलिँ हरन्ति ६३

हरन्त्यस्मै विशो बलिम् । ऐनमप्रतिख्यातं गच्छति । य एवं वेद । प्रबा-हुग्वा अग्रे क्षत्राण्यातेपुः । तेषामिन्द्रः क्षत्राण्यादत्त । न वा इमानि क्षत्रा-ण्यभूवन्निति । तन्नक्षत्राणां नक्षत्रत्वम् । आ श्रेयसो भ्रातृव्यस्य तेज इन्द्रि यं दत्ते । य एतेन यजते । य उ चैनमेवं वेद ६४

तद्यथा ह वै सचाक्रिणौ कप्लकावुपावहितौ स्याताम् । एवमेतौ युग्मन्तौ स्तोमौ । अयुक्षु स्तोमेषु क्रियेते । पाप्मनोऽपहत्यै । अप पाप्मानं भ्रातृव्यँ हते । य एतेन यजते । य उ चैनमेवं वेद । तद्यथा ह वै सूतग्रामण्यः । एवं छन्दाँ सि । तेष्वसावादित्यो बृहतीरभ्यूढः ६५

सतोबृहतीषु स्तुवते सतो बृहन् । प्रजया पशुभिरसानीत्येव । व्यतिषक्ताभिः स्तुवते । व्यतिषक्तं वै क्षत्रं विशा । विशैवैनं क्षत्रेण व्यतिषजति । व्यतिषक्ताभिः स्तुवते । व्यतिषक्तो वै ग्रामणीः सजातैः । सजातैरेवैनं व्यतिषजति । व्यतिषक्ताभिः स्तुवते । व्यतिषक्तो वै पुरुषः पाप्मभिः । व्यतिषक्ताभिरेवास्य पाप्मनो नुदते ६६ ७