तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०१

नक्षत्रेष्टिः

3.1.1
अग्निर्नः पातु कृत्तिकाः । नक्षत्रं देवमिन्द्रि यम् । इदमासां विचक्षणम् । हविरासं जुहोतन । यस्य भान्ति रश्मयो यस्य केतवः । यस्येमा विश्वा भुवनानि सर्वा । स कृत्तिकाभिरभि संवसानः । अग्निर्नो देवः सुविते दधातु । प्रजापते रोहिणी वेतु पत्नी ।विश्वरूपा बृहती चित्रभानुः १

सा नो यज्ञस्य सुविते दधातु । यथा जीवेम शरदः सवीराः । रोहिणी देव्युदगात्पुरस्तात् । विश्वा रूपाणि प्रतिमोदमाना । प्रजापतिꣳ हविषा वर्धयन्ती ।प्रिया देवानामुपयातु यज्ञम् । सोमो राजा मृगशीर्षेण आगन्न् । शिवं नक्षत्रं प्रियमस्य धाम । आप्यायमानो बहुधा जनेषु । रेतः प्रजां यजमाने दधातु २

यत्ते नक्षत्रं मृगशीर्षमस्ति । प्रियꣳ राजन्प्रियतमं प्रियाणाम् । तस्मै ते सोम हविषा विधेम । शं न एधि द्विपदे शं चतुष्पदे । आर्द्र या रुद्र ः! प्रथमान एति । श्रेष्ठो देवानां पतिरघ्नियानाम् । नक्षत्रमस्य हविषा विधेम । मा नः प्रजाꣳ रीरिषन्मोत वीरान् । हेती रुद्र स्य परि णो वृणक्तु । आर्द्रा नक्षत्रं जुषताꣳ हविर्नः ३

प्रमुञ्चमानौ दुरितानि विश्वा । अपाघशँ सं नुदतामरातिम् । पुनर्नो देव्यदितिः स्पृणोतु । पुनर्वसू नः पुनरेतां यज्ञम् । पुनर्नो देवा अभियन्तु सर्वे । पुनःपुनर्वो हविषा यजामः । एवा न देव्यदितिरनर्वा । विश्वस्य भर्त्री जगतः प्रतिष्ठा । पुनर्वसू हविषा वर्धयन्ती ।प्रियं देवानामप्येतु पाथः ४

बृहस्पतिः प्रथमं जायमानः । तिष्यं नक्षत्रमभि संबभूव । श्रेष्ठो देवानां पृतनासु जिष्णुः । दिशोऽनु सर्वा अभयं नो अस्तु । तिष्यः पुरस्तादुत मध्यतो नः । बृहस्पतिर्नः परिपातु पश्चात् । बाधेतां द्वेषो अभयं कृणुताम् । सुवीर्यस्य पतयः स्याम । इदꣳ सर्पेभ्यो हविरस्तु जुष्टम् । आश्रेषा येषामनुयन्ति चेतः ५

ये अन्तरिक्षं पृथिवीं क्षियन्ति । ते नः सर्पासो हवमागमिष्ठाः । ये रोचने सूर्यस्यापि सर्पाः । ये दिवं देवीमनु संचरन्ति । येषामाश्रेषा अनुयन्ति कामम् । तेभ्यः सर्पेभ्यो मधुमज्जुहोमि । उपहूताः पितरो ये मघासु । मनोजवसः सुकृतः सुकृत्याः । ते नो नक्षत्रे हवमागमिष्ठाः । स्वधाभिर्यज्ञं प्रयतं जुषन्ताम् ६

ये अग्निदग्धा येऽनाग्निदग्धाः । येऽमुं लोकं पितरः क्षियन्ति । याँ श्च विद्म याꣳ उ च न प्रविद्म । मघासु यज्ञꣳ सुकृतं जुषन्ताम् । गवां पतिः फल्गुनीनामसि त्वम् । तदर्यमन्वरुण मित्र चारु । तं त्वा वयꣳ सनितारꣳ सनीनाम् । जीवा जीवन्तमुप संविशेम । येनेमा विश्वा भुवनानि संजिता । यस्य देवा अनुसंयन्ति चेतः ७

अर्यमा राजाजरस्तुविष्मान् । फल्गुनीनामृषभो रोरवीति । श्रेष्ठो देवानां भगवो भगासि । तत्त्वा विदुः फल्गुनीस्तस्य वित्तात् । अस्मभ्यं क्षत्रमजरꣳ सुवीर्यम् । गोमदश्ववदुप संनुदेह । भगो ह दाता भग इत्प्रदाता । भगो देवीः फल्गुनीराविवेश । भगस्येत्तं प्रसवं गमेम । यत्र देवैः सधमादं मदेम ८

आयातु देवः सवितोपयातु । हिरण्ययेन सुवृता रथेन । वहन्हस्तꣳ सुभगं विद्मनापसम् । प्रयच्छन्तं पपुरिं पुण्यमच्छ । हस्तः प्रयच्छत्वमृतं वसीयः । दक्षिणेन प्रतिगृभ्णीम एनत् । दातारमद्य सविता विदेय । यो नो हस्ताय प्रसुवाति यज्ञम् । त्वष्टा नक्षत्रमभ्येति चित्राम् । सुभँ ससं युवतिँ रोचमानाम् ९

निवेशयन्नमृतान्मर्त्याँ श्च । रूपाणि पिँ शन्भुवनानि विश्वा । तन्नस्त्वष्टा तदु चित्रा विचष्टाम् । तन्नक्षत्रं भूरिदा अस्तु मह्यम् । तन्नः प्रजां वीरवतीꣳ सनोतु । गोभिर्नो अश्वैः समनक्तु यज्ञम् । वायुर्नक्षत्रमभ्येति निष्ट्याम् । तिग्मशृङ्गो वृषभो रोरुवाणः । समीरयन्भुवना मातरिश्वा । अप द्वेषाँ सि नुदतामरातीः १०

तन्नो वायुस्तदु निष्ट्या शृणोतु । तन्नक्षत्त्रं भूरिदा अस्तु मह्यम् । तन्नो देवासो अनुजानन्तु कामम् । यथा तरेम दुरितानि विश्वा । दूरमस्मच्छत्रवो यन्तु भीताः । तदिन्द्रा ग्नी कृणुतां तद्विशाखे । तन्नो देवा अनुमदन्तु यज्ञम् । पश्चात्पुरस्तादभयं नो अस्तु । नक्षत्राणामधिपत्नी विशाखे । श्रेष्ठाविन्द्राग्नी भुवनस्य गोपौ ११

विषूचः शत्रूनपबाधमानौ । अप क्षुधं नुदतामरातिम् । पूर्णा पश्चादुत पूर्णा पुरस्तात् । उन्मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्तः । उत्तमे नाक इह मादयन्ताम् । पृथ्वी सुवर्चा युवतिः सजोषाः । पौर्णमास्युदगाच्छोभमाना । आप्याययन्ती दुरितानि विश्वा । उरुं दुहां यजमानाय यज्ञम् १२

3.1.2
ऋध्यास्म हव्यैर्नमसोपसद्य । मित्रं देवं मित्रधेयं नो अस्तु । अनूराधान्हविषा वर्धयन्तः । शतं जीवेम शरदः सवीराः । चित्रं नक्षत्रमुदगात्पुरस्तात् । अनूराधास इति यद्वदन्ति । तन्मित्र एति पथिभिर्देवयानैः । हिरण्ययैर्विततैरन्तरिक्षे । इन्द्रो ज्येष्ठामनु नक्षत्रमेति । यस्मिन्वृत्रं वृत्रतूर्ये ततार १

तस्मिन्वयममृतं दुहानाः । क्षुधं तरेम दुरितिं दुरिष्टिम् । पुरन्दराय वृषभाय धृष्णवे । अषाढाय सहमानाय मीढुषे । इन्द्रा य ज्येष्ठा मधुमद्दुहाना । उरुं कृणोतु यजमानाय लोकम् । मूलं प्रजां वीरवतीं विदेय । पराच्येतु निरृतिः पराचा । गोभिर्नक्षत्रं पशुभिः समक्तम् । अहर्भूयाद्यजमानाय मह्यम् २

अहर्नो अद्य सुविते दधातु । मूलं नक्षत्रमिति यद्वदन्ति । पराचीं वाचा निरृतिं नुदामि । शिवं प्रजायै शिवमस्तु मह्यम् । या दिव्या आपः पयसा संबभूवुः । या अन्तरिक्ष उत पार्थिवीर्याः । यासामषाढा अनुयन्ति कामम् । ता न आपः शꣳ स्योना भवन्तु । याश्च कूप्या याश्च नाद्याः समुद्रि याः । याश्च वैशन्तीरुत प्रासचीर्याः ३
3.1.2.4
यासामषाढा मधु भक्षयन्ति । ता न आपः शꣳ स्योना भवन्तु । तन्नो विश्वे उपशृण्वन्तु देवाः । तदषाढा अभि संयन्तु यज्ञम् । तन्नक्षत्रं प्रथतां पशुभ्यः । कृषिर्वृष्टिर्यजमानाय कल्पताम् । शुभ्राः कन्या युवतयः सुपेशसः । कर्मकृतः सुकृतो वीर्यावतीः । विश्वान्देवान्हविषा वर्धयन्तीः । अषाढाः काममुपयान्तु यज्ञम् ४

यस्मिन्ब्रह्माभ्यजयत्सर्वमेतत् । अमुं च लोकमिदमू च सर्वम् । तन्नो नक्षत्रमभिजिद्विजित्य । श्रियं दधात्वहृणीयमानम् । उभौ लोकौ ब्रह्मणा संजितेमौ । तन्नो नक्षत्रमभिजिद्विचष्टाम् । तस्मिन्वयं पृतनाः संजयेम । तं नो देवासो अनुजानन्तु कामम् । शृण्वन्ति श्रोणाममृतस्य गोपाम् । पुण्यामस्या उपशृणोमि वाचम् ५
महीं देवीं विष्णुपत्नीमजूर्याम् । प्रतीचीमेनाꣳ हविषा यजामः । त्रेधा विष्णुरुरुगायो विचक्रमे । महीं दिवं पृथिवीमन्तरिक्षम् । तच्छ्रोणैति श्रव इच्छमाना । पुण्यꣳ श्लोकं यजमानाय कृण्वती ।अष्टौ देवा वसवः सोम्यासः । चतस्रो देवीरजराः श्रविष्ठाः । ते यज्ञं पान्तु रजसः परस्तात् । संवत्सरीणममृतꣳ स्वस्ति ६

यज्ञं नः पान्तु वसवः पुरस्तात् । दक्षिणतोऽभियन्तु श्रविष्ठाः । पुण्यं नक्षत्रमभि संविशाम । मा नो अरातिरघशँ सागन्न् । क्षत्रस्य राजा वरुणोऽधिराजः । नक्षत्राणाꣳ शतभिषग्वसिष्ठः । तौ देवेभ्यः कृणुतो दीर्घमायुः । शतꣳ सहस्रा भेषजानि धत्तः । यज्ञं नो राजा वरुण उपयातु । तन्नो विश्वे अभि संयन्तु देवाः ७

तन्नो नक्षत्रꣳ शतभिषग्जुषाणम् । दीर्घमायुः प्रतिरद्भेषजानि । अज एकपादुदगात्पुरस्तात् । विश्वा भूतानि प्रतिमोदमानः । तस्य देवाः प्रसवं यन्ति सर्वे । प्रोष्ठपदासो अमृतस्य गोपाः । विभ्राजमानः समिधान उग्रः । आन्तरिक्षमरुहदगं द्याम् । तꣳ सूर्यं देवमजमेकपादम् । प्रोष्ठपदासो अनुयन्ति सर्वे ८

अहिर्बुध्नियः प्रथमान एति । श्रेष्ठो देवानामुत मानुषाणाम् । तं ब्राह्मणाः सोमपाः सोम्यासः । प्रोष्ठपदासो अभिरक्षन्ति सर्वे । चत्वार एकमभि कर्म देवाः । प्रोष्ठपदास इति यान्वदन्ति । ते बुध्नियं परिषद्यꣳ स्तुवन्तः । अहिꣳ रक्षन्ति नमसोपसद्य । पूषा रेवत्यन्वेति पन्थाम् । पुष्टिपती पशुपा वाजबस्त्यौ ९

इमानि हव्या प्रयता जुषाणा । सुगैर्नो यानैरुपयातां यज्ञम् । क्षुद्रा न्पशून्रक्षतु रेवती नः । गावो नो अश्वाꣳ अन्वेतु पूषा । अन्नꣳ रक्षन्तौ बहुधा विरूपम् । वाजꣳ सनुतां यजमानाय यज्ञम् । तदश्विनावश्वयुजोपयाताम् । शुभं गमिष्ठौ सुयमेभिरश्वैः । स्वं नक्षत्रꣳ हविषा यजन्तौ । मध्वा संपृक्तौ यजुषा समक्तौ १०

यौ देवानां भिषजौ हव्यवाहौ । विश्वस्य दूतावमृतस्य गोपौ । तौ नक्षत्रं जुजुषाणोपयाताम् । नमोऽश्विभ्यां कृणुमोऽश्वयुग्भ्याम् । अप पाप्मानं भरणीर्भरन्तु । तद्यमो राजा भगवान्विचष्टाम् । लोकस्य राजा महतो महान्हि । सुगं नः पन्थामभयं कृणोतु । यस्मिन्नक्षत्रे यम एति राजा । यस्मि-न्नेनमभ्यषिञ्चन्त देवाः । तदस्य चित्रꣳ हविषा यजाम । अप पाप्मानं भरणीर्भरन्तु । निवेशनी यत्ते देवा अदधुः ११

3.1.3
नवोनवो भवति जायमानो यमादित्या अँशुमाप्याययन्ति । ये विरूपे समनसा संव्ययन्ती ।समानं तन्तुं परि तातनाते । विभू प्रभू अनुभू विश्वतो हुवे । ते नो नक्षत्रे हवमागमेतम् । वयं देवी ब्रह्मणा संविदानाः । सुरत्नासो देववीतिं दधानाः । अहोरात्रे हविषा वर्धयन्तः । अति पाप्मानमतिमुक्त्या गमेम । प्रत्युवदृश्यायती १

व्युच्छन्ती दुहिता दिवः । अपो मही वृणुते चक्षुषा । तमो ज्योतिष्कृणोति सूनरी ।उदुस्रियाः सचते सूर्यः । सचा उद्यन्नक्षत्रमर्चिमत् । तवेदुषो व्युषि सूर्यस्य च । सं भक्तेन गमेमहि । तन्नो नक्षत्रमर्चिमत् । भानुमत्तेज उच्चरत् । उप यज्ञमिहागमत् २

प्र नक्षत्राय देवाय । इन्द्रा येन्दुꣳ हवामहे । स नः सविता सुवत्सनिम् । पुष्टिदां वीरवत्तमम् । उदु त्यं चित्रम् । अदितिर्न उरुष्यतु महीमू षु मातरम् । इदं विष्णुः प्र तद्विष्णुः । अग्निर्मूर्धा । भुवः । अनु नोऽद्यानुमतिरन्विदनुमते त्वम् । हव्यवाहꣳ स्विष्टम् ३

3.1.4
अग्निर्वा अकामयत । अन्नादो देवानाꣳ स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत् । ततो वै सोऽन्नादो देवानामभवत् । अग्निर्वै देवानामन्नादः । यथा ह वा अग्निर्देवनामन्नादः । एवꣳ ह वा एष मनुष्याणां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा । अम्बायै स्वाहा दुलायै स्वाहा । नितत्न्यै स्वाहाभ्रयन्त्यै स्वाहा । मेघयन्त्यै स्वाहा वर्षयन्त्यै स्वाहा । चुपुणीकायै स्वाहेति १

प्रजापतिः प्रजा असृजत । ता अस्मात्सृष्टाः पराचीरायन्न् । तासाꣳ रोहिणीमभ्यध्यायत् । सोऽकामयत । उप मावर्तेत ।समेनया गच्छेयेति । स एतं प्रजापतये रोहिण्यै चरुं निरवपत् । ततो वै सा तमुपावर्तत । समेनयागच्छत । उप ह वा एनं प्रियमावर्तते । सं प्रियेण गच्छते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । प्रजापतये स्वाहा रोहिण्यै स्वाहा रोचमानायै स्वाहा प्रजाभ्यः स्वाहेति २

सोमो वा अकामयत । ओषधीनाꣳ राज्यमभिजयेयमिति । स एतꣳ सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि निरवपत् । ततो वै स ओषधीनाꣳ राज्यमभ्यजयत् । समानानाꣳ ह वै राज्यमभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सोमाय स्वाहा मृगशीर्षाय स्वाहा । इन्वकाभ्यः स्वाहौषधीभ्यः स्वाहा । राज्याय स्वाहाभिजित्यै स्वाहेति ३

रुद्रो वा अकामयत । पशुमान्त्स्यामिति । स एतꣳ रुद्रायार्द्रायै प्रैयंगवं चरुं पयसि निरवपत् । ततो वै स पशुमानभवत् । पशुमान्ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । रुद्रा य स्वाहाद्रा र्यै! स्वाहा । पिन्वमानायै स्वाहा पशुभ्यः स्वाहेति ४

ऋक्षा वा इयमलोमकासीत् । साकामयत । ओषधीभिर्वनस्पतिभिः प्रजायेयेति । सैतमदित्यै पुनर्वसुभ्यां चरुं निरवपत् । ततो वा इयमोषधीभिर्वनस्पतिभिः प्राजायत । प्रजायते ह वै प्रजया पशुभिः । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति अदित्यै स्वाहा पुनर्वसुभ्याम्स्वाहाभूत्यै स्वाहा प्रजात्यै स्वाहेति ५

बृहस्पतिर्वा अकामयत । ब्रह्मवर्चसी स्यामिति । स एतं बृहस्पतये तिष्याय नैवारं चरुं पयसि निरवपत् । ततो वै स ब्रह्मवर्चस्यभवत् । ब्रह्मवर्चसी ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । बृहस्पतये स्वाहा तिष्याय स्वहा । ब्रह्मवर्चसाय स्वाहेति ६

देवासुराः संयत्ता आसन्न् । ते देवाः सर्पेभ्य आश्रेषाभ्य आज्ये करम्भं निरवपन्न् । तानेताभिरेव देवताभिरुपानयन् । एताभिर्ह वै देवताभिर्द्विषन्तं भ्रा-तृव्यमुपनयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सर्पेभ्यः स्वाहा श्रेषाभ्यः स्वाहा । दन्दशूकेभ्यः स्वाहेति ७

पितरो वा अकामयन्त । पितृलोक ऋध्नुयामेति । त एतं पितृभ्यो मघाभ्यः पुरोडाशꣳ षट्कपालं निरवपन्न् । ततो वै ते पितृलोक आर्ध्नुवन् । पितृलोके ह वा ऋध्नोति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । पितृभ्यः स्वाहा मघाभ्यः स्वाहानघाभ्यः स्वाहागदाभ्यः स्वाहा-रुन्धतीभ्यः स्वाहेति ८

अर्यमा वा अकामयत । पशुमान्त्स्यामिति । स एतमर्यम्णे फल्गुनीभ्यां चरुं निरवपत् । ततो वै स पशुमानभवत् । पशुमान्ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अर्यम्णे स्वाहा फल्गुनीभ्याꣳ स्वाहा । पशुभ्यः स्वाहेति ९

भगो वा अकामयत । भगी श्रेष्ठी देवानाꣳ स्यामिति । स एतं भगाय फल्गुनीभ्यां चरुं निरवपत् । ततो वै स भगी श्रेष्ठी देवानामभवत् । भगी ह वै श्रेष्ठी समानानां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । भगाय स्वाहा फल्गुनीभ्याꣳ स्वाहा । श्रैष्ठ्याय स्वाहेति १०

सविता वा अकामयत श्रन्मे देवा दधीरन्न् । सविता स्यामिति । स एतꣳ सवित्रे हस्ताय पुरोडाशं द्वादशकपालं निरवपदाशूनां व्रीहीणाम् । ततो वै तस्मै श्रद्देवा अदधत । सविताभवत् । श्रद्ध वा अस्मै मनुष्या दधते । सविता समानानां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सवित्रे स्वाहा हस्ताय स्वाहा ददते स्वाहा पृणते स्वाहा प्रयच्छते स्वाहा प्रतिगृभ्णते स्वाहेति ११

त्वष्टा वा अकामयत । चित्रं प्रजां विन्देयेति । स एतं त्वष्ट्रे चित्रायै पुरोडाशमष्टाकपालं निरवपत् । ततो वै स चित्रं प्रजामविन्दत । चित्रꣳ ह वै प्रजां विन्दते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । त्वष्ट्रे स्वाहा चित्रायै स्वाहा । चैत्राय स्वाहा प्रजायै स्वाहेति १२

वायुर्वा अकामयत । कामचारमेषु लोकेष्वभिजयेयमिति । स एतद्वायवे निष्ट्यायै गृष्ट्यै दुग्धं पयो निरवपत् । ततो वै स कामचारमेषु लोकेष्व-भ्यजयत् । कामचारꣳ ह वा एषु लोकेष्वभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । वायवे स्वाहा निष्ट्यायै स्वाहा । कामचाराय स्वाहाभिजित्यै स्वाहेति १३

इन्द्रा ग्नी वा अकामयेताम् । श्रैष्ठ्यं देवानामभिजयेवेति । तावेतमिन्द्रा ग्निभ्यां विशाखाभ्यां पुरोडाशमेकादशकपालं निरवपताम्ततो वै तौ श्रैष्ठ्यं देवानामभ्यजयताम् । श्रैष्ठ्यꣳ ह वै समानानामभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । इन्द्रा ग्निभ्याꣳ स्वाहा विशाखाभ्याꣳ स्वाहा । श्रैष्ठ्याय स्वाहाभिजित्यै स्वाहेति १४

अथैतत्पौर्णमास्या आज्यं निर्वपति । कामो वै पौर्नमासी ।काम आज्यम् । कामेनैव कामꣳ समर्धयति । क्षिप्रमेनꣳ स काम उपनमति । येन कामेन यजते । सोऽत्र जुहोति । पौर्णमास्यै स्वाहा कामाय स्वाहागत्यै स्वाहेति १५

3.1.5
मित्रो वा अकामयत । मित्रधेयमेषु लोकेष्वभिजयेयमिति । स एतं मित्रायानूराधेभ्यश्चरुं निरवपत् । ततो वै स मित्रधेयमेषु लोकेष्वभ्यजयत् । मित्रधेयꣳ ह वा एषु लोकेष्वभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । मित्राय स्वाहानूराधेभ्यः स्वाहा । मित्रधेयाय स्वाहाभिजित्यै स्वाहेति १

इन्द्रो वा अकामयत । ज्यैष्ठ्यं देवानामभिजयेयमिति । स एतमिन्द्रा य ज्येष्ठायै पुरोडाशमेकादशकपालं निरवपन्महाव्रीहीणाम् । ततो वै स ज्यैष्ठ्यं देवानामभ्यजयत् । ज्यैष्ठ्यꣳ ह वै समानानामभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । इन्द्रा य स्वाहा ज्येष्ठायै स्वाहा ज्यैष्ठ्याय स्वाहाभिजित्यै स्वाहेति २

प्रजापतिर्वा अकामयत । मूलं प्रजां विन्देयेति । स एतं प्रजापतये मूलाय चरुं निरवपत् । ततो वै स मूलं प्रजामविन्दत । मूलꣳ ह वै प्रजां विन्दते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । प्रजापतये स्वाहा मूलाय स्वाहा । प्रजायै स्वाहेति ३

आपो वा अकामयन्त । समुद्रं काममभिजयेमेति । ता एतमद्भ्योऽषाढाभ्यश्चरुं निरवपन्न् । ततो वै ताः समुद्रं काममभ्यजयन् । समुद्रं ह वै काममभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अद्भ्यः स्वाहाऽषाढाभ्यः स्वाहा । समुद्राय स्वाहा कामाय स्वाहा । अभिजित्यै स्वाहेति ४

विश्वे वै देवा अकामयन्त । अनपजय्यं जयेमेति । त एतं विश्वेभ्यो देवेभ्योऽषाढाभ्यश्चरुं निरवपन् । ततो वै तेऽनपजय्यमजयन्न् । अनपजय्यꣳ ह वै जयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । विश्वेभ्यो देवेभ्यः स्वाहाऽषाढाभ्यः स्वाहा । अनपजय्याय स्वाहा जित्यै स्वाहेति ५

ब्रह्म वा अकामयत । ब्रह्मलोकमभिजयेयमिति । तदेतं ब्रह्मणेऽभिजिते चरुं निरवपत् । ततो वै तद्ब्रह्मलोकमभ्यजयत् । ब्रह्मलोकꣳ ह वा अभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । ब्रह्मणे स्वाहाभिजिते स्वाहा । ब्रह्मलोकाय स्वाहाभिजित्यै स्वाहेति ६

विष्णुर्वा अकामयत । पुण्यꣳ श्लोकꣳ शृण्वीय । न मा पापी कीर्तिरागच्छेदिति । स एतं विष्णवे श्रोणायै पुरोडाशं त्रिकपालं निरवपत् । ततो वै स पुण्यꣳ श्लोकमशृणुत । नैनं पापी कीर्तिरागच्छत् । पुण्यꣳ ह वै श्लोकꣳ शृणुते । नैनं पापी कीर्तिरागच्छति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । विष्णवे स्वाहा श्रोणायै स्वाहा । श्लोकाय स्वाहा श्रुताय स्वाहेति ७

वसवो वा अकामयन्त । अग्रं देवतानां परीयामेति । त एतं वसुभ्यः श्रविष्ठाभ्यः पुरोडाशमष्टाकपालं निरवपन् । ततो वै तेऽग्रं देवतानां पर्यायन्न् । अग्रꣳ ह वै समानानां पर्येति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । वसुभ्यः स्वाहा श्रविष्ठाभ्यः स्वाहा । अग्राय स्वाहा परीत्यै स्वाहेति ८

इन्द्रो वा अकामयत । दृढोऽशिथिलः स्यामिति । स एतं वरुणाय शतभिषजे भेषजेभ्यः पुरोडाशं दशकपालं निरवपत्कृष्णानां व्रीहीणाम् । ततो वै स दृढोऽशिथिलोऽभवत् । दृढो ह वा अशिथिलो भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । वरुणाय स्वाहा शतभिषजे स्वाहा । भेषजेभ्यः स्वाहेति ९

अजो वा एकपादकामयत । तेजस्वी ब्रह्मवर्चसी स्यामिति । स एतमजायैकपदे प्रोष्ठपदेभ्यश्चरुं निरवपत् । ततो वै स तेजस्वी ब्रह्मवर्चस्यभवत् । तेजस्वी ह वै ब्रह्मवर्चसी भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अजायैकपदे स्वाहा प्रोष्ठपदेभ्यः स्वाहा । तेजसे स्वाहा ब्रह्मवर्चसाय स्वाहेति १०

अहिर्वै बुध्नियोऽकामयत । इमां प्रतिष्ठां विन्देयेति । स एतमहये बुध्नियाय प्रोष्ठपदेभ्यः पुरोडाशं भूमिकपालं निरवपत् । ततो वै स इमां प्रतिष्ठामविन्दत । इमाꣳ ह वै प्रतिष्ठां विन्दते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अहये बुध्नियाय स्वाहा प्रोष्ठपदेभ्यः स्वाहा । प्रतिष्ठायै स्वाहेति ११

पूषा वा अकामयत । पशुमान्त्स्यामिति । स एतं पूष्णे रेवत्यै चरुं निरवपत् । ततो वै स पशुमानभवत् । पशुमान्ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । पूष्णे स्वाहा रेवत्यै स्वाहा । पशुभ्यः स्वाहेति १२

अश्विनौ वा अकामयेताम् । श्रोत्रस्विनावबधिरौ स्यावेति । तवेतमश्विभ्यामश्वयुग्भ्यां पुरोडाशं द्विकपालं निरवपताम् । ततो वै तौ श्रोत्रस्विनावबधिरावभवताम् । श्रोत्रस्वी ह वा अबधिरो भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अश्विभ्याꣳ स्वाहाश्वयुग्भ्याꣳ स्वाहा । श्रोत्राय स्वाहा श्रुत्यै स्वाहेति १३

यमो वा अकामयत । पितृणाꣳ राज्यमभिजयेयमिति । स एतं यमा-यापभरणीभ्यश्चरुं निरवपत् । ततो वै स पितृणाꣳ राज्यमभ्यजयत् । समानानाꣳ ह वै राज्यमभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । यमाय स्वाहापभरणीभ्यः स्वाहा । राज्याय स्वाहाभिजित्यै स्वाहेति १४

अथैतदमावास्याया आज्यं निर्वपति । कामो वा अमावास्या । काम आज्यम् । कामेनैव कामꣳ समर्धयति । क्षिप्रमेनꣳ स काम उपनमति । येन कामेन यजते । सोऽत्र जुहोति । अमावास्यायै स्वाहा कामाय स्वाहागत्यै स्वाहेति १५

3.1.6
चन्द्रमा वा अकामयत । अहोरात्रानर्धमासान्मासानृतून्त्संवत्सरमाप्त्वा । चन्द्र मसः सायुज्यꣳ सलोकतामाप्नुयामिति । स एतं चन्द्र मसे प्रतीदृश्यायै पुरोडाशं पञ्चदशकपालं निरवपत् । ततो वै सोऽहोरात्रानर्धमासान्मासानृतून्त्संवत्सरमाप्त्वा । चन्द्र मसः सायुज्यꣳ सलोकतामाप्नोत् । अहोरात्रान्ह वा अर्धमासान्मासानृतून्त्संवत्सरमाप्त्वा । चन्द्र मसः सायुज्यꣳ सलोकतामाप्नोति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । चन्द्र मसे स्वाहा प्रतीदृश्यायै स्वाहा । अहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा । मासेभ्यः स्वाहर्तुभ्यः स्वाहा । संवत्सराय स्वाहेति १

अहोरात्रे वा अकामयेताम् । अत्यहोरात्रे मुच्येवहि । न नावहोरात्रे आप्नुयातामिति । ते एतमहोरात्राभ्यां चरुं निरवपताम् । द्वयानां व्रीहीणाम् । शुक्लानां च कृष्णानां च । सवात्योर्दुग्धे । श्वेतायै च कृष्णायै च । ततो वै ते अत्यहोरात्रे अमुच्येते । नैने अहोरात्रे आप्नुताम् । अति ह वा अहोरात्रे मुच्यते । नैनमहोरात्रे आप्नुतः । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अह्ने स्वाहा रात्रियै स्वाहा । अतिमुक्त्यै स्वाहेति २

उषा वा अकामयत । प्रियादित्यस्य सुभगा स्यामिति । सैतमुषसे चरुं निरवपत् । ततो वै सा प्रियादित्यस्य सुभगाभवत् । प्रियो ह वै समानानाꣳ सुभगो भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । उषसे स्वाहा व्युष्ट्यै स्वाहा । व्यूषुष्यै स्वाहा व्युच्छन्त्यै स्वाहा । व्युष्टायै स्वाहेति ३

अथैतस्मै नक्षत्राय चरुं निर्वपति । यथा त्वं देवानामसि । एवमहं मनुष्याणां भूयासमिति । यथा ह वा एतद्देवानाम् । एवꣳ ह वा एष मनुष्याणां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । नक्षत्राय स्वाहोदेष्यते स्वाहा । उद्यते स्वाहोदिताय स्वाहा । हरसे स्वाहा भरसे स्वाहा । भ्राजसे स्वाहा तेजसे स्वाहा । तपसे स्वाहा ब्रह्मवर्चसाय स्वाहेति ४

सूर्यो वा अकामयत । नक्षत्राणां प्रतिष्ठा स्यामिति । स एतꣳ सूर्याय नक्षत्रेभ्यश्चरुं निरवपत् । ततो वै स नक्षत्राणां प्रतिष्ठाभवत् । प्रतिष्ठा ह वै समानानां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सूर्याय स्वाहा नक्षत्रेभ्यः स्वाहा । प्रतिष्ठायै स्वाहेति ५

अथैतमदित्यै चरुं निर्वपति । इयं वा अदितिः । अस्यामेव प्रतितिष्ठति । सोऽत्र जुहोति । अदित्यै स्वाहा प्रतिष्ठायै स्वाहेति ६

अथैतं विष्णवे चरुं निर्वपति । यज्ञो वै विष्णुः । यज्ञ एवान्ततः प्रतितिष्ठति । सोऽत्र जुहोति । विष्णवे स्वाहा यज्ञाय स्वाहा । प्रतिष्ठायै स्वाहेति ७