प्रमुखा विकल्पसूचिः उद्घाट्यताम्

दर्शपूर्णमासेष्टिः

3.2.1
तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत्पर्णोऽभवत् । तत्पर्णस्य पर्णत्वम् । ब्रह्म वै पर्णः । यत्पर्णशाखया वत्सानपाकरोति । ब्रह्मणैवैनानपाकरोति । गायत्रो वै पर्णः । गायत्राः पशवः १

तस्मात्त्रीणित्रीणि पर्णस्य पलाशानि । त्रिपदा गायत्री ।यत्पर्णशखया गाः प्रार्पयति । स्वयैवैना देवतया प्रार्पयति । यं कामयेतापशुः स्यादिति । अपर्णां तस्मै शुष्काग्रामाहरेत् । अपशुरेव भवति । यं कामयेत पशुमान्त्स्यादिति । बहुपर्णां तस्मै बहुशाखामाहरेत् । पशुमन्तमेवैनं करोति २

यत्प्राचीमाहरेत् । देवलोकमभिजयेत् । यदुदीचीं मनुष्यलोकम् । प्राचीमुदीचीमाहरति । उभयोर्लोकयोरभिजित्यै । इषे त्वोर्जे त्वेत्याह । इषमेवोर्जं यजमाने दधाति । वायवः स्थेत्याह । वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः ३

वायव एवैनान्परिददाति । प्र वा एनानेतदाकरोति । यदाह । वायवः स्थेत्युपायवः स्थेत्याह । यजमानायैव पशूनुपह्वयते । देवो वः सविता प्रार्पयत्वित्याह प्रसूत्यै । श्रेष्ठतमाय कर्मण इत्याह । यज्ञो हि श्रेष्ठतमं कर्म । तस्मादेवमाह । आप्यायध्वमघ्निया देवभागमित्याह ४

वत्सेभ्यश्च वा एताः पुरा मौष्येभ्यश्चाप्यायन्त । देवेभ्य एवैना इन्द्रा याप्यायति । ऊर्जस्वतीः पयस्वतीरित्याह । ऊर्जँ हि पयः संभरन्ति । प्रजावतीरनमीवा अयक्ष्मा इत्याह प्रजात्यै । मा वः स्तेन ईशत माघशँ स इत्याह गुप्त्यै । रुद्र स्य हेतिः परि वो वृणक्त्वित्याह । रुद्रा देवैनास्त्रायते । ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरित्याह । ध्रुवा एवास्मिन्बह्वीः करोति ५

यजमानस्य पशून्पाहीत्याह । पशुनां गोपीथाय । तस्मात्सायं पशव उप समावर्तन्ते । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ६

3.2.2
देवस्य त्वा सवितुः प्रसव इत्यश्वपर्शुमादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । यो वा ओषधीः पर्वशो वेद । नैनाः स हिनस्ति । प्रजापतिर्वा ओषधीः पर्वशो वेद । स एना न हिनस्ति अश्वपर्श्वा बर्हिरच्छैति । प्राजापत्यो वा अश्वः सयोनित्वाय १

ओषधीनामहिँ सायै । यज्ञस्य घोषदसीत्याह । यजमान एव रयिं दधाति । प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । प्रेयमगाद्धिषणा बर्हिरच्छेत्याह । विद्या वै धिषणा । विद्ययैवैनदच्छैति । मनुना कृता स्वधया वितष्टेत्याह । मानवी हि पर्शुः स्वधाकृता २

त आवहन्ति कवयः पुरस्तादित्याह । शुश्रुवाँ सो वै कवयः । यज्ञः पुरस्तात् । मुखत एव यज्ञमारभते । अथो यदेतदुक्त्वा यतः कुतश्चाहरति । तत्प्राच्या एव दिशो भवति । देवेभ्यो जुष्टमिह बर्हिरासद इत्याह । बर्हिषः समृद्ध्यै । कर्मणोऽनपराधाय । देवानां परिषूतमसीत्याह ३

यद्वा इदं किं च । तद्देवानां परिषूतम् । अथो यथा वस्यसे प्रतिप्रोच्याहेदं करिष्यामीति । एवमेव तदध्वर्युर्देवेभ्यः प्रतिप्रोच्य बर्हिर्दाति । आत्म-नोऽहिँ सायै । यावतः स्तम्बान्परिदिशेत् । यत्तेषामुच्छिँ ष्यात् । अति तद्य-ज्ञस्य रेचयेत् । एकँ ँ! स्तम्बं परिदिशेत् । तँ सर्वं दायात् ४

यज्ञस्यानतिरेकाय । वर्षवृद्धमसीत्याह । वर्षवृद्धा वा ओषधयः । देवबर्हिरित्याह । देवेभ्य एवैनत्करोति । मा त्वान्वङ्मा तिर्यगित्याहाहिँ सायै । पर्व ते राध्यासमित्याहर्ध्यै । आच्छेत्ता ते मा रिषमित्याह । नास्यात्मनो मीयते । य एवं वेद ५

देव बर्हिश्शतवल्शं विरोहेत्याह । प्रजा वै बर्हिः । प्रजानां प्रजननाय । सहस्रवल्शा वि वयँ रुहेमेत्याह । आशिषमेवैतामाशास्ते । पृथिव्याः संपृचः पाहीत्याह प्रतिष्ठित्यै । अयुं गायुं गान्मुष्टीँ ल्लुनोति । मिथुनत्वाय प्रजात्यै । सुसंभृता त्वा संभरामीत्याह । ब्रह्मणैवैनत्संभरति ६

अदित्यै रास्नासीत्याह । इयं वा अदितिः । अस्या एवैनद्रा स्नां करोति । इन्द्रा ण्यै संनहनमित्याह । इन्द्रा णी वा अग्रे देवतानाँ समनह्यत । सार्ध्नोत् । ऋद्ध्यै संनह्यति । प्रजा वै बर्हिः । प्रजानामपरावापाय । तस्मात्स्नावसंतताः प्रजा जायन्ते ७

पूषा ते ग्रन्थिं ग्रथ्नात्वित्याह । पुष्टिमेव यजमाने दधाति । स ते मा स्थादित्याहाहिँ सायै । पश्चात्प्राञ्चमुपगूहति । पश्चाद्वै प्राचीनँ रेतो धीयते । पश्चादेवास्मै प्राचीनँ रेतो दधाति । इन्द्र स्य त्वा बाहुभ्यामुद्यच्छ इत्याह । इन्द्रि यमेव यजमाने दधाति । बृहस्पतेर्मूर्ध्ना हरामीत्याह । ब्रह्म वै देवानां बृहस्पतिः ८

ब्रह्मणैवैनद्धरति । उर्वन्तरिक्षमन्विहीत्याह गत्यै । देवंगममसीत्याह । देवानेवैनद्गमयति । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ९

3.2.3
पूर्वेद्युरिध्माबर्हिः करोति । यज्ञमेवारभ्य गृहीत्वोपवसति । प्रजापतिर्यज्ञमसृजत । तस्योखे अस्रँ सेताम् । यज्ञो वै प्रजापतिः । यत्सांनाय्योखे भवतः । यज्ञस्यैव तदुखे उपदधात्यप्रस्रँ साय । शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्याह । देवयज्याया एवैनानि शुन्धति । मातरिश्वनो घर्मोऽसीत्याह १

अन्तरिक्षं वै मातरिश्वनो घर्मः । एषां लोकानं विधृत्यै । द्यौरसि पृथिव्यसीत्याह । दिवश्च ह्येषा पृथिव्याश्च संभृता । यदुखा । तस्मादेवमाह । विश्वधाया असि परमेण धाम्नेत्याह । वृष्टिर्वै विश्वधायाः । वृष्टिमेवावरुन्धे । दृँ हस्व मा ह्वारित्याह धृत्यै २

वसूनां पवित्रमसीत्याह । प्राणा वै वसवः । तेषां वा एतद्भागधेयम् । यत्पवित्रम् । तेभ्य एवैनत्करोति । शतधारँ सहस्रधारमित्याह । प्राणेष्वेवायुर्दधाति सर्वत्वाय । त्रिवृत्पलाशशाखायां दर्भमयं भवति । त्रिवृद्वै प्राणः । त्रिवृतमेव प्राणं मध्यतो यजमाने दधाति ३

सौम्यः पर्णः सयोनित्वाय । साक्षात्पवित्रं दर्भाः । प्राक्सायमधिनिदधाति । तत्प्राणापानयो रूपम् । तिर्यक्प्रातः । तद्दर्शस्य रूपम् । दार्श्यँ ह्येतदहः । अन्नं वै चन्द्र माः । अन्नं प्राणाः । उभयमेवोपैत्यजामित्वाय ४

तस्मादयँ सर्वतः पवते । हुतः स्तोको हुतो द्र प्स इत्याह प्रतिष्ठित्यै । हविशोऽस्कन्दाय । न हि हुतँ स्वाहाकृतँ स्कन्दति । दिवि नाको नामाग्निः । तस्य विप्रुषो भागधेयम् । अग्नये बृहते नाकायेत्याह । नाकमेवाग्निं भागधेयेन समर्धयति । स्वाहा द्यावापृथिवीभ्यामित्याह । द्यावापृथि-व्योरेवैनत्प्रतिष्ठापयति ५

पवित्रवत्यानयति । अपां चैवौषधीनां च रसँ सँ सृजति । अथो ओषधीष्वेव पशून्प्रतिष्ठापयति । अन्वारभ्य वाचं यच्छति । यज्ञस्य धृत्यै । धारयन्नास्ते । धारयन्त इव हि दुहन्ति । कामधुक्ष इत्याहा तृतीयस्यै । त्रय इमे लोकाः । इमानेव लोकान्यजमानो दुहे ६

अमूमिति नाम गृह्णाति । भद्र मेवासां कर्माविष्करोति । सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मेत्याह । इयं वै विश्वायुः । अन्तरिक्षं विश्वव्यचाः । असौ विश्वकर्मा । इमानेवैताभिर्लोकान्यथापूर्वं दुहे । अथो यथा प्रदात्रे पुण्यमाशास्ते । एवमेवैना एतदुपस्तौति । तस्मात्प्रादादित्युन्नीय वन्दमाना उपस्तुवन्तः पशून्दुहन्ति ७

बहु दुग्धीन्द्रा य देवेभ्यो हविरिति वाचं विसृजते । यथादेवतमेव प्रसौति । दैव्यस्य च मानुषस्य च व्यावृत्त्यै । त्रिराह । त्रिषत्या हि देवाः । अवाचंयमोऽनन्वारभ्योत्तराः । अपरिमितमेवावरुन्धे । न दारुपात्रेण दुह्यात् । अग्निवद्वै दारुपात्रम् । यद्दारुपात्रेण दुह्यात् ८

यातयाम्ना हविषा यजेत । अथो खल्वाहुः । पुरोडाशमुखानि वै हवीँ षि । नेतैतः पुरोडाशँ हविषो यामोऽस्तीति । काममेव दारुपात्रेण दुह्यात् । शूद्र एव न दुह्यात् । असतो वा एष संभूतः । यच्छूद्र ः! । अहविरेव तदित्याहुः । यच्छूद्रो दोग्धीति ९

अग्निहोत्रमेव न दुह्याच्छूद्र ः! । तद्धि नोत्पुनन्ति । यदा खलु वै पवित्रमत्येति । अथ तद्धविरिति । संपृच्यध्वमृतावरीरित्याह । अपां चैवौषधीनां च रसँ सँ सृजति । तस्मादपां चौषधीनां च रसमुपजीवामः । मन्द्रा धनस्य सातय इत्याह । पुष्टिमेव यजमाने दधाति । सोमेन त्वातनच्मीन्द्रा य दधीत्याह १०

सोममेवैनत्करोति । यो वै सोमं भक्षयित्वा । संवत्सरँ सोमं न पिबति । पुनर्भक्ष्योऽस्य सोमपीथो भवति । सोमः खलु वै सांनाय्यम् । य एवं विद्वान्त्सांनाय्यं पिबति । अपुनर्भक्ष्योऽस्य सोमपीथो भवति । न मृन्मयेनापिदध्यात् । यन्मृन्मयेनापिदध्यात् । पितृदेवत्यँ स्यात् ११

अयस्पात्रेण वा दारुपात्रेण वापिदधाति । तद्धि सदेवम् । उदन्वद्भवति । आपो वै रक्षोघ्नीः । रक्षसामपहत्यै । अदस्तमसि विष्णवे त्वेत्याह । यज्ञो वै विष्णुः । यज्ञायैवैनददस्तं करोति । विष्णो हव्यँ रक्षस्वेत्याह गुप्त्यै । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै १२

3.2.4
कर्मणे वां देवेभ्यश्शकेयमित्याह शक्त्यै । यज्ञस्य वै संततिमनु प्रजाः पशवो यजमानस्य संतायन्ते । यज्ञस्य विच्छित्तिमनु प्रजाः पशवो यजमानस्य विच्छिद्यन्ते । यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येत्याहवनीयात्संतनोति । यजमानस्य प्रजायै पशूनाँ संतत्यै । अपः प्रणयति । श्रद्धा वा आपः श्रद्धामेवारब्य प्रणीय प्रचरति । अपः प्रणयति । यज्ञो वा आपः १

यज्ञमेवारभ्य प्रणीय प्रचरति । अपः प्रणयति । वज्रो वा आपः । वज्रमेव भ्रातृव्येभ्यः प्रहृत्य प्रणीय प्रचरति । अपः प्रणयति । आपो वै रक्षोघ्नीः । रक्षसामपहत्यै । अपः प्रणयति । आपो वै देवानां प्रियं धाम । देवानामेव प्रियं धाम प्रणीय प्रचरति २

अपः प्रणयति । आपो वै सर्वा देवताः । देवता एवारभ्य प्रणीय प्रचरति । वेषाय त्वेत्याह । वेषाय ह्येनदादत्ते । प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । धूरसीत्याह । एष वै धुर्योऽग्निः । तं यदनुपस्पृश्यातीयात् ३

अध्वर्युं च यजमानं च प्रदहेत् । उपस्पृश्यात्येति । अध्वर्योश्च यजमानस्य चाप्रदाहाय । धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं दूर्वाम इत्याह । द्वौ वाव पुरुषौ । यं चैव धूर्वति । यश्चैनं धूर्वति । तावुभौ शुचार्पयति । त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतममित्याह । यथायजुरेवैतत् ४

अह्रुतमसि हविर्धानमित्याहानार्त्यै । दृँ हस्व मा ह्वारित्याह धृत्यै । मित्रस्य त्वा चक्षुषा प्रेक्ष इत्याह मित्रत्वाय । मा भेर्मा संविक्था मा त्वा हिँ सिषमि-त्याहाहिँ सायै । यद्वै किं च वातो नाभिवाति । तत्सर्वं वरुणदेवत्यम् । उरु वातायेत्याह । अवारुणमेवैनत्करोति । देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह ५

अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह । यत्यै । अग्नये जुष्टं निर्वपामीत्याह । अग्नय एवैनाञ्जुष्टं निर्वपति । त्रिर्यजुषा । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । तूष्णीं चतुर्थम् । अपरिमितमेवावरुन्धे । स एवमेवानुपूर्वँ हवीँ षि निर्वपति ६

इदं देवानामिदमु नः सहेत्याह व्यावृत्त्यै । स्फात्यै त्वा नारात्या इत्याह गुप्त्यै । तमसीव वा एषोऽन्तश्चरति । यः परीणहि । सुवरभि विख्येषं वैश्वानरं ज्योतिरित्याह । सुवरेवाभि विपश्यति वैश्वानरं ज्योतिः । द्यावापृथिवी हविषि गृहीत उदवेपेताम् । दृँ हन्तां दुर्या द्यावापृथिव्योरित्याह । गृहाणां द्यावापृथिव्योर्धृत्यै । उर्वन्तरिक्षमन्विहीत्याह गत्यै । अदित्यास्त्वोपस्थे सादयामीत्याह । इयं वा अदितिः । अस्या एवैनदुपस्थे सादयति । अग्ने हव्यँ रक्षस्वेत्याह गुप्त्यै ७

3.2.5
इन्द्रो वृत्रमहन्न् । सोऽपः । अभ्यम्रियत । तासां यन्मेध्यं यज्ञियँ सदेवमासीत् । तदपोदक्रामत् । ते दर्भा अभवन्न् । यद्दर्भैरप उत्पुनाति । या एव मेध्या यज्ञियाः सदेवा आपः । ताभिरेवैना उत्पुनाति । द्वाभ्यामुत्पुनाति १

द्विपाद्यजमानः प्रतिष्ठित्यै । देवो वः सवितोत्पुनात्वित्याह । सवितृप्रसूत एवैना उत्पुनाति । अच्छिद्रे ण पवित्रेणेत्याह । असौ वा अदित्योऽच्छिद्रं पवित्रम् । तेनैवैना उत्पुनाति । वसोः सूर्यस्य रश्मिभिरित्याह । प्राणा वा आपः प्राणा वसवः । प्राणा रश्मयः २

प्राणैरेव प्राणान्त्संपृणक्ति । सावित्रियर्चा । सवितृप्रसूतं मे कर्मासदिति । सवितृप्रसूतमेवास्य कर्म भवति । पच्छो गायत्रिया त्रिष्षमृद्धत्वाय । आपो देवीरग्रेपुवो अग्रेगुव इत्याह । रूपमेवासामेतन्महिमानं व्याचष्टे । अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह । अग्रे एव यज्ञं नयन्ति । अग्रे यज्ञपतिम् ३

युष्मानिन्द्रो ऽवृणीत वृत्रतूर्ये यूयमिन्द्र मवृणीध्वं वृत्रतूर्य इत्याह । वृत्रँ ह हनिष्यन्निन्द्र आपो वव्रे । आपो हेन्द्रं वव्रिरे । संज्ञामेवासामेतत्सामानं व्याचष्टे । प्रोक्षिताः स्थेत्याह । तेनापः प्रोक्षिताः । अग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्यामित्याह । यथादेवतमेवैनान्प्रोक्षति । त्रिः प्रोक्षति । त्र्यावृद्धि यज्ञः ४

अथो रक्षसामपहत्यै । शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्याह । देवयज्याया एवैनानि शुन्धति । त्रिः प्रोक्षति । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय । अवधूतँ रक्षोऽवधूता अरातय इत्याह । रक्षसामपहत्यै । अदित्यास्त्वगसीत्याह । इयं वा अदितिः ५

अस्या एवैनत्त्वचं करोति । प्रति त्वा पृथिवी वेत्त्वित्याह प्रतिष्ठित्यै । पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति मेध्यत्वाय । तस्मात्पुरस्तात्प्रत्यञ्चः पशावो मेधमुपतिष्ठन्ते । तस्मात्प्रजा मृगं ग्राहुकाः । यज्ञो देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । यत्कृष्णाजिने हविरध्यवहन्ति । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । हविषोऽस्कन्दाय ६

अधिषवणमसि वानस्पत्यमित्याह । अधिषवणमेवैनत्करोति । प्रति त्वादित्यास्त्वग्वेत्त्वित्याह सयत्वाय । अग्नेस्तनूरसीत्याह । अग्नेर्वा एषा तनूः । यदोषधयः । वाचो विसर्जनमित्याह । यदा हि प्रजा ओषधीनामश्नन्ति । अथ वाचं विसृजन्ते । देववीतये त्वा गृह्णामीत्याह ७

देवताभिरेवैनत्समर्धयति । अद्रि रसि वानस्पत्य इत्याह । ग्रावाणमे-वैनत्करोति । स इदं देवेभ्यो हव्यँ सुशमि शमिष्वेत्याह शान्त्यै । हवि-ष्कृदेहीत्याह । य एव देवानाँ हविष्कृतः । तान्ह्व्यति । त्रिर्ह्वयति । त्रिषत्या हि देवाः । इषमावदोर्जमावदेत्याह ८

इषमेवोर्जं यजमाने दधाति । द्युमद्वदत वयँ संघातं जेष्मेत्याह भ्रातृव्याभिभूत्यै । मनोः श्रद्धादेवस्य यजमानस्यासुरघ्नी वाक् । यज्ञायुधेषु प्रविष्टासीत् । तेऽसुरा यावन्तो यज्ञायुधानामुद्वदतामुपाशृण्वन्न् । ते पराभवन् । तस्मात्स्वा-नां मध्येऽवसाय यजेत । यावन्तोऽस्य भ्रातृव्या यज्ञायुधा-नामुद्वदतामुपशृण्वन्ति । ते पराभवन्ति । उच्चैः समाहन्तवा आह विजित्यै ९

वृङ्क्त एषामिन्द्रि यं वीर्यम् । श्रेष्ठ एषां भवति । वर्षवृद्धमसि प्रति त्वा वर्षवृद्धं वेत्त्वित्याह । वर्षवृद्धा वा ओषधयः । वर्षवृद्धा इषीकाः समृद्ध्यै । यज्ञँ रक्षाँ स्यनु प्राविशन् । तान्यस्ना पशुभ्यो निरवादयन्त । तुषैरोषधीभ्यः । परापूतँ रक्षः परापूता अरातय इत्याह । रक्षसामपहत्यै १०

रक्षसां भागोऽसीत्याह । तुषैरेव रक्षाँ सि निरवदयते । अप उपस्पृशति मेध्यत्वाय । वायुर्वो विविनक्त्वित्याह । पवित्रं वै वायुः । पुनात्येवैनान् । अन्तरिक्षादिव वा एते प्रस्कन्दन्ति । ये शूर्पात् । देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वित्याह प्रतिष्ठित्यै । हविषोऽस्कन्दाय । त्रिष्फलीकर्तवा आह । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय ११

3.2.6
अवधूतँ रक्षोऽवधूता अरातय इत्याह । रक्षसामपहत्यै । अदित्या-स्त्वगसीत्याह । इयं वा अदितिः । अस्या एवैनत्त्वचं करोति । प्रति त्वा पृथिवी वेत्त्वित्याह प्रतिष्ठित्यै । पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति मेध्यत्वाय । तस्मात्पुरस्तात्प्रत्यञ्चः पशवो मेधमुपतिष्ठन्ते । तस्मा-त्प्रजा मृगं ग्राहुकाः । यज्ञो देवेभ्यो निलायत १

कृष्णो रूपं कृत्वा । यत्कृष्णाजिने हविरधिपिनष्टि । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । हविषोऽस्कन्दाय । द्यावापृथिवी सहास्ताम् । ते शम्यामात्रमेकमहर्व्यैताँ शम्यामात्रमेकमहः । दिवः स्कम्भनिरसि प्रति त्वादित्यास्त्वग्वेत्त्वित्याह । द्यावापृथिव्योर्वीत्यै । धिषणासि पर्वत्या प्रति त्वा दिवः स्कम्भनिर्वेत्त्वित्याह । द्यावापृथिव्योर्विधृत्यै २

धिषणासि पार्वतेयी प्रति त्वा पर्वतिर्वेत्त्वित्याह । द्यावापृथिव्योर्धृत्यै । देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । अधिवपामीत्याह । यथादेवतमेवैनानधिवपति । धान्यमसि धिनुहि देवानित्याह । एतस्य यजुषो वीर्येण ३

यावदेका देवता कामयते यावदेका । तावदाहुतिः प्रथते । न हि तदस्ति । यत्तावदेव स्यात् । यावज्जुहोति । प्राणाय त्वापानाय त्वेत्याह । प्राणानेव यजमाने दधाति । दीर्घामनु प्रसितिमायुषे धामित्याह । आयुरेवास्मिन्दधाति । अन्तरिक्षादिव वा एतानि प्रस्कन्दन्ति । यानि दृषदः । देवो वः सविता हिरण्यपानिः प्रति गृह्णात्वित्याह प्रतिष्ठित्यै । हविषोऽस्कन्दाय । असंवपन्ती पिँ षाणूनि कुरुतादित्याह मेध्यत्वाय ४

3.2.7
धृष्टिरसि ब्रह्म यच्छेत्याह धृत्यै । अपाग्नेऽग्निमामादं जहि निष्क्रव्यादँ सेधा देवयजं वहेत्याह । य एवामात्क्रव्यात् । तमपहत्य । मेध्येऽग्नौ कपालमुपदधाति । निर्दग्धँ रक्षो निर्दग्धा अरातय इत्याह । रक्षाँ स्येव निर्दहति । अग्निवत्युपदधाति । अस्मिन्नेव लोके ज्योतिर्धत्ते । अङ्गारमधिवर्तयति १

अन्तरिक्ष एव ज्योतिर्धत्ते । आदित्यमेवामुष्मिन्लोके ज्योतिर्धत्ते । ज्योतिष्मन्तोऽस्मा इमे लोका भवन्ति । य एवं वेद । ध्रुवमसि पृथिवीं दृँ हेत्याह । पृथिवीमेवैतेन दृँ हति । धर्त्रमस्यन्तरिक्षं दृँ हेत्याह । अन्तरि-क्षमेवैतेन दृँ हति । धरुणमसि दिवं दृँ हेत्याह । दिवमेवैतेन दृँ हति २

धर्मासि दिशो दृँ हेत्याह । दिश एवैतेन दृँ हति । इमानेवैतैर्लोकान्दृँ हति । दृँ हन्तेऽस्मा इमे लोकाः प्रजया पशुभिः । य एवं वेद । त्रीण्यग्रे कपा-लान्युपदधाति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । एकमग्रे कपालमुपदधाति । एकं वा अग्रे कपालं पुरुषस्य संभवति ३

अथ द्वे । अथ त्रीणि । अथ चत्वारि । अथाष्टौ । तस्मादष्टाकपालं पुरुषस्य शिरः । यदेवं कपालान्युपदधाति । यज्ञो वै प्रजापतिः । यज्ञमेव प्रजापतिँ सँ स्करोति । आत्मानमेव तत्सँ स्करोति । तँ सँ स्कृतमात्मानम् ४

अमुष्मिँ ल्लोकेऽनु परैति । यदष्टावुपदधाति । गायत्रिया तत्संमितम् । यन्नव । त्रिवृता तत् । यद्दश । विराजा तत् । यदेकादश । त्रिष्टुभा तत् । यद्द्वादश ५

जगत्या तत् । छन्दःसंमितानि स उपदधत्कपालानि । इमान्लोकाननुपूर्वं दिशो विधृत्यै दृँ हति । अथायुः प्राणान्प्रजां पशून्यजमाने दधाति । सजातानस्मा अभितो बहुलान्करोति । चितः स्थेत्याह । यथायजुरेवैतत् । भृगूणामङ्गिरसां तपसा तप्यध्वमित्याह । देवतानामेवैनानि तपसा तपति । तानि ततः सँ स्थिते । यानि घर्मे कपालान्युपचिन्वन्ति वेधस इति चतुष्पदयर्चा विमुञ्चति । चतुष्पादः पशवः । पशुष्वेवोपरिष्टात्प्रतितिष्ठति ६

3.2.8
देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । संवपामीत्याह । यथादेवतमेवैनानि संवपति । समापो अद्भिरग्मत समोषधयो रसेनेत्याह । आपो वा ओषधीर्जिन्वन्ति । ओषधयोऽपो जिन्वन्ति । अन्या वा एतासामन्या जिन्वन्ति ७

तस्मादेवमाह । सँ रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिः सृज्यध्वमित्याह । आपो वै रेवतीः । पशवो जगतीः । ओषधयो मधुमतीः । आप ओषधीः पशून् । तानेवास्मा एकधा सँ सृज्य । मधुमतः करोति । अद्भ्यः परि प्रजाताः स्थ समद्भिः पृच्यध्वमिति पर्याप्लावयति । यथा सुवृष्ट इमामनुविसृत्य ८

आप ओषधीर्महयन्ति । तादृगेव तत् । जनयत्यै त्वा संयौमीत्याह । प्रजा एवैतेन दाधार । अग्नये त्वाग्नीषोमाभ्यामित्याह व्यावृत्त्यै । मखस्य शिरो-ऽसीत्याह । यज्ञो वै मखः । तस्यैतच्छिरः । यत्पुरोडाशः । तस्मादेवमाह ९

घर्मोऽसि विश्वायुरित्याह । विश्वमेवायुर्यजमाने दधाति । उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामित्याह । यजमानमेव प्रजया पशुभिः प्रथयति । त्वचं गृह्णीष्वेत्याह । सर्वमेवैनँ सतनुं करोति । अथाप आनीय परि मार्ष्टि । माँ स एव तत्त्वचं दधाति । तस्मात्त्वचा माँ सं छन्नम् । घर्मो वा एषोऽशान्तः १०

अर्धमासेऽर्धमासे प्रवृज्यते । यत्पुरोडाशः । स ईश्वरो यजमानँ शुचा प्रदहः । पर्यग्नि करोति । पशुमेवैनमकः । शान्त्या अप्रदाहाय । त्रिः पर्यग्नि करोति । त्र्! यावृद्धि यज्ञः । अथो रक्षसामपहत्यै । अन्तरितँ रक्षोऽन्तरिता अरातय इत्याह ११

रक्षसामन्तर्हित्यै । पुरोडाशं वा अधिश्रितँ रक्षाँ स्यजिघाँ सन् । दिवि नाको नामाग्नी रक्षोहा । स एवास्माद्र क्षाँ स्यपाहन्न् । देवस्त्वा सविता श्रपयत्वित्याह । सवितृप्रसूत एवैनँ श्रपयति । वर्षिष्ठे अधि नाक इत्याह । रक्षसामपहत्यै । अग्निस्ते तनुवं मातिधागित्याहानतिदाहाय । अग्ने हव्यँ रक्षस्वेत्याह गुप्त्यै १२

अविदहन्तश्श्रपयतेति वाचं विसृजते । यज्ञमेव हवीँ श्यभिव्याहृत्य प्रतनुते । पुरोरुचमविदाहाय शृत्यै करोति । मस्तिष्को वै पुरोडाशः । तं यन्नाभिवासयेत् । आविर्मस्तिष्कः स्यात् । अभिवासयति । तस्माद्गुहा मस्तिष्कः । भस्मनाभिवासयति । तस्मान्माँ सेनास्थि छन्नम् १३

वेदेनाभिवासयति । तस्मात्केशैः शिरश्छन्नम् । अखलतिभावुको भवति । य एवं वेद । पशोर्वै प्रतिमा पुरोडाशः । स नायजुष्कमभिवास्यः । वृथेव स्यात् । ईश्वरा यजमानस्य पशवः प्रमेतोः । सं ब्रह्मणा पृच्यस्वेत्याह । प्राणा वै ब्रह्म १४

प्राणाः पशवः । प्राणैरेव पशून्त्संपृणक्ति । न प्रमायुका भवन्ति । यजमानो वै पुरोडाशः । प्रजा पशवः पुरीषम् । यदेवमभिवासयति । यजमानमेव प्रजया पशुभिः समर्धयति । देवा वै हविर्भृत्वाब्रुवन्न् । कस्मिन्निदं म्रक्ष्यामह इति । सोऽग्निरब्रवीत् १५

मयि तनूः सं निधद्ध्वम् । अहं वस्तं जनयिष्यामि । यस्मिन्म्रक्ष्यध्व इति । ते देवा अग्नौ तनूः सं न्यदधत । तस्मादाहुः । अग्निः सर्वा देवता इति । सोऽङ्गारेणापः । अभ्यपातयत् । तत एकतोऽजायत । स द्वितीय-मभ्यपातयत् १६

ततो द्वितोऽजायत । स तृतीयमभ्यपातयत् । ततस्त्रितोऽजायत । यद-द्भ्योऽजायन्त । तदाप्यानामाप्यत्वम् । यदात्मभ्योऽजायन्त । तदात्म्या-नामात्म्यत्वम् । ते देवा आप्येष्वमृजत । आप्या अमृजत सूर्याभ्युदिते । सूर्याभ्युदितः सूर्याभिनिम्रुक्ते १७

सूर्याभिनिम्रुक्तः कुनखिनि । कुनखी श्यावदति । श्यावदन्नग्रदिधिषौ । अग्रदिधिषुः परिवित्ते । परिवित्तो वीरहणि । वीरहा ब्रह्महणि तद्ब्रह्महणं नात्यच्यवत । अन्तर्वेदि निनयत्यवरुध्यै । उल्मुकेनाभिगृह्णाति शृतत्वाय । शृतकामा इव हि देवाः १८

3.2.9
देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । आदद इन्द्र स्य बाहुरसि दक्षिण इत्याह । इन्द्रि यमेव यजमाने दधाति । सहस्रभृष्टिः शततेजा इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । वायुरसि तिग्मतेजा इत्याह । तेजो वै वायुः १

तेज एवास्मिन्दधाति । विषाद्वै नामासुर आसीत् । सोऽबिभेत् । यज्ञेन मा देवा अभिभविष्यन्तीति । स पृथिवीमभ्यवमीत् । सामेध्याभवत् । अथो यदिन्द्रो वृत्रमहन् । तस्य लोहितं पृथिवीमनु व्यधावत् । सामेध्याभवत् । पृथिवि देवयजनीत्याह २

मेध्यामेवैनां देवयजनीं करोति । ओषध्यास्ते मूलं मा हिँ सिषमित्याह । ओषधीनामहिँ सायै । व्रजं गच्छ गोस्थानमित्याह । छन्दाँ सि वै व्रजो गोस्थानः । छन्दाँ स्येवास्मै व्रजं गोस्थानं करोति । वर्षतु ते द्यौरित्याह । वृष्टिर्वै द्यौः । वृष्टिमेवावरुन्धे । बधान देव सवितः परमस्यां परावतीत्याह ३

द्वौ वाव पुरुषौ । यं चैव द्वेष्टि । यश्चैनं द्वेष्टि । तावुभौ बध्नाति परमस्यां परावति शतेन पाशैः । योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगित्याहा-निम्रुक्त्यै । अररुर्वै नामासुर आसीत् । स पृथिव्यामुपम्लुप्तोऽशयत् । तं देवा अपहतोऽररुः पृथिव्या इति पृथिव्या अपाघ्नन्न् । भ्रातृव्यो वा अररुः । अपहतोऽररुः पृथिव्या इति यदाह ४

भ्रातृव्यमेव पृथिव्या अपहन्ति । तेऽमन्यन्त । दिवं वा अयमितः पतिष्यतीति । तमररुस्ते दिवं मा स्कानिति दिवः पर्यबाधन्त । भ्रातृव्यो वा अररुः । अररुस्ते दिवं मा स्कानिति यदाह । भ्रातृव्यमेव दिवः परिबाधते । स्तम्बयजुर्हरति । पृथिव्या एव भ्रातृव्यमपहन्ति । द्वितीयँ हरति ५

अन्तरिक्षादेवैनमपहन्ति । तृतीयँ हरति । दिव एवैनमपहन्ति । तूष्णीं चतुर्थँ हरति । अपरिमितादेवैनमपहन्ति । असुराणां वा इयमग्र आसीत् । यावदासीनः परापश्यति । तावद्देवानाम् । ते देवा अब्रुवन् । अस्त्वेव नोऽस्यामपीति ६

क्यन्नो दास्यथेति । यावत्स्वयं परिगृह्णीथेति । ते वसवस्त्वेति दक्षिणतः पर्यगृह्णन्न् । रुद्रा स्त्वेति पश्चात् । आदित्यास्त्वेत्युत्तरतः । तेऽग्निना प्राञ्चोऽजयन्न् । वसुभिर्दक्षिणा । रुद्रै ः! प्रत्यञ्चः । आदित्यैरुदञ्चः । यस्यैवं विदुषो वेदिं परिगृह्णन्ति ७

भवत्यात्मना । परास्य भ्रातृव्यो भवति । देवस्य सवितुः सव इत्याह प्रसूत्यै । कर्म कृण्वन्ति वेधस इत्याह । इषितँ हि कर्म क्रियते । पृथिव्यै मेध्यं चामेध्यं च व्युदक्रामताम् । प्राचीनमुदीचीनं मेध्यम् । प्रतीचीनं दक्षिणामेध्यम् । प्राचीमुदीचीं प्रवणां करोति । मेध्यामेवैनां देवयजनीं करोति ८

प्राञ्चौ वेद्याँ वुन्नयति । आहवनियस्य परिगृहीत्यै । प्रतिची श्रोणी ।गार्हपत्यस्य परिगृहीत्यै । अथो मिथुनत्वाय । उद्धन्ति । यदेवास्या अमेध्यम् । तदपहन्ति । उद्धन्ति तस्मादोषधयः पराभवन्ति ९

मूलं छिनत्ति । भ्रातृव्यस्यैव मूलं छिनत्ति । मूलं वा अतितिष्ठद्र क्षाँ स्यनूत्पिपते । यद्धस्तेन छिन्द्यात् । कुनखिनीः प्रजाः स्युः । स्फ्येन छिनत्ति । वज्रो वै स्फ्यः । वज्रेणैव यज्ञाद्र क्षाँ स्यपहन्ति । पितृदेवत्यातिखाता । इयतीं खनति १०

प्रजापतिना यज्ञमुखेन संमिताम् । वेदिर्देवेभ्यो निलायत । तां चतुरङ्गुलेऽन्वविन्दन्न् । तस्माच्चतुरङ्गुलं खेया । चतुरङ्गुलं खनति । चतुरङ्गुले ह्योषधयः प्रतितिष्ठन्ति । आ प्रतिष्ठायै खनति । यजमानमेव प्रतिष्ठां गमयति । दक्षिणतो वर्षीयसीं करोति । देवयजनस्यैव रूपमकः ११

पुरीषवतीं करोति । प्रजा वै पशवः पुरीषम् । प्र्जयैवैनं पशुभिः पुरीषवन्तं करोति । उत्तरं परिग्राहं परिगृह्णाति । एतावती वै पृथिवी ।यावती वेदिः । तस्या एतावत एव भ्रातृव्यं निर्भज्य । आत्मन उत्तरं परिग्राहं परिगृह्णाति । ऋतमस्यृतसदनमस्यृतश्रीरसीत्याह । यथायजुरेवैतत् १२

क्रूरमिव वा एतत्करोति । यद्वेदिं करोति । धा असि स्वधा असीति योयुप्यते शान्त्यै । उर्वी चासि वस्वी चासीत्याह । उर्वीमेवैनां वस्वीं करोति । पुरा क्रूरस्य विसृपो विरप्शिन्नित्याह मेध्यत्वाय । उदादाय पृथिवीं जीरदा-नुर्यामैरयन्चन्द्र मसि स्वधाभिरित्याह । यदेवास्या अमेध्यम् । तदपहत्य । मेध्यां देवयजनीं कृत्वा १३

यददश्चन्द्र मसि मेध्यम् । तदस्यामेरयति । तां धीरासो अनुदृश्य यजन्त इत्याहानुख्यात्यै । प्रोक्षणीरासादय । इध्माबर्हिरुपसादय । स्रुवं च स्रुचश्च संमृड्ढि । पत्नीँ संनह्य । आज्येनोदेहीत्याहानुपूर्वतायै । प्रोक्षणी-रासादयति । आपो वै रक्षोघ्नीः १४

रक्षसामपहत्यै । स्फ्यस्य वर्त्मन्त्सादयति । यज्ञस्य संतत्यै । उवाच हासितो दैवलः । एतावतीर्वा अमुष्मिँ ल्लोक आप आसन्न् । यावतीः प्रोक्षणीरिति । तस्माद्बह्वीरासाद्याः । स्फ्यमुदस्यन् । यं द्विष्यात्तं ध्यायेत् । शुचैवैनमर्पयति १५

3.2.10
वज्रो वै स्फ्यः । यदन्वञ्चं धारयेत् । वज्रेऽध्वर्युः क्षण्वीत । पुरस्तात्तिर्यञ्चं धारयति । वर्जो वै स्फ्यः । वज्रेणैव यज्ञस्य दक्षिणतो रक्षाँ स्यपहन्ति । अग्निभ्यां प्राचश्च प्रतीचश्च । स्फ्येनोदीचश्चाध्राचश्च । स्फ्येन वा एष वज्रेणास्यै पाप्मानं भ्रातृव्यमपहत्य । उत्करेऽधि प्रवृश्चति १

यथोपधाय वृश्चन्त्येवम् । हस्ताववनेनिक्ते । आत्मानमेव पवयते । स्फ्यं प्रक्षालयति मेध्यत्वाय । अथो पाप्मन एव भ्रातृव्यस्य न्यङ्गं छिनत्ति । इध्माबर्हिरुपसादयति युक्त्यै । यज्ञस्य मिथुनत्वाय । अथो पुरोरुचमेवैतां दधाति । उत्तरस्य कर्मणोऽनुख्यात्यै । न पुरस्तात्प्रत्यगुपसादयेत् २

यत्पुरस्तात्प्रत्यगुपसादयेत् । अन्यत्राहुतिपथादिध्मं प्रतिपादयेत् । प्रजा वै बर्हिः । अपराध्नुयाद्बर्हिषा प्रजानां प्रजननम् । पश्चात्प्रागुपसादयति । आहुतिपथेनेध्मं प्रतिपादयति । संप्रत्येव बर्हिषा प्रजानां प्रजननमुपैति । दक्षिणमिध्मम् । उत्तरं बर्हिः । आत्मा वा इध्मः । प्रजा बर्हिः । प्रजा ह्यात्मन उत्तरतरा तीर्थे । ततो मेधमुपनीय । यथादेवतमेवैनत्प्रतिष्ठापयति । प्रतितिष्ठति प्रजया पशुभिर्यजमानः ३