तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०६

पाशुकहोत्रम्

3.6.1
अञ्जन्ति त्वामध्वरे देवयन्तः । वनस्पते मधुना दैव्येन । यदूर्ध्वस्तिष्ठाद्द्रविणेह धत्तात् । यद्वा क्षयो मातुरस्या उपस्थे । उच्छ्रयस्व वनस्पते । वर्षमन्पृथिव्या अधि । सुमिती मीयमानः । वर्चो धा यज्ञवाहसे । समिद्धस्य श्रयमाणः पुरस्तात् । ब्रह्म वन्वानो अजरꣳ सुवीरम् १

आरे अस्मदमतिं बाधमानः । उच्छ्रयस्व महते सौभगाय । ऊर्ध्व ऊ षु ण ऊतये । तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिः । वाघद्भिर्विह्वयामहे । ऊर्ध्वो नः पाह्यꣳहसो निकेतुना । विश्वꣳ समत्त्रिणं दह । कृधी न ऊर्ध्वान्च रथाय जीवसे । विदा देवेषु नो दुवः २

जातो जायते सुदिनत्वे अह्नाम् । स मर्य आ विदथे वर्धमानः । पुनन्ति धीरा अपसो मनीषा । देवया विप्र उदिर्यति वाचम् । युवा सुवासाः परिवीत आगात् । स उ श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति । स्वाधियो मनसा देवयन्तः । पृथुपाजा अमर्त्यः । घृतनिर्णिक्स्वाहुतः । अग्निर्यज्ञस्य हव्यवाट् । तꣳ सबाधो यतस्रुचः । इत्था धिया यज्ञवन्तः । आचक्रुरग्निमूतये । त्वं वरुण उत मित्रो अग्ने । त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु । यूयं पात स्वस्तिभिः सदा नः ३

3.6.2
होता यक्षदग्निꣳ समिधा सुषमिधा समिद्धं नाभा पृथिव्याः संगथे वामस्य । वर्ष्मन्दिव इडस्पदे वेत्वाज्यस्य होतर्यज । होता यक्षत्तनूनपातमदितेर्गर्भं भुवनस्य गोपाम् । मध्वाद्य देवो देवेभ्यो देवयानान्पथो अनक्तु वेत्वाज्यस्य होतर्यज । होता यक्षन्नराशꣳसं नृशस्त्रं नॄꣳक्त्रणेत्रम् । गोभिर्वपावान्त्स्याद्वीरैः शक्तीवान्रथैः प्रथमयावा हिरण्यैश्चन्द्री वेत्वाज्यस्य होतर्यज । होता यक्षदग्निमिड ईडितो देवो देवाꣳ आवक्षद्दूतो हव्यवाडमूरः । उपेमं यज्ञमुपेमां देवो देवहूतिमवतु वेत्वाज्यस्य होतर्यज । होता यक्षद्बर्हिः सुष्टरीमोर्णम्रदा अस्मिन्यज्ञे वि च प्र च प्रथताꣳ स्वासस्थं देवेभ्यः । एमेनदद्य वसवो रुद्रा आदित्याः सदन्तु प्रियमिन्द्र स्यास्तु वेत्वाज्यस्य होतर्यज १

होता यक्षद्दुर ऋष्वाः कवष्योऽकोषधावनीरुदाताभिर्जिहतां वि पक्षोभिः श्रयन्ताम् । सुप्रायणा अस्मिन्यज्ञे विश्रयन्तामृतावृधो वियन्त्वाज्यस्य होतर्यज । होता यक्षदुषासानक्ता बृहती सुपेशसा नॄꣳक्त्!अतिभ्यो योनिं कृण्वाने । सꣳस्मयमाने इन्द्रे ण देवैरेदं बर्हिः सीदतां वीतामाज्यस्य होतर्यज । होता यक्षद्दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा । स्विष्टमद्यान्यः करदिषा स्वभिगूर्तमन्य ऊर्जा सतवसेमं यज्ञं दिवि देवेषु धत्तां वीतामाज्यस्य होतर्यज २

होता यक्षत्तिस्रो देवीरपसामपस्तमा अच्छिद्र मद्येदमपस्तन्वताम् । देवेभ्यो देवीर्देवमपो वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टारमचिष्टुमपाकꣳ रेतोधां विश्रवसं यशोधाम् । पुरुरूपमकामकर्शनꣳ सुपोषः पोषैः स्यात्सुवीरो वीरैर्वेत्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिमुपावस्रक्षद्धियो जोष्टारꣳ शशमन्नरः । स्वदात्स्वधितिरृतुथाद्य देवो देवेभ्यो हव्यावाड्वेत्वाज्यस्य होतर्यज । होता यक्षदग्निꣳ स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाꣳ स्वाहा स्वाहाकृतीनाꣳ स्वाहा हव्यसूक्तीनाम् । स्वाहा देवाꣳ आज्यपान्त्स्वा-हाग्निꣳ होत्राज्जुषाणा अग्न अज्यस्य वियन्तु होतर्यज ३

3.6.3
समिद्धो अद्य मनुषो दुरोणे । देवो देवान्यजसि जातवेदः । आ च वह मित्रमहश्चिकित्वान् । त्वं दूतः कविरसि प्रचेताः । तनूनपात्पथ ऋतस्य यानान् । मध्वा समञ्जन्त्स्वदया सुजिह्व । मन्मानि धीभिरुत यज्ञमृन्धन् । देवत्रा च कृणुह्यध्वरं नः । नराशꣳसस्य महिमानमेषाम् । उपस्तोषाम यजतस्य यज्ञैः १

ते सुक्रतवः शुचयो धियंधाः । स्वदन्तु देवा उभयानि हव्या । आजुह्वान ईड्यो वन्द्यश्च । आयाह्यग्ने वसुभिः सजोषाः । त्वं देवानामसि यह्व होता । स एनान्यक्षीषितो यजीयान् । प्राचीनं बर्हिः प्रदिशा पृथिव्याः । वस्तोरस्या वृज्यते अग्रे अह्नाम् । व्यु प्रथते वितरं वरीयः । देवेभ्यो अदितये स्योनम् २

व्यचस्वतीरुर्विया विश्रयन्ताम् । पतिभ्यो न जनयः शुम्भमानाः । देवीर्द्वारो बृहतीर्विश्वमिन्वाः । देवेभ्यो भवथ सुप्रायणाः । आ सुष्वयन्ती यजते उपाके । उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे । अधि श्रियꣳ शुक्रपिशं दधाने । दैव्या होतारा प्रथमा सुवाचा । मिमाना यज्ञं मनुषो यजध्यै ३

प्रचोदयन्ता विदथेषु कारू ।प्राचीनं ज्योतिः प्रदिशा दिशन्ता । आ नो यज्ञं भारती तूयमेतु । इडा मनुष्वदिह चेतयन्ती ।तिस्रो देवीर्बर्हिरेदꣳ स्योनम् । सरस्वतीः स्वपसः सदन्तु । य इमे द्यावापृथिवी जनित्री ।रूपैरपिꣳशद्भुवनानि विश्वा । तमद्य होतरिषितो यजीयान् । देवं त्वष्टारमिह यक्षि विद्वान् ४

उपावसृजत्त्मन्या समञ्जन् । देवानां पाथ ऋतुथा हवीꣳषि । वनस्पतिः शमिता देवो अग्निः । स्वदन्तु हव्यं मधुना घृतेन । सद्यो जातो व्यमिमीत यज्ञम् । अग्निर्देवानामभवत्पुरोगाः । अस्य होतुः प्रदिश्यृतस्य वाचि । स्वाहाकृतꣳ हविरदन्तु देवाः ५

3.6.4
अग्निर्होता नो अध्वरे । वाजी सन्परिणीयते । देवो देवेषु यज्ञियः । परि त्रिविष्ट्यध्वरम् । यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत् । परि वाजपतिः कविः । अग्निर्हव्यान्यक्रमीत् । दधद्र त्नानि दाशुषे १

3.6.5
अजैदग्निः । असनद्वाजं नि । देवो देवेभ्यो हव्या वाट् । प्राञ्जोभिर्हिन्वानः । धेनाभिः कल्पमानः । यज्ञस्यायुः प्रतिरन् । उपप्रेष्य होतः । हव्या देवेभ्यः १

3.6.6
दैव्याः शमितार उत मनुष्या आरभध्वम् । उपनयत मेध्या दुरः । आशासाना मेधपतिभ्यां मेधम् । प्रास्मा अग्निं भरत । स्तृणीत बर्हिः । अन्वेनं माता मन्यताम् । अनु पिता । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । उदीचीनाꣳ अस्य पदो निधत्तात् १

सूर्यं चक्षुर्गमयतात् । वातं प्राणमन्ववसृजतात् । दिशः श्रोत्रम् । अन्तरि-क्षमसुम् । पृथिवीꣳ शरीरम् । एकधास्य त्वचमाच्छ्यतात् । पुरा नाभ्या अपिशसो वपामुत्खिदतात् । अन्तरेवोष्माणं वारयतात् । श्येनमस्य वक्षः कृणुतात् । प्रशसा बाहू २

शला दोषणी ।कश्यपेवाꣳसा अच्छिद्रे श्रोणी ।कवषोरू स्रेकपर्णाष्ठीवन्ता । षड्विꣳशतिरस्य वङ्क्रयः । ता अनुष्ठ्योच्च्यावयतात् । गात्रंगात्रमस्यानूनं कृणुतात् । ऊवध्यगूहं पार्थिवं खनतात् । अस्ना रक्षः सꣳसृजतात् । वनिष्ठुमस्य मा राविष्ट ३

उरूकं मन्यमानाः । नेद्वस्तोके तनये । रविता रवच्छमितारः । अध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वमध्रिगो । अध्रिगुश्चापापश्च । उभौ देवानाꣳ शमितारौ । ताविमं पशुꣳ श्रपयतां प्रविद्वाꣳसौ । यथायथास्य श्रपणं तथातथा ४

3.6.7
जुषस्व सप्रथस्तमम् । वचो देवप्सरस्तमम् । हव्या जुह्वान आसनि । इमं नो यज्ञममृतेषु धेहि । इमा हव्या जातवेदो जुषस्व । स्तोकानामग्ने मेदसो घृतस्य । होतः प्राशान प्रथमो निषद्य । घृतवन्तः पावक ते । स्तोकाः श्चोतन्ति मेदसः । स्वधर्मं देववीतये १

श्रेष्ठं नो धेहि वार्यम् । तुभ्यꣳ स्तोका घृतश्चुतः । अग्ने विप्राय सन्त्य । ऋषिः श्रेष्ठः समिध्यसे । यज्ञस्य प्राविता भव । तुभ्यꣳ श्चोतन्त्यध्रिगो शचीवः । स्तोकासो अग्ने मेदसो घृतस्य । कविशस्तो बृहता भानुनागाः । हव्या जुषस्व मेधिर । ओजिष्ठं ते मध्यतो मेद उद्भृतम् । प्र ते वयं ददामहे । श्चोतन्ति ते वसो स्तोका अधि त्वचि । प्रति तान्देवशो विहि २

3.6.8
आ वृत्रहणा वृत्रहभिः शुष्मैः । इन्द्र यातं नमोभिरग्ने अर्वाक् । युवꣳ राधोभिरकवेभिरिन्द्र । अग्ने अस्मे भवतमुत्तमेभिः । होता यक्षदिन्द्रा ग्नी ।छागस्य वपाया मेदसः । जुषेताꣳ हविः । होतर्यज । वि ह्यख्यन्मनसा वस्य इच्छन् । इन्द्रा ग्नी ज्ञास उत वा सजातान् १

नान्या युवत्प्रमतिरस्ति मह्यम् । स वां धियं वाजयन्तीमतक्षम् । होता यक्षदिन्द्रा ग्नी ।पुरोडाशस्य जुषेताꣳ हविः । होतर्यज । त्वामीडते अजिरं दूत्याय । हविष्मन्तः सदमिन्मानुषासः । यस्य देवैरासदो बर्हिरग्ने । अहान्यस्मै सुदिना भवन्तु । होता यक्षदग्निम् । पुरोडाशस्य जुषताꣳ हविः । होतर्यज २

3.6.9
गीर्भिर्विप्रः प्रमतिमिच्छमानः । ईट्टे रयिं यशसं पूर्वभाजम् । इन्द्रा ग्नी वृत्रहणा सुवज्रा । प्र णो नव्येभिस्तिरतं देष्णैः । मा च्छेद्म रश्मीꣳरिति नाधमानाः । पितृणाꣳ शक्तीरनुयच्छमानाः । इन्द्रा ग्निभ्यां कं वृषणो मदन्ति । ता ह्यद्री धिषणाया उपस्थे । अग्निꣳ सुदीतिꣳ सुदृशं गृणन्तः । नमस्यामस्त्वेड्यं जातवेदः । त्वां दूतमरतिꣳ हव्यवाहम् । देवा अकृण्वन्नमृतस्य नाभिम् १

3.6.10
त्वꣳ ह्यग्ने प्रथमो मनोता । अस्या धियो अभवो दस्म होता । त्वꣳ सीं वृषन्नकृणोर्दुष्टरीतु । सहो विश्वस्मै सहसे सहध्यै । अधा होता न्यसीदो यजीयान् । इडस्पद इषयन्नीड्यः सन् । तं त्वा नरः प्रथमं देवयन्तः । महो राये चितयन्तो अनुग्मन् । वृतेव यन्तं बहुभिर्वसव्यैः । त्वे रयिं जागृवाꣳसो अनुग्मन् १

रुशन्तमग्निं दर्शतं बृहन्तम् । वपावन्तं विश्वहा दीदिवाꣳसम् । पदं देवस्य नमसा वियन्तः । श्रवस्यवः श्रव आपन्नमृक्तम् । नामानि चिद्दधिरे यज्ञियानि । भद्रा यां ते रणयन्त संदृष्टौ । त्वां वर्धन्ति क्षितयः पृथिव्याम् । त्वꣳ राय उभयासो जनानाम् । त्वं त्राता तरणे चेत्योऽभूः । पिता माता सदमि-न्मानुषाणाम् २

स पर्येण्यः स प्रियो विक्ष्वग्निः । होता मन्द्रो निषसादा यजीयान् । तं त्वा वयं दम आ दीदिवाꣳसम् । उप ज्ञुबाधो नमसा सदेम । तं त्वा वयꣳ सुधियो नव्यमग्ने । सुम्नायव ईमहे देवयन्तः । त्वं विशो अनयो दीद्यानः । दिवो अग्ने बृहता रोचनेन । विशां कविं विश्पतिꣳ शश्वतीनाम् । नितोशनं वृषभं चर्षणीनाम् ३

प्रेतीषणिमिषयन्तं पावकम् । राजन्तमग्निं यजतꣳ रयीणाम् । सो अग्न ईजे शशमे च मर्तः । यस्त आनट्समिधा हव्यदातिम् । य आहुतिं परि वेदा नमोभिः । विश्वेत्स वामा दधते त्वोतः । अस्मा उ ते महि महे विधेम । नमोभिरग्ने समिधोत हव्यैः । वेदी सूनो सहसो गीर्भिरुक्थैः । आ ते भद्रा याꣳ सुमतौ यतेम ४

आ यस्ततन्थ रोदसी वि भासा । श्रवोभिश्च श्रवस्यस्तरुत्रः । बृहद्भिर्वाजैः स्थविरेभिरस्मे । रेवद्भिरग्ने वितरं विभाहि । नृवद्वसो सदमिद्धेह्यस्मे । भूरि तोकाय तनयाय पश्वः । पूर्वीरिषो बृहतीरारे अघाः । अस्मे भद्रा सौश्रवसानि सन्तु । पुरूण्यग्ने पुरुधा त्वाया । वसूनि राजन्वसुता ते अश्याम् । पुरूणि हि त्वे पुरुवार सन्ति । अग्ने वसु विधते राजनि त्वे ५

3.6.11
आ भरतꣳ शिक्षतं वज्रबाहू ।अस्माꣳ इन्द्रा ग्नी अवतꣳ शचीभिः । इमे नु ते रश्मयः सूर्यस्य । येभिः सपित्वं पितरो न आयन् । होता यक्षदिन्द्रा ग्नी ।छागस्य हविष आत्तामद्य । मध्यतो मेद उद्भृतम् । पुरा द्वेषोभ्यः । पुरा पौरुषेय्या गृभः । घस्तां नूनम् १

घासेऽज्राणां यवसप्रथमानाम् । सुमत्क्षराणाꣳ शतरुद्रि याणाम् । अग्निष्वात्तानां पीवोपवसनानाम् । पार्श्वतः श्रोणितः शितामत उत्सादतः । अङ्गाद-ङ्गादवत्तानाम् । करत एवेन्द्र ग्नी ।जुषेताꣳ हविः । होतर्यज । देवेभ्यो वनस्पते हवीꣳषि । हिरण्यपर्ण प्रदिवस्ते अर्थम् २

प्रदक्षिणिद्र शनया नियूय । ऋतस्य वक्षि पथिभी रजिष्ठैः । होता यक्षद्वन-स्पतिम् । अभि हि । पिष्टतमया रभिष्ठया रशनयाधित । यत्रेन्द्रा ग्नियोश्छा-गस्य हविषः प्रिया धामानि । यत्र वनस्पतेः प्रिया पाथाꣳसि । यत्र देवाना-माज्यपानां प्रिया धामानि । यत्राग्नेर्होतुः प्रिया धामानि । तत्रैतं प्रस्तुत्ये-वोपस्तुत्येवोपावस्रक्षत् । रभीयाꣳसमिव कृत्वी ३

करदेवं देवो वनस्पतिः । जुषताꣳ हविः । होतर्यज । पिप्रीहि देवाꣳ उशतो यविष्ठ । विद्वाꣳ ऋतूꣳ ऋतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने । त्वꣳ होतॄणामस्यायजिष्ठाः । होता यक्षदग्निꣳ स्विष्टकृतम् । अयाडग्निरिन्द्रा ग्नियो-श्छागस्य हविषः प्रिया धामानि । अयाड्वनस्पतेः प्रिया पाथाꣳसि । अया-ड्देवानामाज्यपानां प्रिया धामानि । यक्षदग्नेर्होतुः प्रिया धामानि । यक्षत्स्वं महिमानम् । आयजतामेज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । होतर्यज ४

3.6.12
उपो ह यद्विदथं वाजिनो गूः । गीर्भिर्विप्राः प्रमतिमिच्छमानाः । अर्वन्तो न काष्ठां नक्षमाणाः । इन्द्रा ग्नी जोहुवतो नरस्ते । वनसपते रशनयाभिधाय । पिष्टतमया वयुनानि विद्वान् । वह देवत्रा दिधिषो हवीꣳषि । प्र च दातारममृतेषु वोचः । अग्निꣳ स्विष्टकृतम् । अयाडग्निरिन्द्रा ग्नियोश्छागस्य हविषः प्रिया धामानि १

अयाड्वनस्पतेः प्रिया पाथाꣳसि । अयाड्देवानामाज्यपानां प्रिया धामानि । यक्षदग्नेर्होतुः । प्रिया धामानि । यक्षत्स्वं महिमानम् । आयजतामेज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । अग्ने यदद्य विशो अध्वरस्य होतः । पावकशोचे वेष्ट्वꣳ हि यज्वा । ऋता यजासि महिना वि यद्भूः । हव्या वह यविष्ठ या ते अद्य २

3.6.13
देवं बर्हिः सुदेवं देवैः स्यात्सुवीरं वीरैर्वस्तोर्वृज्येताक्तोः प्रभ्रियेतात्यन्यान्राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज । देवीर्द्वारः संघाते विड्वीर्यामञ्शिथिरा ध्रुवा देवहूतौ वत्स ईमेनास्तरुण आमिमीयात्कुमारो वा नवजातो मैना अर्वा रेणुककाटः पृणग् । वसुवने वसुधेयस्य वियन्तु यज । देवी उषासानक्ताद्यास्मिन्यज्ञे प्रयत्यह्वेतामपि नूनं दैवीर्विशः प्रायासिष्टाꣳ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज । देवी जोष्ट्री वसुधिती ययोरन्याघा द्वेषाꣳसि युयवदान्या वक्षद्वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज । देवी ऊर्जाहुती इषमूर्जमन्यावक्षत्सग्धिꣳ सपीतिमन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अदःतां वसुवने वसुधेयस्य वीतां यज । देवा दैव्या होतारा नेष्टारा पोतारा हताघशꣳसावाभरद्वसू वसुवने वसुधेयस्य वीतां यज । देवीस्तिस्रस्तिस्रो देवीरिडा सरस्वती भारती द्यां भारत्यादित्यैरस्पृक्षत्सरस्वतीमꣳ रुद्रै र्यज्ञमावीदिहैवेडया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य वियन्तु यज । देवो नराशꣳसस्त्रिशीर्षा षडक्षः शतमिदेनꣳ शितिपृष्ठा आदधति सहस्रमीं प्रवहन्ति मित्रावरुणेदस्य होत्रमर्हतो बृहस्पतिः स्तोत्रमश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज । देवो वनस्पतिर्वर्षप्रावा घृतनिर्णिग्द्यामग्रेणास्पृक्ष-दान्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृꣳहीद्वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर्वारितीनां निधे धासि प्रच्युतीनामप्रच्युतं निकामधरणं पुरुस्पार्हं यशस्वदेना बर्हिषान्या बर्हीꣳष्यभिष्याम वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृत्सुद्र विणा मन्द्रः कविः सत्यमन्मायजी होता होतुर्होतुरा-यजीयानग्ने यान्देवानयाड्याꣳ अपिप्रेर्ये ते होत्रे अमत्सत ताꣳ ससनुषीꣳ होत्रां देवंगमां दिवि देवेषु यज्ञमेरयेमꣳ स्विष्टकृच्चाग्ने होताभूर्वसुवने वसुधेयस्य नमोवाके वीहि यज १

3.6.14
देवं बर्हिः । वसुवने वसुधेयस्य वेतु । देवीर्द्वारः । वसुवने वसुधेयस्य वियन्तु । देवी उषासानक्ता । वसुवने वसुधेयस्य वीताम् । देवी जोष्ट्री ।वसुवने वसुधेयस्य वीताम् । देवी ऊर्जाहुती ।वसुवने वसुधेयस्य वीताम् १

देवा दैव्या होतारा । वसुवने वसुधेयस्य वीताम् । देवीस्तिस्रस्तिस्रो देवीः । वसुवने वसुधेयस्य वियन्तु । देवो नराशꣳसः । वसुवने वसुधेयस्य वेतु । देवो वनस्पतिः । वसुवने वसुधेयस्य वेतु । देवं बर्हिर्वारितीनाम् । वसुवने वसुधेयस्य वेतु २

देवो अग्निर्स्विष्टकृत् । सुद्र विणा मन्द्रः कविः । सत्यमन्मायजी होता । होतुर्होतुरायजीयान् । अग्ने यान्देवानयाट् । याꣳ अपिप्रेः । ये ते होत्रे अमत्सत । ताꣳ ससनुषीꣳ होत्रां देवंगमाम् । दिवि देवेषु यज्ञमेरयेमम् । स्विष्टकृच्चाग्ने होताभुः । वसुवने वसुधेयस्य नमोवाके वीहि ३

3.6.15
अग्निमद्य होतारमवृणीतायं यजमानः पचन्पक्तीः पचन्पुरोडाशं बध्नन्निन्द्रा ग्निभ्यां छागꣳ। सूपस्था अद्य देवो वनस्पतिरभवदिन्द्रा ग्निभ्यां छागेनाघस्तां तं मेदस्तः प्रति पचताग्रभीष्टामवीवृधेतां पुरोडाशेन त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति । ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्स्वा च गुरस्वेषितश्च होतरसि भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि १