तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०७
अच्छिद्रकाण्डम्
3.7.1
सर्वान्वा एषोऽग्नौ कामान्प्रवेशयति । योऽग्नीनन्वाधाय व्रतमुपैति । स यदनिष्ट्वा प्रयायात् । अकामप्रीता एनं कामा नानु प्रयायुः । अतेजा अवीर्यः स्यात् । स जुहुयात् । तुभ्यं ता अङ्गिरस्तम । विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिर इति । कामानेवास्मिन्दधाति १
कामप्रीता एनं कामा अनु प्रयान्ति । तेजस्वी वीर्यावान्भवति । संततिर्वा एषा यज्ञस्य । योऽग्नीनन्वाधाय व्रतमुपैति । स यदुद्वायति । विच्छि-त्तिरेवास्य सा । तं प्राञ्चमुद्धृत्य । मनसोपतिष्ठेत । मनो वै प्रजापतिः । प्राजापत्यो यज्ञः २
मनसैव यज्ञꣳ संतनोति । भूरित्याह । भूतो वै प्रजापतिः । भूतिमेवोपैति । वि वा एष इन्द्रि येण वीर्येणर्ध्यते । यस्याहिताग्नेरग्निरपक्षायति । यावच्छम्यया प्रविध्येत् । यदि तावदपक्षायेत् । तꣳ संभरेत् । इदं त एकं पर उत एकम् ३
तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तनुवै चारुरेधि । प्रिये देवानां परमे जनित्र इति । ब्रह्मणैवैनꣳ संभरति । सैव ततः प्रायश्चित्तिः । यदि परस्तरामपक्षायेत् । अनुप्रयायावस्येत् । सो एव ततः प्रायश्चित्तिः । ओषधीर्वा एतस्य पशून्पयः प्रविशति । यस्य हविषे वत्सा अपाकृता धयन्ति ४
तान्यद्दुह्यात् । यातयाम्ना हविषा यजेत । यन्न दुह्यात् । यज्ञपरुरन्तरियात् । वायव्यां यवागूं निर्वपेत् । वायुर्वै पयसः प्रदापयिता । स एवास्मै पयः प्रदापयति । पयो वा ओषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे ५
अथोत्तरस्मै हविषे वत्सानपाकुर्यात् । सैव ततः प्रायश्चित्तिः । अन्यतरान्वा एष देवान्भागधेयेन व्यर्धयति । ये यजमानस्य सायं गृहमागच्छन्ति । यस्य सायंदुग्धꣳ हविरार्तिमार्च्छति । इन्द्रा य व्रीहीन्निरुप्योपवसेत् । पयो वा ओषधयः । पय एवारभ्य गृहीत्वोपवसति । यत्प्रातः स्यात् । तच्छृतं कुर्यात् ६
अथेतर ऐन्द्रः पुरोडाशः स्यात् । इन्द्रि ये एवास्मै समीची दधाति । पयो वा ओषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे । अथोत्तरस्मै हविषे वत्सानपाकुर्यात् । सैव ततः प्रायश्चित्तिः । उभयान्वा एष देवान्भागधेयेन व्यर्धयति । ये यजमानस्य सायं च प्रातश्च गृहमागच्छन्ति । यस्योभयꣳ हविरार्तिमार्छति ७
न्द्रैं! पञ्चशरावमोदनं निर्वपेत् । अग्निं देवतानां प्रथमं यजेत् । अग्निमुखा एव देवताः प्रीणाति । अग्निं वा अन्वन्या देवताः । इन्द्र मन्वन्याः । ता एवोभयीः प्रीणाति । पयो वा ओषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे । अथोत्तरस्मै हविषे वत्सानपाकुर्यात् ८
सैव ततः प्रायश्चित्तिः । अर्धो वा एतस्य यज्ञस्य मीयते । यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति । तामपरुध्य यजेत । सर्वेणैव यज्ञेन यजते । तामिष्ट्वोपह्वयेत । अमू हमस्मि । सा त्वम् । द्यौरहम् । पृथिवी त्वम् । सामाहम् । ऋक्त्वम् । तावेहि संभवाव । सह रेतो दधावहै । पुꣳ से पुत्राय वेत्तवै । रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति । अर्ध एवैनामुपह्वयते । सैव ततः प्रायश्चित्तिः ९
3.7.2
यद्विष्षण्णेन जुहुयात् । अप्रजा अपशुर्यजमानः स्यात् । यदनायतने निनयेत् । अनायतनः स्यात् । प्राजापत्ययर्चा वल्मीकवपायामवनयेत् । प्राजापत्यो वै वल्मीकः । यज्ञः प्रजापतिः । प्रजापतावेव यज्ञं प्रतिष्ठापयति । भूरित्याह । भूतो वै प्रजापतिः १
भूतिमेवोपैति । तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यत्कीटावपन्नेन जुहुयात् । अप्रजा अपशुर्यजमानः स्यात् । यदनायतने निनयेत् । अनायतनः स्यात् । मध्यमेन पर्णेन द्यावापृथिव्य-यर्चान्तःपरिधि निनयेत् । द्यावापृथिव्योरेवैनत्प्रतिष्ठापयति २
तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यदववृष्टेन जुहुयात् । अपरूपमस्यात्मन्जायेत । किलासो वा स्यादर्शसो वा । यत्प्रत्येयात् । यज्ञं विच्छिन्द्यात् । स जुहुयात् । मित्रो जनान्कल्पयति प्रजानन् ३
मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे । सत्याय हव्यं घृतवज्जुहोतेति । मित्रेणैवैनत्कल्पयति । तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यत्पूर्वस्यामाहुत्याꣳ हुतायामुत्तराहुतिः स्कन्देत् । द्विपाद्भिः पशुभिर्यजमानो व्यृध्येत । यदुत्तरयाभिजुहुयात् ४
चतुष्पाद्भिः पशुभिर्यजमानो व्यृध्येत । यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामयेति वानस्पत्ययर्चा समिधमाधाय । तूष्णीमेव पुनर्जुहुयात् । वनस्पतिनैव यज्ञस्यार्तां चानार्तां चाहुती विदाधार । तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यत्पुरा प्रयाजेभ्यः प्राङङ्गारः स्कन्देत् । अध्वर्यवे च यजमानाय चाकꣳ स्यात् ५
यद्दक्षिणा । ब्रह्मणे च यजमानाय चाकꣳ स्यात् । यत्प्रत्यक् । होत्रे च पत्नियै च यजमानाय चाकꣳ स्यात् । यदुदङ्।अग्नीधे च पशुभ्यश्च यजमानाय चाकꣳ स्यात् । यदभि जुहुयात् । रुद्रो ऽस्य पशून्घातुकः स्यात् । यन्नाभिजुहुयात् । अशान्तः प्रह्रियेत ६
स्रुवस्य बुध्नेनाभिनिदध्यात् । मा तमो मा यज्ञस्तमन्मा यजमानस्तमत् । नमस्ते अस्त्वायते । नमो रुद्र परायते । नमो यत्र निषीदसि । अमुं मा हिꣳ सीरमुं मा हिꣳ सीरिति येन स्कन्देत् । तं प्रहरेत् । सहस्रशृङ्गो वृषभो जातवेदाः । स्तोमपृष्ठो घृतवान्त्सुप्रतीकः । मा नो हासीन्मेत्थितो नेत्त्वा जहाम । गोपोषं नो वीरपोषं च यच्छेति । ब्रह्मणैवैनं प्रहरति । सैव ततः प्रायश्चित्तिः ७
3.7.3
वि वा एष इन्द्रियेण वीर्येणर्ध्यते । यस्याहिताग्नेरग्निर्मथ्यमानो न जायते । यत्रान्यं पश्येत् । तत आहृत्य होतव्यम् । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति । यद्यन्यं न विन्देत् । अजायाꣳ होतव्यम् । आग्नेयी वा एषा । यदजा । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति १
अजस्य तु नाश्नीयात् । यदजस्याश्नीयात् । यामेवाग्नावाहुतिं जुहुयात् । तामद्यात् । तस्मादजस्य नाश्यम् । यद्यजां न विन्देत् । ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् । एष वा अग्निर्वैश्वानरः । यद्ब्राह्मणः । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति २
ब्राह्मणं तु वसत्यै नापरुन्ध्यात् । यद्ब्राह्मणं वसत्या अपरुन्ध्यात् । यस्मिन्नेवाग्नावाहुतिं जुहुयात् । तं भागधेयेन व्यर्धयेत् । तस्माद्ब्राह्मणो वसत्यै नापरुध्यः । यदि ब्राह्मणं न विन्देत् । दर्भस्तम्बे होतव्यम् । अग्निवान्वै दर्भस्तम्बः । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति । दर्भाꣳ स्तु नाध्यासीत ३
यद्दर्भानध्यासीत । यामेवाग्नावाहुतिं जुहुयात् । तामध्यासीत । तस्माद्दर्भा नाध्यासितव्याः । यदि दर्भान्न विन्देत् । अप्सु होतव्यम् । आपो वै सर्वा देवताः । देवतास्वेवास्याग्निहोत्रꣳ हुतं भवति । आपस्तु न परिचक्षीत । यदापः परिचक्षीत ४
यामेवाप्स्वाहुतिं जुहुयात् । तां परिचक्षीत । तस्मादापो न परिचक्ष्याः । मेध्या च वा एतस्यामेध्या च तनुवौ सꣳ सृज्येते । यस्याहिताग्नेरन्यैरग्निभिरग्नयः सꣳ सृज्यन्ते । अग्नये विविचये पुरोडाशमष्टाकपालं निर्वपेत् । मेध्यां चैवास्यामेध्यां च तनुवौ व्यावर्तयति । अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् । अग्निमेव व्रतपतिꣳ स्वेन भागधेयेनोपधावति । स एवैनं व्रतमालम्भयति ५
गर्भꣳ स्रवन्तमगदमकः । अग्निरिन्द्र स्त्वष्टा बृहस्पतिः । पृथिव्यामवचुश्चोतैतत् । नाभि प्राप्नोति निरृतिं पराचैः । रेतो वा एतद्वाजिनमाहिताग्नेः । यदग्नि-होत्रम् । तद्यत्स्रवेत् । रेतोऽस्य वाजिनꣳ स्रवेत् । गर्भꣳ स्रवन्तमगदमकरित्याह । रेत एवास्मिन्वाजिनं दधाति ६
अग्निरित्याह । अग्निर्वै रेतोधाः । रेत एव तद्दधाति । इन्द्र इत्याह । इन्द्रि यमेवास्मिन्दधाति । त्वष्टेत्याह । त्वष्टा वै पशूनाम्मिथुनानाꣳ रूपकृत् । रूपमेव पशुषु दधाति । बृहस्पतिरित्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवास्मै प्रजाः प्रजनयति । पृथिव्यामवचुश्चोतैतदित्याह । अस्यामे-वैनत्प्रतिष्ठापयति नाभि प्राप्नोति निरृतिं पराचैरित्याह । रक्षसामपहत्यै ७
3.7.4
याः पुरस्तात्प्रस्रवन्ति । उपरिष्टात्सर्वतश्च याः । ताभी रश्मिपवित्राभिः । श्रद्धां यज्ञमारभे । देवा गातुविदः । गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन । वाताद्यज्ञः प्रयुज्यताम् । तृतीयस्यै दिवः । गायत्रिया सोम आभृतः १
सोमपीथाय संनयितुम् । वकलमन्तरमाददे । आपो देवीः शुद्धाः स्थ । इमा पात्राणि शुन्धत । उपातङ्क्याय देवानाम् । पर्णवल्कमुत शुन्धत । पयो गृहेषु पयो अघ्नियासु । पयो वत्सेषु पय इन्द्रा य हविषे ध्रियस्व । गायत्री पर्णवल्केन । पयः सोमं करोत्विमम् २
अग्निं गृह्णामि सुरथं यो मयोभूः । य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमम् । श्वो यज्ञाय रमतां देवताभ्यः । वसून्रुद्रा नादित्यान् । इन्द्रे ण सह देवताः । ताः पूर्वः परिगृह्णामि । स्व आयतने मनीषया । इमामूर्जं पञ्चदशीं ये प्रविष्टाः । तान्देवान्परिगृह्णामि पूर्वाः ३
अग्निर्हव्यवाडिह तानावहतु । पौर्णमासꣳ हविरिदमेषां मयि । आमावास्यꣳ हविरिदमेषां मयि । अन्तराग्नी पशवः । देवसꣳ सदमागमन् । तान्पूर्वः परिगृह्णामि । स्व आयतने मनीषया । इह प्रजा विश्वरूपा रमन्ताम् । अग्निं गृहपतिमभि संवसानाः । ताः पूर्वः परिगृह्णामि ४
स्व आयतने मनीषया । इह पशवो विश्वरूपा रमन्ताम् । अग्निं गृहपतिमभि संवसानाः । तान्पूर्वः परिगृह्णामि । स्व आयतने मनीषया । अयं पितृणामग्निः । अवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णामि । अविषं नः पितुं करत् । अजस्रं त्वाꣳ सभापालाः ५
विजयभागꣳ समिन्धताम् । अग्ने दीदाय मे सभ्य । विजित्यै शरदः शतम् । अन्नमावसथीयम् । अभिहराणि शरदः शतम् । आवसथे श्रियं मन्त्रम् । अहिर्बुध्नियो नियच्छतु । इदमहमग्निज्येष्ठेभ्यः । वसुभ्यो यज्ञं प्रब्रवीमि । इदमहमिन्द्र ज्येष्ठेभ्यः ६
रुद्रे भ्यो यज्ञं प्रब्रवीमि । इदमहं वरुणज्येष्ठेभ्यः । आदित्येभ्यो यज्ञं प्रब्रवीमि । पयस्वतीरोषधयः । पयस्वद्वीरुधां पयः । अपां पयसो यत्पयः । तेन मामिन्द्र सꣳ सृज । अग्ने व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते ७
व्रतानां व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । इमां प्राचीमुदीचीम् । इषमूर्जमभि सꣳ स्कृताम् । बहुपर्णामशुष्काग्राम् । हरामि पशुपामहम् । यत्कृष्णो रूपं कृत्वा । प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविꣳ शतिधा । संभरामि सुसंभृता ८
त्रीन्परिधीꣳ स्तिस्रः समिधः । यज्ञायुरनुसंचरान् । उपवेषं मेक्षणं धृष्टिम् । संभरामि सुसंभृता । या जाता ओषधयः । देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यासम् । परिस्तरमाहरन् । अपां मेध्यं यज्ञियम् । सदेवꣳ शिवमस्तु मे ९
आच्छेत्ता वो मा रिषम् । जीवानि शरदः शतम् । अपरिमितानां परिमिताः । संनह्ये सुकृताय कम् । एनो मा निगां कतमच्चनाहम् । पुनरुत्थाय बहुला भवन्तु । सकृदाच्छिन्नं बर्हिरूर्णामृदु । स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्त्सीदन्तु मे पितरः सोम्याः । पितामहाः प्रपितामहाश्चानुगैः सह १०
त्रिवृत्पलाशे दर्भः । इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमम् । पयो हव्यं करोतु मे । इमौ प्राणापानौ । यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरताम् । पवित्रे हव्यशोधने । पवित्रे स्थो वैष्णवी ।वायुर्वां मनसा पुनातु ११
अयं प्राणश्चापानश्च । यजमानमपिगच्छताम् । यज्ञे ह्यभूतां पोतारौ । पवित्रे हव्यशोधने । त्वया वेदिं विविदुः पृथिवीम् । त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान् । त्वया होता संतनोत्यर्धमसान् । त्रयस्त्रिꣳ शोऽसि तन्तूनाम् । पवित्रेण सहागहि १२
शिवेऽयꣳ रज्जुरभिधानी ।अघ्नियामुपसेवताम् । अप्रस्रꣳ साय यज्ञस्य । उखे उपदधाम्यहम् । पशुभिः संनीतं बिभृताम् । इन्द्रा य शृतं दधि । उपवेषोऽसि यज्ञाय । त्वां परिवेषमधारयन् । इन्द्रा य हविः कृण्वन्तः । शिवः शग्मो भवासि नः १३
अमृण्मयं देवपात्रम् । यज्ञस्यायुषि प्रयुज्यताम् । तिरःपवित्रमतिनीताः । आपो धारय मातिगुः । देवेन सवित्रोत्पूताः । वसोः सूर्यस्य रश्मिभिः । गां दोहपवित्रे रज्जुम् । सर्वा पात्राणि शुन्धत । एता आचरन्ति मधुमद्दुहानाः । प्रजावतीर्यशसो विश्वरूपाः १४
बह्वीर्भवन्तीरुप जायमानाः । इह व इन्द्रो रमयतु गावः । पूषा स्थ । अयक्ष्मा वः प्रजया सꣳ सृजामि । रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च । जीवो जीवन्तीरुप वः सदेयम् । द्यौश्चेमं यज्ञं पृथिवी च संदुहाताम् । धाता सोमेन सह वातेन वायुः । यजमानाय द्र विणं दधातु १५
उत्सं दुहन्ति कलशं चतुर्बिलम् । इडां देवीं मधुमतीꣳ सुवर्विदम् । तदिन्द्रा ग्नी जिन्वतꣳ सूनृतावत् । तद्यजमानममृतत्वे दधातु । कामधुक्षः प्र णो ब्रूहि । इन्द्रा य हविरिन्द्रि यम् । अमूं यस्यां देवानाम् । मनुष्याणां पयो हितम् । बहु दुग्धीन्द्रा य देवेभ्यः । हव्यमाप्यायतां पुनः १६
वत्सेभ्यो मनुष्येभ्यः । पुनर्दोहाय कल्पताम् । यज्ञस्य संततिरसि । यज्ञस्य त्वा संततिमनु संतनोमि । अदस्तमसि विष्णवे त्वा । यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण । याः पूताः परिशेरते । अयं पयः सोमं कृत्वा । स्वां योनिमपिगच्छतु १७
पर्णवल्कः पवित्रम् । सौम्यः सोमाद्धि निर्मितः । इमौ पर्णं च दर्भं च । देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि । उभावग्नी उपस्तृणते । देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि । मह्यं गोपतये पशून् १८
3.7.5
देवा देवेषु पराक्रमध्वम् । प्रथमा द्वितीयेषु । द्वितीयास्तृतीयेषु । त्रिरेकादशा इह मावत । इदꣳ शकेयं यदिदं करोमि । आत्मा करोत्वात्मने । इदं करिष्ये भेषजम् । इदं मे विश्वभेषजा । अश्विना प्रावतं युवम् । इदमहꣳ सेनाया अभीत्वर्यै १
मुखमपोहामि । सूर्यज्योतिर्विभाहि । महत इन्द्रि याय । आप्यायतां घृतयोनिः । अग्निर्हव्यानुमन्यताम् । खमङ्क्ष्व त्वचमङ्क्ष्व । सुरूपं त्वा वसुविदम् । पशूनां तेजसा । अग्नये जुष्टमभिघारयामि । स्योनं ते सदनं करोमि २
घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्त्सीदामृते प्रतितिष्ठ । व्रीहीणां मेध सुमनस्यमानः । आर्द्र ः! प्रथस्नुर्भुवनस्य गोपाः । शृत उत्स्नाति जनिता मतीनाम् । यस्त आत्मा पशुषु प्रविष्टः । देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्त्सोम घृतवान्हि भूत्वा । देवान्गच्छ सुवर्विद यजमानाय मह्यम् । इरा भूतिः पृथिव्यै रसो मोत्क्रमीत् ३
देवाः पितरः पितरो देवाः । योऽहमस्मि स सन्यजे । यस्यास्मि न तमन्तरेमि । स्वं म इष्टꣳ स्वं दत्तम् । स्वं पूर्तꣳ स्वꣳ श्रान्तम् । स्वꣳ हुतम् । तस्य मेऽग्निरुपद्र ष्टा । वायुरुपश्रोता । आदित्योऽनुख्याता । द्यौः पिता ४
पृथिवी माता । प्रजापतिर्बन्धुः । य एवास्मि स सन्यजे । मा भेर्मा संविक्था मा त्वा हिꣳ सिषम् । मा ते तेजोऽपक्रमीत् । भरतमुद्धरेमनुसिञ्च । अवदानानि ते प्रत्यवदास्यामि । नमस्ते अस्तु मा मा हिꣳ सीः । यदवदानानि तेऽवद्यन् । विलोमाकार्षमात्मनः ५
आज्येन प्रत्यनज्म्येनत् । तत्त आप्यायतां पुनः । अज्यायो यवमात्रात् । आव्याधात्कृत्यतामिदम् । मा रूरुपाम यज्ञस्य । शुद्धꣳ स्विष्टमिदꣳ हविः । मनुना दृष्टां घृतपदीम् । मित्रावरुणसमीरिताम् । दक्षिणार्धादसंभिन्दन् । अवद्याम्येकतोमुखाम् ६
इडे भागं जुषस्व नः । जिन्व गा जिन्वार्वतः । तस्यास्ते भक्षिवाणः स्याम । सर्वात्मानः सर्वगणाः । ब्रध्न पिन्वस्व । ददतो मे मा क्षायि । कुर्वतो मे मोपदसत् । दिशां क्ळ्प्तिरसि । दिशो मे कल्पन्ताम् । कल्पन्तां मे दिशः ७
दैवीश्च मानुषीश्च । अहोरात्रे मे कल्पेताम् । अर्धमासा मे कल्पन्ताम् । मासा मे कल्पन्ताम् । ऋतवो मे कल्पन्ताम् । संवत्सरो मे कल्पताम् । क्ळ्प्तिरसि कल्पतां मे । आशानां त्वाशापालेभ्यः । चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यः ८
विधेम हविषा वयम् । भजतां भागी भागम् । माभागो भक्त । निरभागं भजामः । अपस्पिन्व । ओषधीर्जिन्व । द्विपात्पाहि । चतुष्पादव । दिवो वृष्टिमेरय । ब्राह्मणानामिदꣳ हविः ९
सोम्यानाꣳ सोमपीथिनाम् । निर्भक्तोऽब्राह्मणः । नेहाब्राह्मणस्यास्ति । समङ्क्तां बर्हिर्हविषा घृतेन । समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रे ण विश्वेभिर्देवेभिरङ्क्ताम् । दिव्यं नभो गच्छतु यत्स्वाहा । इन्द्रा णीवाविधवा भूयासम् । अदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्य १०
उप निषदे सुप्रजास्त्वाय । सं पत्नी पत्या सुकृतेन गच्छताम् । यज्ञस्य युक्तौ धुर्यावभूताम् । संजानानौ विजहतामरातीः । दिवि ज्योतिरजरमारभेताम् । दश ते तनुवो यज्ञ यज्ञियाः । ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्रशिषमीडमानः । देवानां दैव्येऽपि यजमानोऽमृतोऽभूत् । यं वां देवा अकल्पयन् ११
ऊर्जो भागꣳ शतक्रतू ।एतद्वां तेन प्रीणानि । तेन तृप्यतमꣳ हहौ । अहं देवानाꣳ सुकृतामस्मि लोके । ममेदमिष्टं न मिथुर्भवाति । अहं नारिष्ठावनुयजामि विद्वान् । यदाभ्यामिन्द्रो अदधाद्भागधेयम् । अदारसृद्भवत देव सोम । अस्मिन्यज्ञे मरुतो मृडता नः । मा नो विददभि भामो अशस्तिः १२
मा नो विदद्वृजना द्वेष्या या । ऋषभं वाजिनं वयम् । पूर्णमासं यजामहे । स नो दोहताꣳ सुवीर्यम् । रायस्पोषꣳ सहस्रिणम् । प्राणाय सुराधसे । पूर्णमासाय स्वाहा । अमावास्या सुभगा सुशेवा । धेनुरिव भूय आप्यायमाना । सा नो दोहताꣳ सुवीर्यम् । रायस्पोषꣳ सहस्रिणम् । अपानाय सुराधसे । अमावास्यायै स्वाहा । अभिस्तृणीहि परिधेहि वेदिम् । जामिं मा हिꣳ सीरमुया शयाना । होतृषदना हरिताः सुवर्णाः । निष्का इमे यजमानस्य ब्रध्ने १३
3.7.6
परिस्तृणीत परिधत्ताग्निम् । परिहितोऽग्निर्यजमानं भुनक्तु । अपाꣳ रस ओषधीनाꣳ सुवर्णः । निष्का इमे यजमानस्य सन्तु कामदुघाः । अमुत्रामुष्मिꣳ ल्लोके । भूपते भुवनपते । महतो भूतस्य पते । ब्रह्माणं त्वा वृणीमहे । अहं भूपतिरहं भुवनपतिः । अहं महतो भूतस्य पतिः १
देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि । देव सवितरेतं त्वा वृणते । बृहस्पतिं दैव्यं ब्रह्माणम् । तदहं मनसे प्रब्रवीमि । मनो गायत्रियै । गायत्री त्रिष्टुभे । त्रिष्टुब्जगत्यै । जगत्यनुष्टुभे । अनुष्टुक्पङ्क्त्यै । पङ्क्तिः प्रजापतये २
प्रजापतिर्विश्वेभ्यो देवेभ्यः । विश्वे देवा बृहस्पतये । बृहस्पतिर्ब्रह्मणे । ब्रह्म भूर्भुवः सुवः । बृहस्पतिर्देवानां ब्रह्मा । अहं मनुष्याणाम् । बृहस्पते यज्ञं गोपाय । इदं तस्मै हर्म्यं करोमि । यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्वी ३
अन्तर्दूतश्चरति मानुषीषु । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय । मह्यं धुक्ष्व यजमानाय कामान् । भूमिर्भूत्वा महिमानं पुपोष । ततो देवी वर्धयते पयाꣳ सि । यज्ञिया यज्ञं वि च यन्ति सꣳ च । ओषधीराप इह शक्वरीश्च । यो मा हृदा मनसा यश्च वाचा ४
यो ब्रह्मणा कर्मणा द्वेष्ति देवाः । यः श्रुतेन हृदयेनेष्णता च । तस्येन्द्र वज्रेण शिरश्छिनद्मि । ऊर्णामृदु प्रथमानꣳ स्योनम् । देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि । मां नाकस्य पृष्ठे परमे व्योमन् । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय ५
सा मे धुक्ष्व यजमानाय कामान् । शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती चैधि । इषमूर्जं मे पिन्वस्व । ब्रह्म तेजो मे पिन्वस्व । क्षत्रमोजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुरन्नाद्यं मे पिन्वस्व । प्रजां पशून्मे पिन्वस्व ६
अस्मिन्यज्ञ उप भूय इन्नु मे । अविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयान् । अग्निर्द्वेषाꣳ सि निरितो नुदातै । विच्छिनद्मि विधृतीभ्याꣳ सपत्नान् । जातान्भ्रातृब्यान्ये च जनिष्यमानाः । विशो यन्त्राभ्यां विधमाम्येनान् । अहꣳ स्वानामुत्तमोऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिम् । विश्वं पाप्मानममतिं दुर्मरायुम् ७
सीदन्ती देवी सुकृतस्य लोके । धृती स्थो विधृती स्वधृती ।प्राणान्मयि धारयतम् । प्रजां मयि धारयतम् । पशून्मयि धारयतम् । अयं प्रस्तर उभयस्य धर्ता । धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपाः । तस्मिन्त्स्रुचो अध्यासादयामि । आरोह पथो जुहु देवयानान् ८
यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा सम्भृताङ्गा । वहासि मा सुकृतां यत्र लोकाः । अवाहं बाध उपभृता सपत्नान् । जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहं यज्ञꣳ सुदुघामिव धेनुम् । अहमुत्तरो भूयासम् । अधरे मत्सपत्नाः । यो मा वाचा मनसा दुर्मरायुः । हृदारातीयादभिदासदग्ने ९
इदमस्य चित्तमधरं ध्रुवायाः । अहमुत्तरो भूयासम् । अधरे मत्सपत्नाः । ऋषभोऽसि शाक्वरः । घृताचीनाꣳ सूनुः । प्रियेण नाम्ना प्रिये सदसि सीद । स्योनो मे सीद सुषदः पृथिव्याम् । प्रथयि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षे । अहमुत्तरो भूयासम् १०
अधरे मत्सपत्नाः । इयꣳ स्थाली घृतस्य पूर्णा । अच्छिन्नपयाः शतधार उत्सः । मारुतेन शर्मणा दैव्येन । यज्ञोऽसि सर्वतः श्रितः । सर्वतो मां भूतं भवैष्यच्छ्रयताम् । शतं मे सन्त्वाशिषः । सहस्रं मे सन्तु सूनृताः । इरावतीः पशुमतीः । प्रजापतिरसि सर्वतः श्रितः ११
सर्वतो मां भूतं भविष्यच्छ्रयताम् । शतं मे सन्त्वाशिषः । सहस्रं मे सन्तु सूनृताः । इरावतीः पशुमतीः । इदमिन्द्रि यममृतं वीर्यम् । अनेनेन्द्रा य पशवोऽचिकित्सन् । तेन देवा अवतोऽप माम् । इहेषमूर्जं यशः सह ओजः सनेयम् । शृतं मयि श्रयताम् । यत्पृथिवीमचरत्तत्प्रविष्टम् १२
येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवत् । येनोपरिष्टा-दधिनोन्महेन्द्र म् । दधि मां धिनोतु । अयं वेदः पृथिवीमन्वविन्दत् । गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकम् । अच्छिद्रं यज्ञं भूरिकर्मा करोतु । अयं यज्ञः समसदद्धविष्मान् । ऋचा साम्ना यजुषा देवताभिः १३
तेन लोकान्त्सूर्यवतो जयेम । इन्द्र स्य सख्यममृतत्वमश्याम् । यो नः कनीय इह कामयातै । अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्रा ग्नी भुवनान्नुदेताम् । अहं प्रजां वीरवतीं विदेय । अग्ने वाजजित् । वाजं त्वा सरिष्यन्तं ।वाजं जेष्यन्तम् । वाजिनं वाजजितम् १४
वाजजित्यायै संमार्ज्मि । अग्निमन्नादमन्नाद्याय । उपहूतो द्यौः पिता । उप मां द्यौः पिता ह्वयताम् । अग्निराग्नीध्रात् । आयुषे वर्चसे जीवात्वै पुण्याय । उपहूता पृथिवी माता । उप मां माता पृथिवी ह्वयताम् । अग्निराग्नीध्रात् १५
आयुषे वर्चसे । जीवात्वै पुण्याय । मनो ज्योतिर्जुषतामाज्यम् । विच्छिन्नं यज्ञꣳ समिमं दधातु । बृहस्पतिस्तनुतामिमं नः । विश्वे देवा इह मादयन्ताम् । यं ते अग्न आवृश्चामि । अहं वा क्षिपितश्चरन् । प्रजां च तस्य मूलं च । नीचैर्देवा निवृश्चत १६
अग्ने यो नोऽभिदासति । समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतः । मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदः । यं चाहं द्वेष्मि यश्च माम् । सर्वाꣳ स्तानग्ने संदह । याꣳ श्चाहं द्वेष्मि ये च माम् । अग्ने वाजजित् । वाजं त्वा ससृवाꣳ सम् १७
वाजं जिगिवाꣳ सम् । वाजिनं वाजजितम् । वाजजित्यायै संमार्ज्मि । अग्निमन्नादमन्नाद्याय । वेदिर्बर्हिः शृतꣳ हविः । इध्मः परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुः । याज्याश्च वषट्काराः । सं मे संनतयो नमन्ताम् । इध्मसंनहने हुते १८
दिवः खीलोऽवततः । पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन । द्विषन्तꣳ शोचयामसि । द्विषन्मे बहु शोचतु । ओषधे मो अहꣳ शुचम् । यज्ञ नमस्ते यज्ञ । नमो नमश्च ते यज्ञ । शिवेन मे संतिष्ठस्व । स्योनेन मे संतिष्ठस्व १९
सुभूतेन मे संतिष्ठस्व । ब्रह्मवर्चसेन मे संतिष्ठस्व । यज्ञस्यर्द्धिमनु संतिष्ठस्व । उप ते यज्ञ नमः । उप ते नमः । उप ते नमः । त्रिष्फलीक्रियमाणानाम् । यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयम् । आपस्तत्प्रवहतादितः २०
उलूखले मुसले यच्च शूर्पे । आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषः संयजामि । विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीः । अग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि । उद्यन्नद्य मित्रमहः । सपत्नान्मे अनीनशः । दिवैनान्विद्युता जहि । निम्रोचन्नधरान्कृधि २१
उद्यन्नद्य वि नो भज । पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे । तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमहः । आरोहन्नुत्तरां दिवम् । हृद्रो गं मम सूर्य । हरिमाणं च नाशय । शुकेषु मे हरिमाणम् । रोपणाकासु दध्मसि २२
अथो हारिद्र वेषु मे । हरिमाणं निदध्मसि । उदगादयमादित्यः । विश्वेन सहसा सह । द्विषन्तं मम रन्धयन् । मो अहं द्विषतो रधम् । यो नः शपादशपतः । यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च । सर्वं पापꣳ समूहताम् ७७यो नः सपत्नो यो रणः । मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतः । मा तस्योच्छेषि किं चन । अवसृष्टः परापत । शरो ब्रह्मसꣳ शितः । गच्छामित्रान्प्रविश । मैषां कं चनोच्छिषः २३
3.7.7
सक्षेदं पश्य । विधर्तरिदं पश्य । नाकेदं पश्य । रमतिः पनिष्ठा । ऋतं वर्षिष्ठम् । अमृता यान्याहुः । सूर्यो वरिष्ठो अक्षभिर्विभाति । अनु द्यावा-पृथिवी देवपुत्रे । दीक्षासि तपसो योनिः । तपोऽसि ब्रह्मणो योनिः १
ब्रह्मासि क्षत्रस्य योनिः । क्षत्रमस्यृतस्य योनिः । ऋतमसि भूर् । आरभे । श्रद्धां मनसा । दीक्षां तपसा । विश्वस्य भुवनस्याधिपत्नीम् । सर्वे कामा यजमानस्य सन्तु । वातं प्राणं मनसान्वारभामहे । प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्त्रायतां पात्वꣳ हसः २
ज्योग्जीवा जरामशीमहि । इन्द्र शाक्वर गायत्रीं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर त्रिष्टुभं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर जगतीं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वरानुष्टुभं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर पङ्क्तिं प्रपद्ये ३
तां ते युनज्मि । आहं दीक्षामरुहमृतस्य पत्नीम् । गायत्त्रेण छन्दसा ब्रह्मणा च । ऋतꣳ सत्येऽधायि । सत्यमृतेऽधायि । ऋतं च मे सत्यं चाभूताम् । ज्योतिरभूवꣳ सुवरगमम् । सुवर्गं लोकं नाकस्य पृष्ठम् । ब्रध्नस्य विष्टपमगमम् । पृथिवी दीक्षा ४
तयाग्निर्दीक्षया दीक्षितः । ययाग्निर्दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । अन्तरिक्षं दीक्षा । तया वायुर्दीक्षया दीक्षितः । यया वायुर्दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । द्यौर्दीक्षा । तयादित्यो दीक्षया दीक्षितः । ययादित्यो दीक्षया दीक्षितः ५
तया त्वा दीक्षया दीक्षयामि । दिशो दीक्षा । तया चन्द्र मा दीक्षया दीक्षितः । यया चन्द्र मा दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । आपो दीक्षा । तया वरुणो राजा दीक्षया दीक्षितः । यया वरुणो राजा दीक्षया दीक्षितः । आ त्वा दीक्षया दीक्षयामि । ओषधयो दीक्षा ६
तया सोमो राजा दीक्षया दीक्षितः । यया सोमो राजा दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । वाग्दीक्षा । तया प्राणो दीक्षया दीक्षितः । यया प्राणो दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । पृथिवी त्वा दीक्षमाणमनु दीक्षताम् । अन्तरिक्षं त्वा दीक्षमाणमनु दीक्षताम् । द्यौस्त्वा दीक्षमाणमनु दीक्षताम् ७
दिशस्त्वा दीक्षमाणमनु दीक्षन्ताम् । आपस्त्वा दीक्षमाणमनु दीक्षन्ताम् । ओषधयस्त्वा दीक्षमाणमनु दीक्षन्ताम् । वाक्त्वा दीक्षमाणमनु दीक्षताम् । ऋचस्त्वा दीक्षमाणमनु दीक्षन्ताम् । सामानि त्वा दीक्षमाणमनु दीक्षन्ताम् । यजूꣳ षि त्वा दीक्षमाणमनु दीक्षन्ताम् । अहश्च रात्रिश्च । कृषिश्च वृष्टिश्च । त्विषिश्चापचितिश्च ८
आपश्चौषधयश्च । ऊर्क्च सूनृता च । तास्त्वा दीक्षमाणमनु दीक्षन्ताम् । स्वे दक्षे दक्षपितेह सीद । देवानाꣳ सुम्नो महते रणाय । स्वासस्थस्तनुवा संविशस्व । पितेवैधि सूनव आसुशेवः । शिवो मा शिवमाविश । सत्यं म आत्मा । श्रद्धा मेऽक्षितिः ९
तपो मे प्रतिष्ठा । सवितृप्रसूता मा दिशो दीक्षयन्तु । सत्यमस्मि । अहं त्वदस्मि मदसि त्वमेतत् । ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने । पुत्त्रः पित्रे लोककृज्जातवेदः । आजुह्वानः सुप्रतीकः पुरस्तात् । अग्ने स्वां योनिमासीद साध्या । अस्मिन्त्सधस्थे अध्युत्तरस्मिन् १०
विश्वे देवा यजमानश्च सीदत । एकमिषे विष्णुस्त्वान्वेतु । द्वे ऊर्जे विष्णुस्त्वान्वेतु । त्रीणि व्रताय विष्णुस्त्वान्वेतु । चत्वारि मायोभवाय विष्णुस्त्वान्वेतु । पञ्च पशुभ्यो विष्णुस्त्वान्वेतु । षड्रायस्पोषाय विष्णुस्त्वान्वेतु । सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु । सखायः सप्तपदा अभूम । सख्यं ते गमेयम् ११
सख्यात्ते मा योषम् । सख्यान्मे मा योष्ठाः । सासि सुब्रह्मण्ये । तस्यास्ते पृथिवी पादः । सासि सुब्रह्मण्ये । तस्यास्तेऽन्तरिक्षं पादः । सासि सुब्रह्मण्ये । तस्यास्ते द्यौः पादः । सासि सुब्रह्मण्ये । तस्यास्ते दिशः पादः १२
परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व । तेज इन्द्रियम् । ब्रह्म-वर्चसमन्नाद्यम् । विमिमे त्वा पयस्वतीम् । देवानां धेनुꣳ सुदुघामनपस्फुरन्तीम् । इन्द्रः सोमं पिबतु । क्षेमो अस्तु नः । इमां नराः कृणुत वेदिमेत्य । वसुमतीꣳ रुद्रवतीमादित्यवतीम् १३
वर्ष्मन्दिवः । नाभा पृथिव्याः । यथायं यजमानो न रिष्येत् । देवस्य सवितुः सवे । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । तस्याꣳ सुपर्णावधि यौ निविष्टौ । तयोर्देवानामधि भागधेयम् । अप जन्यं भयं नुद । अप चक्राणि वर्तय । गृहꣳ सोमस्य गच्छतम् । न वा उवेतन्म्रियसे न रिष्यसि । देवाꣳ इदेषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतः । तत्र त्वा देवः सविता दधातु १४
3.7.8
यदस्य पारे रजसः । शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषः । अग्ने वैश्वानर स्वाहा । यस्माद्भीषावाशिष्ठाः । ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्रा य मीढुषे । यस्माद्भीषा न्यषदः । ततो नो अभयं कृधि १
प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्रा य मीढुषे । उदुस्र तिष्ठ प्रतितिष्ठ मा रिषः । मेमं यज्ञं यजमानं च रीरिषः । सुवर्गे लोके यजमानꣳ हि धेहि । शं न एधि द्विपदे शं चतुष्पदे । यस्माद्भीषावेपिष्ठाः पलायिष्ठाः समज्ञास्थाः । ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्रा य मीढुषे २
य इदमकः । तस्मै नमः । तस्मै स्वाहा । न वा उवेतन्म्रियसे । ।आशानां त्वा । विश्वा आशाः । यज्ञस्य हि स्थ ऋत्वियौ । इन्द्रा ग्नी चेतनस्य च । हुताहुतस्य तृप्यतम् । अहुतस्य हुतस्य च । हुतस्य चाहुतस्य च । अहुतस्य हुतस्य च । इन्द्रा ग्नी अस्य सोमस्य । वीतं पिबतं जुषेथाम् । मा यजमानं तमो विदत् । मर्त्विजो मो इमाः प्रजाः । मा यः सोममिमं पिबात् । सꣳ सृष्टमुभयं कृतम् ३
3.7.9
अनागसस्त्वा वयम् । इन्द्रे ण प्रेषिता उप । वायुष्टे अस्त्वꣳ शभूः । मित्रस्ते अस्त्वꣳ शभूः । वरुणस्ते अस्त्वꣳ शभूः । अपां क्षया ऋतस्य गर्भाः । भुवनस्य गोपाः श्येना अतिथयः । पर्वतानां ककुभः प्रयुतो नपातारः । वग्नुनेन्द्र ँ! ह्वयत । घोषेणामीवाꣳ श्चातयत १
युक्ताः स्थ वहत । देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्र मचुच्यवुः परमस्याः परावतः । आस्मात्सधस्थात् । ओरोरन्तरिक्षात् । आ सुभूतमसुषवुः । ब्रह्मवर्चसं म आसुषवुः । समरे रक्षाꣳ स्यवधिषुः । अपहतं ब्रह्मज्यस्य । वाक्च त्वा मनश्च श्रिणीताम् २
प्राणश्च त्वापानश्च श्रीणीताम् । चक्षुश्च त्वा श्रोत्रं च श्रीणीताम् । दक्षश्च त्वा बलं च श्रीणीताम् । ओजश्च त्वा सहश्च श्रीणीताम् । आयुश्च त्वा जरा च श्रीणीताम् । आत्मा च त्वा तनूश्च श्रीणीताम् । शृतोऽसि शृतंकृतः । शृताय त्वा शृतेभ्यस्त्वा । यमिन्द्र माहुर्वरुणं यमाहुः । यं मित्रमाहुर्यमु सत्यमाहुः ३
यो देवानां देवतमस्तपोजाः । तस्मै त्वा तेभ्यस्त्वा । मयि त्यदिन्द्रि यं महत् । मयि दक्षो मयि क्रतुः । मयि धायि सुवीर्यम् । त्रिशुग्घर्मो विभातु मे । आकूत्या मनसा सह । विराजा ज्योतिषा सह । यज्ञेन पयसा सह । तस्य दोहमशीमहि ४
तस्य सुम्नमशीमहि । तस्य भक्षमशीमहि । वाग्जुषाणा सोमस्य तृप्यतु । मित्रो जनान् । प्र स मित्र । ।यस्मान्न जातः परो अन्यो अस्ति । य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानः । त्रीणि ज्योतीꣳ षि सचते स षोडशी ।एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे ५
प्र ते महे विदथेऽशꣳ सिषꣳ हरी ।य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिरः । इन्द्रा धिपतेऽधिपतिस्त्वं देवानामसि । अधिपतिं माम् । आयुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु ६
इन्द्र श्च सम्राड्वरुणश्च राजा । तौ ते भक्षं चक्रतुरग्र एतम् । तयोरनु भक्षं भक्षयामि । वाग्जुषाणा सोमस्य तृप्यतु । प्रजापतिर्विश्वकर्मा । तस्य मनो देवं यज्ञेन राध्यासम् । अर्थेगा अस्यजहितः । अवसानपतेऽवसानं मे विन्द । नमो रुद्रा य वास्तोष्पतये । आयने विद्र वणे ७
उद्याने यत्परायणे । आवर्तने विवर्तने । यो गोपायति तꣳ हुवे । यान्यपामित्यान्यप्रतीत्तान्यस्मि । यमस्य बलिना चरामि । इहैव सन्तः प्रति तद्यातयामः । जीवा जीवेभ्यो निहराम एनत् । अनृणा अस्मिन्ननृणाः परस्मिन् । तृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः ८
सर्वान्पथो अनृणा आक्षीयेम । इदमू नु श्रेयोऽवसानमागन्म । शिवे नो द्यावापृथिवी उभे इमे । गोमद्धनवदश्ववदूर्जस्वत् । सुवीरा वीरैरनु संचरेम । अर्कः पवित्रꣳ रजसो विमानः । पुनाति देवानां भुवनानि विश्वा । द्यावापृथिवी पयसा संविदाने । घृतं दुहाते अमृतं प्रपीने । पवित्रमर्को रजसो विमानः । पुनाति देवानां भुवनानि विश्वा । सुवर्ज्योतिर्यशो महत् । अशीमहि गाधमुत प्रतिष्ठाम् ९
3.7.10
उदस्तांप्सीत्सविता मित्रो अर्यमा । सर्वानमित्रानवधीद्युगेन । बृहन्तं मामकरद्वीरवन्तम् । रथंतरे श्रयस्व स्वाहा पृथिव्याम् । वामदेव्ये श्रयस्व स्वाहान्तरिक्षे । बृहति श्रयस्व स्वाहा दिवि । बृहता त्वोपस्तभ्नोमि । आ त्वा ददे यशसे वीर्याय च । अस्मास्वघ्निया यूयं दधाथेन्द्रि यं पयः । यस्ते द्र प्सो यस्त उदर्षः १
दैव्यः केतुर्विश्वं भुवनमाविवेश । स नः पाह्यरिष्ट्यै स्वाहा । अनु मा सर्वो यज्ञोऽयमेतु । विश्वे देवा मरुतः सामार्कः । आप्रियश्छन्दाꣳ सि निविदो यजूꣳ षि । अस्यै पृथिव्यै यद्यज्ञियम् । प्रजापतेर्वर्तनिमनुवर्तस्व । अनु वीरैरनुराध्याम गोभिः । अन्वश्वैरनु सर्वैरु पुष्टैः । अनु प्रजयान्विन्द्रि येण २
देवा नो यज्ञमृजुधा नयन्तु । प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे । प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रति प्रजायां प्रतितिष्ठामि भव्ये । विश्वमन्याभिवावृधे । तदन्यस्यामधि श्रितम् । दिवे च विश्वकर्मणे । पृथिव्यै चाकरं नमः । अस्कान्द्यौः पृथिवीम् । अस्कानृषभो युवा गाः ३
स्कन्नेमा विश्वा भुवना । स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजनि । आ स्कन्नाज्जायते वृषा । स्कन्नात्प्रजनिषीमहि । ये देवा येषामिदं भागधेयं बभूव । येषां प्रयाजा उतानूयाजाः । इन्द्र ज्येष्ठेभ्यो वरुणराजभ्यः । अग्निहोतृभ्यो देवेभ्यः स्वाहा । उत त्या नो दिवा मतिः ४
अदितिरूत्यागमत् । सा शन्ताची मयस्करत् । अप स्रिधः । उत त्या दैव्या भिषजा । शं नस्करतो अश्विना । यूयातामस्मद्र पः । अप स्रिधः । शमग्निरग्निभिस्करत् । शं नस्तपतु सूर्यः । शं वातो वात्वरपाः ५
अप स्रिधः । तदित्पदं न विचिकेत विद्वान् । यन्मृतः पुनरप्येति जीवान् । त्रिवृद्यद्भुवनस्य रथवृत् । जीवो गर्भो न मृतः स जीवात् । प्रत्यस्मै पिपीषते । विश्वानि विदुषे भर । अरंगमाय जग्मवे । अपश्चाद्दध्वने नरे । इन्दुरिन्दुमवागात् । इन्दोरिन्द्रो ऽपात् । तस्य त इन्दविन्द्र पीतस्य मधुमतः । उपहूतस्योपहूतो भक्षयामि ६
3.7.11
ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचः । ब्रह्म यज्ञानाꣳ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनम् । यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् । आश्रावितमत्याश्रावितम् । वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनम् । यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् १
यद्वो देवा अतिपादयानि । वाचा चित्प्रयतं देवहेडनम् । अरायो अस्माꣳ अभि दुच्छुनायते । अन्यत्रास्मन्मरुतस्तन्निधेतन । ततं म आपस्तदु तायते पुनः । स्वादिष्ठा धीतिरुचथाय शस्यते । अयꣳ समुद्र उत विश्वभेषजः । स्वाहाकृतस्य समु तृप्णुतर्भुवः । उद्वयं तमसस्परि । ।उदु त्यं। चित्रम् २
इमं मे वरुण । तत्त्वा यामि । ।त्वं नो अग्ने । स त्वं नो अग्ने । ।त्वमग्ने अयासि । प्रजापते । ।इमं जीवेभ्यः परिधिं दधामि । मैषां नु गादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीः । तिरो मृत्युं दधतां पर्वतेन । इष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा । भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा । दौरार्द्ध्यै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहा ३
ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा । यत इन्द्र भयामहे । ततो नो अभयं कृधि । मघवञ्शग्धि तव तन्न ऊतये । वि द्विषो वि मृधो जहि । स्वस्तिदा विशस्पतिः । वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः । स्वस्तिदा अभयंकरः । आभिर्गीर्भिर्यदतो न ऊनम् ४
आप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि । भूयिष्ठभाजो अध ते स्याम । अनाज्ञातं यदाज्ञातम् । यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय । त्वꣳ हि वेत्थ यथातथम् । पुरुषसंमितो यज्ञः । यज्ञः पुरुषसंमितः । अग्ने तदस्य कल्पय । त्वꣳ हि वेत्थ यथातथम् । यत्पाकत्रा मनसा दीनदक्षा न । यज्ञस्य मन्वते मर्तासः । अग्निष्टद्धोता क्रतुविद्विजानन् । यजिष्ठो देवाꣳ ऋतुशो यजाति ५
3.7.12
यद्देवा देवहेडनम् । देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चत । ऋतस्यर्तेन मामुत । देवा जीवनकाम्या यत् । वाचानृतमूदिम । अग्निर्मा तस्मादेनसः । गार्हपत्यः प्रमुञ्चतु । दुरिता यानि चकृम । करोतु मामनेनसम् १
ऋतेन द्यावापृथिवी ।ऋतेन त्वꣳ सरस्वति । ऋतान्मा मुञ्चताꣳ हसः । यदन्यकृतमारिम । सजातशꣳ सादुत वा जामिशꣳ सात् । ज्यायसः शꣳ सादुत वा कनीयसः । अनाज्ञातं देवकृतं यदेनः । तस्मात्त्वमस्मान्जातवेदो मुमुग्धि । यद्वाचा यन्मनसा । बाहुभ्यामूरुभ्यामष्ठीवद्भ्याम् २
शिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसः । यद्धस्ताभ्यां चकर किल्बिषाणि । अक्षाणां वग्नुमुपजिघ्नमानः । दूरेपश्या च राष्ट्रभृच्च । तान्यप्सरसावनुदत्तामृणानि । अदीव्यन्नृणं यदहं चकार । यद्वादास्यन्त्संजगारा जनेभ्यः । अग्निर्मा तस्मादेनसः । यन्मयि माता गर्भे सति ३
एनश्चकार यत्पिता । अग्निर्मा तस्मादेनसः । यदापिपेष मातरं पितरम् । पुत्रः प्रमुदितो धयन् । अहिꣳ सितौ पितरौ मया तत् । तदग्ने अनृणो भवामि । यदन्तरिक्षं पृथिवीमुत द्याम् । यन्मातरं पितरं वा जिहिꣳ सिम । अगिर्मा तस्मादेनसः । यदाशसा निशसा यत्पराशसा ४
यदेनश्चकृमा नूतनं यत्पुराणम् । अग्निर्मा तस्मादेनसः । अतिक्रामामि दुरितं यदेनः । जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नापि दुष्कृतः । तमारोहामि सुकृतां नु लोकम् । त्रिते देवा अमृजतैतदेनः । त्रित एतन्मनुष्येषु मामृजे । ततो मा यदि किं चिदानशे । अग्निर्मा तस्मादेनसः ५
गार्हपत्यः प्रमुञ्चतु । दुरिता यानि चकृम । करोतु मामनेनसम् । दिवि जाता अप्सु जाताः । या जाता ओषधीभ्यः । अथो या अग्निजा आपः । ता नः शुन्धन्तु शुन्धनीः । यदापो नक्तं दुरितं चराम । यद्वा दिवा नूतनं यत्पुराणम् । हिरण्यवर्णास्तत उत्पुनीत नः । इमं मे वरुण । तत्त्वा यामि । ।त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि ६
3.7.13
यत्ते ग्राव्णा चिच्छिदुः सोम राजन् । प्रियाण्यङ्गानि स्वधिता परूꣳ षि । तत्संधत्स्वाज्येनोत वर्धयस्व । अनागसो अधमित्संक्षयेम । यत्ते ग्रावा बाहुच्युतो अचुच्यवुः । नरो यत्ते दुदुहुर्दक्षिणेन । तत्त आप्यायतां तत्ते । निष्ट्यायतां देव सोम । यत्ते त्वचं बिभिदुर्यच्च योनिम् । यदास्थानात्प्रच्युतो वेनसि त्मना १
त्वया तत्सोम गुप्तमस्तु नः । सा नः संधाऽसत्परमे व्योमन् । अहाच्छरीरं पयसा समेत्य । अन्योऽन्यो भवति वर्णो अस्य । तस्मिन्वयमुपहूतास्तव स्मः । आ नो भज सदसि विश्वरूपे । नृचक्षाः सोम उत शुश्रुगस्तु । मा नो विहासीद्गिर आवृणानः । अनागास्तनुवो वावृधानः । आ नो रूपं वहतु जायमानः २
उपक्षरन्ति जुह्वो घृतेन । प्रियाण्यङ्गानि तव वर्धयन्तीः । तस्मै ते सोम नम इद्वषट्च । उप मा राजन्त्सुकृते ह्वयस्व । सं प्राणापानाभ्याꣳ समु चक्षुषा त्वम् । सꣳ श्रोत्रेण गच्छस्व सोम राजन् । यत्त आस्थितꣳ शमु तत्ते अस्तु । जानीतान्नः संगमने पथीनाम् । एतं जानीतात्परमे व्योमन् । वृकाः सधस्था विद रूपमस्य ३
यदागच्छात्पथिभिर्देवयानैः । इष्टापूर्ते कृणुतादाविरस्मै । अरिष्टो राजन्नगदः परेहि । नमस्ते अस्तु चक्षसे रघूयते । नाकमारोह सह यजमानेन । सूर्यं गच्छतात्परमे व्योमन् । अभूद्देवः सविता वन्द्यो नु नः । इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः । श्रेष्ठं नो अत्र द्र विणं यथा दधत् । उप नो मित्रावरुणाविहावतम् । अन्वादीध्याथामिह नः सखाया । आदित्यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठा घ विषा परि णो वृणक्तु । आप्यायस्व । सं ते ४
3.7.14
यद्दिदीक्षे मनसा यच्च वाचा । यद्वा प्राणैश्चक्षुषा यच्च श्रोत्रेण । यद्रे तसा मिथुनेनाप्यात्मना । अद्भ्यो लोका दधिरे तेज इन्द्रि यम् । शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर्मयि तेज इन्द्रि यम् । यदृचा साम्ना यजुषा । पशूनां चर्मन्हविषा दिदीक्षे । यच्छन्दोभिरोषधीभिर्वनस्पतौ । अद्भ्यो लोका दधिरे तेज इन्द्रि यम् १
शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर्मयि तेज इन्द्रि यम् । येन ब्रह्म येन क्षत्रम् । येनेन्द्रा ग्नी प्रजापतिः सोमो वरुणो येन राजा । विश्वे देवा ऋषयो येन प्राणाः । अद्भ्यो लोका दधिरे तेज इन्द्रि यम् । शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर्मयि तेज इन्द्रि यम् । अपां पुष्पमस्योषधीनाꣳ रसः । सोमस्य प्रियं धाम २
अग्नेः प्रियतमꣳ हविः स्वाहा । अपां पुष्पमस्योषधीनाꣳ रसः । सोमस्य प्रियं धाम । इन्द्र स्य प्रियतमꣳ हविः स्वाहा । अपां पुष्पमस्योषधीनाꣳ रसः । सोमस्य प्रियं धाम । विश्वेषां देवानां प्रियतमꣳ हविः स्वाहा । वयꣳ सोम व्रते तव । मनस्तनूषु पिप्रतः । प्रजावन्तो अशीमहि ३
देवेभ्यः पितृभ्यः स्वाहा । सोम्येभ्यः पितृभ्यः स्वाहा । कव्येभ्यः पितृभ्यः स्वाहा । देवास इह मादयध्वम् । सोम्यास इह मादयध्वम् । कव्यास इह मादयध्वम् । अनन्तरिताः पितरः सोम्याः सोमपीथात् । अपैतु मृत्युरमृतं न आगन् । वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिव ४
अभि नः शीयताꣳ रयिः । सचतां नः शचीपतिः । परं मृत्यो अनु परेहि पन्थाम् । यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि । मा नः प्रजाꣳ रीरिषो मोत वीरान् । इदमू नु श्रेयोऽवसानमागन्म । यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिव । अभि नः शीयताꣳ रयिः । सचतां नः शचीपतिः ५