प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०८

< तैत्तिरीयब्राह्मणम् (विस्वरपाठः)‎ | काण्डः ३

3.8.1(अश्वमेधे प्रथममहः)

सांग्रहण्येष्ट्या यजते । इमां जनताँ संगृह्णानीति । द्वादशारत्नी रशना भवति । द्वादश मासाः संवत्सरः । संवत्सरमेवावरुन्धे । मौञ्जी भवति । ऊर्ग्वै मुञ्जाः । ऊर्जमेवावरुन्धे । चित्रा नक्षत्रं भवति । चित्रं वा एतत्कर्म १

यदश्वमेधः समृद्ध्यै । पुण्यनाम देवयजनमध्यवस्यति । पुण्यामेव तेन कीर्तिमभिजयति । अपदातीनृत्विजः समावहन्त्या सुब्रह्मण्यायाः । सुवर्गस्य लोकस्य समष्ट्यै । केशश्मश्रु वपते । नखानि निकृन्तते । दतो धावते । स्नाति । अहतं वासः परिधत्ते । पाप्मनोऽपहत्यै । वाचं यत्वोपवसति । सुवर्गस्य लोकस्य गुप्त्यै । रात्रिं जागरयन्त आसते । सुवर्गस्य लोकस्य समष्ट्यै २

3.8.2

चतुष्टय्य आपो भवन्ति । चतुःशफो वा अश्वः प्राजापत्यः समृद्ध्यै । ता दिग्भ्यः समाभृता भवन्ति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे । तासु ब्रह्मौदनं पचति । रेत एव तद्दधाति ३

चतुःशरावो भवति । दिक्ष्वेव प्रति तिष्ठति । उभयतो रुक्मौ भवतः । उभयत एवास्मिन्रुचं दधाति । उद्धरति शृतत्वाय । सर्पिष्वान्भवति मेध्य-त्वाय । चत्वार आर्षेयाः प्राश्नन्ति । दिशामेव ज्योतिषि जुहोति । चत्वारि हिरण्यानि ददाति । दिशामेव ज्योतीँ ष्यवरुन्धे ४ यदाज्यमुच्छिष्यते । तस्मिन्रशनां न्युनत्ति । प्रजापतिर्वा ओदनः । रेत आज्यम् । यदाज्ये रशनां न्युनत्ति । प्रजापतिमेव रेतसा समर्धयति । दर्भमयी रशना भवति । बहु वा एष कुचरोऽमेध्यमुपगच्छति । यदश्वः । पवित्रं वै दर्भाः ५

यद्दर्भमयी रशणा भवति । पुनात्येवैनम् । पूतमेनं मेध्यमालभते । अश्वस्य वा आलब्धस्य महिमोदक्रामत् । स महर्त्विजः प्राविशत् । तन्महर्त्विजां महर्त्विक्त्वम् । यन्महर्त्विजः प्राश्नन्ति । महिमानमेवास्मिन्तद्दधति । अश्वस्य वा आलब्धस्य रेत उदक्रामत् । तत्सुवर्णँ हिरण्यमभवत् । यत्सुवर्णँ हिरण्यं ददाति । रेत एव तद्दधाति । ओदने ददाति । रेतो वा ओदनः । रेतो हिरण्यम् । रेतसैवास्मिन्रेतो दधाति ६

3.8.3

यो वै ब्रह्मणे देवेभ्यः प्रजापतयेऽप्रतिप्रोच्याश्वं मेध्यं बध्नाति । आ देवताभ्यो वृश्च्यते । पापीयान्भवति । यः प्रतिप्रोच्य । न देवताभ्य आवृश्च्यते । वसीयान्भवति । यदाह । ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति । ब्रह्म वै ब्रह्मा । ब्रह्मण एव देवेभ्यः प्रजापतये प्रतिप्रोच्याश्वं मेध्यं बध्नाति ७

न देवताभ्य आवृश्च्यते । वसीयान्भवति । देवस्य त्वा सवितुः प्रसव इति रशनामादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । व्यृद्धं वा एतद्यज्ञस्य । यदयजुष्केण क्रियते । इमामगृभ्णन्रश्नामृतस्येत्यधिवदति यजुष्कृत्यै । यज्ञस्य समृद्ध्यै ८

तदाहुः । द्वादशारत्नी रशना कर्तव्या३ त्रयोदशारत्नी३रिति । ऋषभो वा एष ऋतूनाम् । यथा संवत्सरः । तस्य त्रयोदशो मासो विष्टपम् । ऋषभ एष यज्ञानाम् । यदश्वमेधः । यथा वा ऋषभस्य विष्टपम् । एवमेतस्य विष्टपम् । त्रयोदशमरत्निँ रशनायामुपादधाति ९

यथर्षभस्य विष्टपँ सँ स्करोति । तादृगेव तत् । पूर्व आयुषि विदथेषु कव्येत्याह । आयुरेवास्मिन्दधाति । तया देवाः सुतमाबभूवुरित्याह । भूतिमेवोपावर्तते । ऋतस्य सामन्त्सरमारपन्तीत्याह । सत्यं वा ऋतम् । सत्येनैवैनमृतेनारभते । अभिधा असीत्याह १०

तस्मादश्वमेधयाजी सर्वाणि भूतान्यभिभवति । भुवनमसीत्याह । भूमानमेवोपैति । यन्तासीत्याह । यन्तारमेवैनं करोति । धर्तासीत्याह । धर्तारमेवैनं करोति । सोऽग्निं वैश्वानरमित्याह । अग्नावेवैनं वैश्वानरे जुहोति । सप्रथसमित्याह ११

प्रजयैवैनं पशुभिः प्रथयति । स्वाहाकृत इत्याह । होम एवास्यैषः । पृथिव्यामित्याह । अस्यामेवैनं प्रतिष्ठापयति । यन्ता राड्यन्तासि यमनो धर्तासि धरुण इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वेत्याह । आशिषमेवैतामाशास्ते । स्वगा त्वा देवेभ्य इत्याह । देवेभ्य एवैनँ स्वगा करोति । स्वाहा त्वा प्रजापतय इत्याह । प्राजापत्यो वा अश्वः । यस्या एव देवताया आलभ्यते । तयैवैनँ समर्धयति १२

3.8.4

यः पितुरनुजायाः पुत्रः । स पुरस्तान्नयति । यो मातुरनुजायाः पुत्रः । स पश्चान्नयति । विष्वञ्चमेवास्मात्पाप्मानं विवृहतः । यो अर्वन्तं जिघाँ सति तमभ्यमीति वरुण इति श्वानं चतुरक्षं प्रसौति । परो मर्तः परः श्वेति शुनश्चतुरक्षस्य प्रहन्ति । श्वेव वै पाप्मा भ्रातृव्यः । पाप्मानमेवास्य भ्रातृव्यँ हन्ति । सैध्रकं मुसलं भवति १३

कर्मकर्मैवास्मै साधयति । पौँ श्चलेयो हन्ति । पुँ श्चल्वां वै देवाः शुचं न्यदधुः । शुचैवास्य शुचँ हन्ति । पाप्मा वा एतमीप्सतीत्याहुः । योऽश्वमेधेन यजत इति । अश्वस्याधस्पदमुपास्यति । वज्री वा अश्वः प्राजापत्यः । वज्रेणैव पाप्मानं भ्रातृव्यमवक्रामति । दक्षिणापप्लावयति १४

पाप्मानमेवास्माच्छमलमपप्लावयति । ऐषीक उदूहो भवति । आयुर्वा इषीकाः । आयुरेवास्मिन्दधति । अमृतं वा इषीकाः । अमृतमेवास्मिन्दधति । वेतसशाखोपसंबद्धा भवति । अप्सुयोनिर्वा अश्वः । अप्सुजो वेतसः । स्वादेवैनं योनिर्निर्मिमीते । पुरस्तात्प्रत्यञ्चमभ्युदूहति । पुरस्तादेवास्मि-न्प्रतीच्यमृतं दधाति । अहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति । ब्रह्मक्षत्त्रे एव संदधाति । अभि क्रत्वेन्द्र भूरध ज्मन्नित्यध्वर्युर्यजमानं वाचयत्यभिजित्यै १५

3.8.5

चत्वार ऋत्विजः समुक्षन्ति । आभ्य एवैनं चतसृभ्यो दिग्भ्योऽभिसमीरयन्ति । शतेन राजपुत्रैः सहाध्वर्युः । पुरस्तात्प्रत्यङ्तिष्ठन्प्रोक्षति । अनेनाश्वेन मेध्येनेष्ट्वा । अयँ राजा वृत्रं वध्यादिति । राज्यं वा अध्वर्युः । क्षत्त्रँ राजपुत्रः । राज्येनैवास्मिन्क्षत्त्रं दधाति । शतेनाराजभिरुग्रैः सह ब्रह्मा १६

दक्षिणत उदङ्तिष्ठन्प्रोक्षति । अनेनाश्वेन मेध्येनेष्ट्वा । अयँ राजाप्रतिधृष्यो-ऽस्त्विति । बलं वै ब्रह्मा । बलमराजोग्रः । बलेनैवास्मिन्बलं दधाति । शतेन सूतग्रामणिभिः सह होता । पश्चात्प्राङ्तिष्ठन्प्रोक्षति । अनेनाश्वेन मेध्येनेष्ट्वा । अयँ राजास्यै विशः १७

बहुग्वै बह्वश्वायै बह्वजाविकायै । बहुव्रीहियवायै बहुमाषतिलायै । बहुहि-रण्यायै बहुहस्तिकायै । बहुदासपूरुषायै रयिमत्यै पुष्टिमत्यै । बहुराय-स्पोषायै राजास्त्विति । भूमा वै होता । भूमा सूतग्रामण्यः । भूम्नैवा-स्मिन्भूमानं दधाति । शतेन क्षत्तसंग्रहीतृभिः सहोद्गाता । उत्तरतो दक्षिणा तिष्ठन्प्रोक्षति १८

अनेनाश्वेन मेध्येनेष्ट्वा । अयँ राजा सर्वमायुरेत्विति । आयुर्वा उद्गाता । आयुः क्षत्तसंग्रहीतारः । आयुषैवास्मिन्नायुर्दधाति । शतँ शतं भवन्ति । शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति चतुःशता भवन्ति । चतस्रो दिशः । दिक्ष्वेव प्रतितिष्ठति १९

3.8.6

यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतदश्वस्य स्कन्दति । यन्निक्तमनालब्धमुत्सृजन्ति । यत्स्तोक्या अन्वाह । सर्वहुतमेवैनं करोत्यक्सन्दाय । अस्कन्नँ हि तत् । यद्धुतस्य स्कन्दति । सहस्रमन्वाह । सहस्रसंमितः सुवर्गो लोकः । सुवर्गस्य लोकस्याभिजित्यै २०

यत्परिमिता अनुब्रूयात् । परिमितमवरुन्धीत । अपरिमिता अन्वाह । अपरिमितः सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । स्तोक्या जुहोति । या एव वर्ष्या आपः । ता अवरुन्धे । अस्यां जुहोति । इयं वा अग्निर्वैश्वानरः २१

अस्यामेवैनाः प्रतिष्ठापयति । उवाच ह प्रजापतिः । स्तोक्यासु वा अहमश्वमेधँ सँ स्थापयामि । तेन ततः सँ स्थितेन चरामीति । अग्नये स्वाहेत्याह । अग्नय एवैनं जुहोति । सोमाय स्वाहेत्याह । सोमायैवैनं जुहोति । सवित्रे स्वाहेत्याह । सवित्र एवैनं जुहोति २२

सरस्वत्यै स्वाहेत्याह । सरस्वत्या एवैनं जुहोति । पूष्णे स्वाहेत्याह । पूष्ण एवैनं जुहोति । बृहस्पतये स्वाहेत्याह । बृहस्पतय एवैनं जुहोति । अपां मोदाय स्वाहेत्याह । अद्भ्य एवैनं जुहोति । वायवे स्वाहेत्याह । वायव एवैनं जुहोति २३

मित्राय स्वाहेत्याह । मित्रायैवैनं जुहोति । वरुणाय स्वाहेत्याह । वरुणायैवैनं जुहोति । एताभ्य एवैनं देवताभ्यो जुहोति । दशदश संपादं जुहोति । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । प्र वा एषोऽस्माल्लोकाच्च्यवते । यः पराचीराहुतीर्जुहोति । पुनःपुनरभ्यावर्तं जुहोति । अस्मिन्नेव लोके प्रतितिष्ठति । एताँ ह वाव सोऽश्वमेधस्य सँ स्थितिमुवाचास्कन्दाय । अस्कन्नँ हि तत् । यद्यज्ञस्य सँ स्थितस्य स्कन्दति २४

3.8.7

प्रजापतये त्वा जुष्टं प्रोक्षामीति पुरस्तात्प्रत्यङ्तिष्ठन्प्रोक्षति । प्रजापतिर्वै देवानामन्नादो वीर्यावान् । अन्नाद्यमेवास्मिन्वीर्यं दधाति । तस्मादश्वः पशूनामन्नादो वीर्यावत्तमः । इन्द्रा ग्निभ्यां त्वेति दक्षिणतः । इन्द्रा ग्नी वै देवानामोजिष्ठौ बलिष्ठौ । ओज एवास्मिन्बलं दधाति । तस्मादश्वः पशूना-मोजिष्ठो बलिष्ठः । वायवे त्वेति पश्चात् । वायुर्वै देवानामाशुः सारसारितमः २५

जवमेवास्मिन्दधाति । तस्मादश्वः । पशूनामाशुः सारसारितमः । विश्वेभ्यस्त्वा देवेभ्य इत्युत्तरतः । विश्वे वै देवा देवानां यशस्वितमाः । यश एवास्मिन्दधाति । तस्मादश्वः पशूनां यशस्वितमः । देवेभ्यस्त्वे-त्यधस्तात् । देवा वै देवानामपचिततमाः । अपचितिमेवास्मिन्दधाति । तस्मादश्वः पशूनामपचिततमः २६

सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात् । सर्वे वै देवास्त्विषिमन्तो हरस्विनः । त्विषिमेवास्मिन्हरो दधाति । तस्मादश्वः पशूनां त्विषिमान्हरस्वितमः । दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेत्याह । एभ्य एवैनं लोकेभ्यः प्रोक्षति । सते त्वासते त्वाद्भ्यस्त्वौषधीभ्यस्त्वा विश्वेभ्यस्त्वा भुतेभ्य इत्याह । तस्मादश्वमेधयाजिनँ सर्वाणि भुतान्युपजीवन्ति । ब्रह्मवादिनो वदन्ति । यत्प्राजापत्योऽश्वः । अथ कस्मादेनमन्याभ्यो देवताभ्योऽपि प्रोक्षतीति । अश्वे वै सर्वा देवता अन्वायत्ताः । तं यद्विश्वेभ्यस्त्वा भूतेभ्य इति प्रोक्षति । देवता एवास्मिन्नन्वायातयति । तस्मादश्वे सर्वा देवता अन्वायत्ताः २७

3.8.8

यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतदश्वस्य स्कन्दति । यत्प्रोक्षितमनालब्धमुत्सृजन्ति । यदश्वचरितानि जुहोति । सर्वहुतमेवैनं करोत्यस्कन्दाय । अस्कन्नँ हि तत् । यद्धुतस्य स्कन्दति । ईंकाराय स्वाहेंकृताय स्वाहेत्याह । एतानि वा अश्वचरितानि । चरितैरेवैनँ समर्धयति २८

तदाहुः । अनाहुतयो वा अश्वचरितानि । नैता होतव्या इति । अथो खल्वाहुः । होतव्या एव । अत्र वावैवं विद्वानश्वमेधँ सँ स्थापयति । यदश्वचरितानि जुहोति । तस्माद्धोतव्या इति । बहिर्धा वा एनमेतदायतनाद्दधाति । भ्रातृव्यमस्मै जनयति २९

यस्यानायतनेऽन्यत्राग्नेराहुतीर्जुहोति । सावित्रिया इष्ट्याः पुरस्तात्स्विष्टकृतः । आहवनीयेऽश्वचरितानि जुहोति । आयतन एवास्याहुतीर्जुहोति । नास्मै भ्रातृव्यं जनयति । तदाहुः । यज्ञमुखेयज्ञमुखे होतव्याः । यज्ञस्य क्ळ्प्त्यै । सुवर्गस्य लोकस्यानुख्यात्या इति । अथो खल्वाहुः ३०

यद्यज्ञमुखेयज्ञमुखे जुहुयात् । पशुभिर्यजमानं व्यर्धयेत् । अव सुवर्गाल्लोकात्पद्येत । पापीयान्त्स्यादिति । सकृदेव होतव्याः । न यजमानं पशुभिर्व्यर्धयति । अभि सुवर्गं लोकं जयति । न पापीयान्भवति । अष्टाचत्वारिँ शतमश्वरूपाणि जुहोति । अष्टाचत्वारिँ शदक्षरा जगती ।जागतोऽश्वः प्राजापत्यः समृद्ध्यै । एकमतिरिक्तं जुहोति । तस्मादेकः प्रजास्वर्धुकः ३१

3.8.9

विभूर्मात्रा प्रभूः पित्रेत्याह । इयं वै माता । असौ पिता । आभ्यामेवैनं परिददाति । अश्वोऽसि हयोऽसीत्याह । शास्त्येवैनमेतत् । तस्माच्छिष्टाः प्रजा जायन्ते । अत्योऽसीत्याह । तस्मादश्वः सर्वान्पशूनत्येति । तस्मादश्वः सर्वेषां पशूनाँ श्रैष्ठ्यं गच्छति ३२

प्र यशः श्रैष्ठ्यमाप्नोति । य एवं वेद । नरोऽस्यर्वासि सप्तिरसि वाज्यसीत्याह । रूपमेवास्यैतन्माहिमानं व्याचष्टे । ययुर्नामासीत्याह । एतद्वा अश्वस्य प्रियं नामधेयम् । प्रियेणैवैनं नामधेयेनाभिवदति । तस्मादप्यामित्रौ संगत्य । नाम्ना चेद्ध्वयेते । मित्रमेव भवतः ३३

आदित्यानां पत्वान्विहीत्याह । आदित्यानेवैनं गमयति । अग्नये स्वाहा स्वाहेन्द्रा ग्निभ्यामिति पूर्वहोमाञ्जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यमतिक्रामति । भूरसि भुवे त्वा भव्याय त्वा भविष्यते त्वेत्युत्सृजति सर्वत्वाय । देवा आशापाला एतं देवेभ्योऽश्वं मेधाय प्रोक्षितं गोपायतेत्याह । शतं वै तल्प्या राजपुत्रा देवा आशापालाः । तेभ्य एवैनं परिददाति । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रमतिः स्वाहेति चतृषु पत्सु जुहोति ३४

एता वा अश्वस्य बन्धनम् । ताभिरेवैनं बध्नाति । तस्मादश्वः प्रमुक्तो बन्धनमागच्छति । तस्मादश्वः प्रमुक्तो बन्धनं न जहाति । राष्ट्रं वा अश्वमेधः । राष्ट्रे खलु वा एते व्यायच्छन्ते । येऽश्वं मेध्यँ रक्षन्ति । तेषां य उदृचं गच्छन्ति । राष्ट्रादेव ते राष्ट्रं गच्छन्ति । अथ य उदृचं न गच्छन्ति ३५राष्ट्रादेव ते व्यवच्छिद्यन्ते । परा वा एष सिच्यते । योऽबलोऽश्वमेधेन यजते । यदमित्रा अश्वं विन्देरन् । हन्येतास्य यज्ञः । चतुश्शता रक्षन्ति । यज्ञस्या-घाताय । अथान्यमानीय प्रोक्षेयुः । सैव ततः प्रायश्चित्तिः ३६

3.8.10

प्रजापतिरकामयताश्वमेधेन यजेयेति । स तपोऽतप्यत । तस्य तेपानस्य । सप्तात्मनो देवता उदक्रामन् । सा दीक्षाभवत् । स एतानि वैश्वदेवान्यपश्यत् । तान्यजुहोत् । तैर्वै स दीक्षामवारुन्ध । यद्वैश्वदेवानि जुहोति । दीक्षामेव तैर्यजमानोऽवरुन्धे ३७

सप्त जुहोति । सप्त हि ता देवता उदक्रामन् । अन्वहं जुहोति । अन्वहमेव दीक्षामवरुन्धे । त्रीणि वैश्वदेवानि जुहोति । चत्वार्यौद्ग्रहणानि । सप्त संपद्यन्ते । सप्त वै शीर्षण्याः प्राणाः । प्राणा दीक्षा । प्राणैरेव प्राणान्दी-क्षामवरुन्धे ३८

एकविँ शतिं वैश्वदेवानि जुहोति । एकविँ शतिर्वै देवलोकाः । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविँ शः । एष सुवर्गो लोकः । तद्दैव्यं क्षत्त्रम् । सा श्रीः । तद्ब्रध्नस्य विष्टपम् । तत्स्वाराज्यमुच्यते ३९

त्रिँ शतमौद्ग्रहणानि जुहोति । त्रिँ शदक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । त्रेधा विभज्य देवतां जुहोति । त्र्! यावृतो वै देवाः । त्र्! यावृत इमे लोकाः । एषां लोकानामाप्त्यै । एषां लोकानां क्ळ्प्त्यै । अप वा एतस्मात्प्राणाः क्रामन्ति ४०

यो दीक्षामतिरेचयति । सप्ताहं प्रचरन्ति । सप्त वै शीर्षन्याः प्राणः । प्राणा दीक्षा । प्राणैरेव प्राणान्दीक्षामवरुन्धे । पूर्णाहुतिमुत्तमां जुहोति । सर्वं वै पूर्णाहुतिः । सर्वमेवाप्नोति । अथो इयं वै पूर्णाहुतिः । अस्यामेव प्रतितिष्ठति ४१

3.8.11

प्रजापतिरश्वमेधमसृजत । तँ सृष्टं न किं चनोदयच्छत् । तं वैश्वदेवान्येवोदयच्छन् । यद्वैश्वदेवानि जुहोति । यज्ञस्योद्यत्यै । स्वाहाधिमाधीताय स्वाहा । स्वाहाधीतं मनसे स्वाहा । स्वाहा मनः प्रजापतये स्वाहा । काय स्वाह कस्मै स्वाहा कतमस्मै स्वाहेति प्राजापत्ये मुख्ये भवतः । प्रजापतिमुखाभिरेवैनं देवताभिरुद्यच्छते ४२

अदित्यै स्वाहादित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहेत्याह । इयं वा अदितिः । अस्या एवैनं प्रतिष्ठायोद्यच्छते । सरस्वत्यै स्वाहा सरस्वत्यै बृहत्यै स्वाहा सरस्वत्यै पावकायै स्वाहेत्याह । वाग्वै सरस्वती ।वाचैवैनमुद्यच्छते । पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वहेत्याह । पशवो वै पूषा । पशुभिरेवैनमुद्यच्छते । त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहेत्याह । त्वष्टा वै पशूनां मिथुनानाँ रूपकृत् । रूपमेव पशुषु दधाति । अथो रूपैरेवैनमुद्यच्छते । विष्णवे स्वाहा विष्णवे निखुर्यपाय स्वहा विष्णवे निभूयपाय स्वाहेत्याह । यज्ञो वै विष्णुः । यज्ञायैवैनमुद्यच्छते । पूर्णाहुतिमुत्तमां जुहोति । प्रत्युत्तब्ध्यै सयत्वाय ४३

3.8.12

सावित्रमष्टाकपालं प्रातर्निर्वपति । अष्टाक्षरा गायत्री ।गायत्रं प्रातःसवनम् । प्रातःसवनादेवैनं गायत्रियाश्छन्दसोऽधि निर्मिमीते । अथो प्रातःसवनमेव तेनाप्नोति । गायत्रीं छन्दः । सवित्रे प्रसवित्र एकादशकपालं मध्यंदिने । एकादशाक्षरा त्रिष्टुप् । त्रैष्टुभं माध्यंदिनँ सवनम् । माध्यंदिनादेवैनँ सवनात्त्रिष्टुभश्छन्दसोऽधि निर्मिमीते ४४

अथो माध्यंदिनमेव सवनं तेनाप्नोति । त्रिष्टुभं छन्दः । सवित्र आसवित्रे द्वादशकपालमपराह्णे । द्वादशाक्षरा जगती ।जागतं तृतीयसवनम् । तृतीयसवनादेवैनं जगत्याश्छन्दसोऽधि निर्मिमीते । अथो तृतीयसवनमेव तेनाप्नोति । जगतीं छन्दः । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रन्तिः स्वाहेति चतस्र आहुतीर्जुहोति ४५

चतस्रो दिशः । दिग्भिरेवैनं परिगृह्णाति । आश्वत्थो व्रजो भवति । प्रजापतिर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा । सोऽश्वत्थे संवत्सरमतिष्ठत् । तदश्वत्थस्याश्वत्थत्वम् । यदाश्वत्थो व्रजो भवति । स्व एवैनं योनौ प्रतिष्ठापयति ४६

3.8.13

आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामित्याह । ब्राह्मण एव ब्रह्मवर्चसं दधाति । तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चस्यजायत । आस्मिन्राष्ट्रे राजन्य इषव्यः शूरो महारथो जायतामित्याह । राजन्य एव शौर्यं महिमानं दधाति । तस्मात्पुरा राजन्य इषव्यः शूरो महारथोऽजायत । दोग्ध्री धेनुरित्याह । धेन्वामेव पयो दधाति । तस्मात्पुरा दोग्ध्री धेनुरजायत । वोढानड्वानियाह ४७

अनडुह्येव वीर्यं दधाति । तस्मात्पुरा वोढानड्वानजायत । आशुः सप्तिरित्याह । अश्व एव जवं दधाति । तस्मात्पुराशुरश्वोऽजायत । पुरंधिर्योषेत्याह । योषित्येव रूपं दधाति । तस्मात्स्त्री युवतिः प्रिया भावुका । जिष्णू रथेष्ठा इत्याह । आ ह वै तत्र जिष्णू रथेष्ठा जायते ४८

यत्रैतेन यज्ञेन यजन्ते । सभेयो युवेत्याह । यो वै पूर्ववयसी ।स सभेयो युवा । तस्माद्युवा पुमान्प्रियो भावुकः । आस्य यजमानस्य वीरो जायतामित्याह । आ ह वै तत्र यजमानस्य वीरो जायते । यत्रैतेन यज्ञेन यजन्ते । निकामेनिकामे नः पर्जन्यो वर्षत्वित्याह । निकामेनिकामे ह वै तत्र पर्जन्यो वर्षति । यत्रैतेन यज्ञेन यजन्ते । फलिन्यो न ओषधयः पच्यन्तामित्याह । फलिन्यो ह वै तत्रौषधयः पच्यन्ते । यत्रैतेन यज्ञेन यजन्ते । योगक्षेमो नः कल्पतामित्याह । कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः । यत्रैतेन यज्ञेन यजन्ते ४९

3.8.14

प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत् । स आत्मन्नश्वमेधमधत्त । तं देवा अब्रुवन् । एष वाव यज्ञः । यदश्वमेधः । अप्येव नोऽत्रास्त्विति । तेभ्य एतानन्नहोमान्प्रायच्छत् । तानजुहोत् । तैर्वै स देवानप्रीणात् । यदन्नहोमाञ्जुहोति ५०

देवानेव तैर्यजमानः प्रीणाति । आज्येन जुहोति । अग्नेर्वा एतद्रू पम् । यदाज्यम् । यदाज्येन जुहोति । अग्निमेव तत्प्रीणाति । मधुना जुहोति । महत्यै वा एतद्देवतायै रूपम् । यन्मधु । यन्मधुना जुहोति ५१

महतीमेव तद्देवतां प्रीणाति । तण्डुलैर्जुहोति । वसूनां वा एतद्रू पम् । यत्तण्डुलाः । यत्तण्डुलैर्जुहोति । वसूनेव तत्प्रीणाति । पृथुकैर्जुहोति । रुद्रा णां वा एतद्रू पम् । यत्पृथुकाः । यत्पृथुकैर्जुहोति ५२

रुद्रा नेव तत्प्रीणाति । लाजैर्जुहोति । आदित्यानां वा एतद्रू पम् । यल्लाजाः । यल्लाजैर्जुहोति । आदित्यानेव तत्प्रीणाति । करम्बैर्जुहोति । विश्वेषां वा एतद्देवानाँ रूपम् । यत्करम्बाः । यत्करम्बैर्जुहोति ५३

विश्वानेव तद्देवान्प्रीणाति । धानाभिर्जुहोति । नक्षत्राणां वा एतद्रू पम् । यद्धानाः । यद्धानाभिर्जुहोति । नक्षत्राण्येव तत्प्रीणाति । सक्तुभिर्जुहोति । प्रजापतेर्वा एतद्रू पम् । यत्सक्तवः । यत्सक्तुभिर्जुहोति ५४

प्रजापतिमेव तत्प्रीणाति । मसूस्यैर्जुहोति । सर्वासां वा एतद्देवताँ रूपम् । यन्मसूस्यानि । यन्मसूस्यैर्जुहोति । सर्वा एव तद्देवताः प्रीणाति । प्रियङ्गुतण्डुलैर्जुहोति । प्रियाङ्गा ह वै नामैते । एतैर्वै देवा अश्वस्याङ्गानि समदधुः । यत्प्रियङ्गुतण्डुलैर्जुहोति । अश्वस्यैवाङ्गानि संदधाति । दशान्नानि जुहोति । दशाक्षरा विराट् । विराट्कृत्स्नस्यान्नाद्यस्यावरुद्ध्यै ५५

3.8.15

प्रजापतिरश्वमेधमसृजत । तँ सृष्टँ रक्षाँ स्यजिघाँ सन् । स एतान्प्रजा-पतिर्नक्तँ होमानपश्यत् । तानजुहोति । तैर्वै स यज्ञाद्र क्षाँ स्यपाहन् । यन्नक्तँ होमाञ्जुहोति । यज्ञादेव तैर्यजमानो रक्षाँ स्यपहन्ति । आज्येन जुहोति । वज्रो वा आज्यम् । वज्रेणैव यज्ञाद्र क्षाँ स्यपहन्ति ५६

आज्यस्य प्रतिपदं करोति । प्राणो वा आज्यम् । मुखत एवास्य प्राणं दधाति । अन्नहोमाञ्जुहोति । शरीरवदेवावरुन्धे । व्यत्यासं जुहोति । उभय-स्यावरुध्यै । नक्तं जुहोति । रक्षसामपहत्यै । आज्येनान्नततो जुहोति ५७

प्राणो वा आज्यम् । उभयत एवास्य प्राणं दधाति । पुरस्ताच्चोपरिष्टाच्च । एकस्मै स्वाहेत्याह । अस्मिन्नेव लोके प्रतितिष्ठति । द्वाभ्याँ स्वाहेत्याह । अमुष्मिन्नेव लोके प्रतितिष्ठति । उभयोरेव लोकयोः प्रतितिष्ठति । अस्मिँ श्चा-मुष्मिँ श्च । शताय स्वाहेत्याह । शतायुर्वै पुरुषः शतवीर्यः । आयुरेव वीर्यमवरुन्धे । सहस्राय स्वाहेत्याह । आयुर्वै सहस्रम् । आयुरेवावरुन्धे । सर्वस्मै स्वाहेत्याह । अपरिमितमेवावरुन्धे ५८

3.8.16

प्रजापतिं वा एष ईप्सतीत्याहुः । योऽश्वमेधेन यजत इति । अथो आहुः । सर्वाणि भूतानीति । एकस्मै स्वाहेत्याह । प्रजापतिर्वा एकः । तमेवाप्नोति । एकस्मै स्वाहा द्वाभ्याँ स्वाहेत्यभिपूर्वमाहुतीर्जुहोति । अभिपूर्वमेव सुवर्गं लोकमेति । एकोत्तरं जुहोति ५९

एकवदेव सुवर्गं लोकमेति । संततं जुहोति । सुवर्गस्य लोकस्य संतत्यै । शताय स्वाहेत्याह । शतायुर्वै पुरुषः शतवीर्यः । आयुरेव वीर्यमवरुन्धे । सहस्राय स्वाहेत्याह । आयुर्वै सहस्रम् । आयुरेवावरुन्धे । अयुताय स्वाहा नियुताय स्वाहा प्रयुताय स्वाहेत्याह ६०

त्रय इमे लोकाः । इमानेव लोकानवरुन्धे । अर्बुदाय स्वाहेत्याह । वाग्वा अर्बुदम् । वाचमेवावरुन्धे । न्यर्बुदाय स्वाहेत्याह । यो वै वाचो भूमा । तन्न्यर्बुदम् । वाच एव भूमानमवरुन्धे । समुद्रा य स्वाहेत्याह ६१

समुद्र मेवाप्नोति । मध्याय स्वाहेत्याह । मध्यमेवाप्नोति । अन्ताय स्वाहेत्याह । अन्तमेवाप्नोति । परार्धाय स्वाहेत्याह । परार्धमेवाप्नोति । उषसे स्वाहा व्युष्ट्यै स्वाहेत्याह । रातिर्वा उषाः । अहर्व्युष्टिः । अहोरात्रे एवावरुन्धे । अथो अहोरात्रयोरेव प्रतितिष्ठति । ता यदुभयीर्दिवा वा नक्तं वा जुहुयात् । अहोरात्रे मोहयेत् । उषसे स्वाहा व्युष्ट्यै स्वाहोदेष्यते स्वाहोद्यते स्वाहेत्यनुदिते जुहोति । उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहेत्युदिते जुहोति । अहोरात्रयोरव्यतिमोहाय ६२

3.8.17

विभूर्मात्रा प्रभूः पित्रेत्यश्वनामानि जुहोति । उभयोरेवैनं लोकयोर्नामधेयं गमयति । आयनाय स्वाहा प्रायणाय स्वाहेत्युद्द्रावाञ्जुहोति । सर्वमेवैनमस्कन्नँ सुवर्गं लोकं गमयति । अग्नये स्वाहा सोमाय स्वाहेति पूर्वहोमाञ्जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यमतिक्रामति । पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्याह । यथायजुरेवैतत् । अग्नये स्वाहा सोमाय स्वाहेति पूर्वदीक्षा जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यमतिक्रामति ६३

पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येकविँ शिनीं दीक्षां जुहोति । एकविँ शतिर्वै देवलोकाः । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविँ शः । एष सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । भुवो देवानां कर्मणेत्यृतुदीक्षा जुहोति । ऋतूनेवास्मै कल्पयति । अग्नये स्वाहा वायवे स्वाहेति जुहोत्यनन्तरित्यै ६४

अर्वाङ्यज्ञः संक्रामत्वित्याप्तीर्जुहोति । सुवर्गस्य लोकस्याप्त्यै । भूतं भव्यं भविष्यदिति पर्याप्तीर्जुहोति । सुवर्गस्य लोकस्य पर्याप्त्यै । आ मे गृहा भवन्त्वित्याभूर्जुहोति । सुवर्गस्य लोकस्याभूत्यै । अग्निना तपोऽन्वभव-दित्यनुभूर्जुहोति । सुवर्गस्य लोकस्यानुभूत्यै । स्वाहाधिमाधीताय स्वाहेति समस्ताइ वैश्वदेवानि जुहोति । समस्तमेव द्विषन्तं भ्रातृव्यमतिक्रामति ६५

दद्भ्यः स्वाहा हनूभ्याँ स्वाहेत्यङ्गहोमाञ्जुहोति । अङ्गेअङ्गे वै पुरुषस्य पाप्मोपश्लिष्टः । अङ्गादङ्गादेवैनं पाप्मनस्तेन मुञ्चति । अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि जुहोति । रूपैरेवैनँ समर्धयति । ओषधीभ्यः स्वाहा मूलेभ्यसः स्वाहेत्योषधिहोमाञ्जुहोति । द्वय्यो वा ओषधयः । पुष्पेभ्योऽन्याः फलं गृह्णन्ति । मूलेभ्योऽन्याः । ता एवोभयीरवरुन्धे ६६

वनसपतिभ्यः स्वाहेति वनस्पतिहोमाञ्जुहोति । आरण्यस्यान्नाद्यस्यावरुध्यै । मेषस्त्वा पचतैरवत्वित्यपाव्यानि जुहोति । प्राणा वै देवा अपाव्याः । प्राणानेवावरुन्धे । कूप्याभ्यः स्वाहाद्भ्यः स्वाहेत्यपाँ होमाञ्जुहोति । अप्सु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे ६७

3.8.18

अम्भाँ सि जुहोति । अयं वै लोकोऽम्भाँ सि । तस्य वसवोऽधिपतयः । अग्निर्ज्योतिः । यदम्भाँ सि जुहोति । इममेव लोकमवरुन्धे । वसूनाँ सायुज्यं गच्छति । अग्निं ज्योतिरवरुन्धे । नभाँ सि जुहोति । अन्तरिक्षं वै नभाँ सि ६८

तस्य रुद्रा अधिपतयः । वायुर्ज्योतिः । यन्नभाँ सि जुहोति । अन्तरिक्षमेवा-वरुन्धे । रुद्रा णाँ सायुज्यं गच्छति । वायुं ज्योतिरवरुन्धे । महाँ सि जुहोति । असौ वै लोको महाँ सि । तस्यादित्या अधिपतयः । सूर्यो ज्योतिः ६९

यन्महाँ सि जुहोति । अमुमेव लोकमवरुन्धे । आदित्यानाँ सायुज्यं गच्छति । सूर्यं ज्योतिरवरुन्धे । नमो राज्ञे नमो वरुणयेति यव्यानि जुहोति । अन्नाद्य-स्यावरुध्यै । मयोभूर्वातो अभि वातूस्रा इति गव्यानि जुहोति । पशूनाम-वरुध्यै । प्राणाय स्वाहा व्यानाय स्वाहेति संततिहोमञ्जुहोति । सुवर्गस्य लोकस्य संतत्यै ७०

सिताय स्वाहासिताय स्वाहेति प्रमुक्तीर्जुहोति । सुवर्गस्य लोकस्य प्रमुक्त्यै । पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्याह । यथायजुरेवैतत् । दत्वते स्वहा-दन्तकाय स्वाहेति शरीरहोमाञ्जुहोति । पितृलोकमेव तैर्यजमानोऽवरुन्धे । कस्त्वा युनक्ति स त्वा युनक्त्विति परिधीन्युनक्ति । इमे वै लोकाः परिधयः । इमानेवास्मै लोकान्युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै ७१

यः प्राणतो य आत्मदा इति महिमानौ जुहोति । सुवर्गो वै लोको महः । सुवर्गमेव ताभ्यां लोकं यजमानोऽवरुन्धे । आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामिति समस्तानि ब्रह्मवर्चसानि जुहोति । ब्रह्मवर्चसमेव तैर्यजमानोऽवरुन्धे । जज्ञि बीजमिति जुहोत्यनन्तरित्यै । अग्नये समनमत्पृथिव्यै समनमदिति संनतिहोमाञ्जुहोति । सुवर्गस्य लोकस्य संनत्यै । भूताय स्वाहा भविष्यते स्वाहेति भूताभव्यौ होमौ जुहोति । अयं वै लोको भूतम् ७२

असौ भविष्यत् । अनयोरेव लोकयोः प्रतितिष्ठति । सर्वस्याप्त्यै । सर्वस्या-वरुद्ध्यै । यदक्रन्दः प्रथमं जायमान इत्यश्वस्तोमीयं जुहोति । सर्वस्याप्त्यै । सर्वस्य जित्यै । सर्वमेव तेनाप्नोति । सर्वं जयति । योऽश्वमेधेन यजते ७३

य उ चैनमेवं वेद । यज्ञँ रक्षाँ स्यजिघाँ सन् । स एतान्प्रजापतिर्नक्तँ हो-मानपश्यत् । तानजुहोत् । तैर्वै स यज्ञाद्र क्षाँ स्यपाहन् । यन्नक्तंहोमाञ्जुहोति । यज्ञादेव तैर्यजमानो रक्षाँ स्यपहन्ति । उषसे स्वाहा व्युष्ट्यै स्वाहेत्यन्ततो जुहोति । सुवर्गस्य लोकस्य समष्ट्यै ७४

3.8.19

एकयूपो वैकादशिनी वा । अन्येषां यज्ञानां यूपा भवन्ति । एकविँ शि-न्यश्वमेधस्य । स्वर्गस्य लोकस्याभिजित्यै । बैल्वो वा खादिरो वा पालाशो वा । अन्येषां यज्ञक्रतूनां यूपा भवन्ति । राज्जुदाल एकविँ शत्यरत्निरश्वमेधस्य । सुवर्गस्य लोकस्य समष्ट्यै । नान्येषां पशूनां तेजन्या अवद्यन्ति । अवद्यन्त्यश्वस्य ७५

पाप्मा वै तेजनी ।पाप्मनोऽपहत्यै । प्लक्षशाखायामन्येषां पशूनामवद्यन्ति । वेतसशाखायामश्वस्य । अप्सुयोनिर्वा अश्वः । अप्सुजो वेतसः । स्व एवास्य योनाववद्यति । यूपेषु ग्राम्यान्पशून्नियुञ्जन्ति । आरोकेष्वारण्यान्धारयन्ति । पशूनां व्यावृत्त्यै । आ ग्राम्यान्पशूँ ल्लभन्ते । प्रारण्यान्त्सृजन्ति । पाप्मनोऽपहत्यै ७६

3.8.20

राज्जुदालमग्निष्ठं मिनोति । भ्रूणहत्याया अपहत्यै । पौतुद्र वावभितो भवतः । पुण्यस्य गन्धस्यावरुध्यै । भ्रूणहत्यामेवास्मादपहत्य । पुण्येन गन्धेनोभयतः परिगृह्णाति । षड्बैल्वा भवन्ति । ब्रमवर्चसस्यावरुद्ध्यै । षट्खादिराः । तेजसोऽवरुध्यै ७७

षट्पालाशाः । सोमपीथस्यावरुध्यै । एकविँ शतिः संपद्यन्ते । एकविँ श-तिर्वै देवलोकाः । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविँ शः । एष सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । शतं पशवो भवन्ति ७८ शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति । सर्वं वा अश्वमेध्याप्नोति । अपरिमिता भवन्ति । अपरिमितस्यावरुद्ध्यै । ब्रह्मवादिनो वदन्ति । कस्मात्सत्यात् । दक्षिणतोऽन्येषां पशूनामवद्यन्ति । उत्तरतो-ऽश्वस्येति । वारुणो वा अश्वः ७९

एषा वै वरुणस्य दिक् । स्वायामेवास्य दिश्यवद्यति । यदितरेषां पशूनामवद्यति । शतदेवत्यं तेनावरुन्धे । चितेऽग्नावधि वैतसे कटेऽश्वं चिनोति । अप्सुयोनिर्वा अश्वः अप्सुजो वेतसः । स्व एवैनं योनौ प्रतिष्ठापयति । पुरस्तात्प्रत्यञ्चं तूपरं चिनोति । पश्चात्प्राचीनं गोमृगम् ८०

प्राणापानावेवास्मिन्त्सम्यञ्चौ दधाति । अश्वं तूपरं गोमृगमिति सर्वहुत एताञ्जुहोति । एषां लोकानामभिजित्यै । आत्मनाभिजुहोति । सात्मानमेवैनँ सतनुं करोति । सात्मामुष्मिँ ल्लोके भवति । य एवं वेद । अथो वसोरेव धारां तेनावरुन्धे । इलुवर्दाय स्वाहा बलिवर्दाय स्वाहेत्याह । संवत्सरो वा इलुवर्दः । परिवत्सरो बलिवर्दः । संवत्सरादेव परिवत्सरादायुरवरुन्धे । आयुरेवास्मिन्दधाति । तस्मादश्वमेधयाजी जरसा विस्रसामुं लोकमेति ८१

3.8.21

एकविँ शोऽग्निर्भवति । एकविँ शः स्तोमः । एकविँ शतिर्यूपाः । यथा वा अश्वा वर्षभा वा वृषाणः सँ स्फुरेरन् । एवमेतत्स्तोमाः सँ स्फुरन्ते । यदेकविँ शाः । ते यत्समृच्छेरन् । हन्येतास्य यज्ञः । द्वादश एवाग्निः स्यादित्याहुः । द्वादशः स्तोमः ८२

एकादश युपाः । यद्द्वादशोऽग्निर्भवति । द्वादश मासाः संवत्सरः । संवत्सरेणैवास्मा अन्नमवरुन्धे । यद्दश यूपा भवन्ति । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । य एकादशः । स्तन एवास्यै सः ८३

दुह एवैनां तेन । तदाहुः । यद्द्वादशोऽग्निः स्याद्द्वादशः स्तोम एकादश यूपाः । यथा स्थुरिणा यायात् । तादृक्तत् । एकविँ श एवाग्निः स्यादित्याहुः । एकविँ शः स्तोमः । एकविँ शतिर्यूपाः । यथा प्रष्टिभिर्याति । तादृगेव तत् ८४

यो वा अश्वमेधे तिस्रः ककुभो वेद । ककुद्ध राज्ञां भवति । एकविँ शोऽनिर्भवति । एकविँ शः स्तोमः । एकविँ शतिर्यूपाः । एता वा अश्वमेधे तिस्रः ककुभः । य एवं वेद । ककुद्ध राज्ञां भवति । यो वा अश्वमेधे त्रीणि शीर्षाणि वेद । शिरो ह राज्ञां भवति । एकविँ शोऽग्निर्भवति । एकविँ शः स्तोमः । एकविँ शतिर्यूपाः । एतानि वा अश्वमेधे त्रीणि शीर्षाणि । य एवं वेद । शिरो ह राज्ञां भवति ८५

3.8.22

देवा वा अश्वमेधे पवमाने । सुवर्गं लोकं न प्राजानन् । तमश्वः प्राजानात् । यदश्वमेधेऽश्वेन मेध्येनोदञ्चो बहिष्पवमानँ सर्पन्ति । सुवर्गस्य लोकस्य प्रज्ञात्यै । न वै मनुष्यः सुवर्गं लोकमञ्जसा वेद । अश्वो वै सुवर्गं लोकमञ्जसा वेद । यदुद्गातोद्गायेत् । यथाक्षेत्रज्ञोऽन्येन पथा प्रतिपादयेत् । तादृक्तत् ८६

उद्गातारमपरुद्ध्य । अश्वमुद्गीथाय वृणीते । यथा क्षेत्रज्ञोऽञ्जसा नयति । एवमेवैनमश्वः सुवर्गं लोकमञ्जसा नयति । पुच्छमन्वारभन्ते । सुवर्गस्य लोकस्य समष्ट्यै । हिं करोति । सामैवाकः । हिं करोति । उद्गीथ एवास्य सः ८७

वडबा उपरुन्धन्ति । मिथुनत्वाय प्रजात्यै । अथो यथोपगातार उपगायन्ति । तादृगेव तत् । उदगासीदश्वो मेध्य इत्याह । प्राजापत्यो वा अश्वः । प्रजापतिरुद्गीथः । उद्गीथमेवावरुन्धे । अथो ऋक्सामयोरेव प्रतितिष्ठति । हिरण्येनोपाकरोति । ज्योतिर्वै हिरण्यम् । ज्योतिरेव मुखतो दधाति । यजमाने च प्रजासु च । अथो हिरण्यज्योतिरेव यजमानः सुवर्गं लोकमेति ८८

3.8.23

पुरुषो वै यज्ञः । यज्ञः प्रजापतिः । यदश्वे पशून्नियुञ्जन्ति । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । अश्वं तूपरं गोमृगम् । तानग्निष्ठ आलभते । सेनामुखमेव तत्सँ श्यति । तस्माद्रा जमुखं भीष्मं भावुकम् । आग्नेयं कृष्णग्रीवं पुरस्ताल्ललाटे । पूर्वाग्निमेव तं कुरुते ८९

तस्मात्पूर्वाग्निं पुरस्तात्स्थापयन्ति । पौष्णमन्वञ्चम् । अन्नं वै पूषा । तस्मात्पूर्वाग्नावाहार्यमाहरन्ति । ऐन्द्रा पौष्णमुपरिष्टात् । ऐन्द्रो वै राजन्योऽन्नं पूषा । अन्नाद्येनैवैनमुभयतः परिगृह्णाति । तस्माद्रा जन्योऽन्नादो भावुकः । आग्नेयौ कृष्णग्रीवौ बाहुवोः । बाहुवोरेव वीर्यं धत्ते ९०

तस्माद्रा जन्यो बाहुबली भावुकः । त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः । सक्थ्योरेव वीर्यं धत्ते । तस्माद्रा जन्य ऊरुबली भावुकः । शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे । ब्रह्मवर्चसमेवोपरिष्टाद्धत्ते । अथो कवचे एवैते अभितः पर्यूहते । तस्माद्रा जन्यः संनद्धो वीर्यं करोति । धात्रे पृषोदरमधस्तात् । प्रतिष्ठामेवैतां कुरुते । अथो इयं वै धाता । अस्यामेव प्रतितिष्ठति । सौर्यं बलक्षं पुच्छे । उत्सेधमेव तं कुरुते । तस्मादुत्सेधं भये प्रजा अभिसँ श्रयन्ति ९१ ८


</poem>