तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०९
अश्वमेधे द्वितीयमहस्तृतीयं च।
3.9.1
प्रजापतिरश्वमेधमसृजत । सोऽस्मात्सृष्टोऽपाक्रामत् । तमष्टादशिभिरनुप्रायुङ्क्त । तमाप्नोत् । तमाप्त्वाष्टादशिभिरवारुन्ध । यदष्टादशिन आलभ्यन्ते । यज्ञमेव तैराप्त्वा यजमानोऽवरुन्धे । संवत्सरस्य वा एषा प्रतिमा । यदष्टादशिनः । द्वादश मासाः पञ्चृतवः १
संवत्सरोऽष्टादशः । यदष्टादशिन आलभ्यन्ते । संवत्सरेमेव तैराप्त्वा यजमानोऽवरुन्धे । अग्निष्ठेऽन्यान्पशूनुपाकरोति । इतरेषु यूपेष्वष्टादशि-नोऽजामित्वाय । नवनवालभ्यन्ते सवीर्यत्वाय । यदारण्यैः सꣳ स्थापयेत् । व्यवस्येतां पितापुत्रौ । व्यध्वानः क्रामेयुः । विदूरं ग्रामयोर्ग्रामान्तौ स्याताम् २
ऋक्षीकाः पुरुषव्याघ्राः परिमोषिणि आव्याधिनीस्तस्करा अरण्येष्वाजायेरन् । तदाहुः । अपशवो वा एते । यदारण्याः । यदारण्यैः सꣳ स्थापयेत् । क्षिप्रे यजमानमरण्यं मृतꣳ हरेयुः । अरण्यायतना ह्यारण्याः पशव इति । यत्पशून्नालभेत । अनवरुद्धा अस्य पशवः स्युः । यत्पर्यग्निकृतानुत्सृजेत् ३
यज्ञवैशसं कुर्यात् । यत्पशूनालभते । तेनैव पशूनवरुन्धे । यत्पर्यग्नि-कृतानुत्सृजत्ययज्ञवैशसाय । अवरुद्धा अस्य पशवो भवन्ति । न यज्ञवैशसं भवति । न यजमानमरण्यं मृतꣳ हरन्ति । ग्राम्यैः सꣳ स्थापयति । एते वै पशवः क्षेमो नाम । सं पितापुत्राववस्यतः । समध्वानः क्रामन्ति । समन्तिकं ग्रामयोर्ग्रामातौ भवतः । नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिनीस्तस्करा अरण्येष्वाजायन्ते ४
3.9.2
प्रजापतिरकामयतोभौ लोकाववरुन्धीयेति । स एतानुभयान्पशूनपश्यत् । ग्राम्याꣳ श्चारण्याꣳ श्च । तानालभत । तैर्वै स उभौ लोकाववारुन्ध । ग्राम्यैरेव पशुभिरिमं लोकमवारुन्ध । आरण्यैरमुम् । यद्ग्राम्यान्पशूनालभते । इममेव तैर्लोकमवरुन्धे । यदारण्यान् १
अमुं तैः । अनवरुद्धो वा एतस्य संवत्सर इत्याहुः । य इतेतश्चातुर्मास्यानि संवत्सरं प्रयुङ्क्त इति । एतावान्वै संवत्सरः । यच्चातुर्मास्यानि । यदेते चातुर्मास्याः पशव आलभ्यन्ते । प्रत्यक्षमेव तैः संवत्सरं यजमानोऽवरुन्धे । वि वा एष प्रजया पशुभिरृध्यते । यः संवत्सरं प्रयुङ्क्ते । संवत्सरः सुवर्गो लोकः २
सुवर्गं तु लोकं नापराध्नोति । प्रजा वै पशव एकादशिनी ।यदेत ऐकादशिनाः पशव आलभ्यन्ते । साक्षादेव प्रजां पशून्यजमानोऽवरुन्धे । प्रजापति-र्विराजमसृजत । सा सृष्टाश्वमेधं प्रविशत् । तां दशिभिरनु प्रायुङ्क्त । तामाप्नोत् । तामाप्त्वा दशिभिरवारुन्ध । यद्दशिन आलभ्यन्ते ३
विराजमेव तैराप्त्वा यजमानोऽवरुन्धे । एकादश दशत आलभ्यन्ते । एकादशाक्षरा त्रिष्टुप् । त्रैष्टुभाः पशवः । पशूनेवावरुन्धे । वैश्वदेवो वा अश्वः । नानादेवत्याः पशवो भवन्ति । अश्वस्य सर्वत्वाय । नानारूपा भवन्ति । तस्मान्नानारूपाः पशवः । बहुरूपा भवन्ति । तस्माद्बहुरूपाः पशवः समृद्ध्यै ४
3.9.3
अस्मै वै लोकाय ग्राम्याः पशव आलभ्यन्ते । अमुष्मा आरण्याः । यद्ग्राम्यान्पशूनालभते । इममेव तैर्लोकमवरुन्धे । यदारण्यान् । अमुं तैः । उभयान्पशूनालभते । ग्राम्याꣳ श्चारण्याꣳ श्च । उभयोर्लोकयोरवरुद्ध्यै । उभयान्पशूनालभते १
ग्राम्याꣳ श्चारण्याꣳ श्च । उभयस्यान्नाद्यस्यावरुद्ध्यै । उभयान्पशूनालभते । ग्राम्याꣳ श्चारण्याꣳ श्च । उभयेषां पशूनामवरुद्ध्यै । त्रयस्त्रयो भवन्ति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । ब्रह्मवादिनो वदन्ति । कस्मात्सत्यात् २
अस्मिꣳल्लोके बहवः कामा इति । यत्समानीभ्यो देवताभ्योऽन्येऽन्ये पशव आलभ्यन्ते । अस्मिन्नेव तल्लोके कामान्दधाति । तस्मादस्मिꣳ ल्लोके बहवः कामाः । त्रयाणांत्रयाणाꣳ सह वपा जुहोति । त्र्यावृतो वै देवाः । त्र्यावृत इमे लोकाः । एषां लोकानामाप्त्यै । एषां लोकानां क्ळ्प्त्यै । पर्यग्निकृ-तानारण्यानुत्सृजन्त्यहिꣳ सायै ३
3.9.4
युञ्जन्ति ब्रध्नमित्याह । असौ वा आदित्यो ब्रध्नः । आदित्यमेवास्मै युनक्ति । अरुषमित्याह । अग्निर्वा अरुषः । अग्निमेवास्मै युनक्ति । चरन्तमित्याह । वायुर्वै चरन् । वायुमेवास्मै युनक्ति । परितस्थुष इत्याह १
इमे वै लोकाः परितस्थुषः । इमनेवास्मै लोकान्युनक्ति । रोचन्ते रोचना दिवीत्याह । नक्षत्राणि वै रोचना दिवि । नक्षत्राण्येवास्मै रोचयति । युञ्जन्त्यस्य काम्येत्याह । कामानेवास्मै युनक्ति । हरी विपक्षसेत्याह । इमे वै हरी विपक्षसा । इमे एवास्मै युनक्ति २
शोणा धृष्णू नृवाहसेत्याह । अहोरात्रे वै नृवाहसा । अहोरात्रे एवास्मै युनक्ति । एता एवास्मै देवता युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै । केतुं कृण्वन्नकेतव इति ध्वजं प्रतिमुञ्चति । यश एवैनꣳ राज्ञां गमयति । जीमूतस्येव भवति प्रतीकमित्याह । यथायजुरेवैतत् । ये ते पन्थानः सवितः पूर्व्यास इत्यध्वर्युर्यजमानं वाचयत्यभिजित्यै ३
परा वा एतस्य यज्ञ एति । यस्य पशुरुपाकृतोऽन्यत्र वेद्या एति । एतꣳ स्तोतरेतेन पथा पुनरश्वमावर्तयासि न इत्याह । वायुर्वै स्तोता । वायुमेवास्य परस्ताद्दधात्यावृत्त्यै । यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतदश्वस्य स्कन्दति । यदस्योपाकृतस्य लोमानि शीयन्ते । यद्वालेषु काचानावयन्ति । लोमान्येवास्य तत्संभरन्ति ४
भूर्भुवः सुवरिति प्राजापत्याभिरावयन्ति । प्राजापत्यो वा अश्वः । स्वयैवैनं देवतया समर्धयन्ति । भूरिति महिषी ।भुव इति वावाता । सुवरिति परिवृक्ती ।एषां लोकानामभिजित्यै । हिरण्ययाः काचा भवन्ति । ज्योतिर्वै हिरण्यम् । राष्ट्रमश्वमेधः ५
ज्योतिश्चैवास्मै राष्ट्रं च समीची दधाति । सहस्रं भवन्ति । सहस्रसंमितः सुवर्गो लोकः । सुवर्गस्य लोकस्याभिजित्यै । अप वा एतस्मात्तेज इन्द्रियं पशवः श्रीः क्रामन्ति । योऽश्वमेधेन यजते । वसवस्त्वाञ्जन्तु गायत्रेण छन्दसेति महिष्यभ्यनक्ति । तेजो वा आज्यम् । तेजो गायत्री ।तेजसैवास्मै तेजोऽवरुन्धे ६
रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन छन्दसेति वावाता । तेजो वा आज्यम् । इन्द्रियं त्रिष्टुप् । तेजसैवास्मा इन्द्रियमवरुन्धे । आदित्यास्त्वाञ्जन्तु जागतेन छन्दसेति परिवृक्ती । तेजो वा आज्यम् । पशवो जगती । तेजसैवास्मै पशूनवरुन्धे । पत्नयोऽभ्यञ्जन्ति । श्रिया वा एतद्रूपम् ७
यत्पत्नयः । श्रियमेवास्मिन्तद्दधति । नास्मात्तेज इन्द्रियं पशवः श्रीरपकामन्ति । लाजी३ञ्शाची३न्यशो ममा३ꣳ! इत्यतिरिक्तमन्नमश्वायोपाहरन्ति । प्रजामेवान्नादीं कुर्वते । एतद्देवा अन्नमत्तैतदन्नमद्धि प्रजापत इत्याह । प्रजा-यामेवान्नाद्यं दधते । यदि नावजिघ्रेत् । अग्निः पशुरासीदित्यवघ्रापयेत् । अव हैव जिघ्रति । आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठं पृथिवी सधस्थमित्यश्वमनुमन्त्रयते । एषां लोकानामभिजित्यै । समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याप्रियो भवन्ति सरूपत्वाय ८
3.9.5
तेजसा वा एष ब्रह्मवर्चसेन व्यृध्यते । योऽश्वमेधेन यजते । होता च ब्रह्मा च ब्रह्मोद्यं वदतः । तेजसा चैवैनं ब्रह्मवर्चसेन च समर्धयतः । दक्षिणतो ब्रह्मा भवति । दक्षिणतआयतनो वै ब्रह्मा । बार्हस्पत्यो वै ब्रह्मा । ब्रह्मवर्चसमेवास्य दक्षिणतो दधाति । तस्माद्दक्षिणोऽर्धो ब्रह्मवर्चसितरः । उत्तरतो होता भवति १
उत्तरतआयतनो वै होता । आग्नेयो वै होता । तेजो वा अग्निः । तेज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्धस्तेजस्वितरः । यूपमभितो वदतः । यजमानदेवत्यो वै यूपः । यजमानमेव तेजसा च ब्रह्मवर्चसेन च समर्धयतः । किꣳ स्विदासीत्पूर्वचित्तिरित्याह । द्यौर्वै वृष्टिः पूर्वचित्तिः २
दिवमेव वृष्टिमवरुन्धे । किꣳ स्विदासीद्बृहद्वय इत्याह । अश्वो वै बृहद्वयः । अश्वमेवावरुन्धे । किꣳ स्विदासीत्पिशङ्गिलेत्याह । रात्रिर्वै पिशङ्गिला । रात्रिमेवावरुन्धे । किꣳ स्विदासीत्पिलिप्पिलेत्याह । श्रीर्वै पिलिप्पिला । अन्नाद्यमेवावरुन्धे ३
कः स्विदेकाकी चरतीत्याह । असौ वा आदित्य एकाकी चरति । तेज एवावरुन्धे । क उ स्विज्जायते पुनरित्याह । चन्द्र मा वै जायते पुनः । आयुरेवावरुन्धे । किꣳ स्विद्धिमस्य भेषजमित्याह । अग्निर्वै हिमस्य भेषजम् । ब्रह्मवर्चसमेवावरुन्धे । किꣳ स्विदावपनं महदित्याह ४
अयं वै लोक आवपनं महत् । अस्मिन्नेव लोके प्रतितिष्ठति । पृच्छामि त्वा परमन्तं पृथिव्या इत्याह । वेदिर्वै परोऽन्तः पृथिव्याः । वेदिमेवावरुन्धे । पृच्छामि त्वा भुवनस्य नाभिमित्याह । यज्ञो वै भुवनस्य नाभिः । यज्ञमेवावरुन्धे । पृच्छामि त्वा वृष्णो अश्वस्य रेत इत्याह । सोमो वै वृष्णो अश्वस्य रेतः । सोमपीथमेवावरुन्धे । पृच्छामि वाचः परमं व्योमेत्याह । ब्रह्म वै वाचः परमं व्योम । ब्रहम्वर्चसमेवावरुन्धे ५
3.9.6
अप वा एतस्मात्प्राणाः क्रामन्ति । योऽश्वमेधेन यजते । प्राणाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति । प्राणानेवास्मिन्दधाति । नास्मात्प्राणा अपक्रामन्ति । अवन्तीः स्थावन्तीस्त्वावन्तु । प्रियं त्वा प्रियाणाम् । वर्षिष्ठमाप्यानाम् । निधीनां त्वा निधिपतिꣳ हवामहे वसो ममेत्याह । अपैवास्मै तद्ध्नुवते १
अथो धुवन्त्येवैनम् । अथो न्येवास्मै ह्नुवते । त्रिः परियन्ति त्रय इमे लोकाः । एभ्य एवैनं लोकेभ्यो धुवते । त्रिः पुनः परियन्ति । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवैनं धुवते । अप वा एतेभ्यः प्राणाः क्रामन्ति २
ये यज्ञे धुवनं तन्वते । नवकृत्वः परियन्ति । नव वै पूरुषे प्राणाः । प्राणानेवात्मन्दधते । नैभ्यः प्राणा अपक्रामन्ति । अम्बे अम्बाल्यम्बिक इति पत्नीमुदानयति । अह्वतैवैनाम् । सुभगे काम्पीलवासिनीत्याह । तप एवैनामुपनयति । सुवर्गे लोके सं प्रोर्ण्वाथामित्याह ३
सुवर्गमेवैनां लोकं गमयति । आहमजानि गर्भधमा त्वमजासि गर्भधमित्याह । प्रजा वै पशवो गर्भः । प्रजामेव पशूनात्मन्धत्ते । देवा वा अश्वमेधे पवमाने । सुवर्गं लोकं न प्राजानन् । तमश्वः प्राजानात् । यत्सूचीभिरसिपथान्कल्पयन्ति । सुवर्गस्य लोकस्य प्रज्ञात्यै । गायत्री त्रिष्टुब्जगतीत्याह ४
यथायजुरेवैतत् । त्रय्यः सूच्यो भवन्ति । अयस्मय्यो रजता हरिण्यः । अस्य वै लोकस्य रूपमयस्मय्यः । अन्तरिक्षस्य रजताः । दिवो हरिण्यः । दिशो वा अयस्मय्यः । अवान्तरदिशा रजताः । ऊर्ध्वा हरिण्यः । दिश एवास्मै कल्पयति । कस्त्वा छ्यति कस्त्वा विशास्तीत्याहाहिꣳसायै ५
3.9.7
अप वा एतस्माच्छ्री राष्ट्रं क्रामति । योऽश्वमेधेन यजते । ऊर्ध्वामेनामुच्छ्रयतादित्याह । श्रीर्वै राष्ट्रमश्वमेधः । श्रियमेवास्मै राष्ट्रमूर्ध्वमुच्छ्रयति । वेणुभारं गिराविवेत्याह । राष्ट्रं वै भारः । राष्ट्रमेवास्मै पर्यूहति । अथास्या मध्यमेधतामित्याह । श्रीर्वै राष्ट्रस्य मध्यम् १
श्रियमेवावरुन्धे । शीते वाते पुनन्निवेत्याह । क्षेमो वै राष्ट्रस्य शीतो वातः । क्षेममेवावरुन्धे । यद्धरिणी यवमत्तीत्याह । विड्वै हरिणी ।राष्ट्रं यवः । विशं चैवास्मै राष्ट्रं च समीची दधाति । न पुष्टं पशु मन्यत इत्याह । तस्माद्राजा पशून्न पुष्यति २
शूद्रा यदर्यजारा न पोषाय धनायतीत्याह । तस्माद्वैशीपूत्रं नाभिषिञ्चन्ते । इयं यका शकुन्तिकेत्याह । विड्वै शकुन्तिका । राष्ट्रमश्वमेधः । विशं चैवास्मै । राष्ट्रं च समीची दधाति । आहलमिति सर्पतीत्याह । तस्माद्राष्ट्राय विशः सर्पन्ति । आहतं गभे पस इत्याह । विड्वै गभः ३
राष्ट्रं पसः । राष्ट्रमेव विश्याहन्ति । तस्माद्राष्ट्रं विशं घातुकम् । माता च ते पिता च त इत्याह । इयं वै माता । असौ पिता । आभ्यामेवैनं परिददाति । अग्रं वृक्षस्य रोहत इत्याह । श्रीर्वै वृक्षस्याग्रम् । श्रियमेवावरुन्धे ४
प्रसुलामीति ते पिता गभे मुष्टिमतꣳसयदित्याह । विड्वै गभः । राष्ट्रं मुष्टिः । राष्ट्रमेव विश्याहन्ति । तस्माद्राष्ट्रं विश घातुकम् । अप वा एतेभ्यः प्राणाः क्रामन्ति । ये यज्ञेऽपूतं वदन्ति । दधिक्राव्णो अकारिषमिति सुरभिमतीमृचं वदन्ति । प्राणा वै सुरभयः । प्राणानेवात्मन्दधते । नैभ्यः प्राणा अपक्रामन्ति । आपो हि ष्ठा मयोभुव इत्यद्भिर्मार्जयन्ते । आपो वै सर्वा देवताः । देवताभिरेवात्मानं पवयन्ते ५
3.9.8
प्रजापतिः प्रजाः सृष्ट्वा प्रेणानुप्राविशत् । ताभ्यः पुनः संभवितुं नाशक्नोत् । सोऽब्रवीत् । ऋध्नवदित्सः । यो मेऽतः पुनः संभरदिति । तं देवा अश्वमेधेनैव समभरन् । ततो वै त आर्ध्नुवन् । योऽश्वमेधेन यजते । प्रजापतिमेव सम्भरत्यृध्नोति । पुरुषमालभते १
वैराजो वै पुरुषः । विराजमेवालभते । अथो अन्नं वै विराट् । अन्नमेवावरुन्धे । अश्वमालभते । प्राजापत्यो वा अश्वः । प्रजापतिमेवालभते । अथो श्रीर्वा एकशफम् । श्रियमेवावरुन्धे । गामालभते २
यज्ञो वै गौः । यज्ञमेवालभते । अथो अन्नं वै गौः । अन्नमेवावरुन्धे । अजावी आलभते भूम्ने । अथो पुष्टिर्वै भूमा । पुष्टिमेवावरुन्धे । पर्यग्निकृतं पुरुषं चारण्याꣳ श्चोत्सृजन्त्यहिꣳ सायै । उभौ वा एतौ पशू आलभ्येते । यश्चावमो यश्च परमः । तेऽस्योभये यज्ञे बद्धाः । अभीष्टा अभिप्रीताः । अभिजिता अभिहुता भवन्ति । नैनं दंक्ष्णवः पशवो यज्ञे बद्धाः । अभीष्टा अभिप्रीताः । अभिजिता अभिहुता हिꣳ सन्ति । योऽश्वमेधेन यजते । य उ चैनमेवं वेद ३
3.9.9
प्रथमेन वा एष स्तोमेन राध्वा । चतुष्टोमेन कृतेनायानामुत्तरेऽहन् । एकविꣳ शे प्रतिष्ठायां प्रतितिष्ठति । एकविꣳ शात्प्रतिष्ठाया ऋतूनन्वारोहति । ऋतवो वै पृष्ठानि । ऋतवः संवत्सरः । ऋतुष्वेव संवत्सरे प्रतिष्ठाय । देवता अभ्यारोहति । शक्वरयः पृष्ठं भवन्त्यन्यदन्यच्छन्दः । अन्येऽन्ये वा एते पशव आलभ्यन्ते १
उतेव ग्राम्याः । उतेवारण्याः । अहरेव रूपेण समर्धयति । अथो अह्न एवैष बलिर्ह्रियते । तदाहुः । अपशवो वा एते । यदजावयश्चारण्याश्च । एते वै सर्वे पशवः । यद्गव्या इति । गव्यान्पशूनुत्तमेऽहन्नालभते २
तेनैवोभयान्पशूनवरुन्धे । प्राजापत्या भवन्ति । अनभिजितस्याभिजित्यै । सौरीर्नव श्वेता वशा अनूबन्धा भवन्ति । अन्तत एव ब्रह्मवर्चसमवरुन्धे । सोमाय स्वराज्ञेऽनोवाहावनड्वाहाविति द्वन्द्विनः पशूनालभते । अहोरात्राणामभिजित्यै । पशुभिर्वा एष व्यृध्यते । योऽश्वमेधेन यजते । छगलं कल्माषं किकिदीविं विदीगयमिति त्वाष्ट्रान्पशूनालभते । पशुभिरेवात्मानꣳ समर्धयति । ऋतुभिर्वा एष व्यृध्यते । योऽश्वमेधेन यजते । पिशङ्गास्त्रयो वासन्ता इत्यृतुपशूनालभते । ऋतुभिरेवात्मानꣳ समर्धयति । आ वा एष पशुभ्यो वृश्च्यते । योऽश्वमेधेन यजते । पर्यग्निकृता उत्सृजन्त्यनाव्रस्काय ३
3.9.10
प्रजापतिरकामयत महानन्नादः स्यामिति । स एतावश्वमेधे महिमानावपश्यत् । तावगृह्णीत । ततो वै स महानन्नादोऽभवत् । यः कामयेत महानन्नादः स्यामिति । स एतवश्वमेधे महिमानौ गृह्णीत । महानेवान्नादो भवति । यजमानदेवत्या वै वपा । राजा महिमा । यद्वपां महिम्नोभयतः परियजति । यजमानमेव राज्येनोभयतः परिगृह्णाति । पुरस्तात्स्वाहाकारा वा अन्ये देवाः । उपरिष्टात्स्वाहाकारा अन्ये । ते वा एतेऽश्व एव मेध्य उभयेऽवरुध्यन्ते । यद्वपां महिम्नोभयतः परियजति । तानेवोभयान्प्रीणाति १
3.9.11
वैश्वदेवो वा अश्वः । तं यत्प्राजापत्यं कुर्यात् । या देवता अपिभागाः । ता भागधेयेन व्यर्धयेत् । देवताभ्यः समदं दध्यात् । स्तेगान्दꣳ ष्ट्राभ्यां मण्डूकाञ्जम्भ्येभिरिति । आज्यमवदानं कृत्वा प्रतिसंख्यायमाहुतीर्जुहोति । या एव देवता अपिभागाः । ता भागधेयेन समर्धयति । न देवताभ्यः समदं दधाति १
चतुर्दशैताननुवाकाञ्जुहोत्यनन्तरित्यै । प्रयासाय स्वाहेति पञ्चदशम् । पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते । देवासुराः संयत्ता आसन् । तेऽब्रुवन्नग्नयः स्विष्टकृतः । अश्वस्य मेध्यस्य वयमुद्धारमुद्धरामहै । अथैतानभिभवामेति । ते लोहितमुदहरन्त । ततो देवा अभवन् २
परासुराः । यत्स्विष्टकृद्भ्यो लोहितं जुहोति भ्रातृव्याभिभूत्यै । भवत्यात्मना । परास्य भ्रातृव्यो भवति । गोमृगकण्ठेन प्रथमामाहुतिं जुहोति । पशवो वै गोमृगः । रुद्रो ऽग्निः स्विष्टकृत् । रुद्रा देव पशूनन्तर्दधाति । अथो यत्रैषाहुतिर्हूयते । न तत्र रुद्र ः! पशूनभिमन्यते ३
अश्वशफेन द्वितीयामाहुतिं जुहोति । पशवो वा एकशफम् । रुद्रो ऽग्निः स्विष्टकृत् । रुद्रा देव पशूनन्तर्दधाति । अथो यत्रैषाहुतिर्हूयते । न तत्र रुद्रः पशूनभिमन्यते । अयस्मयेन कमण्डलुना तृतीयामाहुतिं जुहोत्यायास्यो वै प्रजाः । रुद्रो ऽग्निः स्विष्टकृत् । रुद्रा देव प्रजा अन्तर्दधाति । अथो यत्रैषाहुतिर्हूयते । न तत्र रुद्र ः! प्रजा अभिमन्यते ४
3.9.12
अश्वस्य वा आलब्धस्य मेध उदक्रामत् । तदश्वस्तोमीयमभवत् । यदश्वस्तोमीयं जुहोति । समेधमेवैनमालभते । आज्येन जुहोति । मेधो वा आज्यम् । मेधोऽश्वस्तोमीयम् । मेधेनैवास्मिन्मेधं दधाति । षट्त्रिꣳ शतं जुहोति । षट्त्रिꣳ शदक्षरा बृहती १
बार्हताः पशवः । सा पशूनां मात्रा । पशूनेव मात्रया समर्धयति । ता यद्भूयसीर्वा कनीयसीर्वा जुहुयात् । पशून्मत्रया व्यर्धयेत् । षट्त्रिꣳ शतं जुहोति । षट्त्रिꣳ शदक्षरा बृहती । बार्हताः पशवः । सा पशूनां मात्रा । पशूनेव मात्रया समर्धयति २
अश्वस्तोमीयꣳ हुत्वा द्विपदा जुहोति । द्विपाद्वै पुरुषो द्विप्रतिष्ठः । तदेनं प्रतिष्ठया समर्धयति । तदाहुः । अश्वस्तोमीयं पूर्वꣳ होतव्या३ꣳ! द्विपदा३ इति । अश्वो वा अश्वस्तोमीयम् । पुरुषो द्विपदाः । अश्वस्तोमीयꣳ हुत्वा द्विपदा जुहोति । तस्माद्द्विपाच्चतुष्पादमत्ति । अथो द्विपद्येव चतुष्पदः प्रतिष्ठापयति । द्विपदा हुत्वा । नान्यामुत्तरामाहुतिं जुहुयात् । यदन्यामुत्तरामाहुतिं जुहुयात् । प्र प्रतिष्ठायाश्च्यवेत । द्विपदा अन्ततो जुहोति प्रतिष्ठित्यै ३
3.9.13
प्रजापतिरश्वमेधमसृजत । सोऽस्मात्सृष्टोऽपाक्रामत् । तं यज्ञक्रतुभिरन्वैच्छत् । तं यज्ञक्रतुभिर्नान्वविन्दत् । तमिष्टिभिरन्वैच्छत् । तमिष्टिभिरन्वविन्दत् । तदिष्टीनामिष्टित्वम् । यत्संवत्सरमिष्टिभिर्यजते । अश्वमेव तदन्विच्छति । सावित्रियो भवन्ति १
इयं वै सविता । यो वा अस्यां नश्यति यो निलयते । अस्यां वाव तं विन्दन्ति । न वा इमाम्कश्चनेत्याहुः । तिर्यङ्नोर्ध्वोऽत्येतुमर्हतीति । यत्सावित्रियो भवन्ति । सवितृप्रसूत एवैनमिच्छति । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । यत्सायं धृतीर्जुहोति । अश्वस्य यत्यै धृत्यै २
यत्प्रातरिष्टिभिर्यजते । अश्वमेव तदन्विच्छति । यत्सायं धृतीर्जुहोति । अश्वस्यैव यत्यै धृत्यै । तस्मात्सायं प्रजाः क्षेम्या भवन्ति । यत्प्रात-रिष्टिभिर्यजते । अश्वमेव तदन्विच्छति । तस्माद्दिवा नष्टैष एति । यत्प्रात-रिष्टिभिर्यजते सायं धृतीर्जुहोति । अहोरात्राभ्यामेवैनमन्विच्छति । अथो अहोरात्राभ्यामेवास्मै योगक्षेमं कल्पयति ३
3.9.14
अप वा एतस्माच्छ्री राष्ट्रं क्रामति । योऽश्वमेधेन यजते । ब्राह्मणौ वीणागाथिनौ गायतः । श्रिया वा एतद्रू पम् । यद्वीणा । श्रियमेवास्मिन्तद्धत्तः । यदा खलु वै पुरुषः श्रियमश्नुते । वीणास्मै वाद्यते । तदाहुः । यदुभौ ब्राह्मणौ गायेताम् १
प्रभ्रꣳ शुकास्माच्छ्रीः स्यात् । न वै ब्राह्मणे श्री रमत इति । ब्राह्मणोऽन्यो गायेत् । राजन्योऽन्यः । ब्रह्म वै ब्राह्मणः । क्षत्रꣳ राजन्यः । तथा हास्य ब्रह्मणा च क्षत्रेण चोभयतः श्रीः परिगृहीता भवति । तदाहुः । यदुभौ दिवा गायेताम् । अपास्माद्रा ष्ट्रं क्रामेत् २
न वा ब्राह्मणे राष्ट्रꣳ रमत इति । यदा खलु वै राजा कामयते । अथ ब्राह्मणं जिनाति । दिवा ब्राह्मणो गायेत् । नक्तꣳ राजन्यः । ब्रह्मणो वै रूपमहः । क्षत्रस्य रात्रिः । तथा हास्य ब्रह्मणा च क्षत्रेण चोभयतो राष्ट्रं परिगृहीतं भवति । इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत् । इष्टापूर्तं वै ब्राह्मणस्य ३
इष्टापूर्तेनैवैनꣳ स समर्धयति । इत्यजिना इत्ययुध्यथा इत्यमुꣳ संग्राममहन्निति राजन्यः । युद्धं वै राजन्यस्य । युद्धेनैवैनꣳ स समर्धयति । अक्ळ्प्ता वा एतस्यर्तव इत्याहुः । योऽश्वमेधेन यजत इति । तिस्रोऽन्यो गायति तिस्रोऽन्यः । षट्त्सम्पद्यन्ते । षड्वा ऋतवः । ऋतूनेवास्मै कल्पयतः । ताभ्याꣳ सꣳ स्थायाम् । अनोयुक्ते च शते च ददाति । शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति ४
3.9.15
सर्वेषु वा एषु लोकेषु मृत्यवोऽन्वायत्ताः । तेभ्यो यदाहुतीर्न जुहुयात् । लोकेलोक एनं मृत्युर्विन्देत् । मृत्यवे स्वाहा मृत्यवे स्वाहेत्यभिपूर्वमा-हुतीर्जुहोति । लोकाल्लोकादेव मृत्युमवयजते । नैनं लोकेलोके मृत्यु-र्विन्दति । यदमुष्मै स्वाहामुष्मै स्वाहेति जुह्वत्संचक्षीत । बहुं मृत्युममित्रं कुर्वीत । मृत्यवे स्वाहेत्येकस्मा एवैकां जुहुयात् । एको वा अमुष्मिꣳ ल्लोके मृत्युः १
अशनयामृत्युरेव । तमेवामुष्मिꣳ ल्लोकेऽवयजते । भ्रूणहत्यायै स्वाहेत्यवभृथ आहुतिं जुहोति । भ्रूणहत्यामेवावयजते । तदाहुः । यद्भ्रूणहत्यापात्र्! याथ । कस्माद्यज्ञेऽपि क्रियत इति । अमृत्युर्वा अन्यो भ्रूणहत्याया इत्याहुः । भ्रूणहत्या वाव मृत्युरिति । यद्भ्रूणहत्यायै स्वाहेत्यवभृथ आहुतिं जुहोति २
मृत्युमेवाहुत्या तर्पयित्वा परिपाणं कृत्वा । भ्रूणघ्ने भेषजं करोति । एताꣳ ह वै मुण्डिभ औदन्यवः । भ्रूणहत्यायै प्रायश्चित्तिं विदां चकार । यो हास्यापि प्रजायां ब्राह्मणꣳ हन्ति । सर्वस्मै तस्मै भेषजं करोति । जुम्बकाय स्वाहेत्यवभृथ उत्तमामाहुतिं जुहोति । वरुणो वै जुम्बकः । अन्तत एव वरुणमवयजते । खलतेर्विक्लिधस्य शुक्लस्य पिङ्गाक्षस्य मूर्धन्जुहोति । एतद्वै वरुणस्य रूपं ।रूपेणैव वरुणमवयजते ३
3.9.16
वारुणो वा अश्वः । तं देवतया व्यर्धयति । यत्प्राजापत्यं करोति । नमो राज्ञे नमो वरुणायेत्याह । वारुणो वा अश्वः । स्वयैवैनं देवतया समर्धयति । नमोऽश्वाय नमः प्रजापतय इत्याह । प्राजापत्यो वा अश्वः । स्वयैवैनं देवतया समर्धयति । नमोऽधिपतय इत्याह १
धर्मो वा अधिपतिः । धर्ममेवावरुन्धे । अधिपतिरस्यधिपतिं मा कुर्वधि-पतिरहं प्रजानां भूयासमित्याह । अधिपतिमेवैनꣳ समानानां करोति । मां धेहि मयि धेहीत्याह । आशिषमेवैतामाशास्ते । उपाकृताय स्वाहेत्युपाकृते जुहोति । आलब्धाय स्वाहेति नियुक्ते जुहोति । हुताय स्वाहेति हुते जुहोति । एषां लोकानामविजित्यै २
प्र वा एष एभ्यो लोकेभ्यश्च्यवते । योऽश्वमेधेन यजते । आग्नेयमैन्द्राग्नमाश्विनम् । तान्पशूनालभते प्रतिष्ठित्यै । यदाग्नेयो भवति । अग्निः सर्वा देवताः । देवता एवावरुन्धे । ब्रह्म वा अग्निः । क्षत्रमिन्द्रः । यदैन्द्राग्नो भवति ३
ब्रह्मक्षत्रे एवावरुन्धे । यदाश्विनो भवति । आशिषामवरुद्ध्यै । त्रयो भवन्ति । त्रय इमे लोकाः । एष्वेव लोकेषु प्रतितिष्ठति । अग्नयेऽꣳहोमुचेऽष्टाकपाल इति दशहविषमिष्टिं निर्वपति । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । अग्नेर्मन्वे प्रथमस्य प्रचेतस इति याज्यानुवाक्या भवन्ति सर्वत्वाय ४
3.9.17
यद्यश्वमुपतपद्विन्देत् । आग्नेयमष्टाकपालं निर्वपेत् । सौम्यं चरुम् । सावित्रमष्टाकपालम् । यदाग्नेयो भवति । अग्निः सर्वा देवताः । देवताभिरेवैनं भिषज्यति । यत्सौम्यो भवति । सोमो वा ओषधीनाꣳ राजा । याभ्य एवैनं विन्दति १
ताभिरेवैनं भिषज्यति । यत्सावित्रो भवति । सवितृप्रसूत एवैनं भिषज्यति । एताभिरेवैनं देवताभिर्भिषज्यति । अगदो हैव भवति । पौष्णं चरुं निर्वपेत् । यदि श्लोणः स्यात् । पूषा वै श्लौण्यस्य भिषक् । स एवैनं भिषज्यति । अश्लोणो हैव भवति २
रौद्रं चरुं निर्वपेत् । यदि महती देवताभिमन्येत । एतद्देवत्यो वा अश्वः । स्वयैवैनं देवतया भिषज्यति । अगदो हैव भवति । वैश्वानरं द्वादशकपालं निर्वपेन्मृगाखरे यदि नागच्छेत् । इयं वा अग्निर्वैश्वानरः । इयमेवैनमर्चिभ्यां परिरोधमानयति । आ हैव सुत्यमहर्गच्छति । यद्यधीयात् ३
अग्नयेऽꣳहोमुचेऽष्टाकपालः । सौर्यं पयः । वायव्य आज्यभागः । यजमानो वा अश्वः । अꣳहसा वा एष गृहीतः । यस्याश्वो मेधाय प्रोक्षितोऽध्येति । यदꣳहोमुचे निर्वपति । अꣳहस एव तेन मुच्यते । यजमानो वा अश्वः । रेतसा वा एष व्यृध्यते ४
यस्याश्वो मेधाय प्रोक्षितोऽध्येति । सौर्यꣳ रेतः । यत्सौर्यं पयो भवति । रेतसैवैनꣳ स समर्धयति । यजमानो वा अश्वः । गर्भैर्वा एष व्यृध्यते । यस्याश्वो मेधाय प्रोक्षितोऽध्येति । वायव्या गर्भाः । यद्वायव्य आज्यभागो भवति । गर्भैरेवैनꣳ स समर्धयति । अथो यस्यैषाश्वमेधे प्रायश्चितिः क्रियते । इष्ट्वा वसीयान्भवति ५
3.9.18
तदाहुः । द्वादश ब्रह्मौदनान्त्सꣳस्थिते निर्वपेत् । द्वादशभिर्वेष्टिभिर्यजेतेति । यदिष्टिभिर्यजेत । उपनामुक एनं यज्ञः स्यात् । पापीयाꣳस्तु स्यात् । आप्तानि वा एतस्य छन्दाꣳ सि । य ईजानः । तानि क एतावदाशु पुनः प्रयुञ्जीतेति । सर्वा वै सꣳ स्थिते यज्ञे वागाप्यते १
साप्ता भवति यातयाम्नी ।क्रूरीकृतेव हि भवत्यरुष्कृता । सा न पुनः प्रयुज्येत्याहुः । द्वादशैव ब्रह्मौदनान्त्सꣳ स्थिते निर्वपेत् । प्रजापतिर्वा ओदनः । यज्ञः प्रजापतिः । उपनामुक एनं यज्ञो भवति । न पापीयान्भवति । द्वादश भवन्ति । द्वादश मासाः संवत्सरः । संवत्सर एव प्रतितिष्ठति २
3.9.19
एष वै विभूर्नाम यज्ञः । सर्वꣳ ह वै तत्र विभु भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै प्रभूर्नाम यज्ञः । सर्वꣳ ह वै तत्र प्रभु भवति । यत्रैतेन यज्ञेन यजन्ते । एष वा ऊर्जस्वान्नाम यज्ञः । सर्वꣳ ह वै तत्रोर्जस्वद्भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै पयस्वान्नाम यज्ञः १
सर्वꣳ ह वै तत्र पयस्वद्भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै विधृतो नाम यज्ञः । सर्वꣳ ह वै तत्र विधृतं भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै व्यावृत्तो नाम यज्ञः । सर्वꣳ ह वै तत्र व्यावृत्तं भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै प्रतिष्ठितो नाम यज्ञः । सर्वꣳ ह वै तत्र प्रतिष्ठितं भवति २
यत्रैतेन यज्ञेन यजन्ते । एष वै तेजस्वी नाम यज्ञः । सर्वꣳ ह वै तत्र तेजस्वि भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै ब्रह्मवर्चसी नाम यज्ञः । आ ह वै तत्र ब्राह्मणो ब्रह्मवर्चसी जायते । यत्रैतेन यज्ञेन यजन्ते । एष वा अतिव्याधी नाम यज्ञः । आ ह वै तत्र राजन्योऽतिव्याधी जायते । यत्रैतेन यज्ञेन यजन्ते । एष वै दीर्घो नाम यज्ञः । दीर्घायुषो ह वै तत्र मनुष्या भवन्ति । यत्रैतेन यज्ञेन यजन्ते । एष वै क्ळ्प्तो नाम यज्ञः । कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः । यत्रैतेन यज्ञेन यजन्ते ३
3.9.20
तार्प्येणाश्वꣳ संज्ञपयन्ति । यज्ञो वै तार्प्यम् । यज्ञेनैवैनꣳ समर्धयन्ति । यामेन साम्ना प्रस्तोतानूपतिष्ठते । यमलोकमेवैनं गमयति । तार्प्ये च कृत्यधीवासे चाश्वꣳ संज्ञपयन्ति । एतद्वै पशूनाꣳ रूपम् । रूपेणैव पशूनवरुन्धे । हिरण्यकशिपु भवति । तेजसोऽवरुद्ध्यै १
रुक्मो भवति । सुवर्गस्य लोकस्यानुख्यात्यै । अश्वो भवति । प्रजापतेराप्त्यै । अस्य वै लोकस्य रूपं तार्प्यम् । अन्तरिक्षस्य कृत्यधीवासः । दिवो हिरण्यकशिपु । आदित्यस्य रुक्मः । प्रजापतेरश्वः । इममेव लोकं तार्प्येणाप्नोति २
अन्तरिक्षं कृत्यधीवासेन । दिवꣳ हिरण्यकशिपुना । आदित्यꣳ रुक्मेण । अश्वेनैव मेध्येन प्रजापतेः सायुज्यꣳ सलोकतामाप्नोति । एतासामेव देवतानाꣳ सायुज्यम् । सार्ष्टिताꣳ समानलोकतामाप्नोति । योऽश्वमेधेन यजते । य उ चैनमेवं वेद ३
3.9.21
आदित्याश्चाङ्गिरसश्च सुवर्गे लोकेऽस्पर्धन्त । तेऽङ्गिरस आदित्येभ्यः । अमुमादित्यमश्वꣳ श्वेतं भूतं दक्षिणामनयन् । तेऽब्रुवन् । यं नोऽनेष्ट । स वर्योऽभूदिति । तस्मादश्वꣳ सवर्येत्याह्वयन्ति । तस्माद्यज्ञे वरो दीयते । यत्प्रजापतिरालब्धोऽश्वोऽभवत् । तस्मादश्वो नाम १
यच्छ्वयदरुरासीत् । तस्मादर्वा नाम । यत्सद्यो वाजान्त्समजयत् । तस्माद्वाजी नाम । यदसुराणां लोकानादत्त । तस्मादादित्यो नाम । अग्निर्वा अश्वमेधस्य योनिरायतनम् । सूर्योऽग्नेर्योनिरायतनम् । यदश्वमेधेऽग्नौ चित्य उत्तरवेदिमुपवपति । योनिमन्तमेवैनमायतनवन्तं करोति २
योनिमानायतनवान्भवति । य एवं वेद । प्राणापानौ वा एतौ देवानाम् । यदर्काश्वमेधौ । प्राणापानावेवावरुन्धे । ओजो बलं वा एतौ देवानाम् । यदर्काश्वमेधौ । ओजो बलमेवावरुन्धे । अग्निर्वा अश्वमेधस्य योनिरायतनम् । सूर्योऽग्नेर्योनिरायतनम् । यदश्वमेधेऽग्नौ चित्य उत्तरवेदिं चिनोति । तावर्काश्वमेधौ । अर्काश्वमेधावेवावरुन्धे । अथो अर्काश्वमेधयोरेव प्रतितिष्ठति ३
3.9.22
प्रजापतिं वै देवाः पितरम् । पशुं भूतं मेधायालभन्त । तमालभ्योपावसन् । प्रातर्यष्टास्मह इति । एकं वा एतद्देवानामहः । यत्संवत्सरः । तस्मादश्वः पुरस्तात्संवत्सर आलभ्यते । यत्प्रजापतिरालब्धोऽश्वोऽभवत् । तस्मादश्वः । यत्सद्यो मेधोऽभवत् १
तस्मादश्वमेधः । वेदुकोऽश्वमाशुं भवति । य एवं वेद । यद्वै तत्प्रजापतिरालब्धोऽश्वोऽभवत् । तस्मादश्वः प्रजापतेः पशूनामनुरूपतमः । आस्य पुत्रः प्रतिरूपो जायते । य एवं वेद । सर्वाणि भूतानि सम्भृत्यालभते । समेनं देवास्तेजसे ब्रह्मवर्चसाय भरन्ति । योऽश्वमेधेन यजते २
य उ चैनमेवं वेद । एतद्वै तद्देवा एतां देवताम् । पशुं भूतं मेधायालभन्त । यज्ञमेव । यज्ञेन यज्ञमयजन्त देवाः । कामप्रं यज्ञमकुर्वत । तेऽमृतत्वमकामयन्त । तेऽमृतत्वमगच्छन् । योऽश्वमेधेन यजते । देवानामेवायनेनैति ३
प्राजापत्येनैव यज्ञेन यजते कामप्रेण । अपुनर्मारमेव गच्छति । एतस्य वै रूपेण पुरस्तात्प्राजापत्यमृषभं तूपरं बहुरूपमालभते । सर्वेभ्यः कामेभ्यः । सर्वस्याप्त्यै । सर्वस्य जित्यै । सर्वमेव तेनाप्नोति । सर्वं जयति । योऽश्वमेधेन यजते । य उ चैनमेवं वेद ४
3.9.23
यो वा अश्वस्य मेध्यस्य लोमनी वेद । अश्वस्यैव मेध्यस्य लोमꣳ ल्लोमञ्जुहोति । अहोरात्रे वा अश्वस्य मेध्यस्य लोमनी ।यत्सायम्प्रातर्जुहोति । अश्वस्यैव मेध्यस्य लोमꣳ ल्लोमञ्जुहोति । एतदनुकृति ह स्म वै पुरा । अश्वस्य मेध्यस्य लोमꣳ ल्लोमञ्जुह्वति । यो वा अश्वस्य मेध्यस्य पदे वेद । अश्वस्यैव मेध्यस्य पदेपदे जुहोति । दर्शपूर्णमासौ वा अश्वस्य मेध्यस्य पदे १
यद्दर्शपूर्णमासौ यजते । अश्वस्यैव मेध्यस्य पदेपदे जुहोति । एतदनुकृति ह स्म वै पुरा । अश्वस्य मेध्यस्य पदेपदे जुह्वति । यो वा अश्वस्य मेध्यस्य विवर्तनं वेद । अश्वस्यैव मेध्यस्य विवर्तने विवर्तने जुहोति । असौ वा आदित्योऽश्वः । स आहवनीयमागच्छति । तद्विवर्तते । यदग्निहोत्रं जुहोति । अश्वस्यैव मेध्यस्य विवर्तनेविवर्तने जुहोति । एतदनुकृति ह स्म वै पुरा । अश्वस्य मेध्यस्य विवर्तनेविवर्तने जुह्वति २