प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः १२

< तैत्तिरीयब्राह्मणम् (विस्वरपाठः)‎ | काण्डः ३

३.१२.१ चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्

तुभ्यं ता अङ्गिरस्तमश्याम तं काममग्ने । आशानां त्वा । विश्वा आशाः । अनु नोऽद्यानुमतिर् । अन्विदनुमते त्वम् । कामो भूतस्य कामस्तदग्रे । ब्रह्म जज्ञानं। पिता विराजाम् । यज्ञो रायोऽयं यज्ञः । आपो भद्रा आदित्पश्यामि । तुभ्यं भरन्ति यो देह्यः । पूर्वं देवा अपरेण । प्राणापानौ । हव्यवाहँ । स्विष्टम् १

३.१२.२ चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्

देवेभ्यो वै स्वर्गो लोकस्तिरोऽभवत् । ते प्रजापतिमब्रुवन् । प्रजापते स्वर्गो वै नो लोकस्तिरोऽभूत् । तमन्विच्छेति । तं यज्ञक्रतुभिरन्वैच्छत् । तं यज्ञक्रतुभिर्नान्वविन्दत् । तमिष्टिभिरन्वैच्छत् । तमिष्टिभिरन्वविन्दत् । तदिष्टीनामिष्टित्वम् । एष्टयो ह वै नाम । ता इष्टय इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः २

तमाशाब्रवीत् । प्रजापत आशया वै श्राम्यसि । अहमु वा आशास्मि । मां नु यजस्व । अथ ते सत्याशा भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । आशायै चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्याशाभवत् । अनु स्वर्गं लोकमविन्दत् । सत्या ह वा अस्याशा भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहाशायै स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति ३

तं कामोऽब्रवीत् । प्रजापते कामेन वै श्राम्यसि । अहमु वै कामोऽस्मि । मां नु यजस्व । अथ ते सत्यः कामो भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमग्नये कामाय पुरोडाशमाष्टाकपालं निरवपत् । कामाय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यः कामोऽभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यो ह वा अस्य कामो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहा कामाय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति ४

तं ब्रह्माब्रवीत् । प्रजापते ब्रह्मणा वै श्राम्यसि । अहमु वै ब्रह्मास्मि । मां नु यजस्व । अथ ते ब्रह्मण्वान्यज्ञो भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । ब्रह्मणे चरुम् । अनुमत्यै चरुम् । ततो वै तस्य ब्रह्मण्वान्यज्ञोऽभवत् । अनु स्वर्गं लोकमविन्दत् । ब्रह्मण्वान्ह वा अस्य यज्ञो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहा ब्रह्मणे स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति ५

तं यज्ञोऽब्रवीत् । प्रजापते यज्ञेन वै श्राम्यसि । अहमु वै यज्ञोऽस्मि । मां नु यजस्व । अथ ते सत्यो यज्ञो भवष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । यज्ञाय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यो यज्ञोऽभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यो ह वा अस्य यज्ञो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहा यज्ञाय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति ६

तमापोऽब्रुवन् । प्रजापतेऽप्सु वै सर्वे कामाः श्रिताः । वयमु वा आपः स्मः । अस्मान्नु यजस्व । अथ त्वयि सर्वे कामाः श्रयिष्यन्ते । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । अद्भ्यश्चरुम् । अनुमत्यै चरुम् । ततो वै तस्मिन्त्सर्वे कामा अश्रयन्त । अनु स्वर्गं लोकमविन्दत् । सर्वे ह वा अस्मिन्कामाः श्रयन्ते । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहाद्भ्यः स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति ७

तमग्निर्बलिमानब्रवीत् । प्रजापतेऽग्नये वै बलिमते सर्वाणि भूतानि बलिँ हरन्ति । अहमु वा अग्निर्बलिमानस्मि । मां नु यजस्व । अथ ते सर्वाणि भूतानि बलिँ हरिष्यन्ति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । अग्नये बलिमते चरुम् । अनुमत्यै चरुम् । ततो वै तस्मै सर्वाणि भूतानि बलिमहरन् । अनु स्वर्गं लोकमविन्दत् । सर्वाणि ह वा अस्मै भूतानि बलिँ हरन्ति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहाग्नये बलिमते स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति ८

तमनुवित्तिरब्रवीत् । प्रजापते स्वर्गं वै लोकमनुविवित्ससि । अहमु वा अनुवित्तिरस्मि । मां नु यजस्व । अथ ते सत्यानुवित्तिर्भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । अनुवित्त्यै चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यानुवित्तिरभवत् । अनु स्वर्गं लोकमविन्दत् । सत्या ह वा अस्यानुवित्तिर्भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । ऽत्र जुहोति । अग्नये कामाय स्वाहानुवित्त्यै स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति ९

ता वा एताः सप्त स्वर्गस्य लोकस्य द्वारः । दिवः श्येनयोऽनुवित्तयो नाम । आशा प्रथमाँ रक्षति । कामो द्वितीयाम् । ब्रह्म तृतीयाम् । यज्ञश्चतुर्थीम् । आपः पञ्चमीम् । अग्निर्बलिमान्त्षष्ठीम् । अनुवित्तिः सप्तमीम् । अनु ह वै स्वर्गं लोकं विन्दति । कामचारोऽस्य स्वर्गे लोके भवति । य एताभिरिष्टिभिर्यजते । य उ चैना एवं वेद । तास्वन्विष्टि । पष्ठौहीवरां दद्यात्कँ सं च । स्त्रियै चाभारँ समृद्ध्यै १०

३.१२.३ चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्

तपसा देवा देवतामग्र आयन् । तपसर्षयः स्वरन्वविन्दन् । तपसा सपत्नान्प्रणुदामारातीः । येनेदं विश्वं परिभूतं यदस्ति । प्रथमजं देवँ हविषा विधेम । स्वयंभु ब्रह्म परमं तपो यत् । स एव पुत्रः स पिता स माता । तपो ह यक्षं प्रथमं संबभूव । श्रद्धया देवो देवत्वमश्नुते । श्रद्धा प्रतिष्ठा लोकस्य देवी ११

सा नो जुषाणोपयज्ञमागात् । कामवत्सामृतं दुहाना । श्रद्धा देवी प्रथमजा ऋतस्य । विश्वस्य भर्त्री जगतः प्रतिष्ठा । ताँ श्रद्धाँ हविषा यजामहे । सा नो लोकममृतं दधातु । ईशाना देवी भुवनस्याधिपत्नी ।आगात्सत्यँ हविरिदं जुषाणम् । यस्माद्देवा जज्ञिरे भुवनं च विश्वे । तस्मै विधेम हविषा घृतेन १२

यथा देवैः सधमादं मदेम । यस्य प्रतिष्ठोर्वन्तरिक्षम् । यस्माद्देवा जज्ञिरे भुवनं च सर्वे । तत्सत्यमर्चदुप यज्ञं न आगात् । ब्रह्माहुतीरुप मोदमानम् । मनसो वशे सर्वमिदं बभूव । नान्यस्य मनो वशमन्वियाय । भीष्मो हि देवः सहसः सहीयान् । स नो जुषाण उप यज्ञमागात् । आकूतीनामधिपतिं चेतसां च १३

संकल्पजूतिं देवं विपश्चिम् । मनो राजानमिह वर्धयन्तः । उपहवेऽस्य सुमतौ स्याम । चरणं पवित्रं विततं पुराणम् । येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूताः । अति पाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां दधातु । अग्निर्मूर्धा भुवः । अनु नोऽद्यानुमतिरन्विदनुमते त्वम् । हव्यवाहँ । स्विष्टम् १४

३.१२.४ चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्

देवेभ्यो वै स्वर्गो लोकस्तिरोऽभवत् । ते प्रजापतिमब्रुवन् । प्रजापते स्वर्गो वै नो लोकस्तिरोऽभूत् । तमन्विच्छेति । तं यज्ञक्रतुभिरन्वैच्छत् । तं यज्ञक्रतुभिर्नान्वविन्दत् । तमिष्टिभिरन्वैच्छत् । तमिष्टिभिरन्वविन्दत् । तदिष्टीनामिष्टित्वम् । एष्टयो ह वै नाम । ता इष्टय इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः १५

तं तपोऽब्रवीत् । प्रजापते तपसा वै श्राम्यसि । अहमु वै तपोऽस्मि । मां नु यजस्व । अथ ते सत्यं तपो भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमाग्नेयमष्टाकपालं निरवपत् । तपसे चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यं तपोऽभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यँ ह वा अस्य तपो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा तपसे स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति १६

तँ श्रद्धाब्रवीत् । प्रजापते श्रद्धया वै श्राम्यसि । अहमु वै श्रद्धास्मि । मां नु यजस्व । अथ ते सत्या श्रद्धा भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमाग्नेयमष्टाकपालं निरवपत् । श्रद्धायै चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्या श्रद्धाभवत् । अनु स्वर्गं लोकमविन्दत् । सत्या ह वा अस्य श्रद्धा भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा श्रद्धायै स्वाहा । अनुमत्यि स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति १७

तँ सत्यमब्रवीत् । प्रजापते सत्येन वै श्राम्यसि । अहमु वै सत्यमस्मि । मां नु यजस्व । अथ ते सत्यँ सत्यं भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमाग्नेयमष्टाकपालं निरवपत् । सत्याय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यँ सत्यमभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यँ ह वा अस्य सत्यं भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा सत्याय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति १८

तं मनोऽब्रवीत् । प्रजापते मनसा वै श्राम्यसि । अहमु वै मनोऽस्मि । मां नु यजस्व । अथ ते सत्यं मनो भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमाग्नेयमष्टाकपालं निरवपत् । मनसे चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यं मनोऽभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यँ ह वा अस्य मनो हवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा मनसे स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति १९

तं चरणमब्रवीत् । प्रजापते चरणेन वै श्राम्यसि । अहमु वै चरणमस्मि । मां नु यजस्व । अथ ते सत्यं चरणं भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतमाग्नेयमष्टाकपालं निरवपत् । चरणाय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यं चरणमभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यँ ह वा अस्य चरणं भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा चरणाय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति २०

ता वा एताः पञ्च स्वर्गस्य लोकस्य द्वारः । अपाघा अनुवित्तयो नाम । तपः प्रथमाँ रक्षति । श्रद्धा द्वितीयाम् । सत्यं तृतीयाम् । मनश्चतुर्थीम् । चरणं पञ्चमीम् । अनु ह वै स्वर्गं लोकं विन्दति । कामचारोऽस्य स्वर्गे लोके भवति । य एताभिरिष्टिभिर्यजते । य उ चैना एवं वेद । तास्वन्विष्टि । पष्ठौहीवरां दद्यात्कँ सं च । स्त्रियै चाभारँ समृद्ध्यै २१

३.१२.५ चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्

ब्रह्म वै चतुर्होतारः । चतुर्होतृभ्योऽधि यज्ञो निर्मितः । नैनँ शप्तम् । नाभिचरितमागच्छति । य एवं वेद । यो ह वै चतुर्होतृणां चतुर्होतृत्वं वेद । अथो पञ्चहोतृत्वम् । सर्वा हास्मै दिशः कल्पन्ते । वाचस्पतिर्होता दशहोतॄणाम् । पृथिवी होता चतुर्होतॄणाम् २२

अग्निर्होता पञ्चहोतॄणाम् । वाग्घोता षड्ढोतॄणाम् । महाहविर्होता सप्तहोतॄणाम् । एतद्वै चतुर्होतृणां चतुर्होतृत्वम् । अथो पञ्चहोतृत्वम् । सर्वा हास्मै दिशः कल्पन्ते । य एवं वेद । एषा वै सर्वविद्या । एतद्भेषजम् । एषा पङ्क्तिः स्वर्गस्य लोकस्याञ्जसायनिः स्रुतिः २३

एतान्योऽध्यैत्यच्छदिर्दर्शे यावत्तरसम् । स्वरेति । अनपब्रवः सर्वमायुरेति । विन्दते प्रजाम् । रायस्पोषं गौपत्यम् । ब्रह्मवर्चसी भवति । एतान्योऽध्यैति । स्पृणोत्यात्मानम् । प्रजां पितॄन् । एतान्वा अरुण औपवेशिर्विदाञ्चकार २४

एतैरधिवादमपाजयत् । अथो विश्वं पाप्मानम् । स्वर्ययौ । एतान्योऽध्यैति । अधिवादं जयति । अथो विश्वं पाप्मानम् । स्वरेति । एतैरग्निं चिन्वीत स्वर्गकामः । एतैरायुष्कामः । प्रजापशुकामो वा २५

पुरस्ताद्दशहोतारमुदञ्चमुपदधाति यावत्पदम् । हृदयं यजुषी पत्न्यौ च । दक्षिणतः प्राञ्चं चतुर्होतारम् । पश्चादुदञ्चं पञ्चहोतारम् । उत्तरतः प्राञ्चँ षड्ढोतारम् । उपरिष्टात्प्राञ्चँ सप्तहोतारम् । हृदयं यजूँ षि पत्न्यश्च । यथावकाशं ग्रहान् । यथावकाशं प्रतिग्रहाँ ल्लोकंपृणाश्च । सर्वा हास्यैता देवताः प्रीता अभीष्टा भवन्ति २६

सदेवमग्निं चिनुते । रथसंमितश्चेतव्यः । वज्रो वै रथः । वज्रेणैव पाप्मानं भ्रातृव्यँ स्तृणुते । पक्षःसंमितश्चेतव्यः । एतावान्वै रथः । यावत्पक्षः । रथसंमितमेव चिनुते । इममेव लोकं पशुबन्धेनाभिजयति । अथो अग्निष्टोमेन २७

अन्तरिक्षमुक्थ्येन । स्वरतिरात्रेण । सर्वाँ ल्लोकानहीनेन । अथो सत्रेण । वरो दक्षिणा । वरेणैव वरँ स्पृणोति । आत्मा हि वरः । एकविँ शतिर्दक्षिणा ददाति । एकविँ शो वा इतः स्वर्गो लोकः । प्र स्वर्गं लोकमाप्नोति २८

असावादित्य एकविँ शः । अमुमेवादित्यमाप्नोति । शतं ददाति । शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति । सहस्रं ददाति । सहस्रसंमितः स्वर्गो लोकः । स्वर्गस्य लोकस्याभिजित्यै । अन्विष्टकं दक्षिणा ददाति । सर्वाणि वयाँ सि २९

सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै । यदि न विन्देत । मन्थानेतावतो दद्यादोदनान्वा । अश्नुते तं कामम् । यस्मै कामायाग्निश्चीयते । पष्ठौहीं त्वन्तर्वतीं दद्यात् । सा हि सर्वाणि वयाँ सि । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ३०

हिरण्यं ददाति । हिरण्यज्योतिरेव स्वर्गं लोकमेति । वासो ददाति । तेनायुः प्रतिरते । वेदितृतीये यजेत । त्रिषत्या हि देवाः । ससत्यमग्निं चिनुते । तदेतत्पशुबन्धे ब्राह्मणं ब्रूयात् । नेतरेषु यज्ञेषु । यो ह वै चतुर्होतॄननुसवनं तर्पयितव्यान्वेद ३१

तृप्यति प्रजया पशुभिः । उपैनँ सोमपीथो नमति । एते वै चतुर्होतारोऽनुसवनं तर्पयितव्याः । ये ब्राह्मणा बहुविदः । तेभ्यो यद्दक्षिणा न नयेत् । दुरिष्टँ स्यात् । अग्निमस्य वृञ्जीरन् । तेभ्यो यथाश्रद्धं दद्यात् । स्विष्टमेवैतत्क्रियते । नास्याग्निं वृञ्जते ३२

हिरण्येष्टको भवति । यावदुत्तममङ्गुलिकाण्डं यज्ञपरुषा संमितम् । तेजो हिरण्यम् । यदि हिरण्यं न विन्देत् । शर्करा अक्ता उपदध्यात् । तेजो घृतम् । सतेजसमेवाग्निं चिनुते । अग्निं चित्वा सौत्रामण्या यजेत मैत्रावरुण्या वा । वीर्येण वा एष व्यृध्यते । योऽग्निं चिनुते ३३

यावदेव वीर्यम् । तदस्मिन्दधाति । ब्रह्मणः सायुज्यँ सलोकतामाप्नोति । एतासामेव देवतानाँ सायुज्यम् । सार्ष्टिताँ समानलोकतामाप्नोति । य एतमग्निं चिनुते । य उ चैनमेवं वेद । एतदेव सावित्रे ब्राह्मणम् । अथो नाचिकेते ३४

३.१२.६ चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्

यच्चामृतं यच्च मर्त्यम् । यच्च प्राणिति यच्च न । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद्ध्रुवा सीद । सर्वाः स्त्रियः सर्वान्पुँ सः । सर्वं नस्त्रीपुमं च यत् । सर्वास्ताः । यावन्तः पाँ सवो भुमेः ३५

संख्याता देवमायया । सर्वास्ताः । यावन्त ऊषाः पशूनाम् । पृथिव्यां पुष्टिर्हिताः । सर्वास्ताः । यावतीः सिकताः सर्वाः । अप्स्वन्तश्च याः स्रिताः । सर्वास्ताः । यावतीः शर्करा धृत्यै । अस्यां पृथिव्यामधि ३६

सर्वास्ताः । यावन्तोऽश्मानोऽस्यां पृथिव्याम् । प्रतिष्ठासु प्रतिष्ठिताः । सर्वास्ताः । यावतीर्वीरुधः सर्वाः । विष्ठिताः पृथिवीमनु । सर्वास्ताः । यावतीरोषधीः सर्वाः । विष्ठिताः पृथिवीमनु । सर्वास्ताः ३७

यावन्तो वनस्पतयः । अस्यां पृथिव्यामधि । सर्वास्ताः । यावन्तो ग्राम्याः पशवः सर्वे । आरण्याश्च ये । सर्वास्ताः । ये द्विपादश्चतुष्पादः । अपाद उदरसर्पिणः । सर्वास्ताः । यावदाञ्जनमुच्यते ३८

देवत्रा यच्च मानुषम् । सर्वास्ताः । यावत्कृष्णायसँ सर्वम् । देवत्रा यच्च मानुषम् । सर्वास्ताः । यावल्लोहायसँ सर्वम् । देवत्रा यच्च मानुषम् । सर्वास्ताः । सर्वँ सीसँ सर्वं त्रपु । देवत्रा यच्च मानुषम् ३९

सर्वास्ताः । सर्वँ हिरण्यँ रजतम् । देवत्रा यच्च मानुषम् । सर्वास्ताः । सर्वँ सुवर्णँ हरितम् । देवत्रा यच्च मानुषम् । सर्वास्ता इष्टकाः कृत्वा उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवा सीद ४०

३.१२.७ चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्

सर्वा दिशो दिक्षु । यच्चान्तर्भूतं प्रतिष्ठितम् । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद्ध्रुवा सीद । अन्तरिक्षं च केवलम् । यच्चास्मिन्नन्तराहितम् । सर्वास्ताः । आन्तरिक्ष्यश्च याः प्रजाः ४१

गन्धर्वाप्सरसश्च ये । सर्वास्ताः । सर्वानुदारान्त्सलिलान् । अन्तरिक्षे प्रतिष्ठितान् । सर्वास्ताः । सर्वानुदारान्त्सलिलान् । स्थावराः प्रोष्याश्च ये । सर्वास्ताः । सर्वां धुनिँ सर्वान्ध्वँ सान् । हिमो यच्च शीयते ४२

सर्वास्ताः । सर्वान्मरीचीन्विततान् । नीहारो यच्च शीयते । सर्वास्ताः । सर्वा विद्युतः सर्वान्त्स्तनयित्नून् । ह्रादुनीर्यच्च शीयते । सर्वास्ताः । सर्वाः स्रवन्तीः सरितः । सर्वमप्सुचरं च यत् । सर्वास्ताः ४३

याश्च कूप्या याश्च नाद्याः समुद्रि याः । याश्च वैशन्तीरुत प्रासचीर्याः । सर्वास्ताः । ये चोत्तिष्ठन्ति जीमूताः । याश्च वर्षन्ति वृष्टयः । सर्वास्ताः । तपस्तेज आकाशं । यच्चाकाशे प्रतिष्ठितम् । सर्वास्ताः । वायुं वयाँ सि सर्वाणि ४४

अन्तरिक्षचरं च यत् । सर्वास्ताः । अग्निँ सूर्यं चन्द्र म् । मित्रं वरुणं भगम् । सर्वास्ताः । सत्यँ श्रद्धाँ तपो दमम् । नाम रूपं च भूतानाम् । सर्वास्ता इष्टकाः कृत्वा उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ४५

३.१२.८ चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्

सर्वां दिवँ सर्वान्देवान्दिवि । यच्चान्तर्भूतं प्रतिष्ठितम् । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद्ध्रुवा सीद । यावतीस्तारकाः सर्वाः । वितता रोचने दिवि । सर्वास्ताः । ऋचो यजूँ षि सामानि ४६

अथर्वाङ्गिरसश्च ये । सर्वास्ताः । इतिहासपुराणं च । सर्पदेवजनाश्च ये । सर्वास्ताः । ये च लोका ये चालोकाः । अन्तर्भूतं प्रतिष्टितम् । सर्वास्ताः । यच्च ब्रह्म यच्चाब्रह्म । अन्तर्ब्रह्मन्प्रतिष्ठितम् ४७

सर्वास्ताः । अहोरात्राणि सर्वाणि । अर्धमासाँ श्च केवलान् । सर्वास्ताः । सर्वानृतून्त्सर्वान्मासान् । संवत्सरं च केवलम् । सर्वास्ताः । सर्वं भूतँ सर्वं भव्यम् । यच्चातोऽधिभविष्यति । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ४८

३.१२.९ चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम्

ऋचां प्राची महती दिगुच्यते । दक्षिणामाहुर्यजुषामपाराम् । अथर्वणामङ्गिरसां प्रतीची ।साम्नामुदीची महती दिगुच्यते । ऋग्भिः पूर्वाह्णे दिवि देव ईयते । यजुर्वेदे तिष्ठति । मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्यः । ऋग्भ्यो जाताँ सर्वशो मूर्तिमाहुः । सर्वा गतिर्याजुषी हैव शश्वत् ४९

सर्वं तेजः सामरूप्यँ ह शश्वत् । सर्वँ हेदं ब्रह्मणा हैव सृष्टम् । ऋग्भ्यो जातं वैश्यं वर्णमाहुः । यजुर्वेदं क्षत्रियस्याहुर्योनिम् । सामवेदो ब्राह्मणानां प्रसूतिः । पूर्वे पूर्वेभ्यो वच एतदूचुः । आदर्शमग्निं चिन्वानाः । पूर्वे विश्वसृजोऽमृताः । शतं वर्षसहस्राणि । दीक्षिताः सत्त्रमासत ५०

तप आसीद्गृहपतिः । ब्रह्म ब्रह्माभवत्स्वयम् । सत्यँ ह होतैषामासीत् । यद्विश्वसृज आसत । अमृतमेभ्य उदगायत् । सहस्रं परिवत्सरान् । भूतँ ह प्रस्तोतैषामासीत् । भविष्यत्प्रति चाहरत् । प्राणो अध्वर्युरभवत् । इदँ सर्वँ सिषासताम् ५१

अपानो विद्वानावृतः । प्रति प्रातिष्ठदध्वरे । आर्तवा उपगातारः । सदस्या ऋतवोऽभवन् । अर्धमासाश्च मासाश्च । चमसाध्वर्यवोऽभवन् । अशँ सद्ब्रह्मणस्तेजः । अच्छावाकोऽभवद्यशः । ऋतमेषां प्रशास्तासीत् । यद्विश्वसृज आसत ५२

ऊर्ग्राजानमुदवहत् । ध्रुवगोपः सहोऽभवत् । ओजोऽभ्यष्टौद्ग्राव्णः । यद्विश्वसृज आसत । अपचितिः पोत्रीयामयजत् । नेष्ट्रीयामयजत्त्विषिः । आग्नीद्ध्राद्विदुषी सत्यम् । श्रद्धा हैवायजत्स्वयम् । इरा पत्नी विश्वसृजाम् । आकूतिरपिनड्ढविः ५३

इध्मँ ह क्षुच्चैभ्य उग्रे । तृष्णा चावहतामुभे । वागेषाँ सुब्रह्मण्यासीत् । छन्दोयोगान्विजानती ।कल्पतन्त्राणि तन्वानाहःसँ स्थाश्च सर्वशः । अहोरात्रे पशुपाल्यौ । मुहूर्ताः प्रेष्या अभवन् । मृत्युस्तदभवद्धाता । शमितोग्रो विशां पतिः ५४

विश्वसृजः प्रथमाः सत्त्रमासत । सहस्रसमं प्रसुतेन यन्तः । ततो ह जज्ञे भुवनस्य गोपाः । हिरण्मयः शकुनिर्ब्रह्म नाम । येन सूर्यस्तपति तेजसेद्धः । पिता पुत्त्रेण प्तृमान्योनियोनौ । नावेदविन्मनुते तं बृहन्तम् । सर्वानुभुमात्मानँ संपराये । एष नित्यो महिमा ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् ५५

तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेन । पञ्च पश्चाशतस्त्रिवृतः संवत्सराः । पञ्च पञ्चाशतः पञ्चदशाः । पञ्च पञ्चाशतः सप्तदशाः । पञ्च पञ्चाशत एकविँ शाः । विश्वसृजाँ सहस्रसंवत्सरम् । एतेन वै विश्वसृज इदं विश्वमसृजन्त । यद्विश्वमसृजन्त । तस्माद्विश्वसृजः । विश्वमेनाननु प्रजायते । ब्रह्मणः सायुज्यँ सलोकतां यन्ति । एतासामेव देवतानाँ सायुज्यम् । सार्ष्टिताँ समानलोकतां यन्ति । य एतदुपयन्ति । ये चैनत्प्राहुः । येभ्यश्चैनत्प्राहुः ५६ १२ ३


Credits Sources: Taittir´ya-BrŒhmaöa Typescript: Edited by Makoto Fushimi Conversion to Devanagari using Vedapad Software by Ralph Bunker

Formatted for Maharishi University of Management Vedic Literature Collection